शृङ्गारप्रकाशः/प्रथमः प्रकाशः

विकिस्रोतः तः
Jump to navigation Jump to search

महाजाधिताज श्रीभोजदेवविरचितः

शृङ्गारप्रकाशः

प्रथमः प्रकाशः

1.1 अच्छिन्नमेखलमलव्धदृढो मप्राप्तचुम्बनमवोक्षितवक्त्रकान्ति। कान्ताविमिश्रवपुषः कृतविप्रलम्भसंभोगसख्यमिव पातु वपुः पुरारेः।। 1 ।।
यत्पादपङ्कजरजःपरिमार्जितेषि चेतस्सु दर्पणतलामलतां गतेषु। शब्दार्थसंपद उदारतराः स्फुरन्ति विघ्नच्छिदेऽस्तु भगवान्स गणाधिनाथः।। 2 ।।
आत्मास्थितं गुणविशेषमहंकृतस्य श्रृङ्गारमाहुरिह जीवितमात्मयोनेः। तस्यात्मशक्तुरसनीयतया रसत्वं युक्तस्य येन रसिकोऽयामिति प्रवादः।। 3 ।।
सत्त्वातमनाममलधर्मविशेषजन्मा डड्डत्ध्;न्माम्तरानिभवनिर्भितवासनोत्थः। सर्वात्मसंपदुदयातिशयैकहेतु र्जगर्ति कोऽपि हृदि मानमयो विकारः।। 4 ।।
तात्पर्यमेव वचसि ध्वनिरेव काव्ये सौभाग्यमेव गुणसंपदि वल्लभस्य। सावण्यमेव वपुषि स्वदतेऽङ्गनायाः श्रृङ्गार एव हृदि मानवतो जनस्य।। 5 ।।
श्रृङ्गारवीरकरूणाद्भुतरौद्रहास्य बीभत्सवत्सलभयानकशान्तनाम्नः। आम्नासिषुर्दश रसान्सुधियो वयं तु श्रृङ्गारमेव रसनाद्रसमामनामः।। 6 ।।
वीराद्भुतादिषु च येह रसप्रसिद्धिः सिद्धा कुतोऽपि वटयशक्षवदाविभाति। लोके गतानुगतिकत्ववशादुपेतामेतां निवरितयितुमेष परिश्रमो नः।। 7 ।।
अप्रातिकूलिकतया मनसो मुदादर्यः संविदोऽनुभहेतुरिहाभिमानः। ज्ञेयो रसः स रसनोयतयाऽऽत्मशक्ते रत्यादिभूमनि पुनर्वितथा रसोक्तिः।। 8 ।।
रत्यादयोऽर्धशतमेकविवरजितानि भावाः पृथग्विविधभावघुवो भवन्ति। श्रृङ्गारतत्वभितः परिवारयन्तः सप्तार्चिषं ध्युतिचया इव वर्धयन्ति।। 9।।
आभावनोदयमनन्याधिया जनेन यो भाव्यते मनसि भावनया स भावः। यो भावनापथमथित्य विवर्तमानः साहंकृतौ हृदि परं स्वदते रसोऽसौ।। 10 ।।
रत्यादयो यदि रसाः स्युरतिप्रकर्षे हर्षादिभिः किमपराद्धिभिन्नैः। अस्थायिमस्त इति चेद्भयबासशोकक्रोधादयोः वद कियञ्चरमिल्लसन्ति।। 11 ।।
स्थायित्वमत्र विषयातिशयान्मतं चेञ्चिन्तादयः कुत उत प्रकृतेर्वशेन। तुल्यैव साऽऽत्मनि भवेदथ वासनायाः संदीपनात्तदुभयत्र समानमेव।। 12 ।।
1.2 अतः सिद्धमेतत् - रत्यादयः शृङ्गारप्रभवा एव एकोनपञ्चाशतद्भावाः; वीरादयो मिथ्यारसप्रवादाः; शृङ्गार एवैर्गैककारणं रस इति। स चानुभवैकगम्यत्वादसपर्वविषयत्वाञ्च दुरवसेयः, सम्यगभ्नयेषु वा विदग्धशैलूषै प्रदश्र्यमानः सामाजिकैरवधार्यते, प्रवन्धेषु वा महाकविभिर्यथावदाः ख्यायमानो विदुषां मनीषावुषयमवतरति। तत्र नतथा पदार्थः प्रत्यक्षेण प्रतीयमानाः स्वदन्ते, यथा वाग्मिनां वचोभिरावेध्यमानाः। तदाह- "अत्थविसेसा ण हि तह चित्तविअसं कुणान्ति सञ्चविआ। जह उण ते उम्मिललन्ति सुकइवआहिं सुसीसन्ता।।"
1.3 अतोऽभिनेतृभ्यः कवीनेन बहुमन्यामहे, अभिनयेभ्यश्र्च काव्यमेवेति । तत्पुनः शब्दार्थयोः साहित्यमामनन्ति; तध्यथा "शब्दार्थौ सहितौ काव्यम्" इति । कः पुनः शब्द ? यः सब्देन प्रत्याय्यते । स च द्वदशधा-क्रिया, कालः, कारकम्, पुरूषः, उपाधिः, प्रधानम्, उपस्कारार्थः, प्रतिपदिकार्थः, विभक्त्यर्थः, वृत्त्यर्थः, वाक्यार्थः, इति । किं साहित्यम् ? यः शब्दार्थयोः संवन्धः । स च द्वादशधा-अभिधा, विवक्षा, तात्पर्यम्, प्रविभागः, व्यपेक्षा, सामथ्र्थम्, अन्वयः, एकार्थीभावः, दोषहानम्, गुणोपादानम्, अलङ्कारयोगः, इति ।
1.4 तत्र यध्यपि "न केवला प्रकृतिः प्रयोक्तव्या न च केवलः प्रत्ययः" इति प्रयोगनियमः, तथाऽपि धर्मनियमाय शासमस्त्रप्रक्रियाव्यवहारे प्रकृतिप्रत्ययविभागकल्पनया शब्दार्थभावनायां प्रत्ययात्प्रथममुपादनकारणमिव योपदीयते तां प्रकृतिरिति व्यपदिशन्ति । सा त्रिधा-धातुरूपा, प्रत्ययरूपा, प्रतययरूपा, प्रातिपदिकरूपा च । तत्र धातवः षोढा-परिपठिताः, अपरिपठिताः, पतिपठितापरिपठिताः, प्रत्ययधातवः, नामधातवः, प्रतययनामधातवश्र्चेति । तेषु परिपठिदा भूवादयः; यथा-
भूयात्तेषां कुले जन्म जायान्तां तेषु सम्पदः। येषां स्वमिति मन्वानाः स्वीकुर्वन्ति स्वमर्थिनः।।
कविःसृजति काव्यानि हृध्यादधति सज्जनाः। सूते मुक्ताः पयोराशिर्वबन्ति तरूणीस्तनाः।।
न रूणत्सीन्द्रियग्रामं न श्रृणोषि गुरोर्वचः। नोपार्जयसि मित्राणि कथं गृढद्धठ्ठड़14;णास्यरिश्रियः।।
अपरिपठिता आन्दलयत्यादय; यथा-
नोपानान्दोलयन्नेव प्रेङ्खोलयति मे मनः। पवनो वीजयन्नाशा माना#ाशामुच्तुलुम्पति।।
तडिड्डत्ध्;त्खचयतीवाशा नसन्ते शर्म बर्हिणः। पान्थासत्रीश्र्वासलेधौष्णयं विधमन्त्यब्दवायवः।।
मिलन्त्याशासु जीमूता विक्सबन्ते दिवि ग्रहाः। तापं क्षपयति प्रावृट् शक्षीयन्ते काभिविग्रबः।।
ये सूत्रेष्वेव पठ्यन्ते न भूवादिषु ते परिपटितापरिपटिताः स्कृ इत्यादयः; यथा-
अनुस्कुनुहि मा मन्तून् वसन्तो मानधस्मरः। दूति द्रुतमृतीयस्व जिजावयिषति स्मरः।।
मुसलक्षेपहुंकारस्तेभैः कलमखण्डिड्डत्ध्;नि। कुचविष्कम्भमुत्तभ्नन्निष्टभ्नातिव ते स्मरः।।
पतयालूनि चेष्टासु मनांसि गृहयालवः। यूनामेकेन रूपेण योषितो दाहृसातयः।।
सनाध्यान्ताः प्रत्ययधातवः; यथा- मीमांससे न शास्त्राणि कृतार्थयसि नार्थिनः। गोपायति न संत्रस्तान् किमुद्धतमटाठ्यसे।।
सूर्यींयति सुधारश्मं नरकीयति नन्दने। कामं कामयमाना त्वां सा जीवन्ती मृतायते।।
कपोलौ सोहितायेते बाष्पायेते विसोचने। प्रियप्रणामकाम्यन्ती कृशाङ्गि कसहायसे।।
कण्ड्ड्डत्ध्;वादयो नामधातवः ; यथा-
कण्डूड्डत्ध्;यति न यो मर्म न्रमणायोबृणीयते। उरूष्यति रुषं यः स राजा राज्यं भिषज्यति।।
वल्गूयति न योऽसाधुमसूयतु न साधवे। मन्तूयति न मान्याय महत्सु स महीयते।।
कमिषुध्यन्तु यज्वानः कं मगध्यन्तु मागधाः। कमर्थिमः कुषुभ्यन्तु रामेऽरण्यं भुरण्यति।।
कथं पुनः कड्ड्डत्ध्;वादिर्नामधातुश्र्च भवति-- "धातुप्रकरणाद्धातुः कस्य चासञ्जनाध्यकि। आह चायमिमं दीर्घं मन्ये धातुर्विभाषितः।।" येभ्यः परिपठितधातुभ्यो नामत्वसिद्धये नामभ्यो वा धातुत्वसिद्धये क्किबादिप्रत्यया लुप्यन्ते, ते प्रत्ययेन नामानि च धातवश्र्चेति प्रत्ययनामधातवः--होडड्डत्ध्;गल्भक्लीबप्रभृतयः; यथा--
गिरो गीब्र्रह्म वामाशीः श्रियः प्रतिभुवौ। शत्रुशिर्मित्रपूर्बाहुर्यिधि ते बन्धाना सजूः।।
होडड्डत्ध्;से नाङिजातेषु क्कीबसे नाभिमानिषु। विदग्धसि न मुग्धेषु नाप्रगल्भेषु गल्भसे।।
सविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्यः। यामिनयन्ति दिनान्यपि सुखदुःखवशीकृते मनसि।।
1.5 एवं कंसवधमाचष्टे कंसघातयति, आरात्रि विवासमाचष्टे रातिं्र विवासयति, पुष्यचन्द्रयोगं जानाति पुष्येण चन्द्रं योजयति, उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्योद्गमं प्राप्नोति माहिष्मत्यां सूर्यमुद्गमयतीति । अत्र "आख्यानात्कृतस्तदाचष्टे" इति णच्, "कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवञ्च कारकम्" "आङ्लोपश्र्च कालात्यन्तसंयोगे मर्यादायाम्" "नक्षत्रयोगे ज्ञि" "चित्रीकरणे प्रपि" इति स्मर्यते।।
प्रकृतिः षट्प्रकारैषा धातुरूपा निरूपिता। अथ प्रत्ययरूपाऽपि षट्प्रकारैव कथ्यते।।
1.6 प्रत्यया हि सुप्तिङकृत्तद्धितधातुप्रत्ययस्त्रीप्रत्ययमेदात् षट्प्रकाराः; तदन्दा प्रकृतिरपि प्रत्ययरूपा षट्प्रकारैव भवति । सा सुप्प्रत्ययान्ता यथा--अहंयुः, शुभंयुः सायमतनम्, चिरनतनम्, त्वयका, मयका, आमुष्याणः, अप्सव्यः, प्रढद्धठ्ठड़14;णेतराम्, प्रगेतराम्, पूर्वाढद्धठ्ठड़14;णेतनम्, समांसमाना, इति । तिङप्रत्ययान्ता यथा-- पचतितराम्, गच्छतितमाम्, स्पृशति रूपम्, जल्पतिकल्पम्, जिध्रतिधेश्यम्,पश्यतिदेशीयम्, आस्तिकः, नास्तिकः, पचतकि, भिन्धकि, पचतभृज्जता, खादतमोदता, इति । कृत्प्रत्ययान्ता यथा--कृत्रिमम्, भृत्रमम्, सेकिमम्, साङकूटिनम्, सांराविणम्, व्यावक्रोशी, व्यावहासी, श्येनंपाता, तैलंपाता, जित्वरि, आढ्यंकरणी, इति । तद्धितप्रत्ययान्ता यथा--गाग्र्यायणः, दाक्षायणः, वाष्र्यायणुकः, वाष्र्ययणीयः, फाण्टाहृतायनिः, आभिदित्यः, कौञ्जायणः, कुतस्त्यः, ,तत्रत्यः, पचतितराम्, पचतितमाम्,इति । धातुसंज्ञाप्रत्ययान्ता यथा--तिकीर्षा, कण्ङ्या, पुत्रूया, कारणा, मिश्रणा, मृदया, अटाट्या, सासहिः, यायवरः, यायजूकः, चिकीर्षुः, चङ्क्रमणः, इति । स्त्रिप्रत्यान्ता यथा-- गाङ्गेयः, सौदामेयः, कारीषगन्धेयः, द्रौपदेयः, गौरेयः, शाङ्र्गरवेयः, काद्रवेयः, कामण्डड्डत्ध्;लेयः, यौवतेयः, सौरभेयः, बहुसेत्रीकः, सुवथधूकः, इति । अथ कथं यौवतेयः इति प्रत्ययप्रकृतावुदहृतम् ? यावता "यूनस्ति" (पा.4.1.77.) इत्येतस्य तद्धितसंज्ञया प्रातिपदिकत्वमेव । सत्यम्तत् ; कुं तु सत्रीसामान्यपर्यायो युवतिशब्दः प्रकृत्यन्तरमस्ति; यथाऽऽह--"धर्मार्थाङ्गविध्याकालाननुपरोधयन् कामसूत्रं तदङ्गविध्याश्र्च पुरूषोऽधीयीत, प्राग्यौवनाध्युवतिः" (कामसु.3.) इति । तस्य, "यूनस्ति" इत्येतस्यैव वा "एरक्तिनः" इति विभाषितभीषो ढगुत्पत्तिः; यथा आदितेयः, सौरभेयः, इति; अथ काद्रवेयः, कामण्डड्डत्ध्;लेयः, इति कथम् ? ङ्यापोरप्रतिपदिकत्वेऽपि हि "ङ्याप्रातिपदिकात्" (पा.4.1.1) इति विशेषविधानात्, "यूनस्ति" इत्योतस्य तु तद्धितत्वात् अस्तु सुबुत्पत्तिः; ऊङस्तु प्रत्ययत्वेन सान सिध्यति; समर्थाञ्च तद्धितेन भवितव्यम् । अन्तवद्भावाद्भविष्यति; तथा हि--ब्रह्मवन्धूरित्यादौ "अकः सवर्णे दीर्घः" (पा.6.1.101.) इति द्वयोरेकतेवं भवति । यध्येवं "सत्रूभ्यो ढक्" (पा.4.1.120.) इति ढक् न सिध्यति, सोऽप्यादिवद्भावाद्भवलिष्यति । "साऽसाय देवता" (पा.4.2.24.) इति ज्ञापकादूङुत्पत्तेः प्रगेव वासुबुत#्पत्तिः इति ।। उक्ता षोढैवमेषाऽपि प्रकृतिः प्रत्ययात्मिका। अथातः प्रतिपदिकरूपा षोढैव कथ्यते।। ।। प्रतिपदिकप्रकृतिः।।
1.7 तत्र नामाव्ययानिकरणकृत्तद्धितलमासाः प्रातिपदिकानि; यताह--"अर्थवदधातुरप्रत्ययः प्रातिपदिकम्" (पा.1.2.45) "कृतेतद्धिसमासाश्र्च" इति; तत्रार्थवढद्धठ्ठड़14;न्रहणेन नामाव्ययानिकरणानि गृह्यन्ते, कृत्तद्धितसमासास्तु कण्ठोक्या इति । नन्वेतेऽप्यर्थवन्त एव । सत्यमेतत्; किं ति कृतस्तद्धिताश्र्च प्रत्ययाः; तेषामप्रत्ययग्रहणात्प्रपदिकत्वं न प्राप्नोतीति कृत्तद्धितग्रहणेन तदुपसंगृहणाति । समासग्रहणेन त्वर्थवत्समुतायस्य समासस्यैव प्रतिपतिकशंति ज्ञापयन् तथाविधस्य वाक्यस्यैतां निवर्तयति।।
1.8 तत्रानपेश्रितशपदवयुततपत्तीनि सत्त्वभूतार्थाभिधायानि च नामानि । तानि द्विधा- आविष्टलिङानि, अनाविष्टलिङ्गानि चेति । तेषु जातिद्रव्यपरिमाणाभिधायीन्याविष्टलिङ्गानि । तत्र जातिर्द्धिधा--आकृतिव्यङ्ग्या, उपदेशव्यङ्ग्या च; तयोराध्या यथा--गौः, मृगः, पशी,सर्पः, सिंहः, वृक्षः,कुमारी, कुण्ङम्, सत्री, पुमान्, नपुंसकम्, इति । द्वितीया यथा--ब्राह्मणः, गाग्र्यः, कठः, क्षत्रियः, बैश्यः, शूद्रः, मूर्धाभिषिक्तः, अम्बष्ठः, पारशवः, सूतः, वैदेहकः, चण्डड्डत्ध्;ालः, इति । द्रव्यं द्विधा--सापेक्षम्, अनपेक्षं चः; तयोराध्यं यथ#ा--गुरूः, पिता, पुत्रः, भ्राता, जामाना, मित्रम्, माता, स्वसा, दुहिता, याता, ननान्दा, भार्या, इति । द्वितीयं यथा--चैत्रः, मैत्रः, इन्द्रः, उपेन्द्रः, सूर्यः, कालः, आकाशः, प्राची, प्रतिची, शची, लश्मीः, इति । परिमाणं द्विधां-नियतम्, अनियतं च ; तयोराध्यं यथा--द्रोणः, खरी, पलम्, भारः, क्रोशः, योजनम्, निपर्तनम्, नल्वः, पणः, पुराणः, गणः, अक्षौहिणि, इति। द्वितीयं यथा--संघः, पूगः, सार्थः, समाजः, वर्गः, श्रोणिः, कुटुम्बम्, परिषत्, पङाक्तिः, यूथम्, वनम्, सेना, इति । गुणसंख्यावचनसर्वनामान्यनाविष्टलिङ्गानि; तेषु गुणो द्विधा--अनुरञ्जकः, अननुरञ्जकश्र्च । तत्रानुरञ्जकयोदात्तदनिरक्तिनि यथा--श्र्वेतः, स्वादुः, शीध्रः, मन्दः, दीर्घः, ह्रस्वः, ऋजुः, वक्रः, मृदुः, कठिनः, युवा, वृद्धः, इति । अननुरञ्जकयोगात्तद्विपरीतानि यथा--दशः, जिह्मः, जड़ड्डत्ध्;ः, प्राज्ञः, खलः, साधुः, स्निग#्धः, क्रूरः, शूरः, भीरूः, लघुः, गुरूः, इति । संख्या द्विधा--लिङ्गवती, अलिङ्गा चेति; तयोराध्या यथा--एकः, एका,एकम्; द्वौ, द्वे, द्वे; उभौ, उभे, उभे; त्रयः, तिस्त्रः, त्रीणि; चत्वारः; चतस्त्रः, चत्वारि, इति । द्वितीया यथा--पञ्च प्रातिपदिकार्थाः, पञ्च वृत्तयः, पञ्च पदजातानि, षड्ड्डित्ध्;वषयाः, षड्ड्डत्ध्;बुद्धयः, षडिड्डत्ध्;न्द्रियाणि, अष्टौ, वसवः, अष्टौ मूर्तयः, अष्टौ वर्णस्थानानि, दश दिशः, षोडड्डत्ध्;श पदार्थाः, अष्टादश पुराणानि, इति । सर्वनामानि द्विधा--सर्वादीनि असर्वादीनि च; तेषु आध्यानि यथा--सर्वः, विश्र्वः, अन्यः, इतर#ः, कतमः, यः, सः, एषः, अयम्, त्वम्, अहम्, इति । द्वितीयानि यथा--प्रथमः, चरमः, अल्पः, कतिपयः, पूर्वः, परः, अपरः, दक्षिणः, उत्तरः, स्वः, अन्तरः, सकलः, कृत्स्त्रः इति।। 1.10 प्रायेणालिङ्गसंख्याशक्तीन्याशक्तीन्यव्ययानि। तानि षोढा--अव्ययनिपातगत्युपसर्ग- कर्मप्रवचनीयविभक्तिप्रतिरूपभेदात्। तेषु प्रायेण शक्तिसंख्यायोगात्स्वरादीन्यव्ययानि; यदाह-- "सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु। वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्।।" (गोपथब्रा.1.1.26.ठ्ठ.) इति।
