शृङ्गारप्रकाशः/पञ्चमः प्रकाशः

विकिस्रोतः तः
Jump to navigation Jump to search

पञ्चमः उपाध्याद्यार्थचतुष्टयप्रकाशः 5.1. प्रकृत्य्रथप्रत्ययार्थदेषु कारकाणां प्रवृत्तिविशेषः क्रिया ; तामनुपहितां कृभ्वस्तयो वदन्ति । तेषां परस्परमसंभेदाभ्यां साम्योत्कर्षापकर्षजन्मानः द्वादश धात्वर्थभेदाः क्रिया भवन्ति । तद्यथा--अकर्मकाः, अन्तःकर्मकाः, अर्थानतरकर्मकाः, अविवत्रितकर्मकाः, प्रसिद्धकर्मकाः, द्विकर्मकाः, प्रसिद्धकर्तृकाः, भावकर्तृकाः, कर्मकर्तृकाः, कर्तृस्थक्रियाः, कर्मस्थक्रियाः, उभस्थक्रियाश्चेति । ते चापरिस्पन्दसपरिस्पन्दभेदात् प्रत्येकं द्विधा भूत्वा चत#िर्विंशतिर्जायन्ते । तत्र स्वभावतोस्तिः तदुदासीनकर्तृकत्वादपरिस्पन्दः ।करोतिः प्रयुञ्चानकर्तृकत्वात्सपरिस्पन्दः । भवतिः विकुर्वाणकर्तृकत्वात्सपरिस्पन्दापरिस्पन्द इति स्थितम् । अतोऽस्त्यर्थाश्च न्यग्भवतयो न्यगस्तयश्चाकर्मका भवन्ति । तेषु पूर्वे अपरिसम्पन्दा यात--भिद्यते, स्वदते, वर्तते, प्रीयते इति । उत्तरे सपरिस्पनदाः यथा--जायते, विवर्धते, स्फरतीति । त एव न्यक्करोतयोऽन्तः कर्मकाः ; तेषु पूर्वे अपरिस्पन्दाः यथा--जीवति, म्रियते, पुत्रीयते, प्राणितीति । उत्तरे सपरिस्पन्दाः यता--नृत्याति, श्वसिति, वाष्पायते, रोदितीति । अस्तिकरोत्यर्थाः करोतिभवत्वर्थाश्चार्थआन्तरकर्मकाः । तेषु पूर्वे अपरिस्पन्दाः यथा--तरति काष्ठं, तरति विपदं विपर्यस्ति मतिं, विपर्यस्यति हस्तमिति । उत्तरे सपरिस्पन्दाःयथा--वहति भारं, पतति पर्णम्, पतत्यध्वानमिति । अत एवनुत्करोतयोऽपि विवक#्षितकर्मकाः । तेषु पूर्वे अपरिस्पन्दाः यथा--संज्ञा संज्ञिन्यभिनिविशते, बुद्धिस्तत्त्वमभिनिविशते, तीर्थे उपवसति, त्रिरात्रमुपवसतीति । उत्तरे सपरिस्पन्दाः यथा--चैत्रो हसति, मैत्रो हसति, चक्रं भ्रमति, देशाद्भ्रमतीति । उत्करोतयस्तु, त एव प्रसुद्धकर्मकाः । तेषु पूर्वे अपरिस्पन्दाः यता--वपतीत्युक्ते बीजमिति गम्यते, परिणयतीत्युक्ते कन्यामिति गम्यत इति । उत्तरे सपरिस्पन्दाः यथा--कृषतीत्युक्ते क्षेत्रमिति गम्यते, प्रसूत इत्युक्ते गर्भमिति गम्यत इति । सत्येवोत्करोतित्ने न्यगास्तयो न्यग्भवतयश्च त एव द्विकर्मकाः ।तेषु पूर्वे अपिरस्पन्दाः यथा--लिङ्गे लिङ्गिनमवगमयति ज्ञातारं, जयति शतमश्वानश्वसेनमिति । उत्तरेसपरिस्पन्दाः यथा-- गां दोग्धि पयः, वृक्षमपचिनोति फलानीति । एवमेते षट् वियोदविकल्पाः परं त्रियोगविकल्पाः षड्ड्डत्ध्;भवन्ति । तत्रोदस्तय उद्भवतयो वा प्रसिद्धकर्तृकाः । तेषु पूर्वे अपरिस्पन्दाः यथा-- दहतीतियुक्ते वढिद्धठ्ठड़14;नरिति गम्यते । उत्तरे सपरिस्पन्दाः यथा--कूजतीत्युक्ते पुक इ#ित गम्यते, हेषत इत्युक्ते असश्व इति गम्यत इति । न्यग्भवतिकरोतयो न्यगस्तिकरोतयो वा भावकर्तृकाः । तेषु पूर्वे अपरिस्पन्दाः यथा--चेरस्य रुजति, चोरस्यामयति, चोरं ज्वरयति, चोरं संतापयतीति । उत्तरे सपरिस्पन्दाः यथा--भवति पक्ष्यति, भवत्यपाक्षीत्, भवेदपि भवेत्, स्यादपि स्यादिति । उदस्तिन्यक्करोतय उद्भवतिन्यक्करोतयो वा कर्मकर्तृकाः । तेषु पूर्वे अपरिस्पन्दाः यथा--दुग्धे गोस्स्नॉवयमेव, प्रसूते गौस्स्वयमेव, वृण#ीते कन्या स्वयमेवेति । उत्तरे सपरिस्पन्दाः यथा--अवाकिरते हस्ती स्वयमेव, उच्छ्रयते दण्डड्डत्ध्;स्स्वयमेव, नमते दण्डड्डत्ध्;स्स्वमेव, आरोहयते हस्ती स्वयमेवेति । उदस्तकरोतयः उद्भवतिकरोतयो वा कर्तृस्थक्रियाः । तेषु पूर्वे अपरिस्पन्दाः यथा--अर्हति पूजां, जानाति वर्णे, पश्यति रूपं, शृणोति शब्दमिति । उत्तरे सपरिस्मपन्दाः यथा--गच्छति ग्रामं, आरोहयत्याश्वमिति । न्यग्भवत्युत्करोतयो न्यगस्त्युत्करोतयो वा कर्मस्थाक्रियाः । तेशु पूर्वे अपरिस्पन्दाः यथा--दुनोति शत्रुं, धिनोति मित्रं, मदयति सुहृदं, सुखयति सखायमिति । उत्तरे सपरिस्पन्द#ा#ः यथा--पचत्योदनं, भिनत्ति कुसूलं, संक्ष्णुते श्लक्ष्णयते वा शस्त्रं, तक्ष्णोति वा उभयस्थक्रियाः ।तेषु पूर्वे अपरिस्पन्दाः यथा--लभते पूजां, प्राप्नोति धर्मं । उत्तरे सपरिस्पन्दाः यथा--भुङ्क्त ओदनं, अधीते स्वाध्यायं, तप्यते तपः, साधयति स्वर्गामिति । 5.2. ननु च, भवति पक्ष्यति, भवत्यपाक्षीत्, भवेदपि भवेत्, स्यादिपि स्यादिति नैतानवस्तिभवत्यर्थावपि तु साक्षादस्तिभवती । तौ चानुपहितक्रियाभिधायकाविति नोपाधीभवितुमर्हतः । उच्यते, असभुवि, भूसत्तायामिति धातुपाठादनुप्रयोगवर्जमार्धधातुकेऽस्तेर्भूविधानात्सङ्कर#ः एवेति विज्ञायते । एवमपि कारोत्यर्थानुप्रवेशो दुरुपपादः । सोऽपि कर्तृत्वान्वयथानुपपत्तेरुपपद्यते । 5.3. ननु च, भवति पक्ष्यति, भवत्यपाक्षीदीत्ययं लट् प्रयोग एव । अस्तिगच्छामो वयमिति च अस्तिप्रयोगोऽपि भावकर्तृकेषु दृश्यते । नैवम् ; नास्माभिरस्तिभवती भावकर्तृकावुच्येते । अपि तु अस्तिभवति कर्तारोऽस्त्यादयः पचत्यादययश्च । ते हि रुजात्यादिवदुपधिरा अप्यस्तौ कर्तारो भवन्ति । एतावांस्तु विशेषः रूजादीनां कर्तृत्वं तत्परेणैव लकारेणोच्यते । पचादीनां च भवत्यस्तिपरेणेति ; यथा च धात्वर्थः क्रियोषाधिरेवं कालेपि । यदुक्तम् --- कियापाधिश्च संभूतभाविष्यद्वर्तमानताः । परापरविभागार्थास्सशक्तिः प्रतिपद्यते ।। 5.4. स भूतादिभेदाद्धादशाधा । तद्याता--भूतः,भूतानद्यमॉतनः, भविष्यत्, भविष्यदनद्यतनः, वर्तमानः, वर्तमानानद्यतनः, परोक्षः, अतपन्नः, अव्यक्तः. सङ्कीर्णः, प्रकीर्णः, विप्रकीर्ण इति । लुङादिविषशयोऽष्यतीतमात्रं भूतः ; स षोढा--भूतः, प्रकर्षभूतः, भूतानद्यतनः, अभिमानाद्यतनः, प्रबन्धाद्यतनः, सामीप्याद्यतनः इति । तेष्वनिर्धारितविशेषो भूतो यथा-अकर्षीत्, निषसाद, उवास, शुश्राव, अपक्त, पक्तवानिति । शब्दान्तरावगतप्रकर्षादनवेक्षितानद्यतनपरोक्षादिप्रत्ययः प्रकर्षभूतः यथा--अवात्सुरिह पुरा च्छात्राः । विवक्षितान्यावधिर#्भूतानद्यतनः, यथा---अन्यामगामघोषात् । रात्रिशेषो जागरणसंततावभिमानानद्यतनः, यथा--अमुत्रावात्सम्, कॉसकलां रातिं्र जागरितः, रात्रेरभात्तवादद्यतनमिन कालं मन्यते। अविवक्षितक्रियाविरामः प्रबन्धाद्यतनः ।यथा--यावज्जीवं भृषमन्नमदात् । विवक्षितक्रियानन्तर्यः सामूप#्याद्यतनः सामीत्याद्यतनः । यथा--येयं गता पौर्णमासी अस्यामुपाध्यायोऽग्नीनादधीत । अत्रानन्तरयोर्नाऽनद्यतनवत् क्रियाप्रबन्धसामीप्ययोरिति स्मर्यते । एवं लङ्निमित्तमविद्यमानाद्यतनो भूताद्यतनः । स षोढा--सामान्यानद्यतनः, विशेषानद्यतनः, अभिज्ञानद्यतिनः, प्रसिद#्धापरोक्षः, प्रश्नापरोक्षः, हशश्वदपरोक्ष इति । तेष्वविवक्षितपरोक्षत्वादिः सामान्यानद्यतनः । यथा--यावज्जीवं भूशमन्नमदात् । विवक्षितक्रियानन्तर्यः सामीपयाद्यतनः । यथा--येयं गात पौर्णमासी अस्यामुपाध्यायोऽग्नीनादधीत । अत्रानन्तरयोर्वाऽनद्यतनवत् क्रियाप्रबन#्धसामीप्ययोरिति स्मर्यते । एवं लङ्निमित्तमविद्यमानाद्यतनो भूतानद्यतनः । स षोढा--सामान्यानद्यतनः, विशेषानद्यतिनः, अभिज्ञानद्यतनः, प्रसिद्धपरोक्षः, प्रश्नापरोक्षः, हशश्वदपरोक्ष इति । तेष्वविवक्षितपरोक्षत्वादिः सामान्यानद्यतनः । यथा--अकरोत्, अशृणोत्, न्यषीदत्, अमुत्रावसम्, आसीदिदं तमो भूतं, रामो वनमगच्छादिति । पदान्तरावगतपरोक्षत्वादिविशेषो विशेषावद्यतनः । यथा--अवसन्निह पुरा छात्राः । न यदीत्याभिज्ञावचनं लृडड्डत्ध्;पवादोऽबिज्ञानद्यतनः, यथा--स्मरति देवदत्त काश्मीरेषु यदवसमाम । लोकप्रसिद्धेरारोपितापरोक्षाभिमानः प्रसिद्धपरोक्षः, यथा--अजयज्जयन्तो हूणान् । प्रश्नोपभूक्तपरोक्षत्वं प्रश्नापरोक्षः, यता--किमगच्छद्देवदत्तः । हशश्वदर्थोपक्षीणापरोक्षत्वे हशश्वदपरोक्षः, यथा--इति हाकरोत् शश्वदकरोदिति । अनागतमात्रं लृडड्डत्ध्;ादिविषयो भविष्यत्प्रबन्धाद्यतनस्सामीप्याद्यतनः प्रविभागाद्यतन इति । तेष्वनिर्धारितानद्यतनादिः सामान्यभविष्यत्, यथा-- करिष्यति, बलिरिन्द्रो भविष्यति, कदा गमिष्यति ? एष गमिष्यामि, पक्ष्यन् व्रजति, पाचको व्रजतीति । निर्धारिताद्यत्वविशेषो विशेषबाविष्यति, यथा--अद्य गमिष्यामीति । अविवक्षितक्रियाविरामः प्रबन्धाद्यतन#ः, यथा--यावज्जीनं भृशमन्नं दास्यतीति । विवक्षितक्रियानन्तर्यस्सामूप्याद्यतनः, यथा--येयमागामिनी पौर्णमासी अस्यामुपाध्यायोऽग्नीनाधास्यतीति । भविष्यति मर्यादावचने परस्मिन्कालविभागेचानहोरात्राणां परस्मिन्विभाषेति प्रविभागानद्यतनः, यथा--योयमध्वा गन्तव्य आपाजलिपुत्रत्तस्य यदवरं कौशाम्ब्यास्तत्रौदनं भोक्ष्यमहे । योऽयमागामी संवत्सरस्तस्य यदवरमाग्रहायण्यास्तत्र युक्ता अध्यष्यामहे । एवं परस्मिन्विभाषेत्यपि द्रष्टव्यमिति । भविष्यन्नेवाविद्यमानाद्यतनो लुण्णिमित्तं भविष्यदनद्यतनः, स षोढा--सामान्यानद्यतनः, लिप्सानद#्यतनः, परिदेवनानद्यतनः, यथा--कर्ता कर्तारौ कर्तारः, कारिता कारितारौ कारतार इति। । शब्दान्तरावगतविशेषो विशेषानद्यतनः, यता--त्वं पक्ता । लिप्सोपाधिको लिप्सानद्यतनः, यता--यो मे गन्ता यैवं पादौ निदधाति, अयं मु कादध्येता य एवमनभियुक्तः । कालविबागे चानहोरात्राणामित्याहोरात्रविषयः परापरविभागीयः । यथा--योऽयमागामी संवत्सस्तस्य यदवरमाग्रहायण्यास्तत्र पाटलिपुत्रं गवन्तास्मः । स एव अध्वविभाषाविषयोऽध्वाविभाषीयः । योऽयमध्वा गन्तव्य आपाटलिपुत्रं तस्य यत्परं कौशाम्ब्याः तत्र सिक्तून्पातास्म इति । अवाप्ताप्रच्युक्रिय#ाविषयो लडड्डत्ध्;ादिनिमित्तं वर्तमानः । स षोढा-सामान्यवर्तमानः, विशेषवर्तमानः, अविपामवर्तमानः, प्रवृत्तोपरः, वृत्ताविरतः, नित्यवृत्त इति। तेष्वानपेक्षितविरामादिविशेषस्सामान्यवर्तमानः, यथा--अस्ति, भवन्, कुर्वाणाः, पच्यमानः, पवमानः, पत्रदुद्वहमान इति । पोरक्षादजिव#िषयो विशेषवर्तमानः । अत्र वटे यक्षः प्रतिवसति । विवक्षितक्रियाप्रबन्धोऽविरामवर्तमानः, यथा--प्रासादं कोरति । विवक्षितप्रवृत्तिविरामः प्रवृत्तोपरतः, यथा--जीवन्तं मारयति । अविवक्षितप्रवृत्तिविरामो वृत्ताविरामो वृत्ताविरतः, यथा--इब कुमाराः क्रीडड्डत्ध्;न्ति ।अविच्छ#िन्नप्रवृत्तिसंतानो नित्यप्रवृत्तः, यथा--तिष्ठति पर्वत इति । अनागतातिक्रान्तक्रियास्वपि पादन्तरप्रयोगापादितवर्तमानत्वाल्लटो निमित्तमाविद्यामानानद्यतनो वर्तमानाद्यतनः । स षोढा--लिप्साविषयः, आशंसाविषयः, पुरोयोगीयः, स्नयोगीयः, उभययोगीयः, अनुभययोगाय इति । तेषु लिप्साविषयो यथा--यो मे भिक्षां ददाति स्वर्गं याति, को मे भिक्षां ददाति लोकं याति, एवं कतरो मे भिक्षां ददाति, कतमो मे भिक्षां ददाति । आसंसाविषयो यथा--देवश्चेद्वर्षति संपद्यन्ते शालयः । पुरायोगीयो --वसन्तीह पुरा छात्राः । स्मयोगीयो यथा--इति स्मोपाध्यायः कथयति । उभययोगीयो यथा--नडेड्डत्ध्;न स्मपुराधीयते । अनुभययोगीयो यथा--भाषते राघवस्तदेति । भूत एव लिङ्विषयोऽक्षाणां परः परोक्षः । स षोढा--स्वरोक्षः, परपरोक्ष#ः, स्वपररोक्षः, मनःपरोक्षः, प्रमाणःपरोक्षः, निर्णयपरोक्षः । तेषु स्वपेक्षया पोरक्षो यथा--चकार चकार, चकासाञ्चकार, उषुरिह पुरा छात्रा इति । परापेक्षया परपरोक्षः, यथा--कः कलिङ्गाद्विवेढः, को ब्राह्मणान्ददर्श, नाहं कलिङ्गान् जगामेति । उभयापेक्षया स्वपरपरोक्ष#ः, यथा--जघान कंसं वीसुदेवः, ददाह त्रिपुरं हरः, ममाथ वृत्रं मधवेति । स्मरणापोक्षया मन-परोक्षो यथा--इति चकार, शश्वढ्चकार, इति ह, शश्वञ्चकारेति । प्रश्ने चासन्नकाल इति निर्णयपरोक्षः, यथा--किं सा जगाम तत्पाश्र्वं, किमुवाच यथोचितं, स किं शुश्राव तद्वाक्यमिति, पृच्छामि किं सखीति । भविष्यद्भूतवर्तमानक्रियातिपत्तिविषयो लृङ्निमित्तमतिपन्नः । स षोढा--भविष्यद्भतवर्ममानक्रियातिपत्तीनां शुद्धामिश्रभेदात् । तत्र केनचिल्लिङ्गेन भविष्यन्तीं शुद्धामेव क्रियातिपत्तिमवगम्य प्रयुङ्क्ते । यथा--अपि वज्राहतेनापतिष्यत्, कथं न#ाम तत्रभवान् वृषलमयाजयिष्यत् । दक्षिणेन चेदयास्यात् न शकटं पर्याभविष्यत् । यथा च सद्भिः प्रदिष्टेन पथा समचरिष्यथ, न ते समचरिष्यन्न चरणान्ते न भूतयः । एवं मिश्रामपि यथा-- रामाय पुण्यमहसे सदृशाय सीता दत्तैव दाशरथिचन्द्रमसेऽभाविष्यत् । आरोपणेन पणमप्रतिकार्यमार्यस्त्रैयम्बकस्य धनिषो यदि नाऽकरिष्यत् ।। केचनल्लिङ्गेनानीतां क्रियातिपतिं्त शुद्धामेवावगम्य प्रयुङक्ते । यथा--न श्रद्दधे यत्तत्रभवान्वृषलमयाजयिष्यत् । न संभावयामि तत्र नाबोक्ष्तयत भवान् । यथा च --- दुर्वचं त्वदथ मा स्म भून्मृगस्त्वय्यसौ यदकरिष्यदोजसा । नैनमाशु यदि वाहिनीपतिः प्रत्यरत्स्यत सितेन पत्रिणा ।। एवं मिश्रामपि-- परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वमयोजयिष्यत् । अस्मिन्द्वये रूपविधानयत्नः पत्युः प्रजानां वितथोऽभविष्यत् ।। केनचित्प्रमाणेन वर्तमानामपि क्रियातिपतिं्त शुद्धामेवावगम्य प्रयुङक्ते । यथा--उताकरिष्यत्, अप्यकरिष्यत् । यथा च-- गामधास्यत्कथं नागो मृणालमृदुभिः फणैः । आरसातलमूलात्त्वमावालम्बिष्यथा न चेत् ।। एवं मिश्रामपि यथा-- अमङ्क्ष्यद्वसुधा तोये च्युतशैलेन्द्रबन्धना । नारायम इव श्रामान्यदि त्वं नाधरिष्यथाः ।। इति ।. तिरोभूतभूतभविष्यदादिविशेषोऽव्यक्तः । स षोढा--लिङ्विषयः, लोङ्विषयः, लड्ड्डित्ध्;वषयः, लृड्ड्डित्ध्;वषयः, तव्यादिविषयः, तुमुनादिविषयश्चेति । तेषु लिड्ड्डित्ध्;वषयो यथा--कटं कुर्यात्, चिरं जीयात्, कथं तत्रभावान् वृषलं यजयेत्, अपि शिरसा पर्वतं भिद्यात्, संभावयामि भुञ्जीतभवान्, कालोऽयं यद्भूञ्जीत भवानिति । लोड्ड्डित्ध्;वषयो यथा--उपाध्यायस्चेदागच्छति आगन्ता आगमिष्यति वा, अथ तेवं छन्दोऽधीष्व । कुरु कटं प्राप्तस्ते कालः कटकारणे, चिरं जीवतु भवान् किमिह बवान् करोतु, लुनीहि लुनीहीत्येवायं लुनाति अलावीत् लविष्यति वेति । लड्ड्डित्ध्;वषयो यथा--कदा भुङक्ते कर्हि भुङ्क्ते, अपि नत्रभावन् वृषलं याजयति, जातु तत्रभवान्वृषलं याजयति, कञ्चिज्जीवति मे मात, कं वा विभूतयो न मदयन्तीत #ि। लृड्ड्डित्ध्;वषयो यथा--अन्धो नाम पर्वतमारोक्ष्यति उत दण्डड्डत्ध्;ऋ पतिष्यति, कतरो नाम वृषलः, यं तत्रभवान् वृषलं याजयिष्यति, न मर्षयामिन श्रद्दधे नावकल्पयामि यत्तत्रभवान्वृषलं याजयीष्यति, प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि, प्रभो, इति । तव्यादिविषयो यथा--स्वाध्यायोऽध्येतव्यः, ब्राह्मणो न हन्तव्यः, पितरो वन्दनीयाः, गुरवो माननीयाः, कृत्यं न बावयेत्, कार्यं न कुर्यादिति । तुमुनादिविषयो यथा--भोक्तुमैच्छत् इच्छति एषिष्यति वा, भुक्त्वा अब्राजीत् व्रजति व्रजिष्यति वा, अधीत्यास्न्नासीत् स्न्नाति स्न्नास्यति वा, चोरङ्कारमाक्रुक्षत् आक्रोशति आक्रोक्ष्यति वा, पायंपायमासिसीष्ट आस्ते आसिष्यते वा, रैपोषमपुषत् पुष्यति पोक्ष्यति वेति । कालान्तरसम्पृक्तस्सङ्कीर्णः ; सङ्करश्चानेकाकारत्वादिवत्तया न शक्यते निर्दिष्टुमिति भङ्न#िर्वाहार्थं तु षोढैवोदाहियते । स भूतभीतानद्यतनयोः यथा--अन्येभ्यो वा अबुंक्ष्मबि । भविष्यद्भविष्यद्यनद्यतन.योर्यथा--अद्य श्वो वा गमिष्यति । भूतभविष्यदनद्यतनयोर्यथा--अग्निष्टोमयाजकस्य पुत्रौ जनिता । भूतानद्यतनभविष्यतोर्यथा--भाविकृत्यमासीत् । वर्तमानपरोक्षयोर्यथा-- क्रोधं प्रभो संहर संहरेति यावद्गिरः मरूतां चरन्ति । तावत्स वढिद्धठ्ठड़14;नर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार ।। भविष्यद्वर्तमानपरोक्षाणां यथा-- साटोमुर्वीमनिशं नदन्तो यैः प्लावयिष्यन्ति समन्ततोऽमी । तान्येकदेशान्निभृतं पयोधेस्सोऽम्भांसि मेघान्पिबतो ददर्श ।। इति । 