1.11 तानि द्विधा--सत्त्वगन्धीनि असत्वगन्धीनि चेति । तेषु सत्त्वगन्धीनि षोढा--द्रव्यरूपाणि, गुणरूपाणि, क्रियारूपाणि, जातिरूपाणि, संज्ञारूपाणि, संबन्धिरीपाणि चेति। असत्त्वगन्धीन्यपि षोढैव--क्रियापोक्षीणि, क्रियाद्रव्यापेक्षीणि, क्रियाविशेषणानि, क्रियाविश#ेषणानि, क्रियाद्रव्यविशेषणानि, क्रियाविष्टरूपाणि, क्रियाद्रव्याविष्टरूपाणि चेति । तत्र सत्त्वगन्धिभेदेषु द्रव्यारूपाणि यथा--स्वः, दिवः, भुवः, विहायसा, रोदसी, आपः भूः, ऋचः, षम्, महः, तपः, हाहा, हूहू इति; गिणरूपाणि यथा--शश्र्वत्, आवत्, नृवत्, कूपत्, कुवत#्, सामि, साचि, द्राक्, स्त्राक्, ज्योक्, मनाक्, आषत्, इति; क्रियारूपाणि यथा--नमः, स्वस्ति, स्वाहा, स्वधा, वषट्, श्रौषट्, हन्त, अच्छ, ववं, ववे, भाव इति; जातिरूपाणि यथा--कम्, शम्, योः, मयः, सायम्, प्रतः, अस्तम्, नक्तम्, दिवा, दोषा, ह्यः, श्र्वः, इति; संज्ञारूपाणि यथा--क्किप्, सः, ओम्, स्वाहा, ढद्धठ्ठड़14;नां, ढद्धठ्ठड़14;नीं, क्लीं, ब्रूं, दिङ्, ढद्धठ्ठड़14;लेङ्, ऋङ्, जुङ्, दुङ्, इति;संबन्धिरूपाणि यथा--अन्ताः, अन्तरा, ऊध्र्वम्, बहिः,पारे, मध्ये, समाया, निकषा, आरात्, विष्वक्, पुरः, पश्र्चत्, इति। असत्त्वगान्धिभेदेषु क्रियापेक्षीणियथा--द्वन्द्वम्, यथायथम्, मिथः, अन्योऽन्यम्, परस्परम्, इतरेतराम्, परोपराम्, उत्तराधरम्, अधरोत्तरम्, इति;तए क्रियाद्रव्यापेश्रीणि यथा--साकम्, सार्धम्, सह, समम्, अमा, विना, ऋते, पृथक्, नाना, इति; क्रियाविशेषणानि यथा--अभीश्र्णम्, अलम्, बलवत्, सुष्ठु, मृषा, वृथा, मिथ्या, मुधा, अद्धा, ऋधक्, उञ्चैः, नुचैः, इति; क्रियाविष्टरूपणि यथा--शश्र्वत्, सपदि, संप्रति , पुरा, असंप्रति, सना, सांप्रतम्, जातु, हाढम्, फाणटम्, स्वयम्, कामम्, इति; क्रियाद्रव्याविष्टरूपाणि यथा--अविः, प्रादिः, तिरः, साश्रात्, अलम्, प्राध्वम्, सत्, असत्, धिक्, हिरुक्, तूष्णीम्, जोषम्, इति ।।
1.12 जात्यादिप्रवृत्तिनिमित्तानिप ग्राहित्वेनासत्त्वभूतार्थाभिधायिनोऽलिङ्गसंख्यासक्तय उञ्चावचेष्वर्थेषु निपतन्तीत्यव्ययविशेषा एव चादयो निपाताः; यदाह--"चादयाऽसत्त्वे" (पा1.4.57.) इति । ते खलु विध्यर्थाः, अर्थवादार्थाः, अनुवादार्थाः, निषेधार्थाः, विधिनिषेधार्थाः, अविधिनिषेधार्थाश्र्य इति विधिः: कुत्सा, प्रशंसा, विषादः, हर्षः, ईष्र्या, विस्मयः, इत्यर्थवादः; स्मरणम्, उपमा, अभ्युपगमः, अनुप्रश्र्मः, परकृतिः, पुराकल्पः, इत्यनुवादः, प्रतिषेधः, निवापणम्, अपाकरणम्, असूया, गर्हणा, विनिग्रहः, इति निषेधः; संबोधनम्, अनिकम्पा, वितर्कः, प्रश्र्नः, पक्षान्तरम्, हेतेवपदेशः, इति विधिनिषेधः; पदपूरणाम्, पादपूरणम्, वाक्यपूरणम्, अलङ्कारपूरणम्, वाक्यालङ्कारः, पदसंस्कारः, अत्यविधिनिषेधः ।।
1.13 तेषु ओम्, अथ, स्वस्ति, दिष्ट्या, नह, स्म, शश्र्वत्, कञ्चित्, इति, मङ्गसार्थः। यथा--ओम्, अग्निमुले पुरेहितम्, अथतो,ब्रह्मजिज्ञासा, स्वस्ति नो मिमीतामश्र्विना भगः, दिष्ट्या वर्धसे, नह भोश्र्यसे भोदान्, ऊध्र्वे मुहूर्काक् कटं करोति स्म भवान्, शश्र्वदध्येष्यामहे, कञ्चिदध्येष्यामहे, इति। अथ, अथो त्वमेष्यसि, यावत्संभवस्तावद्विधिः, मुनिं कणादमन्वतः, पुनः प्रभातं पुनरेव शर्वरी, पश्र्चादावां, विरहदुणितम्, भूयश्र्चाह त्वमसि शयने, इति। यावत्, तावत्, ननु, गच्छामि बोः, अधीष्व माणवक पुता विध्योतते विध्युत्, अङ#्ग पच, न हि पच, हन्त, प्रशाधि, प्रसीमादित्याऽसृजत (ऋग्वे.2.28.4.); प्रासृजत्, सर्वत आदित्यः इत्यर्थः। परम्, वै, वाव, एव, ह, अह, तु, उ, इति नियोगार्थाः, यथा--धर्मः सखा परमहो परलोकयाने, वेदो वै धर्ममूलम्, द्वे वाव ब्रह्मणो रूपे, आत्मैवेदमग्र आसीत्, स होवाच, त्वमह ग्रामं गच्छ, आख्यास्यामि तु ते, सत्यमु ते वदन्ति (नि.1.5), इति । च, वा, आ, अपि, उत, अथ, अथो, तथा, इति, लमुञ्चयार्थाः; यथा--अहं च वृत्रहन् (ऋग्वे.6.4.41.4.), वायुर्वा त्वा मनुर्वात्वा (तै.17.7.2), देवेभ्यश्र्च पितृभ्य आ, (ऋग्वे.7.6.22.1.), दन#्तैरपि नखैरपि, दैव्याः श्रमितार, उत मनुष्याः (तै.ब्रा.36.6.), देवानाथ पितृन्स्तुहि, अथो खल्वाहुः, हारीतोऽत्रिरहं तथा, इति। वा, अय, अयो, यदि, चण्, चेत्, नेत्, मा, इत् विकल्पार्थाः ; यथा--राज्यं वा कर्तव्यं भाष्यं वा श्रोतव्यम्, ऋतौ व्यवेयादथानृतौ पर्ववर्जनम्, नदीषु स्त्रायादथो देवखाते, यदि शमः किं तपसा, त्वं च गन्ता किमत्र मे, उपाध्यायश्र्चेदागच्छेदाशंसे युक्तोऽधीयीय, नेज्जिह्मायन्तो (न्त्यो) नरकं पताम, (नि.1.11.), माकदाचिदिदमपि स्यात्, इति । एवमन्येऽपि प्रयोगान#ुसारतो द्रष्टव्याः। एते च विवेरन्यवापि वेदितव्या इति।।
1.14 अर्थवादे--हा, धिक्, चित्, नाम, किम्, ह, अपि, जातु, अति कुत्सार्थाः; यथा--हा किमेवं प्रवर्तसे, धिक्प्रमादः, कुल्माषांश्र्चिदाबर (नि.1.4.14.), कोनामायं सवितुरूदयो यत्र न स्वे स्फुरन्ति, किमधीते देवद्तः, त्वं ह ब्राह्मणोऽसि, अपि सिञ्चेत्पलाण्डिड्डत्ध्;म्, तत्र जातु गमिष्यसि इति। तु, पश्य, पश्यत, अह, अहो, यथा, यावत्, चित्, इति प्रसंसार्थाः; यथा--यस्तु माणवको भुङ्क्ते, पश्य माणवको भुङ्क्ते, पश्यत माणवको भुङ्क्ते, अह माणवको भुङ्क्ते, अहो देवदत्तः पचति शोभनम्, यथा पचति शोभनम्, यावत् करोति चापू, आचार्यश्र्चिदिदं ब्रूयात् (नि.1.4.12), इति । ही, ई, हा, हन्त, बत, नाम, भोः कष्टम्, इति विषादार्थाः ; यथा--ही महीशो द्दश्यते, ई ईद्दशः संसारः, हा प्रिये जानाके, निराभ्रया हम्त बता मनस्विता, अहो बत महत्कष्टम्, क्क नाम गमिष्यसि, भोः श्रान्तोऽस्मि, कष्टं भोः कष्टम#्, अति । दिष्या, हन्त, बत, बट्, बाट्, कत्, कथम्, कञ्चत् इति हर्षार्थाः; यथा--दिष्ट्या न मृतोऽसि सखे, हन्त, जीविताः स्मः, सैवेयं बत मे प्रिया, बण्महाँ असि सूर्य (ऋकग्वे.8.109.11), वाट् ताभ्यः स्वाहा (तै.ब्रा,14य5य3), कद्रुद्राय प्रचेतसे (ऋग्वे.1.43.1), कथं वत्सो मे रामभद्रः, कञ्चिज्जूवति पार्वती, प्रत्युत मामुपालभसे, देवो भवान्, परं भृङ्गिरिटिः, विद्वानसि किं तु कितवः, मातर्यपि मृतायां दीव्यसि, भवतु नाम कामचारी तथाऽप्यासौ पतिरेव, असि तपस्वी यदि नाम मूर्खः, इति । ही, अहो, अहह, चन, नाम, पश्य, पश्यत, बत इति विस्मयार्थाः; यथा--हतविधिलसिदानां ही वुचित्रो विपाकः, इहो रूपमस्याः, अहह माहात्म्यं महीत्तेः, याचिता ये न कुप्यन्ति पुरूषाः केचनैव ते, अन्धो नाम प्रवतमारोक्ष्यति, पश्य माणवको ब्रूते, पश्याकाशोन याति, कोऽयं बत द्दश्यंते, इति । एवमन्तयेऽपि यथाप्रयोगमनुसर्तव्याः । एते चार्थवादादन्यत्रापि वेदितव्या इति ।।
1.15 अनुवादे--आम्, आः, आ, अये, नाम, नूनम्, हुम्, ओम्, इति स्मरणार्थाः, यथा--आं सैषा पञ्चवटी, आः स तस्याः संलापः, आ ज्ञातं स जटायुरषः, अये देवो दाशरथिः, स नामायं भविष्यति, नूनमेषा जानकी, हुं मअरन्दो, ओमेवमेतत्, इति । अव, वा, यथा, चित्, न, नकिर्, नु, प्र#िति, इत्युपमार्थाः; यथा--राजेव ब्रूयात्, मणी वोष्ट्रस्य लम्बेते, ज्येष्ठो भ्राता यथा पिता, अग्निश्र्चित् भायात्, मृगो न भामः कुचरो गिरिष्ठाः (ऋग्वे.2.2.24.2) पावको नकिर्माणवकः, वक्षस्य नुते पुरूहूतवयाः शाखाः (ऋग्वे.4.6.17.3), अभिमन्युरर्जुनतः; प्रिति, इति । ओम्, तथा, आम, नाम, अथ किम्, श्रत्, सत्यम्, बाढ्, इत्यभ्युपगमार्थाः; यथा--ओम्ति होवाच, स तथेति प्रतिज्ञाय, आम यथा ब्रवीषि, एवं नाम भवतु, गमिश्यति भवान् अथ किम्, श्रद्दधे यथाऽऽत्थ, सत्यमसारः संसारः बाढनेषोऽस्मि कामन्दकी संवृत्तः, इति । ननु, ही, नु, हुम्, नकिल, ननुकिल, एवम्, शश्र्वम्, अत्यनुप्रश्र्नार्थाः; यथा--अकार्षीः कटं देवदत्त ? ननु करोमि भोः ? आकर्षे ही ह्यः ? कथं नुकरिष्यामि ? (नु.1.4.17) अपि भवान् मकारन्दः ? हुं स एवास्मि । न किलैवम् ? ननु किलैवम् ? (नि.1.5.7) एवमेतत् ? शश्र्वदेवम् ? (नि.5.11) इति । इति, एवं किल, खलु, ननु, स्म, अपि, नाम, इति परकृत्यर्थाः; यथा--नित्य#ः शब्द इति मीमांसकाः अनित्य एवेति तार्किकाः, एवं किलोपाध्यायः पठिति, धन्याः खलु धर्ममाचरन्ति, नन्वेदकार्षीत् सर्वोऽपि, इति स्मोपाध्यायः कथयति, सोऽपि मां जानात्येव, को नाम न मन्यते, इति । पुरा, शश्र्वत्, इतिह, इतिकिल, इतिस्म, इतिहस्म, यत्किस, शश्र्वत्किल, इति पुराकल्पार्थाः;, यथा--नलेन स्म पुराधीयते, एवं शश्र्वदिति, इति ह चकारः, इति किल श्रूयते पूराणेषु, इति स्म ब्रह्मवादिनः पूर्वे वदन्ति, इतिहस्म तत्रभवान् भागुरायणः, एवमिह गुरूभ्यः श्रूयते यत्किवलेह तरूषण्डेड्डत्ध्; पाण्डड्डत्ध्;वा ऊषुः, सश्र्वत्किलेदामित्थं बभूव,इति । एवमन्येऽपि यथाप्रयोगमनुसर्तव्याः । एते चानुवादतोऽन्यत्रापि द्रष्टव्या इति ।
1.16 निषेधे--न, नञ्, अ, अन, नो, नकिर्, किम्, नहि, इति प्रतिषेधार्थाः; यथा--युगपन्नैकधर्माणाम्, नेन्द्रं देवममंसत (ऋग्वे.8.3.4); शश्र्वत्त्वमब्राण इव भाषसे, अनोपमा ते बुद्धिः, तस्य तुल्योऽपि नो भवान्, नकिग्र्रामं गमिष्यसि, किं गतेन करिष्यसि, न हि नहि प्रेमानिमित्ते सति, इति । मा, माङ्, मास्म, माकिर्, अलम्, खलु, कृतम्, पर्याप्तम्, इति निवारणार्थाः; यथा--मा करिष्यसि, मा कार्षीः (नि.1.5.8), मास्म करोः, माकिनशन्माकीं रिषत् (ऋग्वे.6-54.7), अलं कृत्वा, कृतं साहसेन, पर्याप्तं भयेन, इति । आः, ई, ओम्, हुम्, फट्, धिक्, खर्, अरे, इत्यपाकरणार्थाः, यथा--आः, पाप प्रतिहतोऽसि, ई इतो निश्पत, ओं दुरात्मन्, इति । अङ्ग, हि, अहो, हहो, ए, हयो, अरे, अररे, अररे, इत्यसूयार्थाः; यथा--अङ्ग कूजन्य इतानीं ज्ञास्यसि-जाल्म, स हि व्याहारतु कथं हि व्याकरिष्यति (नि.5.5.), वृषलग्राममहो गमिष्यसि, हंहो गमिष्यसि ग्रामम्, ए देव, दत्त, हये जाये मनसा तिष्ठ घोरे (ऋग्वे.10.95.1), अरे नाहमुन्मत्तः, अररे महाराजं प्रति कुतः क्षत्रियाः, इति । कथम्, यत्, यदि, यदा, जादु, अपि, यञ्च, यत्न, इति गर्हणार्थाः; यथा--कथं नाम तत्रभवान् वृषलं याजयेत्, यदि तत्रभवान् वृषलं याजयेत्, यदा तत्रभवान् वृषलं याजयेत्, जातु तत्रभवान् वृषलं याजयेत्, अपि तत्रभवान् वृषलं याजयेत्, यञ्च तत्रभवान् वृषलमयाजयेत्, यत्र तत्रभवान् वृषलमयाजयेत्, इति । ह, अह, त्वै, न्वै, वै, वाव, वरम्, ननि, इति विनिग्रहार्थाः; यथा--अयमिदं ह करिष्यति (नि.1.5.2), अयमहेदं करोतु, अयं त्वै तत्र गन्ता, अयं न्वै ते नियोगः, बृहस्पतिर्वै देवानां पुरोहित आसीत्, अयं वाव हस्त आसीत्, वरमध्य कपोतः श्र्वोमयूरात्, ननु वक्यतृविशोषनिःस्पृहा गिणगृह्या वचने विपश्र्चितः (किराता0 2.5.)। एवमन्येऽपि यथाप्रयोगमनुसर्तव्याः। एते च निषेधतोऽन्यत्रापि द्रष्टव्याः इति। 