5.6. वर्तमानस्य भविष्वद्भूतयोरनुप्रसेने प्रकीर्णः । स भविष्यदनुप्रवेशे आशंसायां यथा--उपाध्यायश्चेदागच्छति युक्ता व्याकरणमधीमहे । लिप्सायां यता--कोपयतो भोजयति यावत् । पुरायोगे यता--यावद्भुङक्ते, परा व्रजति । सामीप्ये यथा--कदा ग्रामं गमिष्यसि, एष गच्छामि, गच्छन्तमेव मां विद्धि । एवं भूतानुप्रवेशेऽपि भूतसामीप्ये यथा--कदा ग्रामादागतोऽसि ? एष आगच्छमि, आगच्छन्तमेव मां विद्धि । पृष्टाप्रतिवचने यथा--अयि भोः कटमकार्षीः, कटं देवदत्त ननु करोमि, अयं नु करोमीति । भविष्यतो भूतानुप्रवेशे भूतस्य भविष्यदनुप्रवेशा#ं विप्रकीर्णः । स भविष्यतो भूतानुप्रवेशे यथा--स्मरसि देवदत्त काश्मीरेषु वत्स्यामः, अभिजानासि कलिङ्गेषु वत्स्यामः तत्रौदनं भोक्ष्यामहे, स्मरसि यत्काश्मीरेषु वत्सयामः यत्तत्रौदनं भोक्ष्यामह इति । यथा वा-- स्मरत्यदो दाशरथिर्भवन्भवानमुं वनान्ताद्वनितापहारिणम् । पयोधिमाबद्धचलज्जलाविलं विलङ्घ्य लङ्कां निकाषा हनिष्यति ।। इति । भूतस्य भविष्यदनुप्रवेशो यथा-- मास्म कार्षीः, मास्म करोः, देवस्चेद्वृष्टस्सम्पन्नाः शालयः इति । यथा वा-- अपकर्ताऽहमस्मीति मा ते मनसि भूद्भयम् । मा स्म समीन्तिनी काचिज्जनयेत्पुत्रमीदृशम् ।. जातश्चायं मुकेन्दुस्ते भ्रुकुटीप्रणयी पुनः । गतं च वसुदेवस्यकुलं नामानशेषताम् ।। इति । अथ कथं नित्यप्रवृत्तस्य वर्तमानप्राप्तावपि तस्थुः स्थास्यन्ति गिरयः, मार्गे कूपोऽभूत्, कूपो भविष्यतीति भूतभविष्यत्कालविषयः प्रयोगो भवति । उच्यते । हेहयादिवेशेषु ये राजानो बभुवुः तेषां याः क्रियाः तासामतीतत्वत् तत्सम्बन्धविवक्षायां भूतकालविषयं प्रत्ययं प्रयुङ्क्ते, हेहयराज्येऽपि पर्वता इत्यनेन तस्थुरिति । तथा आगामिमन्वन्तरेषु ये राजानो भविष्यन्ति तेषां याः क्रियास्तासां भविष्यत्वात्तत्सम्बन्धविवक्षयां भविष्यत्कालविषयं प्रत्ययं प्रयुङ्क्ते । यदा बलिरिन्द्रो भविष्यति तदापीत्थमेव पर्वताः स्थास्यन्तीति । एवं कूपस्यापि भूतभविष्यद्दर्शनक्रियासम्बन्धात् अभूदभविष्यतीति क्रियाभिसम्बन्धो न विरुध्यत इति । उपग्रहोऽपि प्रकृत्यर्थोपाधिरेव । कः पुनरसौ परस्मैपदात्मनेपदोभयपिनामात्मनेपदपरस्मैपदयोगनिमित्तमर्थविशेषः । तदुक्तम् । य आत्मनेपदाद्भेदः क्कचिदर्थस्य गम्यते । परस्मैपदतो वापि मन्यन्ते तमुपग्रहम् ।। 5.7. यथा--नाथति नाथते, शपति शपते, आढद्धठ्ठड़14;वयति आढद्धठ्ठड़14;वयते, प्रतिजानाति प्रतिजानीत इति । अत्राशिषि नाथः, शप उपालम्भने, स्पर्धायामाडड्डत्ध्;ः, सम्प्रतिभ्यामनाध्याने, ज्ञा आत्मनेपदं ; शेषे परस्मैपदमित्यर्थभेदाः । एवं मिण्डड्डत्ध्;ो भीषयते, कुञ्चिकयैनं भाययति, जटिलो विस्मपयते,मत्यैनं विस्मापयति । श्येनो वर्तिकामुल्लापयते, कस्त्वामुल्लापयति, संप्रवदन्ते ग्राम्याः, संप्रपदन्ति शकुनय इति । अत्र भीस्म्योर्हेचतुभये, लियः सम्माननशालिमीकरणयोश्च, व्यक्तवाचां समुञ्चारणे, वद आत्मनेपदं, शेषे परस्मैपदमित्यर्थभेदः । एवमनयदप्यूहनीयम् । 5.8. ननु च, "य आत्मनेपदात् भेदः क्कचिदर्थस्य गम्यत" इत्यत्र क्कचिद्न्रहणं किमर्थम् ? उच्यते । परस्मैपदात्मनेपदोभयपदननामात्मनेपदपसस्मैपदोभयपदयोगः षट् प्रकारो भवति । प्रकृतिनिमित्तः, प्रकृत्यर्थनिमित्तः, प्रत्ययनिमित्तः, प्रत्ययार्थनिमित्तः, उपस्कारनिमित्तः, उपस्कारार्थनिमित्तश्च । तत्रार्थनिमित्तेषु यथायोगमर्थावगतिहेतुत्वं विद्यते ; शेषेषु तु न विद्यते । क्कचिद्न्रहणेन ज्ञापयति । तत्रात्मनेपदयोगः प्रकृतनिमित्तो यथा--अनुदात्तङित आत्मनेपदम् ; ज्ञाश्रुस्मृदृशां सनः, एधते च्यवते सुस्मूर्षते दिदृक्षत, इति । प्रकृत्यर्थनिमित्तो यथा--प्रकाशनस्थेयाख्ययोश्च, भुजोऽनवने, गृधिवञ्च्योः प्रलम्भते, कर्मव्यतीहारे तिष्ठते भुङ्क्ते गन्धायते व्यतिलुनीत इति । प्रत्ययनिमित्तो यथा--विपारभ्यां जेः, समवप्रविभ्यः स्थः, समस्तृतीयायुक्तात्, मिथ्योपपदात्कृञोऽभ्यासे, विजयते पराजयते, संतिष्ठते अवतिष्ठते प्रतिष्ठते वितिष्ठते, अश्वेनसञ्चरते, पदं मिथ्याकारयति । उपस्कारार्थनिमित्तो यथा--वेः पादविहरणे, आङोज्येतिरुद्भमने, उपाङ् मन्त्रकरणे, दाणश्चसाचेञ्चतुथ्र्यर्ते, विक्रमते वाजी, आक्रमते ज्योतः, सावित्र्युपतिष्ठते, दास्या संयच्छत इति । प्रकृतिनिमित्तः परस्मैपयोगे यथा--शेषात्कर्तरि परस्मैपदम्, भवति व्यतिहसन्ति, व्यतिहरन्ति, परस्परस्य व्यति । प्रत्ययार्थनिमित्तो यथा--कुषिरजौः प्राचां श्यन्, परस्मैपदं च ; शेषात्कर्तरि परस्मैपदम् । रज्यति वस्त्रं स्वयमेव, कुष्यति पादस्स्वयमेव, रज्यते वस्त्रम्, कुष्यते पादमिति, उपस्कारनिमित्तो यथा--अनुपराभ्यां कृञः । इतरेतरान्योन्योपपदाञ्च, अनुकरोति पराकरोति, इतरेतस्य व्यतिलुनन्ति, अन्योन्यस्य व्यतिलुनन्तीति । उपस्कारार्थनिमित्तो यथा--समोऽकूजने, आङोदोऽनास्यविहरणे, उदोऽनूध्र्वकर्मणि, प्रादेरजाद्यन्तराद्युजेरयज्ञपात्रेषु, संक्रीडड्डत्ध्;न्ति शकटाः, व्याघ्रो मुखं व्याददात, आसनादुत्तिष्ठति, यज#्ञपात्राणि प्रयुनक्तीति । उभयपदयोगप्रकृतिनिमित्तो यथा--वाक्यषः, अनुपसर्गाद्वा, लोहितायति लोहितायते, क्रामति क्रमत इति । प्रक़ृत्यर्थनिमित्तो यथा--विभाषाकर्मकात् विभाषा विप्रलापे, उपरमिति उपरमते, संप्रवदन्ति मौहूर्ताः संप्रवदन्ते मौहूर्ता इति । प्रत्ययार्थनिमित्तो यता--रजायति रज्यते, कुष्यति कुष्यते, कुषिरजौः प्राचां श्यन्, परस्मैपदं च कर्मकर्तरि, इति । उपस्कारनिमित्तो यथा-- उपसर्गादस्यात्यूह्योर्वा, उदस्यति उदस्यते, समूहति समूहत इति । उपस्कारार्थनिमित्तो यथा--वा लुप्सायाम्, विभाषोपपदेन प्रतीयमाने, भिक्ष#ुको ब्राह्मणाकुलमुपतिष्ठति उपतिष्ठते, ब्राह्मणस्स्वं यज्ञं यजति, यजत इति । एवमन्येऽपि हेतुलक्षणाभीक्ष्ण्यभृशार्थगर्हाकौटिल्यसाकल्यपूर्वकालतादथ्र्यादयः प्रकृत्यर्थोपाधिविशेषा वेदितव्यातः । यथा--अधीयानो वसित, पचन्नास्ते, पुनःपुनः पठति-पापठ्यते, पुनःपुनः पचति पापच्यते, गर्हितं दहति-दन्दह्यते, कुटिसं क्रामति चङ्क्रम्यते, कन्यादर्शं वरयति, भुक्त्वा व्रजति, भोक्तुं व्रजन्तीति । एवमेते धातुरूपायाः प्रकृतेरर्थोपाधयः प्रत्ययरूपायाः स्वप्रत्ययार्थोपाधय एवोपाधयो भवन्ति । प्रातिपदिरूपायास्तु स्वार्थादप्यलिङ्गसङ्ख#्यापरिमाणकरकसंबन्धसंबोधनसहार्थतादथ्र्यहेतुलक्षणादय उपाधयो विद्यन्ते । ते तु प्रत्ययार्थोपस्कारार्थप्रातिपदिकार्थेष्वनन्तरमेव वर्णयिष्यन्त इति नेह प्रतन्यन्ते । 5.9. अथ प्रत्ययार्थोपाधिः । तत्र कारकोपाधिषु पुरुष उक्ताः ; सङ्ख्यात्वग्रतोभिधास्यते । अपरेऽपि चास्य यस्य विधिनिमन्त्रणाधीष्यसंप्राश्नप्रार्थनप्रैषातिसर्गप्राप्तकालशक्त्यर्हगर्हादयः उपाधयो भवन्ति । तद्यथा--अग्निहत्रं जुहुयात्, इह भुञ्चित इह भावानास्ताम्, भावन्माणवकमध्यापयेत्, किं नु खलु व्यकरणमधीयीय, इतश्छन्दो लभेयाहं भिक्षात्, आर्शसनमपि प्रार्थनमेव, चिरं जीव्यः, ग्रामं गच्छ, गच्छानुज्ञातोऽसि, कुरु कटं प्राप्तस्ते कालः कटकरणे, भवान्खलु शत्रुं हन्यात् खलु तत्रभवान् भारं वहेत्, कथं नवाम तत्रभवान्वृषलं याजयेदिति । एवमन्येऽपि तच्छीलतद्धर्मतत्साधुकारिहेत्वानुलोम्यशक्तिवयोवचनकृच्छ्रानुद्यमनशिल्पिलक्षणलिङ्गादयोऽवगन्तव्याः । यथा---वदिता जनापवादात्, मुण्डड्डत्ध्;यितारः श्राविष्ठायनाः, वधूमूढां कन्यामलङ्करिणअणुः, याशस्करी विद्या, आज्ञाकरी भार्या, हस्तिघ्नो भटः कवचहरः क्षत्रियकुमारः, धारयन्नुपनिषदम्, अंशहरस्सुतः, नर्तकी वेश्या, जायाघ्नस्तिलकः, व्यसस्य वचनं, पाणिनेरुक्तिः, कालिदासस्य प्रबन्ध इति । 5.10. अयोमयोपाधिः । सोऽपि संज्ञाजातिप्रभासपरिमाणद्यूताभ्रेषभाषाच्छन्दोमन्त्रब्राह्मणाशीरुत्कोशादिभेदादनन्तप्रकारः । तद्यथा--तिचूको च संज्ञायाम्, भद्रभूतिर्देवदत्त इति हस्ता पुरोडड्डत्ध्;ा इति । द्वितीया ब्राह्मणे ग्रास्य तदहस्सहायान् दीव्येयुः, प्रष्ठौहीं दीव#्यतीति, आशिषि वुन्, जीवतात् जीवकः, नन्दतात् नन्दक इति । माङ्चाक्रोशे, आक्रोशे नञ्यनिः, मा जीवन्यः परावज्ञादुःखदग्धोऽपि जीवति । "तस्याजननिरेवास्तु जननीक्लेशकारिणः" इति । 5.11. एवमन्येऽप्यसूयसंमतिकोपकुत्सनभत्र्सवाबाधप्रकारकृच्छ्रपर्यायार्हणोत्पत्तिप्रभृतयोऽवगन्तव्याः ।चेष्वसूया यथा--माणवकामाणवक अभिरूपका अभिरूपक रिक्तं ते आभिरूप्यम् । संमतिर्यथामाणवका माणवक अभिरूपका अभिरूपक शोभनः खल्वसि । कोपो यथा--माणवक माणवक अविनीतकअविनीतक इदानीं ज्ञास्यसि जाल्म । कुत्सनं यथा--शक्तिके शक्तिके यष्टिके यष्टिके रिक्ता ते शक्तिः । भत्र्सनं यथा--चोर चोर वृषल वृषल घातिष्यामि त्वाम् । आबाधो यथा--गतगता नष्टनष्टा प्रिया प्रिया गमनादिना पीडड्डत्ध्;्यमानः कश्चदेकं प्रयुंक्ते । प्रकारो यथा--पटुपटु, भीतभीत, परिपूर्णगुणेन न्यूनगुणस्योपमाने सत्येवं भवति । अकृच्छ्रं यथा--सुखदुःकेन ददाति, प्रियाप्रियेण ददाति, अपीडड्डत्ध्;्यमानो ददातित्यर्थः । पारम्पर्यादयो यथा--भवतश्शायिका, अर्हति भवानिक्षुभक्षिकाम्, उक्षुभक्षिकां मे धारयसि, उदपादीक्षुभिक्षिकेति । सर्वोऽपि चायमुपाधिप्रपञ्चस्त्रिधैवाक्यायते, धम्र्युपाधिर्धर्मोपाधिः प्रकीर्णोपाधिश्च । तत्र कृञः स्तम्बशकृद्भ्यां व्रीहिवत्सयोरिन्, स्तम्बकर्णयोरमुजपोः, हस्तिसूचकयोरित्यादि । धम्र्युपाधिर्यथा-- व्रीहिस्स्तम्बकरिः क्षेत्रे गृहे वत्सश्शकृत्करिः । जनःकर्णेजपो राज्ये मत्तस्तम्बेरभो वने ।। "प्रजने सर्तेरप्" "समुदोरजःपशुष्" । धर्मोपाधिर्यथा--- समजस्स्याद्गवां गोभिरुक्ष्मामुदज उक्षभिः । भवत्यवसरे यस्यासरे यस्यास्सैषा मे गोमतल्लिका ।। मन्यकर्मण्यनादरे, विभाषा प्राणिषु, षष्ठी चानादराधिके भावलक्षणे इति । प्रकीर्णोपाधिर्यथा-- मन्यते न तृणायापि त्वां नावं पश्यतो हरः । मिषत्सु लोकपालेषु हविः पिबति सोऽध्वरे ।। 5.12. तिङ्कृत्तद्धिताभिधेयप्रत्ययार्थः प्रधानः । स त्रिधा--स्वार्थस्सम्बन्धी कारकञ्च । तेषु प्रकृत्यर्थ एव स्वार्थः । स त्रिधा--धात्वर्थः प्रातिपदिकार्थश्शोषश्च । तत्र धात्वर्थस्त्रिधा । भावः क्रिया कारकञ्च । तेषु भावो द्विधा--सत्त्वभूतोऽसत्त्वभूतश्च । तयोर्लिङ्गङ्ख्यायोगि सत्वभूतः यथा--- अवचनं वचनं प्रतियसन्निधावनवलोकनमेव विलोकनम् । अवयवावरणं च यदंशुकव्यकरेण तदङ्गसमर्पणम् ।। अलिङ्गसङ्ख्योऽसत्त्वभूतो यथा-- अपि प्रसन्नेन महर्षिणा त्वं सम्यग्विनीयानुमतो सम्यग्विनीयानुमतो गृहाय । कालोह्ययं संक्रमितुं द्वितीयं सर्वोपकारक्षममाश्रयं ते ।। क्रिया द्विधा शुद्धा सङ्कीर्णा च । तयोः कारकासंपृक्ता शुद्धा यथा--- पल्लवोमितिसाम्यसपक्षं दष्टवत्यधरबिम्बमभीष्टे । पर्यकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण ।। कर्तृत्वापन्नसाध्यरूपा सङ्कीर्णा यथा-- कुचद्वन्द्वे तन्वि द्विपकलभकुम्भस्थलतुलां दधानेऽस्मिन्कस्या न युवतिषु चित्तस्य रुजति । तवोर्वोर्युगमे वा हुतरुचिरचामीकररुचौ विकर्षत्यूष्माणं कमिह न युवानं ज्वरयति ।। कारकं द्विधा, नियतधातुविषयमनियतधातुविषयञ्च । तयोर्नियतधातुविषयं यथा-- तुषारलेशाकुलिचतोत्पलाबे पर्यश्रुणी मङ्गलभङ्गभीरुः । अगूढभावापि विलोकने सा न लोचने मीलयितुं विषेहे ।। अनियतधातुविषयं यथा-- अभिमुखे मयि संहृतमीक्षितं हसितमन्यनिमित्तकृतोदयम् । विनयवारितवृत्तिरितस्तया न विवृतो मदनो न च सेहृतः ।। 5.12. प्रतिपदिकार्थस्त्रिधा, व्यक्तोऽव्यक्तस्संदिग्धश्च । तेषु प्रत्ययोत्पादानुत्पादयोरविशिष्टो व्यक्तः । स द्विधा--तल्लिङ्गोऽन्यलिङ्गश्च । तयोस्तल्लिङ्गो यथा--मन एव मानसम्, बन्धुरेव बान्धवः, यव एव यावक इति । अन्यलिङ्गो यथा--उपाय एव ओपययिकम्, देव एवदेवताः, देवतैव दैवतमिति । अव्यक्तो द्विधा, उज्झितस्वरूपोऽनुज्झितस्वरूपश्च । तत्रोज्झितस्वरूपो यथा--वेश्शालच्छङ्कटचौ, संप्रोदश्च कटत्, उपाधिभ्यां त्यकन्नासन्नारूढयोरिति । यथा, विशालं, विशङ्कटं, प्रकटं, विकटं, उपत्यका, अधित्यकेति । अत्रोपसर्गैरसङ्ख्यत्वादिस्वरूपमुज्झितम् । अनुज्झितस्वरूपो यथा--वत्सोक्षाश्वर्षभेभ्यस्तनुत्वे, कासूगोणीभ्यां ष्टरच्, किमेत्तिङव्ययघादाम्बद्रव्यप्रकर्षे । विनञ्भ्यां नान#ाञौ न सह । यथा--वत्सतरः, उक्षतरः, नितरां, अतीवतरां, विना, नानेति । उपचरितार्थवृत्तिः संदिग्धः । स द्विधा--सङ्ख्यावानङ्ख्यश्च । तयोस्तिङन्तार्थो यथा--पचतितरां, पचतकीति । सुबनितार्थो यथा--त्वयका, उञ्चकैरिति । प्रत्ययार्थो द्विधा, कृदर्थस्तद्धितार्थश्च । तय#ो#ः कृदर्थो यथा--न्यावक्रोशी, सांराविणमिति । तद्धितार्थो यथा--आभिजित्यः, कौढ्जायन्य इति । समासार्थो द्विधा, समास्यनिमित्तं, समासनिमित्तश्च । तत्र यमाश्रित्य तद्धितार्थ इति समासो भवति । समास्यनिमित्तं यथा--द्वैमातुरः पञ्चकपाल इति । सम्बन्धी यस्य तु समासान्त इति समासो निमित्तं स समासनिमित्तः यथा--देवराजः प्रत्युरसामिति । सम्बन्धी त्रिधा, क्रिया द्रव्यं गुणश्च । तेषु क्रिया त्रिधा, क्रियासम्बन्धिनी उभसम्बन्धिनी च । तासु क्रियासम्बन्धिनी द्विधा, भिन्नरूपाऽभिन्नरूपा च । तयोर्भिन्नरूपा यथा--कर्तुमिच्छति चिकीर#्षति, जुगुप्सितुमिच्छति जुगुप्सिषत इति । अभिन्नरूपा यथा--अत्यर्थं पापच्यते, पुनः पुनः पापठ्यत इति । कारकसम्बन्धिन्यपि द्विधा, साकांक्षा निराकांक्षा च । साकाक्षं यथा--पटमिवाचरति पटीयति कम्बनम्, प्रासादमिवाचरति प्रासादीयति कुटीम् । निराकांक्षा यथा--पुत्रम#िच्छति पुत्रीयति, पुच्छमुदस्यत्युत्पुच्छयत इति । उभयसम्बन्धिनी द्विधा, क्रियाकारकसम्बन्धिनी कारकक्रियासम्बन्धिनी च । तयोः प्रथमा यथा--पचन्तं प्रयुङ्क्ते पाचयति देवदत्तः, अदीयानं पुयुङ्क्ते अध्यापयति कारीषोऽग्निः । द्वितीया यथा--कंसवधमाष्टे कंसं घातयति, आरात्रिविवासमाचष्टे रातिं्र विवासयति । द्रव्यमपि त्रिधा, विशेष्यं विशेषणं व्यवहितञ्च । तेषु विशेष्यं द्विधा, सापेक्षमनपेक्षञ्च । सापेक्षं यथा--युष्माकमयं यौष्माको गौः, वत्सेभ्यो हितो वत्सीयो गोधुक् । अनपेक्षं यथा--वसिष्ठस्यापत्यं वासिष्ठः, पृथिव्या ईश्वरः पार्थिवः । विशेषणं द्विधा, धर्मिनिष्ठं धर्मनिष्ठं यथा--गावोऽस्य सन्तीति गोमान्, प्रासादोऽस्य स्यात्प्रासादीयं दारु । धर्मनिष्ठं यथा--अस्तीति मतिरस्यास्तिकः, नास्तीति मतिरस्य नास्तिक इति । व्यवहितं द्विधा, विशेष्यरूपं विशेषणरूपं च । विशेषणरूपंयथा--द्विमयमुदश्विन्यवानां द्वमया यवाः उदश्चितः । विशेषणरूपं यथा--पञ्चमो मासोऽस्य जातस्य पञ्चमी बालकः, षष्ठं रूपग्रन्थग्रहणमस्य षट्को वटुः । गुणोऽपि त्रिधा, आश्रितः प्रवृत्तिनिमित्तमुपाधिष्चट । तेषअवाश्रितो द्विधा, अभिन्नरूपो भिन्नरूपश्च । तयोरभिन्नरूपे यथा--भिक्षाणां समूहो भेक्षम्, काकोलूकस्य वैरं काकोलूकिका । भिन्नरूपो यथा--ऋत्विजां कर्माÐत्वज्यं, पीलूनां पाकः पीलुकण इति । प्रवृत्तिनिमित्तं द्विधा, अनुञ्जकमननुरञ्जकं च । तत्रानुरञ्जकं जात्यादि यथा--ब्राह्मणस्य भावः ब्राह्मण्यं, ऋडड्डत्ध्;ोर्भावः आर्जवमिति । अनुनुरञ्जकं संबन्धादि, यथा--दण्डिड्डत्ध्;नो बावो दण्डिड्डत्ध्;त्वम्, पाचकस्य भावः पाचकतेति । प्रकृत्यर्तप्रत्ययार्थयोर्विसेषणमुपाधिः । स द्विधा, व्यस्तस्समस्तश्च । व्यस्तः प्रकृत्यर्थे यथा--शिवो देवताऽस्चेति शेवं, लवणं पष्यमस्येति । सावणिकः । प्रत्ययार्थे यथा--गार्गिकया श्ल#ाघते, काठिकयाऽधिक्षिपति । अत्र देवतापयण्यश्लाघाधिक्षेपा उपाधयः । समस्तो यता--दण्डड्डत्ध्;ाः प्रहरणमस्यां क्रीडड्डत्ध्;ायां दाण्डड्डत्ध्;ा । अत्र दण्डड्डत्ध्;शब्दात् तदस्यामित्यधिकरणे प्रत्ययो विहितो दण्डड्डत्ध्;स्थं प्रहरणत्वं, अधिकरणत्वं च क्रीडड्डत्ध्;ात्वं प्रत्यायति । एवं ह्योगोदोहस्य विकारो हैयङ#्गवीनं नवनीतम् । अत्र ह्योगोशब्दाद्विकारे प्रत्ययो विहितः, प्रकृत्यर्थोपाधिं दोहं प्रत्ययार्थोपाधिं च संज्ञां प्रत्यायतीति । 