1.17 विधिनिषेधे--हे, है, अयि, अङ्ग, हो, अहो, हंहो, भोः, इति संबोधनार्थाः; यथा--हे देवदत्त, है यज्ञदत्त, अयि विष्णुमित्र, अङ्ग माणवक, हो अग्निहोत्रिन्, अहो महाराज, हंहो महाब्राह्मण, बोः पान्थ प्रवर्तस्व निवर्तस्व वा, अति । अ, इ, उ, ए, ओ, आ, ई, ऊ, इतियनुकम्पार्थाः; यथा--अ अवेहि, इ इन्द्रं पश्य, उ उत्तिष्ठ, ए इत एहि, ओ ओषति त्वां तरणिः, आ आगतस्ते तातः, ई ईक्षितोऽसि गच्छ, ऊ ऊषरे बीजं वपसि, इति । किम्, नु, नूनम्, आहो, उत, स्वत्, वा, इव, इति वितर्कार्थाः; यथा--किमयं स्थाणुः किं पुरूषः, अहिर्नु रज्जुर्नु, न नूनमस्ति नो श्र्वः (ऋग्वे.2.4.10-1.), स्थाणुरयमाहो पुरूषः, धूमोऽयमुत कप#ोतः, पध्ममेतन्मुखं स्विद्भाति, हन्ताहं पजथिवूमुमां निदधामूह वेह वा (ऋग्वे.8.6.27.3), ताम्यतूव वत्सो मे मकरन्दः, इति । सत्यम्, किम्, हि, कञ्चित्, एवम्, अपि, अथ, इत, इति प्रश्र्नार्थाः; यथा--सत्यं भोक्ष्यसे ? किं देवदत्तः पचति ? कटं करिष्यसि हि ? कञ्चिज्जिवति ते माता ? एवमेतद्देवदत्त ? अपि क्रियार्थे सुलभं समित्कुशम् (कुमारसंभवम्) ? देवोऽयमय मानुषः ? उत दण्डड्डत्ध्;ः पतिष्यति ? इति । ननु, पनु, तु, तर्हि, यावत्, यावता, अथो, च्ति, इति पक्षान्तरार्थाः; यथा--नन्वरण्यमेतन्न गृहम्, स पठत#्ययं पुनः शेते, स रोदित्ययं तु हसति, यध्येवं तर्हि गम्यते, जानेऽन्योऽयं यावत् स एव, जाने गतो भवान्, यावताऽध्यापि न याति, अथो शरस्तेन मदर्थमुज्झितः, कश्र्चिद्भुङ्क्ते कश्र्चिद्भोजयति, इति । हि, नु, अतः, इति, यत्, तत्, येन, तेन, अति हेतेवपदेशार्थाः; यथा--इदं हि करिष्यति, वत्सक एहि किमिह नु ते धानकाः, अतस्त्वामर्थयामि, हस्तीति, पलायते, यदयं ददाति तत्सिभगः, येन सभते तेन स्तौति, इति । एवमन्येऽपि यथाप्रयोगमनुसर्तव्याः । एते च विधिनिषेधादन्यत्रापि वेदितव्याः ।। अविधिनुषेधे--उ, उत, आहो, वै, हि, वा, खलु, स्वित्, इति पदपूरणार्थाः; यथा--किम्, किमुत, उताहो, न वै, न हि, अथवा, न खलु, आहो स्वित्, इति । कम्, ईमि, सीम्, इत्, उ, तु, हि, च, इति पादपूरणार्थाः; यथा--शिशिरं जीवनाय कम्, झ्र्नि.1.10.1ट एमेनं सृजाता सुते झ्र्ऋग्वे.1.1-17.2ट, प्र सीमादित्यो असृजद्विधत्र्ता झ्र्नि.1.7ट, तमिद्वर्धन्तु नो गिरः झ्र्ऋग्वे.8.92.21ट, अयमु ते समतसि, झ्र्ऋग्वे.1.30.4ट, देवः सतु नमानुषः, इन्दवो वामुशन्ति हि झ्र्ऋग्वे.1.2.4ट , विलोलद्दष्टं हरिणाङ्गनासु च, इति । एते चान्ये च, नूनम्, इव, एव, इति, खलु, इत्यादयो वाक्यपूणार्थाः; यथा--विसीमतः सुरूचो वेन आवः झ्र्तै.सं.4-2-8-2ट,नरं च नारणमेव चेति, नुनं सा ते प्रतिवरं जरित्रे झ्र्ऋग्वे.2.11-21ट, कथंमिवैतद्भविष्यति, एवाह्येव (तै.आ.1.20-1), एवाहीन्द्र, अथो खल्वाहुः, अभीषु णः सखीनाम् (ऋग्वे.4.31-3), आ एवं नु मन्यसे, इति । भङ्गश्र्लेषयमकवक्रोक्तिचित्रानुप्रासपदावृत्तिप्रश्र्नोत्तरप्रभृतयोऽलङ्काराः; तदर्था यथा--न वार्यन्ते, न स्मार्यन्ते, न हसन्ति, न हीयन्ते, न वैरायते, इति भङ्गश्र्लेषे ; सहि अहो रणे कत्थतेपि योनराया इति भाषाश्र्लेषे; योषितां गात्रंस न खलूनं न खलूनम् इति यम कश्र्लोके; शस्त्रं न खलु वोढव्यम् इति वक्रोक्तौ; ननु होमथनाराध्यो ध्योरा नाथ महो नु न इति चित्रे; स हि महीशो वर्तते इत्यनुप्रसे; प्रासेप्रैसेऽमुना रणे इति पदावृत्तौ, का ननाद तिमिरादपि कासीति प्रश#्र्नोत्तरे इति । आर्षिक आर्पिपुत्रक आर्षिक इत्येतानु वैदिकावाक्यनामलङ्कारार्थाः ; यथा--अथो खसु, त्वयि, तर्हि, अथ खल्वेतर्हि, अहो नुखसु भोः, हा धिक्कष्टं भोः, इति ब स्म भगवान् पुनर्वसुराकत्रेयः, नह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति, झ्र्धान्दो.8.12.1ट नवा अरे जाययै कामाय जाया प्रिया भवति (बृहदा.4.5) न वा उवेतत्म्रियसे न रिश्यसि, इति। पदसंस्कारस्ति द्वधा विधिनिषेधरूपाभ्याम् ; तयोः प्लुतविधिः, लडड्डत्ध्;ादिविधिः, पररूरादिविधिः, इति विधिरूपः; पररूपादिप्रतिषेधः, संहिताप्रतिषेधः, पदादेशादिप्रतिषेधः, निघातप्रति, षधः, इति विधिरूपः । तत्र, "हैहेप्रयोगे हैहयोः" "ओमभ्यादाने" "ब्रूहि प्रेष्यश्रौषङ्वौषडड्डत्ध्;ावहानामादेः झ्र्पा.8-2-84.87.91ट,इति प्लुतविधिः ; यथा--देवदत्त है3, है3 द#ेवदत्त, ओम्3 अग्निमीडेड्डत्ध्; पुरोहितम्, अग्निमा3 वह, अस्तु श्रौ3षट्, ब्रू3हि, वौ3षटि, इति ।" "परेर्वर्जने" "प्रसमुपोदः पादपूरणे" "उपर्यध्यधसः सामूप्ये" इति द्विर्वचनाविधिः; यथा--परिपरि त्रिगर्तेभ्ये वृष्टो देवः, प्रप्रायमग्निर्भरतस्य शृण्वे, संसमिध्य#ुवसे वृषन्, उपोप ने परामृश, किं नो दुदु हर्षसे दातवा, उपर्युपरिग्रामम्। "यावत्पुरानिपातयोर्लट्," "जातुयदोर्लिङ्," "अलंखल्वोः प्रतिदे धयोः प्रातां क्त्वा" इति लडड्डत्ध्;ादिविधिः ; यथा--यावद्भुङ्क्ते, पुरा व्रयति, जातु तत्रभवान् वृषसं याजयेत्, यत् तत्रभवान् वृषलं याजयेत्; अलं कृत्वा, खलु कृत्वा इति । "ओमाङोश्र्च, " "अव्यक्तानुकरणस्यात इतौ" "आड्ड्डत्ध्;भाङोश्र्च" इति पररूपादिविधिः यथा--अध्योम्, अध्योढा, अध्येव झटिति, आच्छादयति, माच्छिदत् इति । "एवे चानियोगे" "नाम्रेडिड्डत्ध्;तसाय" "न माङ्योगे" इति पररूपादिप्रतिषेधः ; यथा--अधैदव गच्छ, इहैव इहैव तिष्ठ, पटत्, पटदिति करोति, मा कार्षूत्, मा स्म कार्षूत्, मा स्म करोत् इति । "निपात एकाजनाङ्" "ओत्" "संबुद्धौ शाकल्यस्येतावनार्षे" झ्र्पाय1य1य14य15य16.ट इति संहिताप्रतिषेधः ; यथा--अ अवेहि, इ इन्द्रंपश्य, उ उत्तिष्ठ, आ एवं नु मन्यसे , अहो, आश्र्चर्यम्, भानो इति, इति । "न चवाहाहैवयुक्ते" झ्र्पा.8.1.24ट "नानेज्र्ञः" झ्र्पा.1.3.48ट "समासेऽनञ्पूर्वे क्त्वो ल्यप" झ्र्पा.7.1.37ट इति पदादेशादिप्रतिषेधः; यथा--ग्रामे युष्माकं च ग्रामोऽस्मकं च, ग्राम#ो युष्माकमेव ग्रामोऽस्मामेव, पुत्रमनिजिज्ञासति, इस्नात्वा भुङ्क्ते इति । "निपातैर्यध्यदिहन्तकुविन्नेञ्चेञ्चण्कञ्चिध्यत्रयुक्तम्"(पा.8.1.30.) "चादिषु च" "चवायोगे प्रथमा" झ्र्पा.8.1.58.59.ट इति निघातप्रतिषेधः; यथा--यद् देवदत्तः पचति, यदि देवदत#्तः पचति, देवदत्तः पचति च खादति च, देवदत्तः पचति वा खादति वा, गर्दभांश्र्च कालयति वीणां च परिवादयति, गर्दभान् वा कालयति वीणां वा परिवादयति इति ।। 1.18 समासार्हा निपाता एव कतिपयऽपि गतयः; तध्यथा--"प्रादयः क्रियायोगे झ्र्पा.1.4.59ट "ऊर्यादिच्विडड्डत्ध्;ाटश्र्च" "अनुकरणं चानितिपरम्" (पा.1.4.61.62.) "कणेमनसी श्रद्धाप्रतीघाते" "पुरोऽव्ययम्" "अस्तंच " (मा.1.4.63.64.65.) "अच्छ गत्यर्थवदेषु" "अदोऽनुपदेशे" "तिरोऽन्तर्धौ" (पा.1.4.69.70.71.) "विभाषा कृञि" उपाजेऽन्वाजे" साक्षात्प्रभृतीनि त (पा.1.4.72.73.74.) "अनत्याधान उरसिमनसी" "मध्येपदेनिवतने च" (पा.1.4.75.76.) "नित्यं हस्तेपाणावुपयमने" "प्राध्वं बन्धने" "जीविकोपनिषदावौपम्ये" (पा.1.4.77.78.79.) "ते प्राग्धातोः" "छन्दसि परेऽपि" "व्यवहिताश्र्च" (पा.1.4.70.81.82.) इति । अथैतदुदाहवुपयमने-- प्रपचिति, पराकरेति, कारिकाकरोति, शुक्लीकरेति, पटपटाकरेति, पटत्करोति, खाट् करोति, सत्करोति, असत्करोति, अलंकृत्य, अन्तह्रत्य, कणेपत्य, मनोहत्य, पुरस्कृत्य, अस्तंगत्य, अच्छगत्य, अच्छोध्य, अदःकृत्य, तिरोभीय, तिरस्कृत्वा, तिरस्कृत्य, उपोजेकृत्वा, उपाजेकृत्य, अन्वाजे कृत्वा, अन्वाजेकृत्य, साक्षात् कृत्वा, साक्षात्कृत्य, मिथ्या कृत्वा, मिथ्याकृत्य, उरसि कृत्वा, उरसिकृत्य, मनसि कृत्वा, मनसि कृत्या, मनसिकृत्य, मध्ये कृत्वा, मध्येकृत्य, पदे कृत्वा, पदेकृत्य, निवचने कृत्वा, निवचनेकृत्य, हस्तेरृत्य, पाणैकृत्या, पाध्वंकृत्य, प्राध्वंकृत्य, जीविकाकृत्य, उपनिषत्कृत्य, उपनुषत्कृतम्, यदुपनुषत्करोति, यध्युपनिषत्करोति इत#ि ।। गतिविशोषा एव प्रादय उपसर्गाः ।। प्रपरापसामन्ववनुर्दुव्र्याङ्न्यधयोऽप्यतिसूदभयश्र्च । प्रतिना सह लक्षयितव्याः पर्युपयोरपि लक्षणमत्र।। वष्टि भागुर्रिल्लोपमवाप्योरूपसर्गयोः। हितादिषु समो म्लोपं पाठं चात्र श्रदन्तरोः।। एवमेते विंशतिः वपिसश्र्चदन्तर्भिः सहोपसर्गाः पञ्चविंशतिर्भवम्ति ।। 1.19 ते खलु--झ्र्1ट वाचकाः, झ्र्2ट ध्योतकाः, झ्र्3ट विशेषकाः,झ्र्4ट सहाभिधायकाः, झ्र्5ट कार्यर्थकाः, झ्र्6ट निरर्थकाश्र्चेति षोढा विप्रथन्ते । तेषु झ्र्1ट वाचका यथा--प्रगता ऋषभा अस्माद्वनात् प्रर्षभम् वनम्, परागता असवोऽस्येति परासुः, अपगतो मन्य#ुरस्य अपमन्युः, सङ्गतमक्षेण समक्षम्, अनुप्राप्तोनासिकामनुनासिकः, अवक्रुष्टःकोकिलया अवकोकिलः, मक्षिकाणामभावो निर्मक्षिकम्, ऋद्ध्यभावो यवनानां दुर्यवनम्, विरूद्धः पक्षो विपक्षः, आदाय युध्यते तदित्यायुधम्, अत्ययो वातस्य निवातम्, अदिगतमक्षेण अध्यक्षम्, अपिहितः शल इत्यपिशलः, अतीतः श्र्वनमतिश्र्वो वराहः, समृद्धिर्भद्राणां सुभद्रम्, उद्भूतोऽयर्थमुत्तमः, अभिलक्ष्यं मुखमस्याभिमुखः, प्रतिनुधेयः कायः प्रतिकायः, परिग्सानोऽध्ययनाय पर्यध्ययनः, उपेत्याधीयतेऽस्मादुपाध्यायः, एवम् अवगतवाम् कोटं वतेटः, अपिहितः कायतीतिपिक-, संपन्नं ब्रह्म बाभ्रवाणां सब्रह्म, श्रद्धीयत इत श्रद्धा, अन्तर्धीयते अन्तर्धिः, इति।। 1.20 झ्र्2ट ध्योतका यथा--प्रतिष्टते, पराक्रते, अपकरोति, संक्रीडड्डत्ध्;ति, अनुकम्पते, अवधत्ते, निर्विवेश, दुर्ललितः, व्याददति, आढद्धठ्ठड़14;वयते, निशमयति, अधिकुरूष्व, अपिदधाति, अतिशेते सुरभिः, उल्लापयति, अभिधत्ते, प्रतीक्षते, परिणमते, उपायंस्त; एवं वधत्ते, पिधत्ते, श#्रद्धत्ते, सहितः, अन्तर्दधाति इति ।। 1.21 झ्र्3ट विशेषकास्ति, दिव्धा--प्रकृत्यर्थविशेषकाः, प्रत्ययार्थविशेषकाश्र्च; प्रकृत्यर्थविशेषका यथा--प्रवर्धते, पलायते, अपवदते, संसरत्, अनुमन्यते, अवलोकते, सुभवति, उद्भवति, अभ्येति, प्रतिपध्यते, परिगणयति, उपदधाति, एवं वतंसः, पिनद्धवाम्, सततम्, श्रद्धनः, अन्तर्भवति इति । प्रत्ययार्थविशेषका यथा--मनस्वी सुभवति सुमनायते, दिर्भवति दुर्भनायते, एवमभिमनायते; पुच्छमुदस्यति उत्पुच्छयते, व्यस्यति, विपुच्छयते, पर्यस्यति, परिपुच्छयते; भाणडंड्डत्ध्; समारचयति संभाण्डड्डत्ध्;यते, चीवरं संचिनोति संचीवरयते; हस्तेनापक्षिपतिअपहस्तयति, संवर्मयति, पाशन संयच्छति संपाषयति, चूर्णैरवध्वंसयति अवचूर्णयति, तूलैरवकुष्णाति अवतूलयति, वास्या परिच्छनत्ति परिवासयत्, श्र्लोकैरूपस्तैति उपश्र्लोकयति, सोमान्यनुमाÐष्ट अनुलोमयति, पाशान् विमोचयति विपाशयति, तूस्तानि, विहन्ति वितूस्तयति, रूपं निरीक्षते, निरीपयति, वस्त्रं परिदधाति परिवसत्रयति, पर्याणमुत्तानयति उत्पर्याणयति, इति ।। 1.22 नन्वेतेऽपि क्रियाविशेषाणां वाचकाः कस्मान्न भवन्ति ? यद्धि यत्प्रयोगादम्यते तत् तस्य वाचं भवति । नैवम् ; "भृशादिभ्यो भुव्यच्वेः" (पा.3.1.12.) इत्यादिभिर्भवत्याध्यर्थ एव प्रत्ययोत्पत्तेः । मैवं वोचः ; नाहं क्यङ्न्तं पृच्छमि, किं तर्हि ण्यन्तम् ; तत्र "शब्दवैरकलहाभ्रकण्वमेधेभ्यः करणे" (पा.3.1.17.) इति वर्तते; ततश्र्च करोत्यर्थलक्षणे धात्वर्थसामान्ये णिङ्णिचोर्विधानात्, पुच्छस्योदसनं करोति उत्पच्छयते, सेनया अभियामं करोति अभिषेणयति इति करोत्यर्थस्य प्रत्ययेन उदसनाभिनादेस्तूपसर्गेणाभिधाने वाचकत्वमेषां भविष्यतीति । उच्यते--नेह करण इत्यनेन सकलधात्वर्थानुयायि क्रियासामान्यं प्रतिनिर्दिश्यते, अपि त्वनवधारितात्मस्वरूपा उदसनाभियानादयः क्रियावुशेषा एव । कथमिदं ज्ञायते इति चेत् , आचार्यप्रवृत्तिज्र्ञापयति--यदयं मुण्डड्डत्ध्;मिश्रश्लश्र्णसवणेभ्यः करणमात्रे प्रत्यमुदाहरति ; तध्यथा--मिण्डड्डत्ध्; करेति मुण्डड्डत्ध्;यति, एवं मिश्रयति, श्लक्ष्णयति, लवणयति । हलिकलिकृतत्वचेभ्यस्ति ग्रहणलक्षणे तद्धिशेषे; यथा--हलमग्रहीत् अजहलत्, कलिमग्रहीत् अचकलत्, कृतं गृढद्धठ्ठड़14;णाति कृतयति, त्वचं गृढद्धठ्ठड़14;णाति त्वचयति ; वर्णसत्यार्थवेदेभ्यस्तदाचष्टे इत्युपसर्गविशिष्टे धात्वर्थे ; यथा-- वर्णमायष्टे वर्णयति, सत्यमाचष्टे सत्यापयति, अर्थापयति, वेदमाचष्टे वेदापयति इति ; व्रताद्भोजने तन्निवृत्तौ च, यथा--पयो व्रतयति, वृषलान्नं वरतयति । अतोऽवगम्यते करण इत्यनेनानवधारितविशेषो धात्वर्थः प्रत्ययाभिधेयतयाऽधिक्रियते इति । एवं तर्हि, सविशेषणस्यैव क्रियाविशेषस्य प्रत्ययेनोक्तत्वात् अभिषेणयत्यादिषूपसर्गप्रयोगो न प्रप्नोति ; यथा--श्येन इवाचरति श्येनायते, बाष्पमुद्वमति बाष्पायते, हस्तेन मुरस्यति हस्तयते, एवं पादयते इति । भवेदेतत् यत्रैक एव प्रत्ययार्थः ; यथा--"उपामानादाचरे" (पा.3.1.10.) "बाष्पोष्मभ्यामुद्वमने" झ्र्पा.3.1.16.