5.13. कारकं त्रिधा, सक्रियं भिन्नक्रियमभिन्नक्रियं च । तेषु सक्रियं त्रिधा, कर्तृरूपं कर्मरूपमनुस्यूतञ्च । कर्तृरूपं द्विधा, क्रियाविशेषस्थं कारकविशेषस्थं च । तयोः क्रियाविशेषस्थं यथा---सुस्नातं पृच्छति सौस्नातिकः, एवं सौखशायनिकः, प्रभूतमाह प्राभूमाह प#्रभूतिकः, एवं माशब्दिकः, प्रतीपं वर्तते प्रातीपिकः, प्रतिकूलं चरति प्रातिकूलिक इति । कारकविशेषस्थं यथा--व्याकरणं वेत्त्यधीते वा वैयाकणः, समां समां विजायते समांसमीना, अक्षैर्दीव्यत्याक्षिकः, संतापाय प्रभवति सान्तापिकः, पुतुरागतं पित्र्यं, समानोदरे शयितः स#ोदर्य इति । कर्मरूपं द्विधा, सजातीयस्थमसजातीयस्थं च । सजातीयस्थं यथा--अयनं नेयः आयानयीनः शारः, मासं भृतो मासिको भृत्यः, वर्षमधीष्टो वार्षिको उपाध्यायः, पक्षं लक्षः पाक्षिको निबन्धः, षण्मासं क्रीतः षाण्मासिको दासः, संवत्सरं कृतस्संवत्सरिकोऽभ्यास इति । असजातीयस्थं यथा--वामदेवेन दृष्टं वामदेव्यं साम, लाक्षया रक्तं वस्त्रं लाक्षिकं, देवाय देयं दैव्यं हविः, तन्त्रादचिरापहृतः तन्त्रकः पटः, द्वारे नियुक्तो दौवारिकः पुमान्, चतुर्दश्यां दृश्यते चातुर्दश्यं रक्ष इति । अर्थान्तरानुबन्धनमनुस्यूतम् । तद्द्विधा, क्रियानुस्यूतं कारकानुस्यूतं च । तयोः क्रियानुस्यूतं यथा--सीतान्वेषणमधिकृत्य कृतो ग्रन्थः सीतान्वेषणीयः, एवं किरातार्जुनीयः, वाक्यपदीयः, पौषी पौर्णमासी अस्मिन्मासे भवति पौषः, एवमाग्रहायणिक#ः अश्वत्थिक इति । कारकानुस्यूतं यथा--तित्तिरिणा प्रोक्तं वेदं विदन्त्यधीयते वा तैत्तिरियाश्छात्राः, एवं वारतन्तवीयाः, एगलेयिनः, ऐतरेयिणः, तथा पाराशरिणो भिक्षवः, शैलालिनो नटाः । 5.14. भिन्नक्रियं त्रिधा, लक्षितक्रियमपेक्षितक्रियमनुमताक्रियं च । तेषु लक्षितक्रियं द्विधा, कर्तृस्थं कर्मस्थं च । तयोः कर्तृस्थं यथा--मुद्ना भवन्तयस्मान्मौद्नीनं क्षेत्रम्, दण्डिड्डत्ध्;नः सन्त्यस्यां दण्डिड्डत्ध्;मती शाला । कर्मस्थं यता--श्राद्धमनेन भुक्तं श्राद्धिकः, अग्रभोजनमस्मै दीयते आग्रभोजनिकः, पदमस्मिन् दृश्यं पद्यः कर्दम इति । अपेक्षितक्रियं द्विधा, व्यहितमव्यवहितं च । तयोव्र्यवहितं यथा--ग्रामादागच्छति, ब्राह्मणाय ददाति, पर्यङ्के शेत इति । अव्यवहितं यथा--कटं करोति, दात्रेण लुनाति, देवदत्तेनास्यत इति । अन#ुशक्तक्रियं द्विधा, तुल्याधिकरणमतुल्याधिकरणं च । तयोस्तुसल्याधिकरणं यथा--शुक्लिभवति, उन्मनीस्यात्, भस्मसात्संपद्यत इति । अतुल्याधिकरणं यथा--पटपटाकरोति, देवत्रागच्छति, देवत्रागच्छति, मनुष्यत्रावसतीति । अभिन्नक्रियं त्रिधा, तिङभिधेयं कृदभिधेयं तद्धिताभिधेय#ं च । तत्र तिङभिधेयं द्विधा--कर्तृरूपं कर्मतरूपं च । तयोः कर्तृरूपं यथा--पचति देवदत्तः, दुग्धे गौः, चोरस्यरुजति रोग इति । कर्मरूपं यथा---पच्यते ओदनः, भिद्यते कुसूलः, उष्ट्रासिका आस्यन्त इति । कृदभिधेयं द्विधा, विशेष्यं विशेषणं च । तयोर्विष्यं यथा--दात्रं, प्रासादः, कुम्भकार

इति । विशेषणं यथा--कर्तव्यं, पाचकः, सुबोधमिति । तद्धिताभिदेयं द्विधा---सापेक्षक्रियमनेपेक्षितक्रियं च । तयोस्सापेक्षक्रियं यथा--इष्टी यज्ञे, परिगणिती याज्ञिक्ये, आम्नाती छन्दसि, अधीती व्याकरणे, कृतपूर्वी कटमिति । अनेक्षक्रियं यता--पाकेवन निर्वृत्तं पाक#िम्, सेकेन निर्वृत्तं सेकिमं, कुट्टेन कुट्टिमं, करणेन कृत्रिमं, श्येनपाकोऽस्यां तिलपाकोऽस्यां तिलपाकोऽस्यां क्रियायां श्यैनंपाता तैलं पातेति । प्रकृतिप्रत्ययोभयद्वारकं पदार्थविशेषणमुपस्कारार्थः । स त्रिदा, प्रकृतिद्वारकः, प्रत्ययद्वारकः, उभयद्वारकश्च । तेषु प्रकृतिद्वारकः षोढा, लोपागमसवर्णविकारादेशप्रत्यापत्त्यपपदोपस्कारभेदात् । तेषु रञ्जेर्णौ मृगरमणेन लोप इत्यादि । लोपोपस्कारार्थः यथा-- धृतहेतिरप्यधृतजिह्मगतिश्चरितैर्मुमीनधरयन् गुरुभइः । रजायाञ्चकार विरजः स मृगान् किमिवेशते रमयितुं न गुणाः ।। अश्ववृषयोर्मैथुनेच्छायामित्यादिरागमोपस्कारार्थः यथा--- अनेकयुगजीविन्यास्त्रोता यस्यस्त्रयोदशी । सा क्षीरकण्कं वत्सं वृषस्यन्ती न लज्जिता ।। वेश्च स्वनो भोजने मूर्धन्य इत्यादिवर्णविकारोपस्कारार्थः यथा-- ग्लानिच्छेक्षुत्प्रबोधाय पीत्वा रक्तं रिष्टं झाषिताजीर्णशेषः । स्वादुङ्कारं मांसखण्डड्डत्ध्;ोपदंशं क्रोष्टा डिड्डत्ध्;म्भं व्याण्वणद्व्यस्वनञ्च ।। मातर्मातच्पुत्रे श्लाघ्य इत्यादिरादेशोपस्कारार्थः यथा-- गौरी मा तस्य तस्यैताः कार्तिकेयस्य कीर्तयः । कीर्तितासु न कीत्र्यन्ते यासु कस्यापि कीर्तयः ।। 5.15. आख्यावात्कृतस्तदाचष्टे, कृल्लुक्प्रकृतिप्रत्यापत्तिः, प्रकृतिवञ्च कारकमित्यादिप्रत्यया पत्त्युपस्कारार्थः, यथा--- शैलैर्बन्थयति स्म वानरहृतैर्वाल्मीकिरम्भोनिधिम् । व्यासः पार्थशरैस्तथापि नव तयोरत्युक्ति रुद्भाव्यते ।। इति । अपादैने परीप्सायां णमुलित्यादौ स्थादिरुपपदोपस्कारार्थः, यथा---- किञ्चिच्छेषनिशातुषारमधुरस्पर्शं गृहप्राङ्गणे । शय्योत्थायमिह व्रजन्ति नहलिनां बालाः कुकूलानलम् ।। इति ।। 5.16. प्रत्ययद्वारकोऽपि षोढा, लोपागमवर्णविकारविकरणादेशोपग्रहभेदात् । तेषु लोपार्थः फलकुसुमयोर्लुक् । यथा-- वर्णप्रकर्षे सति रर्णिकारं दुनोति निर्गन्धतया स्म चेतः ।। आगमार्थः यथा--हृषेर्लेमसु । आननैर्विचकसे, वल्लभआनभितनीभइरभआवि । वर्णविकारार्थः दिवो विजिगीषायां निष्ठानत्वम् । यथा-- आद्यूनस्सन् गृहिण्येव प्रायो यष्ट्यावलम्बितः ।। विकरणार्थः शअलिषः प्राण्यङ्गनेकसः । यथा--"आश्लिक्षद्भयचपलेक्षणा नवोढा भर्तारं विपदि न दूषितातिभूतिः ।" आदेशार्थ आशिषि तुह्योस्तातङ् । यथा--- भवताद्भवतो मतिश्शुभआ जयताज्जीव भाववनीश्वर । उपग्रहार्थः अधेः प्रसहने कृते आत्मनेपदम् । यथा--- भवादृशाश्चेदधिकुर्वते रतिं निराश्रया हन्त हता मनस्वता ।। इति ।। 5.17. उभयद्वारकं तु द्वादशधा, अवधिसंबोधनक्रियाविशेषणकारकिशेषणशेषपरिशेषसहार्थतादथ्र्यहेतुलक्षणोपपदप्रकीर्णभेदात् । तत्र क्रियादीनां मिथो मर्यादावधिः । स पूर्वकालव्यातिहारपरायोगकालाधअवादिभेदादनेकप्रकारः । तेषु पूर्वकालो यथा--- कृतोर्मिलेखं शिथिलत्वमायाता शनैश्शनैश्शान्तरयेण वारिण । निरीक्ष्य रेमे स समुद्रयोषितां तरङ्गिक्षैमविपाण्डुड्डत्ध्;सैकतम् ।। व्यतिहारो यथा-- स्तनोपपीडंड्डत्ध्; परिरभ्य चुम्बतोः प्रजल्पतोरप्यनवस्थितं मुहुः । स्त्रश्च यूनोरपमित्य याचतोरिद्रयो रेव जगाम शर्वरी ।। परयोगो यथा-- प्रालेयाद्रेरुपतटमतिक्रम्य तांस्तान्विशेषान् । हंसद्वारं भृगुपतियशोवत्र्मयत्क्रौञ्चरन्धम् । तेनोदीचीं दिशमनुसरेस्तिर्यगायामशोभि- श्यामं पादो बलिविमथनाभ्युत्थितस्येव विष्णोः ।। अपयोगो यथा-- अप्राप्य पर्वतमिमानि पुरोविलीननीन्ध्रलोध्रवकुलानि वनस्थलानि । आसेदुषस्तव हरिष्यति येष्वघौघमध्वक्लमं च सुरसिन्धुतरङ्गवातः ।। कालयोगो यथा-- एवमिन्द्रियसुखस्य वत्र्मनस्सेवनादनुगृहीतमन्मथः । शेलराजभवने सहोमया मासमेकमवसद्वृषध्वजः ।। अध्वयोगो यथा-- ....... ...... ......नशतं । सदा पान्थः पूषा गगनपरिमाणं गणयति ।। इति प्रयोभावास्स्फुरदुपधिमुद्रामुकुलिताः । सतां प्रज्ञोन्मेषः पुनपयसीमा विजयते ।। 