ट "अङ्गान्निरसने" इति । इह तु बहवः प्रत्ययार्थाः ; यथा--"पुच्छादिदसने व्यासने च, " "भाण्डड्डत्ध्;ात् समारचने विभजने च, " "चीवरादार्जने परिधाने च," मुण्डड्डत्ध्;ादिभ्यस्तत् करोति तदाचष्टे तेनातिक्रामति इतायदाविति ; तत्रोपात्तस्यापि क्रियाविशेषस्य प्रत्ययतो रूपसामान्यादनवधारणे तदवच्छेदायोपसर्गविशेषः प्रयिज्यते, यथा प्रत्ययार्थविशेषणपक्षे मनःशब्दादुत्पन्नेन क्यङैवोपसर्गार्थवुशिष्टभवत्यर्थाभिधाने सुमनायते, दुर्मनायते, अभिमनायते इति सुदिरभयः प्रयुज्यन्ते । एवं तर्हि हस्तिनाऽतिक्रामत्यतिहस्तयति इत्यादिवत्, श्रवेताश्र्वमाचष्टे आढद्धठ्ठड़14;वरयति, इत्यादावाभप्रयोगः प्राप्नोति । नैवम्, अत्राङः सहाभिधायतत्वात् । न हि क्रामतीत्यादिवत् चष्टे इतायस्यैकाकिनः स्वार्थाधाने सामथ्र्यमस्ति । अतो विशेषकत्वमेवैषां न वाचकत्वमिति ।। 1.23 अथ झ्र्4ट सहाभिधायका यथा--प्रस्नुते, प्रणिति, प्रपञ्चत्, प्राप्नोत्, संग्रामयते, संचष्टे, संरम्भत्, संधुक्षयति, अनुरूध्यते, विक्लबते, विलोकते, विश्राणयति, आचष्टे, आशास्ते, आचामति, आतङ्कयति, निद्रायति, नियमयते, अधीति, अध्येति, अभिवादयते, परिष्वजते, उज्जासयति, उत्तंसयति इति । 1.24 झ्र्5ट कार्यार्था यथा-- विजयते, पराजयते, न्यविक्षतस, समगंस्त, अन्वकरोत्, पराकरोत्, विरराम, उपरराम, उदसिष्यति, उदसिष्यते, अपस्किरते, प्रतिचस्कार, उपस्कुरूते, प्लायते, प्रार्षभीयति,निष्टपति, अभिष्टौति, बिषहते, परिष्वजते, विष्वणति, प्रहिणोति, प्रणश्यति, परिणेष्यति, अन्तर्णयति, इति ।। 1.25 झ्र्6ट निरर्थका यथा-- प्रारभते, प्रलम्बते, प्रसूयते, प्रयच्छति, अपहरति, अपढद्धठ्ठड़14;नुते, अपत्रपते, अभिषुणोति, निमीलति, निवार्यते, निष्ठीवत्, निमज्जति, निखञ्जति, विगाहते, विराजते, विजानाति, विनश्यति, विकत्थते, विदीर्यते, आश्रयति, आश्र्लिष्यति, संयुज्यते, अध्यागच्छति, पर्यागच्छति इति ।। 1.26 प्रादय एव क्रियावुविषेषोपजनितसंबन्धावच्छेदहेतवः कर्मप्रवचनीयाः ; यदाह-- क्रियाविशेषजन्यांनां संबन्धानां प्रकाशने। कर्मप्रवचनीयाः स्युर्निमित्तमवधारिताः ।। इति। 1.27 किं पुनरमीषामवधारणम् ? कर्मप्रवचनीयसंज्ञाधिकारे अनुप्रभृतयः शब्दा एकादश, लक्षणादयोऽर्था द्वार्विशतिरिति ; तद्यथा--"अनुर्लक्षणे" "तृतीयार्थे" "हीने" (पा.1.4.84.85.86.) "उपोऽधिके च" "अपपरी वर्जने" "आङ् मर्यादावचने" झ्र्पा.1.4.87.88.89.ट "लक्षणेत्थंभूताख्यानभाकवीप्सासु प्रतिपर्यनवः" झ्र्पा.1.4.92.ट "अधिपरी अनर्थकौ" झ्र्पा.1.4.93ट "सुः पूजायाम्" "अतिरतिक्रमणे च" झ्र्पा.1.4.94.95.ट "अपिः पदार्थसंभावनान्ववसर्ग- गर्हासमुञ्चयेषु" "अधिपरिश्र्वरे" झ्र्पा.14.96.97.ट "विभाषा कृति" झ्र्पा.1.4.98.ट । एवम्--अनु, उप, अप, परि, आङ्, प्रति, अभि, अधि, सु, अति, अपि, इत्येकादश शब्दाः । हेत#ुलक्षणम्, सहार्थः, हीनता, आधिक्यम्, वर्जनम्, आनर्थक्यम्, पूजा, आतिक्रमणम्, पदार्थः, संभावना, अन्ववसर्गः, गर्हा, समुञ्चयः, स्वाम्यम्, अधिकारः, इति द्वाविंषतिरर्थाः । तत्रानुः सप्तार्थः, प्रतिपरी षडड्डत्ध्;र्थौ, अपिः पञ्चार्थाः, अध्यभी त्र्यर्थौ, उपाती ध्व्यर्थौ,आङपसव एकार्थाः इति । तेष्वनुः हेतुलक्षणसहार्थहीनतालक्षणेत्थंभूताख्यानभागवीप्सासु कर्मप्रवचनीयः ; तद्योगे द्वितीया यथा--शाकल्यस्य संहितामनु प्रावर्षत्, पर्वतमन्ववसिता सेना, अनुशाकटायनं वैयाकरणाः, वृक्षमनु विद्योतते विद्यत्, साधर्देवदत्तो मातरमनु, यदत्र मामनु स्यत्, वृक्षं वृक्षमनु तिष्ठति इति ।। क्रियांया द्योतको नायं न संबन्धस्य वाचकः । नापि क्रियापदाक्षेपी संबन्धस्य तु भेदकः ।। झ्र्वाक्यपदीयम् 2.206.ट 1.28 तथा हि--शाकल्यस्य संहितामनुप्रावर्षदिति संहिताप्रवर्षणयोर्हतुफलभूतयोर्लक्ष्यलक्षणभाषो निशमयतिक्रियोपजनित इत्यनुना प्रकाश्यते "शाकल्यस्य संहितामनु निशम्य प्रावर्षत्" इति। एव मन्यत्राप्यवगन्तव्यम् । इत्यनुः सप्तार्थः । लक्षणेत्थंभूताख्यानभागव#ीष्सावर्जनानर्थक्येषु परिः ; सोऽपि चतुर्षु द्वितीयां द्वयोः पञ्चमीमुत्पादयति ; यथा--वृक्षं परि विद्योतते, साधर्देवदत्तो मातरं परि, यदत्र मां परि स्यात्, वृक्षं वृक्षं परि सेकः, परिपरि त्रिगर्तेभ्यो वृष्टो देवः, "विश्र्वप्स्निया विश्र्वतस्परि" झ्र्त#ै.सं.1.4.5.3..3.ट । इति प्रतिपरि षडड्डत्ध्;र्थौ । पदार्थसंभावनान्ववसर्गर्हासमुञ्चयेष्वपिः ; तस्यैतेषूपसर्गसंज्ञा बाध्यते ; तत्र पदान्तरस्याप्रयुज्यमानस्यार्थः पदार्थः ; सर्पिषोऽपि ,स्यात्, मधुनोऽपि ,स्यात् ; मात्रा बिन्दुः स्तोकमित्यस्यार्थे अपिशब्दो वर्तत । अधिकार्थवचनेन शक्तेरप्रतिघाताविष्करणं संभावना--अपि सिञ्चेन्मूलकसहस्त्रम्, अपि स्तियाद्राजानम् इति । कामचारानुज्ञानमन्वनसर्गः, अपि सिञ्च, अपि स्तुहि । निन्दा गर्हा--अपि ,स्तुहि ; सिञ्च च स्तिहि चेत्यर्थः । उपसर्गसंज्ञाबाधनात् षत्वं न बवति । इत्यपिः पञ्चार्थः । अधिरानर्थक्याधिकारस्वन्येषु कर्मप्रवचनीयः ; स आद्ययोः "गतिग्रतौ" "तिङि चोदात्तवति" (पा.8.1.70.71.) इति गत्युपसर्गसंज्ञाहाधनात् निघातादिकं नानुभवति इति ; यथा--कुतोऽध्यागच्छिति, यदत्र मामधिकरिष्यति, इति । स्वम्ये तु द्विधा--अधियोगे सप्तमी भवति कदाचित्, स्वामिनः, कदाचित्, स्वात् ; यथा--अधि ब्रह्मादत्ते पञ्चालाः, अधि पञ्चालेषु ब्रह्मद्त्तः । अभिर्लक्षणेत्थंभूताख्यानवीप्सासु द्विरूयामुत्पादयति ; यथा--वृक्षममि विद्योतते, साधुर्देवदत्तो मातरमभि, वृक्षं वृक्षमभि सिञ्चति । इत्यध्यभी त्र्यर्थौ । हीनाधिकार्थयोरूरः ; तत्र यथासंख्यं द्वितीयासप्तम्यौ ; यथा--उपार्जुनं योद्धारः, उप खार्यो द्रोणः इति ।अतिः पूजायामतिक्रमणे च ; तत्र पूजा स्तुतिः भवता, अति सिक्तमेतद्भवता, इति । उपसर्गसंज्ञाबधनात् षत्वं न भवति । इत्युपाती द्व्यर्थौ । आङ्मर्यादावचने पञ्चमीमित्पादयति--आ पाटलिपुत्राद्वृष्टो देवः । वचनग्रहणादभिविधिरपि गृह्यते ; तत्रापीदमेवोदाहरणम् । अपो वर्जने पञ्चमीमुत्पादयति--अप त्रिगर्तेभ्यो वृष्टो देवः । सुः पूजायामुपसर्गशंज्ञां बाधते--सुस्तुतं भवता, सुसिक्तं भवता, इति षत्वं न भवतीति । इत्याङपसव एकार्था इति ।। 1.29 अव्ययनि सुबन्ततिङन्तानुकारीणि विबक्तिप्रतिरीपाणि ; तानि प्रत्येकं षोढा--प्रकृत्यर्थानि प्रत्ययार्थानि, उभयार्थानि, अमुभयार्थानि, प्रकृत्यन्तरार्थानि, प्रत्ययान्तरार्थानि चेति । तेषु सुबन्तामुकरीणि प्रकृत्यर्थानि यथा--उञ्चैः, नीचैः, चिराय, विहायस#ा इति ; प्रत्ययार्थानि यथा--आरात्, अकस्मात्, एकपदे, प्रगे, इति ; उभयार्थानि यथा--सायम्, स्वयम्, पारे, मध्ये इति ; तिङन्ताकारीण् प्रकृत्यर्थानि यथा--मन्ये, शङ्के, अये, आम, इति ; प्रत्ययार्थानि यथा --एहि, अपेहि, पश्य, पश्यत इति ; इभयात्थानि यथा--अस्ति, अस्मि, ब्रहि इति ; अनुभयार्थानि यथा--याति, न याति, वर्तते, न वर्तते इति ; प्रकृत्यन्तरार्थामि यथा--अस्तु, भवतु, पूर्यते, आस इति ; प्रत्ययान्तरार्थानि यथा--आह, स्यात्, स्तुयात्, भूयात् इति ।। 1.30 "स्वरादिनुपातमव्ययम्" (पा.1.1.37.) इत्यव्ययप्रकरणे "कृन्मेजन्तः" क्त्वातोसुन्कसुनः (पा.1.1.39.40.) "तद्धितश्र्चासर्वभक्तिः" "अव्ययीभावश्र्च" (पा.1.1.38.41.) इति पठ्यते । तत्र आम्, क्त्वा, ल्यप्, तुमुन्, णमुल्,स्वञ् इति कृतः षङ् भाषयाम् । ते तु कृतः क्रियारूपाः, क्रियाफलरूपाः, क्रियाविशेषणरूपाः, क्रियावधिरूपाः, क्रियाकर्मरूपाः, क्रियावयरूपाश्र्च भवन्ति ; तेषु क्रियारूपा यथा--चकासाञ्चकार, कारयामास, बिभरांबभूव, विदांकुर्वन्तु, अलं कृत्वा, खलु कृत्वा, अलमालप्य, खल्वालप्य, अलं भोक्तुम्, कालो भोक्तुं सहते, भोकतुं भुङ्क्ते, पक्तुं पचति, भोक्तुं ग्लायति, भोक्तुं प्रभवति इति ; क्रियाविशेषणरूपा यथा--इत्थंकारम्, अन्यथाकारम्, यथाकारम्, तथाकारम्, उञ्चैःकारम्, तिर्यक्कारम्, मुखतःकारम् नानाभावम्, द्विधाभावम्, तूष्णींभावम्, अन्वग्भावम् इति ; क्रियावधिरूपा यथा--भिक्त्वा व्रजति, अपमित्य याजते, अग्रेभोजं व्रजति, द्व्यहात्यायं गाः पाययति, द्व्यङ्गुलोत्कर्षे खण्डड्डत्ध्;काश्छिनत्ति, शय्योत्थायं राजद्वारमेति, कन्यादर्शे वरयति, ब्राह्मणवेदं भोजयति, यावज्जीवयथा--शाक्नोति भोक्तुम्, धृष्णोति, भोकतुम्, जानाति भोक्तुम्, पारयति भोक्तुम्, प्रक्रमते भोक्तुम्, लभते भोक्तुम्, अर्हति भोक्तुम्, इच्छति भोक्तुम्, कामयते भोक्तुम्, एषितुमिच्छति, कमितुं कामयते, इति ; क्रियावयवरूपा यथा--मूलकोपदंशं भुङ्क्ते, दण्डड्डत्ध्;ोपधातं गाःकालयति, पाश्र्र्वोपवीडंड्डत्ध्; शेते, व्रजोपरोधं गाः सादयति, पाण्युपकर्षमुत्थापयति, केशग्राहं युध्यन्ते, भ्रूविक्षेपं जल्पति, गेहानुप्रवेशमास्ते, नामग्राहमाकारयति, चोरंकारमाक्रोशति, स्वादुंकारं भुङ्क्ते, स्वादूकृत्य भुङ्क्ते इति । क्रयाकर्मावयवरूपाः खल्वपि संभवन#्ति ; यथा--स्वपोषं पुष्यति, आत्मपेषं पुष्णाति, गोपोषं पुष्यति, रैपाषं पुषणाति, निमुसकाषं कषति, समूलघातं हन्ति, पाणिघातं वेदिमाहन्ति, शुष्कपेषं पिनष्टि, चूर्णपेषं पिनष्टि, रूक्षपेषं पिनष्टि, उदपेषं पिनष्टि, अकृतकारं करोति, जीवग्राहं गृढद्धठ्ठड़14;णाति, हस्तग्राहं गृढद्धठ्ठड़14;णाति, हस्तवर्ते वर्तयति, चूडड्डत्ध्;कनाषं नष्टः, सुवर्णनिधायं निहितः, ओदनपाकं पक्वः, क्रौञ्चबन्धं बद्धः, जीवनाशं नशियति, पुरूषवाहं वहति, ऊध्र्वशोषं शुकः, ऊध्र्वपूरं पूर्णः, इति । शेषाश्छन्दसि चतिर्विशतिर्भवन्ति ; तद्यथा--एश्, केन्, तवै, के, से, केम्, असे, असेन्, क्से, कसेम्, अध्यै, अध्यैन्, कध्यै, कध्यैन्, शध्यै, शध्यैन्, तवेङ्, कै, इष्यै, णमुल्, कमुल्, तोसुन्, कसुन्, इति । तेषु कृत्यार्थे एश्केनौ ; एश्--"अवचक्षे" (ऋग्वे.4.58.5.) केन्--नावगाहे । तवै कृत्यार्थे तुमर्थे च, कृत्यार्थे--परिधातवै, परिस्तरितवै ; तुमर्थे--सोममिन्द्राय पातवै (ऋग्वे.3.46.5.) अन्वेतवै (ऋग्वे.7.44.5.) । कयादयः सप्तदश तिमर्थे ; तेषु के--द्दशे विश्वाय सूर्यम् (ऋग्वे.1.50.1.) विख्ये त्वा हरामि ; से--वक्षे रायः, सेन्--ता वामेषे रथानाम्, (ऋग्वे.5.66.3.) ; असे--क्रत्व#े दक्षाय जीवसे (ऋग्वे.5.59.3.) ; कसेमप्येवंरीपः, स्वरे विशेषः ; अध्यै--काममुपाचरध्यै (तै.सं.1.2.11.1.) अध्यैनप्येवंरूपः, स्वरे विशेषः ; कध्यै--इन्द्राग्नी आहुवधायै (ऋग्वे.6.60.13.) ; कधायैन्-- श्रियध्यै ; शध्यै--पिबध्यै झ्र्ऋग्वे.9.97.20.ट ;वए शध्यैन्--सह मादयध्यै ; तवेङ्--दशमे मासि सुतवे ; तवेन्--सोममिन्द्राय पातवे झ्र्ऋग्वे.8.69.10.ट ? सुवर्देषु गन्तवे झ्र्तै.सं.5.7.7.2.ट कर्तवे झ्र्ऋग्वे.9.86.20.ट हर्तवे ; कै--प्रयै देवेभ्यः झ्र्ऋग्वे.1.142.6.ट ; इष्यै--अपामोषधीनां रोहिष्यै झ्र्तै.सं.1.3.10.2.ट ; अव्यथिष्यै ; रोहणाय चाव्यथनाय चेत्यर्थः । तुमर्थ एव "शकि णमुल्कमुलौ" झ्र्पा.3.4.12.ट--अÏग्न देवा विभाजं नाशक्नुवम् । "ईश्वरे तोसुन्कसुनौ" (पा.3.4.17.) यथा--आसंस्थातोर्वेद्यं सीदमन्ति, पुरा सूर्यस्योदेतोराधेयः, परका वत्सानामपाकर्तौः, पुरा प्रवदितोरग्नौ होतव्यम्, पुरा प्रचरितोराग्नीध्रे होतव्यम्, आहोतोरप्रमत्तस्तिष्ठति, आतमितोरीपतिष्ठते (तै.ब्रा.1.6.9.8.) आविडड्डत्ध्;नितोः संभवाम (तै.सं.2.5.1.5.) पुरा क्रूरस्य विसृपः (तै.