5.18. सिद्धस्य क्रियार्थमभिमुखीकरणं सम्बोधनम् । तत्षोढा, नियोगनिषेधानुमत्युपालम्भप्रश्नाख्यानार्थदात् । तेषु नियोगार्थं यथा-- आज्ञापय ज्ञातविशेषपुंसां लोकेषु यत्तेकरणीमस्ति । अनुग्रहं संस्मरमप्रवृत्तमिच्छामि संवद्धितुमाज्ञया ते ।। निषेधार्थ यथा-- आद्र्रसेसरसुगन्धि ते मुखं मत्तमत्तनयनं स्वभावतः । अत्र लब्धवसतिर्गुणान्तरं किं विलासिनि मदः करिष्यति ।। अनुमत्यर्थः यथा-- सर्वं सखे त्वय्युपपन्नमेतदुभे ममास्त्रे कुलिशं भावांश्च । पूर्वं तयोवींर्यमहत्सु कुष्ठं त्वं सर्वतोगामि च साधकञ्च ।। उपालम्भार्थं यथा-- अवस्तुनिर्बन्धपरे कथं नु ते करोऽयमामुक्तविवाहकौतुकः । करेण शम्भोर्वलयीकृताहिना सहिष्यते तत्प्रथमापराधम् ।। प्रश्नार्थे यथा-- का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते । आचश्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति ।। आख्यानार्थ यथा-- नूनमुन्नमति यज्वनां पतिश्शार्वरस्य तमसो निषिद्धये । पुण्डड्डत्ध्;रीकमुखु दिङ्मुखं यतः कैतकैस्वि रजोभिराहतम् ।। 5.19. प्रकृतिप्रत्ययसमुदायस्य फ्रकृत्यर्थभागमुखेन भेदकं क्रियाविशेषणं, भावोत्पन्नेऽपि हि प्रत्यये कदाचित्समुदायः प्रत्ययमुखेन विशेष्यते, तीव्रः पाकः, तीव्रं पाक इति । नामरूपमव्ययरूपं कद्रूपं तद्धितरूपं समासरूपमुपसर्गादिरूपमिति । तेषु नामरूपं यथा-- मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां वामश्चायं नदति मधुरं चातकस्ते सगन्धः । गर्भाधानक्षणपरिचयान्नूवमाबद्धमालास्सेविष्यन्ते नयनसुभगं खे भवन्तं वलाकाः ।। अव्ययरूपं यथा-- प्रशान्तधर्माभिभवश्शनैर्विवान् विलासिनीभ्यः परिमृष्टपङ्कजः । ददौ भूजालम्बमिवात्तशीकरस्तरङ्गमालान्तरगोचरोऽनिलः ।। कृद्रूपं यथा-- शय्यन्ते हतशायिकाः पथि तरुच्छायानिषपण्णाध्वगैः श्रीकण्ठायतनेषु धार्मिकजनैरास्तन्त उष्ट्रासिकाः । शून्ये तत्र निकञ्जशखिनि सखि ग्रीष्मस्य मध्यन्दिने सज्जानां दयिताभिसारणविधौ रम्भः क्षणो वर्तते ।। तद्धितरूपं यथा-- शतं वारानुक्तः प्रियसखि वचोभिस्सुपरुषैरसहस्त्रं निर्धूतः पदनिपतितः पाÐष्णहतिभिः । कियत्कृत्वो बद्धाःपुनरपि न वेद्मि भ्रुकुटयस्तथाऽपि क्लिश्नान्मां क्षणमपि न धष्टो विरमति ।। समासरूपं यथा-- प्रसीद विश्राम्यतु वीर वज्रं शरैर्मदीयैः कतमस्तवारिः । बिबेतु मोघीकृतबाहुवीर्यः स्त्रीभ्योऽपि कोपस्फुरिताधराभ्यः ।। 5.20. कत्र्रादीनां स्वेभ्यः परे कारकविशेषणम् । तदपि षोढा, कर्तृविशेषणं कर्मविशेषणं करणविशेषणं संप्रदानविशेषणमपादानविशेषणमधिकरणविशेषणमिति । तेषु कर्तृविशेषणं यथा-- सा मङ्गलस्नानविशिद्धगात्री गृहीतवत्युद्गमनीयवस्त्रम् । निवृत्तपर्डड्डत्ध्;न्यजलाभिषेका प्रफुल्लकाशा वसुधेव रेजे ।। कर्मविशेषणं यथा-- अशोकनिर्भÐत्सतपद्मरागमाकृष्टहेमद्युतिकरर्णिकारम् । मुक्ताकलापीतकृतसिन्धवारं वसन्तपुरुष्पाभरणं वहन्ती ।। करणविशेषणं यथा-- मुखेन सा पद्मासुगन्धिना निशि प्रवेपमानाधरपत्रशोभिना । तुषारवृष्टिक्षचपद्मसम्पदां सरोचसन्तानमिवाकरोदपाम् ।। संप्रदानविशेषणं यथा-- तस्मै हिमाद्रेः प्रयतां तनूजां यतात्मने रोचयितुं यतस्व । योषुत्सु तद्वीर्यनिषेकभूमिस्सैव क्षमेत्यात्मभुनोपदिष्टम् ।। अपादनविशेषणं यथा-- विसृष्टरागादधारान्निवर्तितस्स्तवाङ्गरागारूणिताञ्च कन्दुकात् । कुशांकुरादानपरिक्षतांगुलिः कृतोऽक्षसूत्रप्रणयी तया करः ।। अधिकरणविशेषणं यथा-- 5.21. अनुप्रयोगार्थश्शेषः । स षोढा, लिडड्डत्ध्;नुप्रयोगार्थः, लोजनुप्रयोगार्थः, कृजनुप्रयोगार्थः, यथाविध्यनुप्रयोगार्थः, अधिकानुप्रयोगार्थः, द्विर्वचनानुप्रयोगार्थः इति । सिडड्डत्ध्;नुप्रयोगार्थो यथा-- न लङ्घायामास महाजनानां शिरांसि नावोद्धतिमाजगाम । अचेष्टताष्टापदभूमिरेणुः खुराहतो यत्सदृशं गरिम्णः ।। लोजनुप्रयोगार्थो यथा-- पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः । निगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दुवः ।। कृदनुप्रयोगार्थो यथा-- सलीलमासक्तलातान्तभूषणं समासजन्त्या कुसुमावतंसकम् । स्तनोपपीडंड्डत्ध्; नुनुदे निताम्बिना धनेन कश्चिज्जघनेन काचन ।। यथाविध्यनुप्रयोगार्थो यथा-- स ते प्रियश्चेत्सुभगोपरोधैर्विचिन्तितैरस्य फलं न किञ्चित् । प्रियापराधो हि विचिन्त्यमानस्समूलकाषं कषतीव चेतः ।। तद्धितानुप्रयोगार्थो यथा-- परिक्षते वक्षति दन्तिदन्तैः प्रियाङ्कशीता नभसः पतन्ती । नेह प्रमोहं प्रियसाहसानां मन्दारमाला विरलीकरोति ।। द्वर्वचनानुप्रयोगार्थो यथा-- वदत वदत सत्यं रूपमीदृक्कदाचिद्यति पुनबलाया दृष्टरूपर्वं मुखादि । जगति जितसमस्तारातिवर्गे ..... मिव न दृष्टं मत्प्रसादाद्भवद्भिः ।। 5.12. चादिनिपातद्योत्यः समुञ्चयादिः पदार्थधर्मः परिशेषः । सोऽनन्तप्रकारोऽपि शड्ड्डित्ध्;वधः इहोदाहियते । समुञ्चयः, विकल्पः, उपमा, नियोगः विनिग्रहः, पतिषेधः । तेषु समुञ्चो यथा-- इतो गमिष्याम्यथवेति वादिनी चचाल सा च स्तभिन्नववल्कला । स्वपूरमास्थाय च तां कृतस्मितस्समाललम्बे वृषराजकेतनः ।। विकल्पो यथा--- विभूषणोद्भासि पिनद्धबोगिवा गजाजिनालम्बि दुकूलधारि वा । कपालि वा स्यादथवेन्दुशेखरं न विश्वमूर्तेरवधार्यते वपुः ।। उपमा यथा--- हस्तेन हस्तं परिगृगंय वध्वास्सरोजसू नुस्सुतरां बभासे । अनन्तराशोकलताप्रवालं प्राप्येव चूतः प्रतिपल्लनेन ।। नियोगो यथा--- रूपं तदोजस्वि तदेववीर्यं तदेव नैयर्गिकमुन्नतत्वम् । न कारणात्स्वाद्विभिदे कुमारः प्रवर्तितो दीप इव प्रदीपात् ।। विनिग्रहो यथा--- त्वमहनीव निबर्हय मानिनीः विरहिणः कु ...... ति । इति निवेशयति स्म कलापना मनुगिरं नु गिरं जलदागमः ।। निषेधो यथा--- न प्रसादमुचितं गमिता द्यौः नोद्धृतं तिमिरमद्रिवरेभ्यः । दिङ्मुखेषु न च धाम विकीर्णं भूषिता च रजनी हिमभासा ।। 2.23. यद्युत्पत्तौ सहकारिलाभः तदा सहार्थस्त्रिधा, अभिधीयमानः, प्रतीयमानो व्यवधीयमानश्च । तेष्वभिधीयमानो द्विधा, सहेन पर्यायेण च । तयोराद्यो यथा-- अनेन यूना सह पार्थिवेव रम्भोरु कञ्चिन्मनसो रुचिस्ते । शिप्रातरङ्गानिलकम्पितासु विहर्तुमुद्यानपरम्परासु ।। द्वितीये यथा-- अनेन सार्धं विहाराम्बुरशेस्तीरेषु तालीवनमर्मरेषु । द्वीपान्तारानीतलवङ्गपुश्पैरपकृतस्वेदलवा मरुद्भिः ।। प्रतीयमानोऽपि द्विधा, विभक्तितो निपाता#्च । तयोराद्यो यथा-- स पौरकार्याणि विचिन्त्य काले रेमे विदेहाधिरतेर्दुहित्रा । उपस्थितं चारु वपुस्तदीयं कृत्वोपभेगोत्सुकयेव लक्ष्म्या ।। द्वितीये यथा-- तमन्वगच्छत्प्रमो विधाता श्रीत्वसलक्ष्मा पुरुषश्च साक्षात् । जयेति वाचा महिमानमस्य संवर्धयन्तौ हविषेव वढिद्धठ्ठड़14;नम् ।। 5.14. व्यधीयमानोऽपि द्विधा, वीप्सया भागेन च, "सहकृता एव हि क्रियागुणद्रव्यैः प्रयोक्त्रा युगपद्व्याप्तुमिष्यन्ते, सहकृता एव च विभ्जयन्ते । अर्थशब्दस्तु निवृत्तिवचनोऽपि विद्येत, यथा मशकार्थो धूम इति । " तत्र वीप्सया यथा-- सुगन्धिनिश्वासविवृद्धतृष्णं बिम्बाधरासन्नचरं द्धिरेफम् । प्रतिक्षणं सम्भ्रमलोलदृष्टिलीनारविन्देन निवारयन्ती ।। भागेन यथा-- अलंकृताप्यन्वयरूपभूषणैर्न शोभचते मां प्रति तावदङ्गानां । बिभर्ति यावत्प्रमदासमागमे न शूरभार्यादृतगर्वितं शिरः ।। 5.25. कार्यस्य कार्यिणो वा, कारणं प्रति प्रयोजकत्वं तादथ्र्यम् । तत्षोढा,क्रियातादथ्र्यं, द्रव्यतादथ्र्य, क्रियाद्रव्यतादथ्र्ये, द्रव्यक्रियातादथ्र्यं, फ्रकडड्डत्ध्;तिविकारतादथ्र्यं, क्रियाकारकतादथ्र्यमिति । तत्र क्रियातादथ्र्यं यथा-- पुनग्र्रहीतुं नियमस्थाया तया द्वयीषु निक्षेप इवार्पितं द्वयम् । लतासु तन्वीषु विलासचेष्टितं विलोलदृष्टं हरिणाङ्गनासु च । द्रव्यतादथ्र्य .