सं.1.1.9.3.), पुरा जत्रुभ्यः आतृगः (ऋग्वे.8.1..12) । तद्धितेष्वलर्वविभक्तिषु "तसिलादयः प्राकै पाशपः, प्राक्समासान्तेभ्यः, मान्तः, कृत्वोऽर्थैः, तसिवती नानाञौ" इति ; यथाः--यतः, तत्र, इह, क्व, एकदा, एतर्हि, अधुना, इदानीम्, सद्यः, परुत्, परारि, ऐषमः, अद्य, परेद्यवि, पूर्वेद्युः, सर्वथा, इत्थाम्, पुरस्तात्, प्राक्, अधः, उपरि, उपरिष्टात्, पुरः. पश्र्चत्, दक्षिणात्, दक्षिणा, दक्षिणाहि, दक्षिणेन, दक्षिणतः, द्विधा, द्वैधा, द्वैधम्, ऐकध्यम्, बहुशो देहि, वासुदेवतः प्रति, शुक्लीभवति, अग्निसात् संपद्यते, देवत्रागच्छति, पटपटाकरोति, पटतितराम्, बहुकृत्वो भिङ्क्ते द्विर्भुङ्क्ते, सकृद्भुङ्क्ते, बहुधा भिङ्क्ते आदितो भवति , ब्राह्मणवद्ब्रवीति, व्ना देवदत्तम्, नाना देवदत्तम् इति अव्ययीभावो द्विधा--सत्त्वभूतार्थः, असत्त्वभूतार्थश्च इति । तयोः सत्त्वभूतार्थो यथा--उपकुम्भम्, सुमद्रम्, दुर्यवन्म्, निर्मक्षिकम्, निशीतम्, सब्रह्म, बहिग्र्रामम्, सुपप्रति, मध्येसमुद्रम्, द्विमुनि, पञ्चनदम्, लोहितगङ्गम् इति । असत्त्वभूतार्थो यथा--अधिस्त्रि, प्रत्युरसम्, अनुरथम्, प्रत्यर्थम्, यथाशक्ति, सचक्रम्, यावदमत्रम्, परित्रिगर्तम्,आपाटलिपुत्रम्, अभ्यग्नि,, द्विपरि, अनुगङ्गं वारणसी इति ।। 1.31 शब्दस्य ताद्रप्येणाभिधानमनुकरणं । यदाब--व्यक्ताव्यक्तवर्णपदक्यसाद्दश्योक्तयो- ऽनुकरणानि। तत्र व्यक्तवर्णसाद्दश्योक्तिर्यथा-- छिन्नेन पतता वढद्धठ्ठड़14;नौ यन्मुखेन हठात्कृते । स्वेति हेति हरेणोक्ते स्वाहासीत् सैष रावणः।। व्यक्तपदसाद्दश्योक्तिर्यथा-- गच्छति वक्यतुमिच्छामि मत्प्रिय तवत्प्रियैषिणी । निर्गच्छति मुखाद्वाँ#ि मा गा इति करोमि किम् ।। व्यक्तवाक्यसाद्दश्योक्तिर्यथा-- त्वं जीवितं तवमसि मे हृदयं द्वितीयं त्वं कौमुदी नयनयोरमृतं त्वमङ्गे । इत्यादिभिः प्रियशतैरनुरूध्य मुग्धां तामेव शान्तमथ वा किमतः परेण ।। अव्यक्तवर्णसाद्दश्योक्तिर्यथा-- गतेऽर्धरात्रे परिमन्दमन्दं गर्जन्ति यत्प्रावृषि कालमेघाः । अपश्यतू वत्समिवेन्दुबिम्बं तं (तत्) शर्वरी गौरिव हुंकरोति ।। अव्यक्तपदसाद्दश्योक्तिर्यथा-- चटञ्चटिति चर्मणि ञ्चिमिति चोञ्चलच्छोणिते धगद्धगिति मेदसि स्फुटरवोऽस्थिषु ष्ठागिति । पुनातु भवतो हरेरमरवैरिराजोरसि क्वणत्करपञ्चरक्रकचकाषजन्मानलः ।। अव्यक्तवाक्यसाद्दश्योक्तिर्यथा-- पिपिप्रिय ससस्वयं मुमुमुखासवं देहि मे ततत्यज दुदुद्रुतं भभभभाजमं काञ्टनं काञ्चनम् । इति स्खलितजल्पितं मदपशात्कुरङ्गीद्दशः प्रगे हसितहेतवे सहचरीभिरध्यैयत ।। 1.32 एतेन यानि साधून्यर्थवन्ति पदानि, यानि च पाक्यानि, यञ्चाशक्तिजमसाधु शब्दरूपम्, ये चापभ्रंशाः, ये चानर्थका वर्णाः, याश्र्ताव्याक्तवर्णपदवाक्योक्तियः, तदनुकरणानां साधुत्वमुपपन्नं भवति । ननु अनुकरणं शिष्टस्य वा दानाध्ययनादेः, अशिष्टाप्रतिषिद्धस्य वा हसितहिक्कितादेः साधुत्वं भवति ; न प्रतिषिद्धस्य ; यो ह्येवमसौ ब्राह्मणं हन्तीति तस्यनुकुर्वन कदलीस्तम्भं छिन्द्यान्न स मन्ये पतितः स्यात् इति । न चानुकरणमपशब्दः, अन्यो ह्यसावपशब्दत्वप्रसङ्गात् । यः पुनरेवमसावपशब्दं प्रयुङ्क्ते, इति तस्यानुकुर्वन्नपशब्दमभिधेयेषु प्रयुङ्क्ते, सोऽपशब्दकार्येव भवति इति ।। 1.33 भावकारकाभिधायिनो धातिप्रत्ययाः कृतः ; षोढा--लिङ्गिनः, अन्यलिङ्गिनः, #ेस्वलिङ्गिनः, अलिङ्गिनः, शक्त्याद्पेक्षिणः, अनुप्रयोगाद्यपेक्षिणश्र्च । तेषु द्रव्यवचना अणादयो लिङ्गिनः, यथा--कुम्भकारः, पङ्कजम्, धात्री, दात्रम्, कारूः, कृकवाकुः, इति । गुणवचना ण्वुलादयोऽन्यलिङ्गिनः, यथा--कारकः, कारिका, कारकम्, दर्शनीयः, दर्शनीया, दर्शनीयम्, इति । उत्पत्तवपेक्षितनियतलिङ्गाः "स्त्रियां क्तिन्" (पा.3..3.94.) इत्येवमादयः स्बलिङ्गिनः, यथा--पक्तिः, पचनम्, पाकः, व्रजः, शय्या, सुप्तम्, इति । असत्त्वभूतार्थत्वेनानुपगृहीतलिङ्गसंख्याशक्तयस्तुमुनादयोऽलिङ्गिनः, यथा--कालो भोक्तिम्, अलं कृत्वा, खलु प्रहृत्य, नावगाहे, ईश्वरोऽभिचतितोः, ईश्वरो विलिखः, इति । शक्तिहेतुनल्लक्ष्यक्रियाद्यपेक्षाः शत्रादयः शक्त्याद्यपेक्षिणः, यथा--व्रजता कृतम्, क्रियमाणं पश्य, आर्जयम् वसति चङ्क्रम्यमाणोऽधीते, पक्ष्यम् व्रजति, भोजके व्रजति इति । अपेक्षितानुप्रयोगतद्धिताद्यनुषङ्गाणलुलादयोऽनुप्रयोगाद्यपेक्षिणः, यथा--रैपोषं पुष्यति, चोरंकारमाक्रोशति, कारयाञ्चकार, कृत्रिमम्, व्यावक्रोशी, सांराविणम्, इति । 1.34 भावकारकसंबन्धिस्वार्थाभिधायिनोऽधातुप्रत्ययास्तद्धिताः ; ते षोढा--अलेपिनः, लोपिनः, सर्वलोपिनः, आदेशिनः, प्रदेशिनः, अप्रदेशिनश्र्चेति । तेषु मिरमुबन्धा अलोपिनः, यथा--अश्वकः, अश्वत्थामः, सभ्यः, सख्यम्, देवदत्तरुप्यः इति । सानुबन्धा लोपिनः यथा--ब्र#ाह्मण्यम्, मृत्तिका, दाक्षिः, वैयाकरणः, स्तेयम्, कैदार्यम्, इति ; येषां लुग्लुपादिभिः किमप् नावतिष्ठते, ते सर्वसोपिनः, यथा--गर्गाः, चरकाः, पञ्चलाः, चञ्चा, गार्गा#ी, सामग्री, इति । येषामायन्नादय आदिश्यन्ते ते आदेशिनः, यथा--ऐतिकायनः, कापेयम्, आत्मनीयम्, अश्वीयम्, क्षत्रियः, शाश्वतिकम्, इति । प्रकृतेरादिमध्यविष्टाः प्रदेशिनः, यथा--बहुतृणम्, बहुराजा,.सर्वकः, उञ्चकैः, त्वयका, पचतकि, इति । तस्या एवान्त्यावयवभूता अप्रदेशिनः, यथा--पाक्यवचम्, प्रत्युरसम्, केशाकेशि, युवजीनिः, सरजसम्, निष्प्रवाणिः, इति ।। 1.35 पृथगर्थानामेकातर्थीभावः समासः ; स षोढा--सुबन्ताभ्याम्, सुप्तिङन्ताभ्याम्, सुब्धातुभ्याम्, सुबन्तनानभ्यम्, नामभ्यां चेति । तेषु सुबन्ताभ्यां यथा--उपकुम्भम्, राजपिरूषः, नीलोत्पलम्, अष्टकपालः, चित्रगुः, धवखदिरै इति । अत्र "समप्थः पदविधिः" (पा.2.1.1) इति सामथ्र्ये सति समासः । सामथ्र्ये च संबन्धः । स च द्वयोरूपसर्जनप्रधानभावनश्र्च द्विधा--अभिधीयमानः, प्रतीयमानश्र्च । अभिधीयमानो व्यतिरेकविभक्तिः, यदा वैयधिकरण्यम्--कुम्भस्य समीपम्, राज्ञः पुरूषः, इति । ततत्रोपकुम्भम्ति पूर्वपदप्रधानोऽव्ययीभावः ; रादपुरूषः इत्युत्तरपदप्रधानस्तत्पुरूषः । प्रधानमविचलितस्वार्थे प्रथमयैवाभिधीयते, उपसर्जनं पुनः प्रधानानुग्रहायाश्रितव्यतिरेकं षष्ठ्यादिभिः । इदं च सुबन्त्तत्व एव भवति । प्रतीयमानस्तुल्यविभक्तिः यदा सामानाधिकरण्यम्--नीसं च तदुत्पलं च नीलोत्पलं ; अष्टसु कपालेषु संसक्सृतोऽष्टाकपालः, इति । अयं च "विशेषणं विशेष्येण" (पा.2.1.57.) इति कर्मधारयः, "संख्यापूर्वः" "तद्धितार्थ" (पा.2.1.52.51.) इति च द्विगुत्वं विशेषणविशेष्यभावेन प्रतीयमानोपसर्जनप्रधानभावयोः सामानाधिकरण्ये स्मर्यते ; तञ्च तुल्यविभक्तित्वे स्यादिति सुबन्तत्व एव भवति । यदा च चित्रा गावोऽस्येत्यन्यपदार्थपरतया विशेषणविशेष्ययोः समानाधिकरणलक्षणो बहुविरीहिः,तदाऽप्यभिहितः सोऽर्थोऽन्तर्भूतः प्रातिपदिकार्थः संवृत्त इति वृत्तयवस्थायां वाक्यवैपरीत्येन चित्रा गावोऽस्येत्युपसर्जनं समानार्थश्र्चित्राणां गवामयमिति प्रधानभावमनुभवति ; तञ्च षष्ठिप्रथमान्ततवात् सुबन्त एव स्यात् । यदा च धवश्र्च खदिरश्र्चेति प्रधानयोर्धवस्य खदिरस्य चेत्यप्रधानयोर्वा क्रियादीन् प्रतीतरेतरयोगे युगपदधिकरणवचनो द्वन्द्वः, तदाऽप्युभयत्र तुल्यविभक्तित्वमन्तरेण प्राधान्यमप्राधान्यं वा न प्रतीयते; तुल्यविभक्तित्वं तु द्वयोः सुवन्तत्व एव भवति । अतश्र्च सर्वत्र सुबन्तेन सह सुबन्तं समस्यते इति स्मर्यते । तिङन्ताभ्यां यथा-- अश्र्नूतपिबता, खादतमोदता, पचतभृज्जता, उन्मृजावमृजा, आवपनिवपा, एहिरेयाहिरे, इति । अत्र "आख्यातमाख्यातेन क्रियासातत्ये" इति मयूरव्यंसकादिपाठात् तिङन्तानां समासः स्मर्यते । अश्र्नीत पिबतेत्यादि यासु क्रियासु सातत्येन व#िद्यते, ता एवमुच्यते । तन्मध्यपतितश्र्च तढद्धठ्ठड़14;न्रहणेन गृह्यते इत्युदादीनां रे इत्येतस्य चाख्यातत्वं भवति ।सुप्तिङन्ताभ्यां यथा--अपचसि, प्रावर्षत्, अनुव्यचलत्, अस्तिक्षीरा, एहिवाणुजा, जहिस्तम्ब, इति । अत्र "सह सुपा" (पा.2.1.4.) इत्यत्र तृतीययैव सहार्थस्य#ाक्षेपे, सहग्रहणादतिरिक्तिद्योगविभागाश्रयणेन सुबन्ततिङन्ताभ्यां समासः क्रियते । सच "नञो नलोपस्तिङ्यवक्षेपे" इति "उदात्तवता तिङा गतिमता च"इति, "सुबधिकारेऽस्तिक्षीरादिवचनम्" इति, "एहीडड्डत्ध्;ादयोऽन्यपदार्थे" इति "जहि कर्मणा बहुलमाभीक्ष्णये समस#्यते कर्तारं चाभिदधाति" इत्युपपन्नो भवति। तेनायमर्थः संगच्छते--अवक्षिप्तोऽसि न पचसि त्वमभिहितोऽपि वृशल इति; एहि वाणिजेत्यामन्त्र्यमाणवाणिजविशिष्ट क्रियेति; जहि जहि स्तम्बमिति कर्ता योऽभिधीयते स एवमुच्यते इति; सुब्धातुभ्यां यथा--संग्रामयते अनुर#ीध्येते, श्रद्धा, अन्तर्धिः, परमनियौ, प्रतिभुवौ इति । अत्र--"संग्राम युद्धे," "अनुरीध कामे" इति समस्तयोरेव पाठः । "आतश्र्चोपसर्गे" (पा.3.3.106.) "उपसर्गे घोः किः" (पा.3.3.92.) इत्यङ्किविधाने प्रादजिषु श्रदन्तरोरुपसङ्ख्यानम्, "अचि श्र्नु ध#ातुभ्रुवां य्वोरियङुवङौ" (पा.6.4.77.) इत्यादिकार्यसिद्धये क्किबन्तस्य प्रत्ययना मधातुत्वाद्धातुत्वमिति सिब्धातिभ्यां समासो भवति । सुबन्तनामभ्यां यथा--दधिसेक्, चर्मक्रीति, धनक्रीता, ब्राह्मणाच्छंसी, सरसिजम्, इति । अत्र "कगतिप्रदयः" (पा.2.2.18.) "उपपदमतिङ" (पा.2.2.19.) इत्यत्रातिङ्ग्रह मेनोभयसूत्रशेषतया व्याख्यायमानेन सुबित्येतस्य निवृत्तिः क्रियते, "कर्तृकरणे कृता बहुलम्" (पा.2.1.32.) इत्यत्र च कर्तृकरणयोः समासविधानादुत्तरपदस्य कृदन्ततायां लब्धायां कृढद्धठ्ठड़14;ग्रणादतिरिक्तात् तदन्तावस्थायामेव समासाभ्यनुज्ञाने सुपेत्येतदपि निवर्तते । ततश्र्च गतिकारकोपपदानां कृद्भिः सह समासः सुबुत्पत्तेः प्रागेव भवतीत्याख्याचम्; बहुलग्रहणस्य चेष्टद्ध्यर्थत्वात् । स क्कचिन्नमभ्यां क्कचित् सुबन्ताभ्यां निश्र्चीयते । तत्र दधिसेगित्यत्रोत्तरपदस्य "सात्पदाद्योः" (पा.8.3.111.) इति पदादिनिबन्धनषत्वप्रत#िषेधसिद्धये, चर्मकार इत्यत्र तु पूर्वपदस्य पदान्तलक्षणनलोपार्थ सुवन्ताता क्रियते । चर्मक्रीतीत्यत्र पूर्वपदं नलोपार्थमेव सुबन्तम्, उत्तरपदं तु प्रातिपदिकं क्रियते; तेन "क्रीतात् करणपूर्वात्" (पा.4.150.) अकरान्तात् इति--क्रीतस्य अकारान्ततां हत्वा ङीषं प्रतिबध्नीयात् । धनक्रीतेत्यत्र "सा हि तस्य धनक्रीती प्राणेभ्योपि गरीयसी" इति शिष्टप्रयोगदर्शनादुत्तरपदस्य सुबुत्पत्तौ टाबुत्पत्तेराकारान्तत्वान्न ङीष उत्पत्तिः । ब्राह्मणाच्छंसी, सरसिजमित्यत्र पूर्वपदयोः साक्षात् सिपः श्रवणम्; उत्तरपदयोस्तु प्रयोजनाभावद्विभक्तेरनुत्पत्तिरिति । नामभ्यां यथा--अश्वक्रीती, धनक्रीति, इत्येतयोः प्राग्वदेव ङीषुत्पत्तौ विभक्त्युत्पात्तिमन्तरेणापि पञ्चकप्रातिपदिकार्थपक्षे करणत्वाविरोधः । प्रवापिणी, माषवापिणी इत्यत्र तु प्राके सुबुत्पत्तेः समासे प्रातिपदिकस्यान्तो नकार इति "प्रातिपदिकान्तनुम्विभक्तिषु च (पा.8.4.11.) इति णत्वं भवति; सुबन्ताभ्यां तु समासेऽन्तरङ्गागत्वान्ङीबुत्पत्तौ ङीबत्र नञ्सूर्ययोद्र्दशिक्रियया संबन्धात् परस्परमसंबन्धे सामथ्र्यभावाद्विभक्त्यभावः, अत्रल हि सूर्यमपि न पश्यन्तीति नञ् सीर्यकर्मिकां द#्दशिक्रियामपेक्षते, न सूर्यसत्ताम्; "असूर्यललाटयोद्र्दशितपोः" (पा.3.2.36.) इति वचनादसामथ्र्येऽपि नाम्नोरेव समासो भवति । एतेन कृतपूर्वी इत्यपि व्याख्यातम्; अत्रापि हि कृतं पूर्वे कटोऽनेनेति कृतशब्दस्य क़ापेक्षायां पूर्वशब्देनासंबन्धादसामथ्र्यषऽपि "पूर्वादिनिः," "सपूर्वाञ्च" (पा.5..276.87.) इति वचनात् कृतपूर्वयोरसुबन्तयोरेव समासो भवतीति स्थितम् । उपलक्षणं चेह सुबन्ताभ्यामित्यादिषु द्विवचनम्; तेन यथा द्वाभ्यां तथा त्रिभिर्बहुभिश्र्च समासो भवति । तत्राव्ययीभावः कर्मधारयश्र्च द्वाभ्याम् । यथ#ा--अधिस्त्रि, शाकप्रति, पञ्चम्राः, पुरुषव्याघ्रः, इति । षष्ठिलक्षणः कालपरिमाणलक्षमश्र्च तत्पुरुषो द्वाभ्यां त्रिभिश्र्च । यथा--राजगवीक्षीरम्, राजगोक्षीरम्, द्व्यहजातः, द्व्यढद्धठ्ठड़14;नजातः, इत । अत्र यदा राज्ञत्रो गौः राजगवी तस्याः क्षीरमिति, तदा द्वाभ्याम्, यदा तु राज्ञो गोः क्षीरं राजगोक्षीरमिति, तदा त्रिभिः । तदुक्तम्--"राजगवीक्षीरे द्विसमासप्रसङ्गः, द्विषष्ठिभावात्; सिद्धं तु राजविशिष्टाया गोः क्षीरेणाभिसंबन्धात्" राजगवीक्षीरम्, राजगोक्षीरमिति च । ननु च, गोः क्षीरं गोक्षीरम्, राज्ञो गोक्षीरं राजगोक्षीरमिति, द्वितीयपक्षे भविष्यति ; नैवम्, अर्थभेदात्; यथैवायं गवि यतते न महिष्यादेरपि क्षीरमात्रेण तिष्यति, एवं राजन्यपि यतते--राज्ञो या गौः, तस्या यत् क्षीरमिति; तञ्चैवं न सिध्यति; एवं हि यतः कुताश्र्चिदागतं गोक्षीरमात्रं राज्ञः संबन्धि प्रतीयते । कथं पुनर्गोः क्षीरमप्यपेक्षमाणायाश्र्च राज्ञा राजनमप्यपेक्षमाणायाश्र्च क्षीरेण समासः ? उच्यते--न गौः पिरधानत्वात् तथा राजानमपेक्षते, यथा उपसर्गनत्वेन गां राजाः ; क्षीरमप्यविचलितस्वार्थत्वादनौत्सुक्येन न तथा गामपेक्षते, यथोद्भूतसंबन्धवयातिरेकत्वादौत्सुक्येन गौः क्षीरम् । एवं चानुकूल्ये गमकत्वात् प्रधानसापेक्षत्वे सति समासो भवत्येव ; यथा--देवदत्तगुर#ुकुलम्, राजरुषभार्या, इति । तदुक्तम्--"भवति वै प्रधानस्य सापेक्षस्यापि समासः" इति । एवं द्वे अहनी समाहृते द्व्यहः, द्व्यहो जातस्येति यदा समासः तदा द्वाभ्याम्; यदा तु द्वे अहमी जातस्य द्व्यढद्धठ्ठड़14;नजात इति तदा त्रिभिः । "सुप् सुपा" इति वचनाद्द्वयोरेव समास इति चेत्, न; "कालाः परिमाणिना" (पा.2.2.5.) इति बहुवचननुर्दिशात्"सुप् सुपा" इत्येस्मिन् गुणपदेऽपि संख्या न विवक्ष्यते; तेन त्रिष्वपि पदेषु समासाभ्यनुज्ञाने, द्विशब्दस्यापि कालसंख्यायकत्वेन कालाभिधायित्वे द्वे अहनी जातस्येति विगृह्य जातेन परिमाणिना द्विशब्दाहः शब्दौ कालाभिधायिनौ समस्येते । पूर्वस्य पदस्योत्तरपदनिमित्तायास्तत्पुरुषसंज्ञायाः प्रवर्तनात् "न संख्यादेः समाहारे" (पा.5.4.89.) इति प्रतिबेधाबावात् "अढद्धठ्ठड़14;नोऽढद्धठ्ठड़14;न एतेभ्यः " (पा.5.4.88.) इति समासान्तसिद्धौ द्व्यढद्धठ्ठड़14;नजात इति विवक्षितरीपसिद्धिः । अथ राजगोक्षीरमित्यत्रापि कथं न समासान्तः ? गोशब्दस्य युगपत् पूर्वोत्तरपदापेक्षायमसामथ्र्यात् । द्व्यढद्धठ्ठड़14;नजातः इत्यत्रापि तुल्यमिति चेत्, तन्न ; इत्तरपदयोग एव द्विगोराम्रानात् । अपि च, द्वे अबनी इति द्वे अपि प्रथमान्ते ; राज्ञो गोर#िति द्वे अपि षष्ठ्येन्ते ; असति च प्रथमान्तषष्ठ्यान्तयोर्विशेषः--प्रथमान्तं ह्यनुपजातव्यतिर्कत्वान्निरौत्सुक्यं नान्यदपेक्षते ; षष्ठ्यन्तं पुनरुद्भूतव्यतिरेकत्वाते परोपकारायौत्सुकयेन प्रवर्तमानं नानवाप्योपकर्ये विरमति । एवं च सापेक्षत्वादसामथ्र्यो सम#ासः कथमिति चेत्, गमकत्वात्; यथा--सीर्यमपि न पश्यन्त्यसूर्येपश्या राजदाराः, न पुनर्गीयन्ते अपुमर्गेयाः श्र्लोकाः, क्षाद्वं न भुङ्क्ते अश्राद्धभोजी ब्राह्मणः, अशूद्रान्नभोजी, एवमलवणभोजी, एकान्नविंशतिः ; यथा--अवतप्ते नकुलस्येव स्थितमवतप्तेनकुलस्थितं तवैतदिति । बहुव्रीहिद्वन्द्धौ द्वाभ्यां त्रिभिर्बहुभिश्र्च यथा--चित्रगुः कण्ठेकालः, ढद्धठ्ठड़14;लक्षन्यग्रोधौ, पाणिपादम्, पञ्चगवधनः, मत्तबहुमातङ्गम्, शङ्खदुन्दुभिवीणाः?, धवखदिरपलाशम्, इति । अत्र "अनेकमन्यपदार्थे" झ्र्पा.2.2.24.ट बहुव्रीहिः, "चार्थे द्वन्द्वः" झ्र्पा.2.2.29.ट इति च स्मृतिः ; उक्तं च-- सुसूश्र्मजटकेशेन सुनताजिनवाससा। समन्तशितिरन्ध्रेण द्वयोर्वृत्तौ न सिध्यति ।। द्वन्द्वो यावद्भिरारब्धाः प्राधान्यं तत्र तावताम् । इतरेतरयोगे स्यात् समाहारे तु संहतेः ।। 1.36 ननु च, शोभनाः सुश्मा जटाः केशा अस्य, शोभनम् न्तमजिनं वासोऽस्य, सञ्जातान्यन्तेषु शितिरन्ध्राण्यस्येति कर्मधारयादिगर्भा एते बहुव्रीहयः ; तत्र सुसूक्ष्मजटकेशेन सुनताजिनवाससेत्येतयोर्मध्यपदस्योत्तरपदेन पूर्वपदेन वा कर्मधारयम्, अन्त्यस्य तूत्तरपदेन#ैव सप्तमीतत्पुरुषं विधाय द्वयेरपि वृत्तौ बहुव्रीहिः कस्मान्न क्रियते । उच्यते--पूर्वयोः पूर्वपदेन कर्मधारयानुपपत्तिः, असामानाधिकरण्याते ; नहि द्वयोरपि विशेषणयोः सामानाधिकरण्यं भवति । उत्तरेण तु "विशेषणं विशेष्येण" झ्र्पा.2.1.57.ट इति सामानाधिकरण्ये भवति कर्मधारयः ; किं तु न तदुत्तरकालमन्यपदार्थे न्वक्षितार्थसिद्धिः ; तथा हि सति, सूक्ष्मजटासंबन्धनिबन्धनमेव केशानां शोभनत्वमुपलभ्यते न तु स्वाभाविकम्, नतिनिमित्तमेव चाजिनवाससश्र्चारुत्वं गम्यते न तु नैसर्गिकम् । अन्त्ये पुमरन्तेषु इत्येतस्य सापेक्षत्वादसामथ्र्य सति नोत्तरपदेन सप्तमीतत्पुरुषः ; अन्तेषु शितिरन्ध्राणि इति ह्युक्ते, कस्यान्तेष्वित्यपेक्ष्यं स्यात् ; तञ्च शित्यर्थ उत्पद्यमाने बहुव्रीहावेववोपपन्नं भवति--सञ्चातान्यन्तेषु सूक्ष्मच्छिद्राण्य्स्येति, न पुमस्तत्पुरुषे । ननु च, द्दश्यते द्वयोरपि विशोषणात्वे च समासः; तद्यथा--खञ्चश्र्चासौ कुब्जश्र्च खञ्जकुब्जः, भ्रातुर्भार्या देवदत्तस्येति । उक्तमत्राचार्यैः । किमुक्तम् ? कस्य चित् खञ्चो निज्र्ञातः कस्य चित् कुब्ज इति प्रधावोपलर्जनभावाद्भवत्येव विशेषणविशेष्यभावः ; अपि च संबन्धिशब्दः सापेक्षो नित्यं सर्वः प्रवर्तते । स्वार्थवत्सा व्यपेक्षाऽस्य वृत्तावपु न हीयते ।। यथा पितुः पिता पितामहो देवदत्तस्येति। इह तु सूक्ष्मजट इत्येतद्न्यपदार्थ एवाम्नायते ; नतमित्येदपि क्रियाभिधायित्वेन गुणवचनत्वादैश्रितमेव भवति । सु इत्येतत्पुनरख्ययं शोभनार्थे वर्तमानं समस्यते ; तस्य चास्तां द्रव्यवचनत्वम् ; गुणवचनत्वेऽपि विप्रतित#िपत्तिः, अव्ययानामसत्त्वार्थवाचित्वात् । केचित् पुनस्तत्रापि विवदन्ते--द्योतका हि किलैते न वाचका इति; समासश्र्च "सुप् सुपा" (पा.2.1.4.) इत् द्योतकानामपि भवति । मा भूत पूर्वयोः कर्मधारयः ; अन्त्ये पुनरन्तशब्दस्य संबन्धिशब्दत्वेन भ्रातृभार्यदिवत् कथं न तत्पुरुषः ? उय्चते--यद्यपि संवन्धिशब्दाः सापेश्रत्वेऽपि समस्यन्ते, तथाऽपि यत्र संदेहविपर्यासादयो न जायन्ते तत्रैव तदुत्पत्तिः ; अत्र त्वन्तशितिरन्ध्राणीत्युक्ते सन्देहः--किमन्तेषु शितिरन्ध्राण्यस्य, उत अन्तशितिनीझ्र्तीनिटरन्ध्राणि इति । अथ यदा सुष्ठु सूक्ष्मजटाः केशाः केशाः अस्येति विग्रहः, तदा भवितव्यं पूर्वपदयोः कर्मधारयेण । न भवितव्यम् । किं कारणम् ? स्वरे दोषः स्यात् ; बहुव्रीहौ पूर्वपदप्रकतृतिस्वरं बाधित्वा समासस्यान्त उदात्त इत्यन्तङ्गत्वादवयवसमासस्वरः प्रप्नोति, तदाह-- सुसूश्र्मजटकेशादौ समासावयवो यदि । स्यात्स्यात्तत्रान्तरङ्गत्वाद्वाधकोऽवयवस्वरः ।। न चेष्यते । का पुनरत्र कर्मधारयबाधायामुपपत्तिः ? "विशेषणं विशेष्येण बहुलम्" झ्र्पा.2.1.57.ट इति बहुलग्रहणमेव ; उक्तं च-- या सामा#्याश्रया संज्ञ विशेषविषया च या । बहुलग्रहणान्नास्ति प्रवृत्तिरूभयोस्तयोः ।। 1.38. अतश्र्च यत्र द्वे अपि विशेषसंज्ञो, तत्रोत्तरपदे नित्यमेव द्विगुद्र्वन्द्वश्र्च समासो भवति ; तद्दयथा--पञ्चदवप्रिय इति, छत्रोपानहप्रिय इति । यत्र किञ्चत्सामान्यं कश्र्चिञ्च विशेषः, तत्र विकल्पेन; यथा--राजगवीक्षीरम्, राजगोक्षीरम् इति । यत्रैकतः सामान्यमन्यतो विशेषः, तत्र न भवत्येव; यथा--सुसूक्ष्मजटकेशेन सुनताजिनवाससा, इति ; अत्र बहुव्रीहिरिति विशेषसंज्ञायामवयोः "विशेषणं विशेष्येण बहुलम्" इति या समाससंज्ञा सा "सुप्सुपा" इति तत्पुरुषादिभेदापरानर्शेन भवन्ति सामान्यसंज्ञोत्युच्यते । ननु "द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम्" इति मबावार्तिककारः ; अयमपि च तत्पुरुष एवेति कस्माद#िहापि समासो न भवति ? उत्ततरपदोपादानात् उत्तरपद एवाम्नायते सोऽत्र तत्तपुरुषो ग्रहूतव्यः; यथा द्व्यढद्धठ्ठड़14;नजातः, पञ्चगवधनः इति । द्वन्द्वः पुरनुत्तरपद एवेति बहुव्रीहिविशयेणोत्तरपदेन सर्व एव गृह्यते । किमर्ते पुनर्वमुच्यते यावता बहुलग्रहणेनैव सिद्धम् ? सम#ुदायवृत्ताववयवामां मा कदाचिदवृत्तिर्भूदिति । तथापि न वक्तिव्यम्; इह द्वौ पक्षौ--वृत्तिपक्षश्र्च अवृत्तिपक्षश्र्च ; यदा वृत्तिः तदा सर्वेषां वृत्ति-, यदा तु न वृत्तिः तदा सर्वेषामवृत्तिः इति । नैवम् ; अस्त्यत्र विशेषः ; तथाहि--पञ्चगवप्रिय इत्यादौ नास्य पञ्चसंख्यामात्रं प्रियं नापि गोमात्रम्, किं तर्हि पञ्चसंख्योपलक्षिताः काश्र्चिदेव गावः, यथा पञ्चाम्राः सप्तर्षयः, इति । तञ्च द्विगौ पूर्वमसति दुरुपपादमेव भवति । एतेन छत्रोपानहप्रिय इत्यादौ नास्य पञ्चसंख्यामाक्षं प्रियं नापि गोमात्रम्, किं तर्हिपञ्चसंख्योपलक्षिताः काश्र्चिदेव गावः, यथा पञ्चाम्राः सप्तर्षयः, इति । तञ्च द्विगौ पूर्वमसति दुरुपपादमेव भवति । एतेन छत्रोपानहप्रिय इत्येतदपि व्याख्यातम् ; तत्रापि युगपदधिकरणवचनद्वन्द्वमन्तरेण नाभिवाञ्छितसिद्धिः । न ह्यस्यो पानन्मात्रमेव प्रियम्, अपि तु छत्रमपि ; उपानच्छब्दादेव च परः प्रियशब्दो निशम्यमानः न द्वन्द्वं विना छत्रमुपग्रहीतुं शक्नोति । तस्मादनाक्षेप इति । सुसूक्ष्मजटकेशादिना च मत्तबहुमातङ्कं वनम् इत्यदावप्यनेकमेव पदमित्यिक्तं भवति । अत्रापि मत्तबहुमातङ्गा इत्यापि न भवति । किं कारणम् ? "बहुगणवतुडड्डत्ध्;ति संख्या" झ्र्पा.1.1.23.ट इति बहुशब्दस्य संख्यावाचित्वात्, संख्यापूर्वस्य च कर्मधारयस्य द्विगुत्वात्, द्विगोः पुनः तद्धितार्थोत्तरपदसमाहोरेष्वेव भावात्, यथा पञ्चकपालः, त्रिलोकहम्र्यम्, पञ्चपूली इति । कथं तर्हि सप्तर्षयः, पञ्चाम्राः इति । "दिक्संख्ये संज्ञायाम्" झ्र्पा.2.1.50.ट इति संज्ञायामेव तद्भवति । ननु च नाभूत्तद्धितार्थः उत्तरपदं वा, तथाऽपि बहुमातङ्गमिति समाहारे भविष्यति--बहवो मातङ्गाः समाहृताः बहुमातङ्गम् ; ततश्र्च मत्तं बहुमातङ्गमस्मिन्वने तन्मत्तबहुमातङ्गं वनमिति बहुव्रीहिर्भविष#्यति । उच्यत-- अथ समाहार इति कः शब्दार्थः ? ननु समाङ्पूर्वाद्धरतेः कर्मणि घञ्--समाह्रियत इति समाहारः । यद्येवं पञ्च कुमार्यः समाहृताः--पञ्चकुमारि, दशकुमारि--इति "गोस्त्रियोरुपसर्जनस्य झ्र्पा.2.1.48.ट" इति हस्वत्वं न प्राप्नोति। समासार्थस्यानेकत्वात्, "द्विगुरेकवचनम्" झ्र्पा.2.4.9.ट इत्येतदपि वक्तव्यं भवति । एवं तर्हि भावसाधनो भविष्यति--समाहरणं समाहार इति । अथ भावसाधनेन किमभिधीयते ? यत्तदौत्तराधर्यम् । कः पुनः पञ्चदवं पञ्चपूली, इत्यादौ गवादीनां समाहारः ? यत्तदार्जनं, क्रयणम्, भीक्षणम्, अवहरणम् वा । यद्येवं विक्षिप्तेषु पूलेषु चरन्तीषु गोषु न सिध्यति । तर्हि समभ्याशीकरणं समाहारः । एवमपि पञ्चग्रामी, षण्णगरी, इत्यादेरनुपपत्तिः । किं कारणम् ? अभ्याशीकरणं समाहारः। शब्दे समिति समन्तादित्यभिविधौ वर्तते, आङाभिमुख्ये ; हरतिर्दशान्तरप्रपणे इत#ि । नावश्यं हरतिर्देशान्तरप्रापणे एव वर्तते । किं तर्हि ? साद्दश्येऽपि--मातुरमुहरति, पितुरनुपरतीति । अथ वा--पञ्चग्रामी, षण्णगरीति नेदमियत्येवावतिष्ठते, अवश्यं ह्यसौ ततः किञ्चिदाकाङ्क्षति, क्रियां गुणं वा ; यदाकाङ्क्षति तदेकं समाहार इति । अयं तर्हि , भावसाधने सति दोषः--पञ्चपूली आनीयतामिति द्रव्यस्यानयनं न प#्राप्नोति । नैष दोषः ; तद्याथा गौरनुबन्ध्योऽजोऽग्र्नीषोमीय इति जातौ चोदितायां तत्रासंभवादालम्भनप्रोक्षणविशसनादीन द्रव्ये भवन्ति, इहापि भावावयनस्यासंभवाद्द्रव्यस्यानयनं भविश्यति ; अव्यतिरेकाद्वा-न हि समूहिभ्यः समाहारलक्षणः समूहो व्यतिरिक्तो भवति। एव#ं तर्हि बहुमातङ्गमिति समाहारे, एष दोषो भवति--"अकारान्तोत्तरपदो दविगुः स्त्रियां भाष्येते" इति पञ्चपूलीवदूकारान्तत्वं प्राप्नोति ; न वाऽयं पात्रादिषु पठ्यते, येन चकुस्पात्रत्रिभुवनादिवत्तन्निषेधो भविष्यति ; नाप्याहन्तः, येन पञ्चखट्वी पञ्चखट्वम् इत्यादिवाद्विकल्पोऽवकल्पेत । ननु च द्विगावपीकारो न द्दश्यते, यथा एकपुत्रः एकभिक्षेति । नायं द्विगूः । किं तर्हि ? "पूर्वकालैकसर्वजरत्पुराण" झ्र्पा.2.1.49.