यथा--- प्रसन्नदिक्पांसुविविक्तवातं शढद्धठ्ठड़14;ख्वनानन्तपुष्पवृष्टि । शरीरिणां स्थावरजङ्गमानां सुखाय तज्जन्मदिनं बभूव ।। क्रियाद्रव्यतादथ्र्यं यथा-- तस्याः प्रकामं प्रियदर्शनोऽपि न स क्षितीशो रुचये बभूव । शरत्प्रविष्टाम्बुधरोपरोधश्शशीव पर्याप्तकलो नलिन्याः ।। द्रव्यक्रियातादथ्र्यं यथा-- अलभ्यशोकाभिभवेयमाकडड्डत्ध्;तिर्विमानना सुभ्रु कुतः पितुर्ग-हे । पराभिमर्शो न तवास्ति कः करं प्रसारेत्पन्नगरत्नसूचये ।। प्रकृतिविकारतादथ्र्यं यथा-- वन्यं फलं चार्तवमाहरन्त्यो बूजं च बालेयमंकृष्टरोहि । विनोदयिष्यन्ति नवाभिषङ्गामुदारवाचो मुनुकन्यकास्त्वाम् ।। क्रियाकारकतादथ्र्यं यथा-- गेहाद्याता सरितमुदकं हारिकानाजिगीषे मङ्क्ष्यामीति श्रयसि यमुनातीरविरुद्गृहाणि । गोसन्दायी विशसी विपिनान्येव गोवर्धनाद्रेः किं त्वं राधे दृशि निपातिता देवकीनन्दनस्य ।। 5.26. हेतुविशेषेषु प्रयोजकः कारकश्च कारक एव, अकारकस्तु प्रपञ्च्यते । तत्र कार्यप्रसवयोग्याः कारकस्तु षोढा, लिङादिवाच्यः, सद्वाच्यः, निपातादिवाच्यः, तृतीयावाच्यः, पञ्चमीवाच्यः, प्रथमादिवाच्य इति । तेषु लिङादिवाच्यो यथा--- पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् । ततोऽनुकुर्यात् विशदस्य तस्यास्ताभ्रोष्ठपर्यस्तरूचः स्मितस्य ।। सद्वावाच्यो यथा--- सा संभवद्ङिः कुसुमैर्लतेव ज्योतिर्भिरिद्यद्भिरिव त्रियामा । सरिद्विहङ्गैरवि लीयमानैरमुच्यमानाभरणा चकाशे ।। निपातादिवाच्यो यथा--- नैसर्रिकी ...... .... ......... ....... ....... ...... । इतीव जङ्घायुगलं तदीयं तक्रे तुलाकोट्यधिरोहणानि ।। तृतीयावाच्यो यथा--- तया दुहित्रा सुतरां सवित्री स्फुरत्प्रभामण्डड्डत्ध्;ालया चकाशे । विदूरभूमिर्नवमेघशब्दादुद्भिन्नया रतनशलाकयेव ।। पञ्चमीवाच्यो यथा--- अतोऽत्र किञ्चिद्भवतीं बहुक्षमां द्विजातिभावादुपपन्नचापलः । अयं जनः प्रष्टुमनास्तपोधने न चेद्रहस्यं प्रतिवक्तुमर्गसि ।। प्रथमादिवाच्यो यथा--- उद्वेजयत्यङ्गुलिपाÐष्णभागान्मार्गे शिलिभूतहिमेऽपि यत्र । न दुर्वहश्रोणियोधरार्ताः छिन्दन्ति मन्दां गतिमश्वमुख्यः ।। 5.27. हेतुरेव ज्ञपको लक्षणं ; तत्षोढा, द्रव्यलक्षणं, इत्थंभूतलक्षणं, विकारलक्षणं, उत्पातलक्षणं, भावलक्षणं, क्रियालक्षणमिति । तेषु द्रव्यलक्षणं यथा-- तां प्रत्यभिव्यक्तमनोरथानां महीपतीनां प्रणयाग्रदूत्यः । प्रवालशोभा इव पादपानां श्रृङ्गारचेष्टा विविधा बभूवुः ।। इत्थेभूतलक्षणं यथा-- कलक्कणितगर्भेण चञ्चुना चङ्क्रमोद्यतः । पारावतः परिक्रम्य रिरंसुशअचिम्बति प्रियाम् ।। विकारलक्षणं यथा-- स बालभावाद्वपुषा चतिर्भुजो मुखेन पूर्णेन्दुनिभस्त्रिलोचनः । युवा कराक्रन्तमहीभृदुञ्चकैरसंशयं संप्रति तेजसा रविः ।। उत्पातलक्षणं यथा-- गोनासाय नियोजितगदरजास्सर्पाय बद्धैषधिः कण्ठस्थाय विषाय वार्यमहतः पाणौ मणीन्बिभ्रती । भर्तुर्भूतगणाय गोत्रजरतीनिर्दिष्टमन्त्राक्षरा रक्षत्वद्रिसुता विवाहसमये ह्रीता च भीता च या ।। भावलक्षणं यथा-- तथागतायां परिहासपूर्वं सख्या सखी वेत्रभृता बभाषे । आर्ये व्रजामोऽन्यत इत्यथैनां वधूरसूयाकुटिलं ददर्श ।। क्रियालक्षणं यथा-- बध्नन्नङ्गेषु रोमाञ्चं कुर्वन्मनसि निर्वृतिम् । नेत्रे चामीलयन्नेष प्रियास्पर्शाः प्रवर्तते ।। 5.28. उपपदं षोढा, क्रियारूपं, नामरूपं, नामार्थरूपं, प्रत्ययारूपं, निपातरूपं, कर्मप्रवचनीयरूपमिति । तेषु क्रियारूपं यथा-- भवत्सम्भावनोत्थाय परितोषाय मूच्र्छते । अपि व्याप्तदिगन्तानि नाङ्गानि प्रभवन्ति मे । नामरूपं यथा-- सुखैस्तेभअयो विभावर्यस्तेभ्यो हितमहस्सदा । यषामकडड्डत्ध्;त्रिमप्रेमा प्रिया पाश्र्वं न मुञ्चति ।। नामार्थरूपं यथा-- हुतहुताशनदीप्तिवनश्रियः प्रतिनिधिः कनकाभारणस्य यत् । युवतयः कुसुमं दधुराहितं तदलके दलकेसरपेशलम् ।. प्रत्ययरूपं यथा-- नृपसुतमभितस्समन्मथायाः परिडड्डत्ध्;जनगात्रतिरोहिताङ्गयष्टेः । स्फुचमभिलषितं बभूव वध्वा वदति हि संवृतिरेव कामितानि ।। निपातरूपं यथा-- यो हि दीर्धासिताक्षस्य विलासविलितभ्रुवः । कान्तामुखस्यावशगस्तस्मै नृपशवे नमः ।। कर्मपवचनीयरूपं यथा-- आलोचनान्ताच्छ्रवणे विवृत्य पूतं गुरोस्तद्वचनं भावान्या । निदाघकालोल्बणतापयेव माहेन्द्रमम्भः प्रथमं पृथिव्या ।। शब्दान्तरसाहचर्यविरोधलिङ्गस्वराभिनयादयः प्रकीर्णम् । तत्र साहचर्यं यथा-- भवति समदना रतये तिलकवती चारुचम्पकच्छाया । घनचन्दनवलकिचाक्रान्ता तव विद्विषामटवि ।। साहचर्यं यथा-- लक्ष्मणानुगतो रामस्त्यागीराम इवापरः । कौसल्येव बिभर्ति द्यौरभिषेकोज्जवलां श्रियम् ।। विरोधो यथा-- हरिबाणाविमौ रोषादुभावापि धृतायुधौ । प्रहर्तुमुद्यतौ वीरौ रणे रामार्जुनाविव ।। लिङ्गं यथा-- आप्याययति मित्रोऽयमस्य मित्रं पयोनिधिः । सोऽप्यमित्रश्शशी जातस्तदमैत्र्याद्य मे सखि ।। स्वरो यथा-- यदि मे वल्लभा दूती तदारमपि वल्लभा । यदि तस्यां प्रिया वाचस्तन्ममापि प्रिय प्रियाः ।। अभिनोय यथा-- एते वायममी दाराः कन्येयं रॉकुलजीवितम् । ब्रूत येनात्र वः कार्यमानास्था वा ह्यवस्तुषु ।। 5.29. प्रातिपदिकार्थस्त्रिधा, स्वार्थो, द्रव्यं, लिङ्गं च । तेषु शब्दात्मैव स्वार्थः । स द्विधा, स्वरूपमनुकार्यश्च । तयोः स्वरूपं द्विधा, सत्त्ववचनार्हमसत्त्ववचनार्हं च । तत्राद्यं यथा-- चीडड्डत्ध्;ामणीश्शिरोरन्ते करलो हारमध्यगे । पर्यङ्कश्शयने प्रोक्त आवेशश्चापि वेश्मनि ।। द्वितीयं यथा-- मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवामादिभिः । उत्प्रक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशाः ।। इति ।। अनुकार्यो द्विधा, अर्थवाननर्थश्च । तयोरर्थवान्यथा-- उन्नमय्य सकचग्रहमास्यं चुम्बति प्रियतमे हठवृत्त्या । हुंहु मुञ्च मममेति च मन्दं जल्पितं जयति मानवतीनाम् ।। निरर्थको यथा-- अग्रशालमधिरुह्य नगस्य स्फारकण्ठकुरोमदमत्तः । ह्रस्वदीर्घसविसर्गघुकारान् घोषयत्युषसि पाण्डुड्डत्ध्;कपोतः ।। 5.30. उपात्तनिमित्तेनानुपात्तनिमित्तेन वा यत् श्रूयते गम्यते प्रत्यभिधीयते तद्द्रव्यम् । तद्धिधा, आश्रयरूपमनाश्रयरूपं च । तत्र जात्यादिभिः प्रवृत्तिनिमित्तैर्यदाश्रयते तदाश्रयरूपम् ; यथा---गौः, अश्वः, शुक्लः, एकः, प्रस्थं , पलं, ऋजुः, पूर्वः, पाचकः,दण्डड्डत्ध्;ी, राजपुरुषः, चैत्रः, इति । तद्विपरूतमनाश्रयरूपं निपातव्ययोपसर्गगतिकर्मप्रवचमीयादीनामर्थः यथा--अहं च त्वं, च वृत्रहन्, कस्त्वामूरीकरिष्यति, कस्तं प्रति नयास्यति, स्वयं प्रयेतुमिच्छति । लिङ्गं द्विधा, शब्दलिङ्गमर्थलिङ्गञ्च । तयोरियमयमिदत्यर्थव्यपदेशनिमित्तं शब्दसंस्कारहेतुरयमित्यर्थव्यपदेशकारणं पुमान् नपुंसकस्य झलच इति ........ उपस्कारहेतुरिदमित्यर्थव्यपदेशकारणात् नपुंसकमिति । तदेनच्छुद्धमिश्रादिभेदात् षोढा विप्रथते । शुद्धं, मिश्रं सङकीर्णं, उपसर्जनं, आविष्टं, अव्यक्तं च । तेष्वेकसंकास्कारहेतुश्शुद्धम् ; खट्वा, वृक्षः, कुणडंड्डत्ध्;, स्त्री, पुमान्, नपुंसकमिति । संस्कारद्वयोपग्राहि मिश्रम्, मरीचिः, ऊर्मिः, अर्तिः, छर्दिः, कषायः, कवाटमिति । संस्कारत्रययोगि सङ्कीर्णम्, तटी तटः तटं, शृङ्खला शृङ्खलः शृङ्खलमिति । विशेष्यशब्दनियतविशेषणरूपमुपसर्जनम्, शुक्ला शुक्लः शुक्लं, पट्वी पटुः पट्विति । विशेषणत्वेऽपि नियतशब्दसंस्कारार्हमाविष्टम्, प्रकृतिः, विषयः, प्रधानं, भार्या, दाराः, कलत्रमिति । लिङ्गनिमित्तशब्दसंस्कारावर्हमव्यक्तम्, पञ्च, षट्, कति, उञ्चैः । विशेष्यते, अवच्छिद्यते द्रव्यं येन तच्छब्दस्यार्थे प्रवृत्तिनिमित्तमर्थधर्मोऽर्थलिङ्गविशेषणं गुणो भाव इति चाख्यातम् । तत्र्त्रिधा, गुणः, परमाणं, संबन्ध इति । तत्र द्रव्ये स्वाद्युक्ते प्रत्ययजनको गुणो जातिः, गुणस्सङ्ख्या, संस्थानमवस्थानमित्यादि । यथा--गौः, ब्राह्मणः, पटुः, गौरः, एकः, अनेकः, हनूमान्, वासुदेवः, युवा, वृद्धः, ऋजुः, पूर्व