ट इत्यादिना कर्मधारयः । किं च बोः संख्यापूर्वोऽपि द्विगुर्न भवति ? बाढम्, तस्य तद्वितार्थोत्तरपदसमाहारेष्वेव भावात् । न चेह तद्वितार्थ उत्तरपदं वा विगद्यते ; न चैकस्य समाहारः संभवति । यदा तु सामथ्र्यतिशयादेकस्मिन्नपि समूहारोपणं, तदा भवत्येव, यथा एकापूपी एकशाचीति । किं पुनर्द्विगुसंज्ञा प्रत्ययोत्तरपदयोर्भवति ? एवं तावत् । एतर्हीतरेतराश्रयत्वादप्रसिद्धिः । कथमितरेतराश्रयत्वम् ? द्विगुनिमित्ते प्रत्ययोत्तरपदे प्रत्ययोतरपदनिमित्ता च द्विगुसंज्ञेति । एवं तर्हि, अर्थ इति वक्ष्यामि । अर्थे चेत्तद्धितानुत्पत्तिः वहुव्रीहिवत् ; तत्र यथा चित्रगुः शबलगुः इति बहुव्रूहिणोक्तत्वान्मत्वात्तकद्धित#ोत्पत्तिर्न प्राप्नोति । यथेटच्छसि तथाऽस्तु ; अस्तु तावत् प्रययोत्तरपदोरिति । ननुक्तमितरेतराश्रयत्वादप्रसिद्धिरिति । नैष दोषः ; नेदं तुल्यमन्यैरितरेतराश्रयैः, शब्दानित्यत्वात् । ननु च न संज्ञा नित्या ; किं तर्हि ? शब्दाः । यद्येवं भाविनी संज्ञाविज्ञास्यते ; तद्यथा--कश्र्चित्तन्तुवायमाह, अस्य सूत्रस्य शाटकं वयेति ; स पष्यति--यदि शाटको न वातव्यः, अथ वातव्यो न शाटकः, शाटको वातव्यश्र्चेति विप्रतिषिद्धम्, भाविनि तु खल्वस्य संज्ञाभिप्रेता, स मन्यते--वातव्यं यस्मिन्नते शाटक इत्येतद्भनतीति । एवमिहापि तस्मिन् द्विगुर्भवति यस्याभिनिर्वृत्तस्य प्रत्ययः उत्तरपदमित्येते संज्ञे भविष्यत इति । अथवा पुनरस्त्वर्थ इति । ननु चोक्तमर्थे चेत्तद्धितानुत्पत्तिः बहुव्रीहिदिति । नैष दोषः ; नावस्यमर्थशब्दोऽभिधेय एव वर्तते ; किं तर्हि ? स्यादर्थेऽपि ; तद्यथा--दारार्थे द्विगुर्भवति, तद्धितः स्यादिति । द्विगोर्वा लुग्वचनं ज्ञपकम् ; यदयं "द्विगोर्लुगनपत्ये" (पा.4.1.88.) इति द्विगोस्तद्धितस्य लुकं शास्ति, तज्ज्ञापयति--उत्पद्यते द्विगोस्तद्धित इति । यद्येवं समाहारसमूहयोरविशेषात् समाहारग्रहणमनर्थकम्,"तस्य समूहः" (पा.4.2.37.) इति तद्धितार्थेनैवकृतत्वात् ; तथा हि समाहारः समुह इत्याविशिष्टावेतावर्थौ ; तत्र समूह इव समाहारोऽपि तद्धितार्थे द्विगुः इत्येव भविष्यति । यदि तद्धितार्थे द्विगुर्भवतीत्युच्यते, तद्धितोत्पत्तिः प्राप्नोति । उत्पद्यताम् ;लुग्भविष्यति । लुक्कृतानि प्राप्नुवन्ति । कानि पुनकस्तानि ? पञ्चपूली दशपूली इति ; , "न तद्धितलुकि" (पा.4.1.22.) इति ङीप्प्रतिषेधः प्राप्नोति ; पञ्चगवं दशगवमिति "गोरतद्धितलुकि" इति टच् न प्राप्नोति । नैष दोषः ; अविशेषेण द्विगोः ङीप् भवतीत्युक्त्वा अपरिमाणबिक्ताचितकम्बल्येभ्यः समाहारे इति वक्ष्यामि ; अविशेषेण च गोष्टच् भवतीत्युक्त्वा द्विगोः समाहारे इति वक्ष्यामि ; तदुभयमपि नियमार्थे भविष्यति समाहार एव नान्यत्रेति । एवं तर्हि, अभिधानार्थे समाहारगेरहणम् ; समाहोरेणाभिधानं यथा स्याते न तद्धितार्थेन । यदि स्यात् को दोषः स्यात् ? तद्धितोत्पत्तिः प्रसडड्डत्ध्;ज्येत । प्रसज्यताम् ; लुग्भविष्यति । लुक्कृतानि प्राप्न्रुवनति ।सर्वाणि परिहृतानि । न सर्वाणि परिह-तानि ; पञ्चकुमारि दशकुमारीति "लुक् तद्धितलुकि" (पा.1.2.49.) इति ङीपो लुक् प्रलज्यत इति । ननु च यदि तद्धितार्थे द्विगुः इत्युच्यते पञ्चखट्वः दशखट्वः इति मत्वर्थेऽपि द्विगुसंज्ञायां "द्विगोः" (पा.4.1.21.) इतीकारः प्राप्नोति । बहुव्रीहिसंज्ञया द्विगुसंज्ञाया बाधितत्वान्न भविष्यति ; समानाधिकरणानां मत्वर्थे बहुव्रीहिर्भवति । यद्युत्तरपदे द्विगुरित्यिच्यते, उत्तरपदोक्तिर्वक्तव्या । इयमुच्यते--"उत्तरपदेन परिमाणिना द्विगोः समासवचनम्"; दोवौ मासौ डड्डत्ध्;ातस्य द्विमासज#ातः, द्वे अहनी जातस्य द्व्यढद्धठ्ठड़14;नजात इति । किमुच्यते परिमाणिनैवेति, न पुनरन्यत्रापि ; तद्यथा--पञ्चगवप्रियः पञ्चगवधन इति । अन्यत्र समुदायस्य बहुव्रूहित्वादित्तरपदं प्रसिद्धमेव ; तथा हि--"अनेकमन्यपदार्थे" (पा.2.2.24.) समस्यते, बहुव्रीहिश्र्च समासो भवति । अथ द्वन्द्वस्य का वार्ता ? द्वन्द्वोऽग्रतो विशेषेण व्याकरिष्यत इति । अथ बहुभिर्बहुव्रीहिः-- "चञ्चद्भुजभ्रमितिचण्डड्डत्ध्;गदाभिघातसंचूर्णितोरुयुगलस्य" इति। (वेणीसंहारत्1.21.) 1.39 तत्र चञ्चद्भ्यां भूजाभ्यां भ्रमितायाश्र्चण्डड्डत्ध्;ाया गदायाः अभिघातेन संमचूर्णितमूस्युगलमस्येति विग्रहः । न चैतद्वाच्यं समानाधिकरणानामेव बहुव्रीहिः; "सप्तमीविशेषणे बहुव्रीहौ" (पा.2.2.35.) इति ज्ञापकेन वैयधिकरण्येऽपि बहुव्रीहेः स्मरणात् । एतेन सर्वपदप्रधानो द्वन्द्वोऽपि व्याख्यातः ; यथा-- "सूर्यानलानिलहिमांशुधनेशशक्रप्रेताधिनाथावरुणआः करुणास्पदं नः ।" इति ।। 1.40 ननु च अन्यपदार्थे बहुव्रीहिः स्मर्यत्ते ; तत्र चित्रगुर्देवदत्तः इति देवदत्तादेरनुप्रयोगो न प्राप्नोति ; न हि चैत्रादिशब्दप्रयोगादवधृतेषु चैत्रादिषु पुनश्र्चैत्रादिश्रुतयः प्रयुज्यन्ते । नैवम् ; चित्रगुशब्दः चित्रगमीनां स्वामिसामान्यमभिधत्ते ; तत्रावश्यं विशेषार्थिना विशेषोऽनुप्रयोक्तव्यः । चित्रगुः कः ? देनदत्त इति ; यत्र त्वसाधारणविशेषणादिभिर्विशेष एव समासः तत्रानुप्रयोगो न भवत्येव ; यथा--चित्रगु सर्वम्, चित्रगु विश्वम्, इति । सामान्यमपि यथा विशेषः ; तथा हि --यथा चित्रा गावो।#़स्य देवदत्तस्येति षष्ठ्यर्थस्य समासेनाधिनात् षष्ठी नानुप्रयुज्यते ; संबन्धी तु न समासोपादान इत्यनुप्रयुज्यते । एवं तर्हि, विभक्त्यर्थाभिधायिनो बहुव्रीहिपदस्य देवदत्तादिभिप्द्रव्यवचनैः सामानाधिकरण्यं न प्राप्नोति । मतुब्लोपाद्भविष्यति । मैवम् ; मतिपोऽपि संबन्धर्थत्वात् द्रव्यवचनैरसामानाधिकरण्यमेव । न च बहुव्रीहेः विभक्त्यर्थाभिधायिनो मतुपोऽपि विधातुं शक्यते ; स हि प्रथमासमर्थादस्त्युपाधिर्विधायते ; न च विभक्तयर्थवृत्तेप्बहुव्रूहिपदस्यास्त्यादिक्रियाभिः सामानाधिकरण्येन संबन्धो भवति। अथ, अभिहितः सोऽर्थोऽन्तर्भूतः प्रातिपदिकार्थः संपन्न इति सामानाधिकरण्यमुपपत्स्यते । तन्न ; अभिहितोऽप्यसौ यतो यत्रेत्यादिवन्न स्वरूपं हास्यति । एवं तर्हि, यथा--जातौ पदार्थे जातेः कार्यमुच्यमानमसंभवाच् तत्सहचरितासु व्यक्तिषु निविशते, तथा बहुव्रीह्यर्थे संबन्धे सामानाधिकरण्याक्रियायोगादिकार्ये प्रयुज्यमानं तदाश्रये भवि,#्यति ; एवं च सोऽयमित्युपचरितसंबन्धेषु संबन्धिषु बहुव्रीहिपदैरभिधीयमानेषु, शुक्लादिविशेषणानामिवाश्र्रयतो लिङ्गवचनान्यपि न विरोत्स्यन्ते । यदि वा, अवन्यपदार्थ इत्यर्थग्रहणसामथर्थात् सद#्रव्यस्य सलिङ्गस्य ससभ्ख्यस्य चोपादानं भविष्यति, न विभक्त्यर्थमात्रस्य । कथं पुनरर्थशब्दोपादानादयमर्थो लभ्यते ? श्रूयताम्--अन्यपद इतियत्युच्यमाने पदे वृत्त्यसंभवात् पदसहतरितां यां कांचिर्थमात्रां पदशब्दो लशयेत् ; पदत्वस्य वा निमित्ततवेन प्रत्यासन्न#ोपकरिणं विभक्त्यर्थे प्रत्याययेत् ; सोऽयमेवं सिचजद्धे समीहिते, यदर्थग्रहणं करोति तेनैतत् ज्ञापयति--यावानर्थश्रुतेः पदविषयोऽर्थः परिच्छेदायोपादीयते ; अर्था हि प्रकृत्यादीनां सामान्येन प्रसक्ताः पदेनावच्छिद्यन्ते पदावधिकोऽर्थ उपादेय इति ; तत्रयथा वाक्यार्थस्यानाश्रयणमाधिक्यात् तथा पदार्थैकदेशस्यापि, न्युनत्वात् । तदेवमर्थग्रहणसामथ्र्यात् सलिङ्गः ससङ्ख्यः सद्रव्यश्र्च समर्थः पदार्थः उपादीयते, तथा संख्याभिधायिनः स्वादयः लिङ्गाभिधायिनष्टाबादयो वा न प्रयुज्येत्, तथा संख्याभिधायिनः स्वादयः लिङ्गाभ#िधायिनष्टाबादयो वान प्रत्यज्येन् । उच्यते--एकादिपदैरिव वृत्तिपदैरभिहिताऽपि न संख्या संख्याकार्ये कविघ्नयिष्यति ; न हि षष्ठ्यदिविधान इव वचनविधावनभिहिताधिकारो विद्यते, कर्मादयश्र्च कारकविशेषाः प्रत्यययितव्य इत्यवश्यविधेया द्वितीयादयः ; प्रथमा तु वचनग#्रहणसामर्थयात् न केवला प्रकृत्#ः प्रयोक्तव्या इति समयाद्वा प्राथम्ककल्पिकी भविष्यति । स्यादेतत् ; यथा अभिहिता एकात्वादयो वचनव्यवस्थानिमित्तं तथआऽभिहितः संबन्धोऽपि षष्ठिनिमित्तं भवति । तदयुक्तम्, अनभिहिताधिकरात् । अपि च, संबन्धोपसर्जनं प्रातिपदिकार्थोवृत्तिशब्देनाभिधीयते ; न चायं षष्ठीविषयः, तस्याः प्रातिपदिकार्थोपलर्जने संबन्धे विधानात्। टाबादयस्तु स्वार्थिकत्वादभिहितेऽपि लिङ्गे भवन्ति ; तदुक्तम्--"सिद्धं तु स्त्रियाः प्रातिपदिकविशेषणत्वात् स्वार्थे टाबदयः" इति (महाभाष्यम्-4.1.1.1.) । यदि व#ान्य एव वाक्यार्थो वृत्तयर्थात् ; तथा हि--चित्रा गावोऽस्येत्यन्यपदार्थोपसर्जनाश्र्चित्रगव्यो वक्येनाभिधीयन्ते ; चित्रगुरिति पुनर्वृत्तौ गवार्थोपसर्जनस्वामीप्रतीयते ; तत्रल यदा निज्र्ञातपराधीनतानां स्वामिविशेषावच्छेदायान्यपदार्थ उपादीयते अस्यैता गाव इति, तदा बहुव्रीहिर्न भवति ; यदा तु ताश्र्चित्रा गावः स्वामिनो विशेषाभिधानाय प्रत्यवमृश्यन्ते--तित्रगवीनामासामयं स्वमीति, तदा बहुव्रीहिर्भवतिचित्रगुः शबलगुरिति ; तामेव च स्वामिविशेषणतां स्फटमुदर्शयन्तो निदर्शयन्ति--यस्य चित्रा गावः स चित्रगुः, यस्य शबलाः स शबलगुरिति । उपलक्षणं चात्र षष्ठी ; तेन कर्मकर्तृ#्परवचनेनाप्रथमाया अपि बहुव्रीहिर्वक्तव्यः--ऊढो रथोऽनेन ऊढरथोऽनड्ड्डत्ध्;वान्, उद्धृतः ओदनः अस्याः उद्धृतौदना सथाली, उपहृतः पशुः अस्मै उपहृतपशू रूद्धः साधकोऽनया सिद्धासाधका विद्येति । अथ अप्रथमाया इति किमर्थम् ? इह माभूत्--वृष्टे देवे गत इति । अथेह कस्मान्न भवति--वृष्टे देवे गतं पश्येति ? बहिरङ्गाऽत्राप्रथमा । यद्येवं षष्ठ्याद्यन्तरङ्गत्वे चित्रगोर्देवदत्तस्येत्यादौ पुनः षष्ठ्यादयः, तथा यतो यत्रेत्यादिभ्यः पञ्चमीसप्तम्यदयोऽपि कस्मान्न भवन#्ति ? उत्यते -- तसिल्त्रलादिभिः पञ्चमीसप्तम्यादीनाम- भिहितोऽर्थोऽनन्तर्भूतः । चित्रगुप्रभृतिषु तु बहुव्रीहिणाभिहितः सोऽर्थोऽन्तर्भूतः प्रातिपदिकार्थः संपन्न इति । अथेह बहुव्रूहिः कस्मान्न भवति--पञ्चबिर्भुक्तमस्य ? बहुव्रीहिः समानाधिकरणा- नामेवेति स्मरणात् । यद्यवम्, अस्तिक्षीरा, उञ्टैर्मुखः, अभार्यः, प्रपर्णः, उष्ट्ग्रमुखः, चन्द्रवदना, केशचूडड्डत्ध्;ः, सुवर्णालङ्कारः, चन्द्रशेशरः, शूलपाणिः, कण्ठेकालः, उर- सिलोम्ति बहुव्रि#ीहिसंज्ञा न प्राप्नोति ; तथा हि--आद्येषु चतुर्षु पूर्वपदमव्ययम्, तस्यास्तत्वचित्व#ात् सत्त्वभूतैः क्षीरादिभिः सह सामानाधिकरण्यं नास्ति ; मध्येष्वपि विशेषणविशेष्यबावानुपपत्तेर्न सामानाधिकरण्यं घटते ; अन्त्येषु तु सप्तम्यन्तप्रथमान्तयोरसामानाधिकरण्यं व्यक्तमेवेति । नैवम्, एतेष्वपि सामानाधि- करण्योपपत्तेः । तत्रास्तीति निपातो विभक्तिप्रतिरूप इति कालं पुरुषं संख्यां साधनं च न व्यभिचरति ; उञ्चैःशब्दस्यापि सत्त्ववचत्वं द्दश्यते--"किं पुनर्यस्तथोञ्चैः" इति ; अत एव एताभ्या- मस्थितविभाषया वृत्तिविषये द्रष्टव्यः ; तेनायमर्थः संपद्यते--अस्ति क्षीरमस्याः अस्तिक्षीरा गौः, उञ्च्रमुखमस्य इञ्चैर्मुखो मैत्रेयः, अविद्यमाना भार्य अस्य अभार्यः अविद्यमानभार्यो वा, प्रपतितानि पर्णानि अस्य प्रपर्णः, प्रपतितपर्णो वा। उष्ट्रमुखः चन्द्रवदना इत्येतयोस्तु उष्ट्रचन्द्रशब्दौ भूयोऽवयवसामान्ययोगातिशयादभेदोपचरेण मुखविशेषणं भवन्तौ गौणीं वृत्तिमनुभवतः। ननु किमुष्ट्रमुखयोर्मिथः साद्दश्यम् ? उष्ट्रशब्देनेहोष्ट्रमुखभिधीयते ; अवयवेऽप्यवयविवदुपचारो द्रष्टव्यः इति । केशचूडड्डत्ध्;ः सुवर्णालङ्कारः इत्येतयोस्तु केशशब्दो वर्तते, सुवर्णविकारे तु सुवर्णशब्दः, कारणे कार्योपचारात् । चन्द्रशेखरः शूलपाणिः इत्यत्र चन्द#्रशूलोपलक्षितौ शेखरपाणी चन्द्रशूलशब्दाभिधेयौ ; यथा--कुन्तानि प्रवेशय, यष्टीः प्रवेशयेति । कण्ठेकालः उरसिलोमा इत्यतयोस्तु कण्ठे स्थिताः कालाः अस्यः, उरसि जातानु लोमान्यस्येति पदान्तरमध्याह्रियते ; यथा--द्वारं द्वारम् इत्यक्ते अपाव्रियतां संव्रियतांवेति । एतेन "सुबधिकारे अस्तिक्षीरेत्युपसंख्यानम्" "अव्ययानां बहुव्रीहिर्वक्तव्यः" "सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्र्च" "समुदायविकारषष्ठ्यश्र्च" "प्रादिभ्यो धातुजस्य वा" (महाभाष्यम् 2.2.14.) इत्यपि न वक्तव्यं भवति । ननु परिगणनार्थमप्येतदवश्यं वक्तव्यम्, नैवम् ; क्रियमाणेऽपि बि परिगणने यत्राभिधानं नास्ति न तत्र समानाधिकरणानामपि बहुव्रीहिः ; तद्यथा--पञ्च भुक्तवन्तोऽस्येति । एवं तर्हि मत्वर्थग्रहणं करिष्यते--समानाधिकरणानां मत्नर्थे बहुव्रीहिर्भवतीति ; तथाऽपि, ऊढो रथोऽनेन ऊढरथोऽनङ्व#ान्, दक्षिणस्यश्र्च पूर्वस्याश्र्च दिशो यदन्तरालं सा दक्षिणपूर्वा, पुत्रेण सह सपुत्रः, केशेषु केशेषु च गृहीत्वा प्रवृत्तं युद्धं केशाकेशि, दण्डैड्डत्ध्;श्र्च दण्डैड्डत्ध्;श्र्च प्रहृत्य दण्डड्डत्ध्;ादण्डिड्डत्ध्;, त्रिर्दशैते त्रिदशाः, इत्येवमादिभिव्याप्तिरेव । तस्मात्सुदूरमपि गत्वाऽभ#िधानमेवाश्रयितव्यम् ; अभिधानलक्षणा हि कृत्तद्धितसमासा इति कृतं परिगणनेन । अथ त्रिदशा इति कोऽस्य विग्रहः? त्रिर्दशैते त्रिदशा इति । "संख्यासमासे सुजन्तस्य संख्येत्य्परसिद्धिः इति ; न हि सुजन्ता संख्याऽस्ति । अस्तु तह्र्यवं विग्रहः--त्रयो दशत एते त्रिदशा इति । एवमप्यत्कारान्तस्य संख्येत्यप्रसिद्धिः ; न चात्र समासे सुचं पश्यामः । किं तर्हि ? वाक्ये । कुतः पुनरेतद्वाक्ये सुच् द्दश्यते ? अभिहितत्वात् ; अभिहितः सुजर्थः । केन ? समासेन । किं च भोः खुजर्थे समास उच्यते ? नैवम् ; सामथ्र्यादिह सुजर्थो गम्यते । कथम् ? यावता संख्ययते, स च क्रियाभ्यवृत्त्यर्थ उक्तः समासेनेति कृत्वा सुज् न भविष्यति " (महाभाष्यम् 2.2.25.)।। प्रकृतिः प्रातिपदिकरूपाऽप्येषोपवर्णिता। स्वरूपं प्रत्ययादीनां पृथक् पृथगथोच्यते।। 1.41 तत्र प्रतीयते अनेनार्थ इति प्रत्ययः ; स त्रिधा--धातुप्रत्ययः, प्रत्ययप्रत्ययः, प्रातिपदिकप्रत्यय इति । तेषु सनादयः, तुनुनादय, तव्यादयः, ण्वुलादयः, उणादयश्र्चेति धातुप्रत्ययभेदाः । तत्र इच्छाप्रत्यजकव्यपारादजिक्रियासु क्रियासमभिहारादिषु च ये विधियमानाः क्रियावचनत्वात् भूवादिवदेव प्रत्ययान्तरमपेक्षन्ते ते सनादयः ; यथा--चिकीर्षति, अध्यापयति, पापच्यते, गोपायति, ऋतीयते, कामयते, इति । क्रियाप्रधानाः कर्तृकर्मणोः क्रियायां च ये विहिताः साद्यरूपापन्नक्रियाभिधियित्वेन प्रत्ययान्तरं नापेक्षन्ते ते तिबादयः ; यथा--व्रजति देवदत्तः, पच्यते ओदनः, रज्यति वस्त्रम्, सूयेत केदारः, चोरस्य रुजति, आस्यते युषमाभिः इति । अनुपात्तक्रमक्रियाभिधायिनोऽसत्त्वभूतार्थाः साध्यभावे ये विधीयन्ते ते तुमुनादयः ; यथा--पक्तुमिच्छति, भक्त्वा व्रजति, अधीत्य स्त्र्नाति, पाय#ंपायमास्ते, चोरंकारमाक्रेशति, चकासाञ्चकार इति । प्रयेण भावकर्मणोः कत्र्रादिषु च ये विधीयन्ते ते तव्यादय- ; यथा गन्तव्यं भवता, करणीयः कटः, कतो भवता, लूयमानः केदारः, दुर्गमो मार्गः, वास्तव्यो लोक इति । प्रयेण कर्तरि कर्मादिषु च ये विधीयन्ते ते ण्वुलादयः; यथा पाचकः पुमान्, सोमं पवमानः, पचन्यवागूम्, कन्यामलङ्करिष्णुः, पादहारकः पङ्कः, प्रियंकरणं शीलम्, इति । सर्वकारकेषु सिद्धभावे च ये विधीयमानाः प्रयेण द्रव्यवचनत्वं लभ्यते ते उणादयः ; यथा--शीतो वायुः वत्सला धात्री, तीश्र्णं दात्रम्, वृद्ध उपाध्यायाः ; रम्यः प्रासादः, पाको वर्तते इति । यदादयः, घादयः, मबादयः, फगादयः, युजादयः, ढगादयश्र्चेति प्रत्ययप्रतययभेदाः । तेषु भवापत्यस्वार्थमत्वर्थादिषु सुबन्तोभ्यो य उत्पद्यन्ते ते यदादयः, यथा--अप्सव्यः, पूर्वाढद्धठ्ठड़14;णोतनम्, चिरंतनम्, आमुष्यायणः, त्वयका, शुभंयुः इत#ि । प्रकर्षापकर्षकुत्साप्रशंसादिषु तिङन्तेभ्यो य उत्रद्यन्ते ते घादयः, यथा--पचतितराम्, गच्छतितमाम्, जल्पतिकल्पम्, स्पृशतिदेश्यम्, पचतकि, पचतिरूपम्, इति । निवृत्तस्वार्थमत्वर्थादिषु कृद्भ्यो य उत्पद्यन्ते ते मबादयः ; यथा--कृत्रिमम्, पाकिमम्, सांराविणम्, गच्छतितमाम्, जल्पतिकल्पम्, स्पृशतिदेश्यम्, पचतकि, पचतिरीपम्, इति । जीवद्वंस्य्परशस्तकुत्सितस्वार्थदिषु अपत्यादितद्धितान्तेभ्यो य उत्पद्यन्ते ते फगादयः ; यथा--गाग्र्यायणः, दाक्षायणः, वाष्र्यायणीयः, वाष्र्यायणिकः, आभिजित्यः, कौञ्जायन्यः इति । सिद्धभावताच्छील्योपाधिकत्र्रादिषु णिजादिधातुप्रत्ययान्तेभ्यो उत्पद्यन्ते ते युजादयः ; यथा--कारणा, अटाट्या, यायजूकः, सासहिः, यायावरः, चिकीर्षुः इति । अपत्यद्यर्थस्वार्थशक्तिसंख्यादिषु स्त्रीप्रत्ययान्तेभ्यो य उत्पद्यन्ते ते ढगादयः ; यथा--गाङ्गेयः, यौवतेयः, वाराणसेयः, सुवधुकः, नद्याम्, खट्वायाम्, युवतयः, इति । टाबादयः, स्वादयः, तसिलादयः, कादयः, अणादयः, क्यजादयश्र्चेति प्रातिपदिकप्रत्ययभेदाः । तेषु प्रकृतिसिङ्गाभिधायिनः प्रातिपदिकद्य उत्पद्यन्ते ते टाबादयः ; यथा--खट्वा, सुदामा, कारीषगन्ध्या, ब्रह्मब्धूः, कुमारी, युवतिः, इति । प्रकृत्यर्थसंख्याभिधायिन- प्रतिपदिकादेव य उत्पद्यन्ते ते स#्वादयः ; यथा--कुण्डंड्डत्ध्;, कुण्डेड्डत्ध्;, कुण्डड्डत्ध्;ाभ्याम्, कुण्डेड्डत्ध्;भ्यः, कुण्डड्डत्ध्;योः, कुण्डेड्डत्ध्;षु, इति । शक्तिमात्राभिधायिनः सोपाधिशक्त्यभिधायिनो वा सुबन्तप्रातिपदिकात् स्वार्थादिषु य उत्पद्यन्ते ते तसिलादयः ; यथा--यतः, यत्र, कदा, पुरस्तात्, बहुशः, पुरुत्रा वसतीति । कुत्स#ाप्रशंसातिशयानतिशयाद्युपीधेरनुपाधेश्र्च सुबन्तादेव प्रातिपतिकात् स्वार्थादिषु य उत्पद्यन्ते ते कादयः ; यथा--अश्वकः, युष्मकाभिः, वैयाकरणरूपः, पटुतरः, कुतीरः, तार्तीयीकम्, इति । मलर्थप्रातिपदिकात् संबन्धिकारकभावेषु य उत्पद्यन्ते ते अणादयः, यथा--औपगवः, तावकीनः, आक्षिकः, वामदेव्यम्, ब्राह्मणत्वम्, पौरोहित्यम्, इति । कर्मादिकारकोपहितक्रियेच्छाचारच्व्यर्था- दिषु समर्थादेव प्रातिपदिकाद्य उत्पद्यन्ते ते क्यजादयः ; यथा--चित्रीयते, पुत्रकाम्यति, श्येनायत्, लोहितायति, कण्डूड्डत्ध्;यते, मुण्डड्डत्ध्;यति, इति ।।
1.42 प्रकृतिप्रत्ययानामुरसर्गोपहागमलोपवर्णविकारविकरणादिरूपः संस्कारः उपस्कारः । स च त्रिधा--प्रकृत्यस्कारः, प्रत्ययोपस्कारः, उभयोपस्कारश्र्चेति । ते पुनर्भूषणसमवायाध्याहारवै- कृतयत्नप्रतियत्नभेदात् प्रत्येकं षट्प्रकारा भवन्ति । तत्र प्रकृतेर्भूषणरूपा न#िरर्थकोपलर्गस्वार्थिकवैकल्पिकादयः ; यथा--अध्यागच्छति, पर्यागच्छति, प्रलम्बेते, निखञ्जति इति ; यावकः, षाड्ड्डत्ध्;गुण्यम्, औपयिकम्, मानसम्, इति ; आली, मृद्वी, कमण्डड्डत्ध्;लूः, चञ्चूः, इति । समवायरीपाः सार्थकोपसर्गसनूक्यङादयः, यथा--आशास्ते, प्रतिष्ठते, सुमनायते, दुर्मनायते, इति ; जुगुप्सते, गोपायते, ऋतीयते, कामयते, इति ; पुत्रीयति, पुत्रकाम्यति, श्येनायते, मुण्डड्डत्ध्;यति इति । अध्याहाररूपाः सहाभिधायकोपसर्गद्विर्वचनसुडड्डत्ध्;ागमादयः ; यथा--अधीते, अध्येति, अनुरुध्यते, संग्रामयते, इति ; जञ्जप्यते, संपनीपद्यते, अरार्यते, उन्दिदिषति इति ; इपस्कुरुते, अपप्तत्, आस्थत्, मध्वस्यति, इति । वैकृतरूपाः वर्णव्यत्ययविषर्ययापायादयः ; यथा--न्षिञ्चति, प्रणयति, यन्ति, उशन्ति इति ; तरूः, सिंहः, सिकाता, सक्तवः इति ; सन्ति, घ्नन्ति, द्यन्ति, समगत, इति । यत्नरूपाः इपचयप्रसवसमवृत्यादयः ; यथा--यौति, मेद्यति, दीव्यति, निगूहति इति ; कीर्यते, पूर्वते, सौधातकिः, स्वायंभुवम्, इति ; आस्त, आस्ते अवोचत्, घटयति, इति । प्रतियत्नरूपाः विशेषादेशाविधिनिषेधादयः ; यथा--आह, अघसत्, वध्यात्, अध्यगीष्महि, इति ; जप्यः, पित्र्यम्, गव्यम्, नाव्यम्, इति ; तितउः, प्रउगम्, कोकूयते, कथयति, इति ।।
1.43 प्रत्ययस्य भीषणरूपाः इडड्डत्ध्;सुगीककादय- ; यथा--सहिता, वरिता, भ्रुवै, भ्रूणाम्, इति ; देवासः, पारयामसि, तारिषत्, भवाति, इति ; तार्तीयीकम्, पीत्वाय, त्वयका, पचतकि, इति । समवायरूपाः स्यसिचूसीयुडड्डत्ध्;ादयः ; यथा--करिष्यति, अकरिष्यत्, वक्ती, ब्रवीति, इति । अध्याहाररूपाः प्रत्ययार्थविशेषकोपसर्गमप्तरबादयः ; यथा--सुमनायते, दुर्मनायते, अभिमनायते, अभिषेणयति, इति ; कृत्रिमम्, सांराविणम्, व्यावहासी, कौञ्जायन्यः, इति ; पचतितराम#्, पचमानः, सर्वेषां, वृक्षाणाम्, इति । वैकृतरूपा आदेशसर्वादेशप्रत्ययादेशादयः ; यथा--गाग्र्यायणः, चान्द्रमसायनिः, गौधेरः, कौलेयक-, इति ; पवनः, पावकः, वृक्षस्य, वृक्षैः, इति ; वेद, विवेद, विद्वन्, विद्धि, इति ; दद्दशे, अद्राक्षीते, कारकः, कामण्डड्डत्ध्;लेय#ः, इति ; अग्निचित्, शुभंयाः, मूलखाः, अश्वति, इति ; उदपादि, राष्ट्रियः, आग्नेयः, स्त्रैणम्, इति ; सुभ्रूः, सुप्रेयसी, व्यतिहसन्ति, व्यतिगच्छन्ति इति । उभयोप्भूषणरूपा युष्मत्प्रभृतिप्रयोगादय- ; यथा--त्वं पचसि, युवां पचथः, यूयं पचथ, अहं पचामि, आवांपचावः, वयं पचामः, वायुर्वाति, देवो वर्षति, भज्यते शास्त्र स्वयमेव, अवकिरते हस्ती स्वयमेव, भीषयते कन्या स्वयमेव, ब्रूते कथा स्वयमेवेति । समवायरूपा विकरणादयः ; यथा--भवति, चोरयति, दीव्यति, सुनोति, तुदति, तनोति, रुणाद्धि, क्रिणाति, स्वयं नमते, स्वयं दुग्धे, तप्यते तपः, लूयते केदारः इति । अध्याहाररूपाः द्विरुक्त्यादय- ; यथा--पायं पायं, पचतिपचति, ग्रामो ग्रामो रमणीयः, मूले मूसे स्थूलाः, अग्रे अग्रे सूक्ष्माः, पूर्वं पूर्वं पुष्यति, प्रथमं प्रथमं पच्यते, ज्येष्ठं ज्येष्ठमुवेशय, माषं माषं देहि, उपर्युपर्यास#्ते, अहिरहिः बुध्यस्व इति । वैकृतरूपा वांनावादयः ; यथा--ग्रामो वां, ग्रामो वः, ग्रामो नः, ग्रामो मे, ग्रामस्त्वा रक्षत्, ग्रामो मा रक्षत्, हैयङ्गवीनम्, मातुलः, क्षत्रयः, श्रोत्रियः इति । यत्नरूपा अनुप्रयोगादयः ; यथा--अग्निसात् संपद्यते, भस्मसाद्ङवति, ब्राह्मणसात् स्यात्, देवत्रा करोति ; मत्र्यत्रा गच्छति, मनुष्यत्रा वसति, शुक्लीभवति, पटपटातरोति, चकासांचकार, कारयामास, बिभंबभूव, विदांकुर्वन्तु इति । प्रतियत्नरूपा विध्यनुप्रयोगादयः ; यथा--रैपोषं पुष्यति, समूलकाषं कषति, जीवग्राहं गृढद्धठ्ठड़14;णाति, पुरूषवाहं वहति, ऊध्र्वशोषं शुष्कः, चूडड्डत्ध्;कनाशं नष्टः, ओदनपाकं पक्वः, सुवर्णनिधायं निहितः, लुनीहि लुनीहित्येवायं लुनाति ; अधीष्वाधीष्वेत्येवायमधीते ; राष्ट्रमट मठमट दूरमटेत्येवायमटति, सकतून् पिभ धानाः स्वाद ओदनं भुङ्क्ष्वेत्येवायमभ्यवहरति, इति । उपस्कारविषशेष एवप्रकृतिसमीपोञ्चारितं पदमुपपदम् ; तत् त्रिधा--तिङुपपदम्, कृदुपपदम्, सुहुपपदं च । तेषु प्रथमं क्रियारूपम्, कारकरूपम्, नामरूपम्, अव्ययरूपम्, निपातरूपम्, उपसर्गरूपं च । तेषु क्रियारूपं यथा--एहि मन्ये रथेन यास्यसि, न मर्षयामि यत्तत्रभवान्, वृषलं याजयेत् । क#ारकरूपं यथा--अश्वेन संचरते, दास्या संप्रयच्छते । नामरूपं यथा--कालो यद्भुञ्जीत भवान्, समयो यद्भुञ्जीत भवान्, वेला यद्भुञ्जीत भवान् । अव्ययरूपं यथा--कथं नाम तत्रभवान् लृषलं याजयेत्, नमते दण्डड्डत्ध्;ः स्वयमेव । निपातरूपं यथा--यद्भुङ्क्ते, पुरा व्रजति, भोचको व्रजति, गोदायो व्रजति, कर्तुमच्छति इति । कारकरूपं यथा-- कुम्भकारः, उत्तनशयः, शय्योत्थायम्, मूलकोपदंशम्, इति । नामरूपं यथा--कालो भोक्तुम्, समये भोक्तुम्, ब्रह्मभूयम्, ब्रह्मोद्यम् इति । अव्ययरूपं यथा--दिवाकरः, दोषाकर-, मृषोद्यम्, ईषत्पानः, इति । निपातरूपं यथा--अलं कृत्वा, खलु कृत्वा, यावद्वेदम्, अन्यथाकारम्, कारकरूपम्, नामरूपम्, अव्ययरूपम्, निपातरूपम्, गोषु दुह्यमानासु गतः, क्रोशतः प्राव्राजीदिति । कारकरूपं यथा-- चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम्। केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः।।
1.44. केशेषु प्रसितः, ब्राह्मणेषु भुञ्जानेषु वृषला आसते, वृषलेष्वासीनेषु ब्राह्मणा भु#्जते, इति । नामरूपं यथा--गवां स्वामी, अन्नस्य हेतोर्वसति, पित्रा सद्दशः, शिवं प्रजाभ्यः इति । अव्ययरूपं यथा--समया ग्रामम्, सह च्छात्रेण, नमो देवेभ्यः, दक्षिणाहि ग्राम#ात् इति । निपातरूपं यथा--हे देवदत्त, हा देवदत्तम्, विना विष्णुमित्रेण, ऋते यज्ञदत्तात् इति । कर्मप्रवचनीयरूपं यथा--वृक्षमनु विद्योततो, उपार्जुनं योद्धारः, अधि ब्रह्मदत्तेपञ्चालाः, अधि पञ्चलेषु ब्रह्यदत्त इति ।
प्रकृतिप्रत्ययोवेवमुपस्कारश्र्च दर्शितः। क्रमादुपपदस्यापि स्वरूपमुवर्णितम्।।
अव्ययानि निपाताश्र्च गतयश्र्च निरीपिताः। कर्मप्रवचनीयाश्र्च सोपसर्गाः प्रकाशिताः।।
न केवलेह प्रकृतिः प्रयिज्यते न केवलाः सुप्तिङजण्क्यजागदयः। भवत्युपस्कार इहापृग्द्वयो- द्र्वयार्थमेवोपपदं प्रयुज्यते।। ।।
इति महाराजाधिराज श्रीभोजदेवविरचिते शृङ्गारप्रकाशे प्रकृत्यादिप्रकाशो नाम प्रथमः प्रकाशः।।