इति । अननुरञ्जकमात्राभिधेयमवच्छेदकं परिमाणं तदध्वगौरवसङ्ख्यासङ्घातक्षेत्रादिभेदादनेकधा । यथा--योजनं पर्वतः, फलं सुपर्णः पुराणः, कपर्दकाः, अक्षौहिणी बला, खारी व्रीहयः निवर्तनं भूमिरिति । कृत्तद्धितसमासप्रतिपदिकविशेषाणार्थेषु प्रवृत्तिनिमित्तं संबन्धः । स त्रइधा, क्रियासंबन्धो द्रव्यसंबन्धः क्रियाद्रव्यसंबन्धश्च । तत्र क्रियासंबन्धो यथा, पाचक इति । द्रव्यसंबन्धो यथा--दण्डड्डत्ध्;ी राजपुरुष इति । क्रियाद्रव्यसंबन्धो यथा--आक्षिकः, निषेकौशाम्बिरिति । यदा पुनः जातिगुणपरिमाणादयश्शब्दाः प्राधान्येनाभिधीयन्ते भावप्रत्ययैर्वा प्रतिपाद्यन्ते तदैत#ेषां द्रव्यत्वमेव, न लिङ्गत्वम् । भावप्रत्ययो हि जातिगुणाज्जातिगुणे ; समासकृत्तद्धितात्तु संबन्धे, डिड्डत्ध्;त्थादेः, स्वे रूपे, धवखदिराज्जातिसङ्घात इति । अन्ये तु स्वार्थो विशेषणं, द्रव्यं विशेष्यं, लिङ्गं स्त्रीनपिंसकमित्याचक्षते । तञ्च निपातगत्युपसर्गकर्मप्रवचनीयादिप्रातिरदिकार्था इत्यभिधीयते । न हि निपातदिकं प्रवृत्तिनिमित्तमुपादायेदंतदिति व्यपदेशयोग्येषु सत्त्वभूतेष्वर्थेषु वर्तन्ते । अपि तु प्रवृत्तनिमित्त्नुपग्रहेणैवासत्त्वभूतं समुञ्चयादिकमर्थमभिनिविशन्ते । तदाह--- तेषामुञ्डड्डत्ध्;ावचार्थत्वात्सर्वसंबन्धदर्शनात् । अन्यतन्त्रतयोद्भूतेरसत्त्वार्थत्वमुच्यते ।। 5.31. अथ किमिमी वाचका उत द्योतका इति । तत्रैके वर्णयन्ति, "तत्प्रत्योगावसेय्तवाद्धाच्यस्तेषां, यथान्येषां गवादिकः । " अन्वयव्यतिरेकनिबन्धना हि शब्दानामभिधेयव्यस्था । ततश्च अनादिप्रयोगादवसीयमानः समुञ्चयविरणादिरर्थात्मा कथममीषां वाच्यो न भवेत् ? प्रतीयेत च शब्दात्समुञ्चयः ; अबं च त्वं च वृत्रहन्निति । विचारणा वा शब्दात्, हन्तांह पृथिवीमिमां निदधानि हवेहवेति । एवमिनादिभ्य उपमानादयो गम्यन्त इति तद्वाच्यास्ते भवन्ति । अन्ये त्वाहुः --- "षष्ठ्यभावादस (त्वाञ्च समुञ्चयविकल्पयोः)। (अकामचरि) तैश्चैषां द्योतक्तवं सुनिश्चितम् ।।" 5.32. तथाहि । प्लक्षन्यग्रोधयोः समुञ्चय इति वाक्यप्रयोगे षष्ठी निर्दिश्यते । नैवम् ; प्लक्षन्यग्रधयश्चिति । यथा च व्रीहियवयोर्विकल्पः प्रवर्ततामिति वाचकशब्दप्रयोगे सत्त्वभूतो विक्लपशब्दार्थः क्रियया संबध्यते, नैवं व्रीहियनयोर्वेति । यथा च वृक्ष इत्येकेनापि वाचकेन शाखादिमानर्थः प्रतीयते, नैवं समुञ्चयो विकल्पोवा । यथा च भीक्षां देहि भिक्षामिति वाचकशब्दानां पौर्वापर्यप्रयोगे कामचारः, नैवं वृक्षश्च वृक्ष इति । यथा च वृक्षश्शोभन इति वाचकस्य विशेषणयोगो दृश्येत, नैवं च शोभन इति । तदेवं वाचकशब्दवैधम्यात् द्योतकाश्चदय इति निश्चीयते । स्मरति च सूत्रकारश्चादयोऽसत्त्व इति । निरक्तकारोऽप्याह---भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानि चोपसर्गा उञ्चावचेष्वर्थेषु पतन्तीति निपाता इति । सचैशामुञ्चावचोऽनेकप्रकारोऽर्थः स्वतोऽनवगम्यमानात्मा पदान्तरसंबन्दोपहितप्रकरणाद्युनुविधआनेनावसीयते । ततः स्वरूपमात्रेणाप्यर्थानवगतौ इतरप्रयोगापेक्षत्वात् द्योतक एवैते, न वाचका इति । एतत्तु सर्वं सव्यभिचारमिति केचित् । तथाहि । वाचकेनाप्याख्यातेन द्योतितं सत्त्वभूतार्थमपि च वाचकमाख्यातमास्यते भवद्भिरिति वाचकावपि प्रकृतिप्रत्ययौ नैव केवलौ प्रयुज्येते । जुहोतीति वाचकविवर्तिपदं पौर्वापर्यनियमेनावतिष्ठते । राजपुरुष इति स्मृतेश्चोति यदुच्यते तदप्ययुक्तम् । न ह व्याकरणेऽर्था आदिश्यन्ते, निरुक्तकारो वाचकतां मन्यते न तु द्योतकतां, अतो व्यभिचारदर्शनात् कथमिवैतदुपपन्नं भवति ? उच्यते । वाचकत्वादाख्यातप्रयो#ेग शेषविवक्षायां षष्ठ्यपि दृश्यते ; न माषाणामश्नीयादिति । चादिप्रयोगे तु षष्ठी नैव भवति । न च स्वभावस्यासत्त्वरूपता संबन्धः, दृश्यते रूपमवगन्तुं, तदेवासत्त्वभूतमर्थमात्रमवगमयन्ति । प्रकृतिप्रत्ययाभ्यां च केवलाभ्यामप्यर्थोऽभिधीयते, दधि मधु इयानधुनेति । चादयस्तु नैव केवलाः तमभिदधते । अथैवमुच्यते शब्दान्तराण्येवैतानि दध्यादीनि प्रयोगसमवायीनि .......... हे प्रकृतिप्रत्ययावपि न स्तः । कथमभिधीयते प्रकृतिप्रत्ययावपि कैवलै नार्थं ब्रूत इति वर्ति पदानां पुरनुयतप्रयोगत्वमपि दृश्यते, आहिताग्निरग्न्याहित इति । न चैवंप्रकारतानादिनां शब्दान्तरमेव वा समासः । वावचनानथ्र्य च स्वभावसिद्धत्वादिति । यदि वावर्तिनीपदावनां उपसर्जनं पूर्वमित्यादिना प#्रकृतिप्रत्यययोरपि परश्चेति वचने गत्युपसर्गाणां ते प्राग्धातोरित्यनेन प्रयोगनियमः ; प्रयोगनियमानामपि प्रयोगनियमो दृश्यते, तस्मादव्यभिचार इति । उपसर्जनानामपि च विशेषयोगो दृशअयते, देवदत्तस्य गुरुकुलमिति । चादीनां तु नैतत्कदाचिदप्यस्ति, व्याकरणे चार्थाः कथं वादिश्यन्त इति । शआलीनकौपीने, अधृष्टाकार्ययोः, अगारैकदेशे प्रघणः प्रघाणश्चेति । निरुक्तेऽप्युञ्चावचस्यार्थस्य केवलान्निपातादनुपलब्धेः पदान्तरोपादानात्तु तदर्थाभिव्यक्तेर्निपातो द्योत्यते । अतो द्योतका एव न वाचकाश्चादय इति । अथ गत्युपसर्गकर्मप्रवच नीयानां वार्ता ? उच्यते । गतीनां तावत्सदसदादीनामादरानादरादिनाच्यनिर्देशेनैव गति संज्ञाविधानार्दिष्टवाच्यानामप्यूर्यादीनां वाचकत्वमेव गम्यते । उपसर्गास्तु वाचकाः द्योतकाः विशेषकास्सहाभिधायकाः कार्यार्था निरर्थकाश्च भवन्ति । कर्मप्रवचनीयाः पुनर्निपातवत् द्योतका एव । तदाह-- क्रियाविशेषजन्यातां संबन्धानां प्रकाशने । कर्मत्वं करणत्वं च भेदेनैवाश्रितं कथम् ।। 5.33. इह खलु संबन्धाः क्रियापूर्वकत्वात् करणानविधायितया क्रियोपदर्शितविशेषं कारकमाश्रयन्ति । तत्र च भिन्जातीयस्य युगपदेकया विभक्त्यावक्तुं शक्यत्वात् शेषसंबन्धाभिधानवेलयामशब्दोपादानः क्रियाकारकसंबन्धश्शब्दवता शएषसंबन्धेनानुमीयमानसन्निधिरवतिष्ठते । तञ्च#ानुमानं शेषसंबन्धस्य क्वरूपसामथ्र्यन्नियतक्रियायविषयमनियतक्रियाविशयञ्च । नियतक्रियाविषयं यथा--- ... ना जना कर्तर्यपेक्षितकर्मविशेषे शेषलक्षणं पितापुत्रसंबन्धमुत्पादयतीति । सैव तस्मादनुमीयते । तथा वृक्षस्य शाखेत्याधाराधेयनिबन्धाना स्थइतिरपेक्षितकर्तृविशेष#ेऽधिककरणेऽवयवायवयविलक्षणं शेषसंबन्धं निबन्धातीति सैव प्रतीयते । अनियतक्रियाविषयं यथा-- राज्ञः पुरुष इति स्वस्वामिसाधनाभरणक्रयणापजयादिरनियतानेका क्रिया कर्ताशेषसंज्ञकं स्वस्वमिसंबन्धं संनिवेशयति । स चानियतानेकक्रियापूर्वकत्वादपर्याप्तः क्रियाविशेषमनुमापयितुमिति स्वनिमित्तक्रियासामान्यमेवानुपयति । एवंविदे विषये क्रियाविशएषणप्रकाशनाय कर्मप्रवचनीयाः प्रयुज्युन्ते । यथा--शाकल्यास्य संहितामुप्रावर्षवर्षणयोर्हेतुफलभावो नियमयति क्रियापूर्वकः इत्येतदमुना प्रकाश्यते । यतः क्रियापदस्य विभक्तेरशक्यं कल्पयितुं क्र#ियाविशेषप्रकाशनमपि क्रियापदसन्निधानायत्तमसति क्रियापदे न युक्तम् । संबन्धोऽपि नास्याभिधेयः । तस्य विभक्तिप्रत्ययनिबन्धनत्वात् । यदि च कर्मप्रवचनीयस्तभिदधीत, प्रातिपदिकार्थस्य व्यतिरेकोपजनो न स्यात् ; यथा--राजस्वामीति । प्रतीयते च लोके कर्मप्रवचनीययोगो संबन्धस्य निमित्तविशेषावच्छेदः । तस्मात्स तस्य प्रयोगजक इत्यवसीयते । तदुक्तम् ---- क्रियाया द्योतको नायं वन संबन्धस्य वाचकः । नापि क्रियापदाक्षेपी संबन्ध्सय तु भेदकः ।। इति । ननु च नाप्रतीतायां निशमयतिक्रियायां तया संबन्धस्यावच्छेदश्शक्यते कर्तुम् । तदमनुः क्रियामप्रत्याययत् संबन्धमवच्छिनत्तीति न युज्यते । अथास्य क्रियाप्रकाशनमन्यत्रादर्शनान्न कल्प्यते । संबन्धावच्छेदोऽपि मा प्रकल्मि, अन्यत्रादर्शनादेव । उच्यते । क्रियैभेदसमधिगतमात्मातिशयसंबन्धस्यावगमयन्नर्थसामथ्र्यत् क्रियाविशेषः प्रथ्ययनिमित्तमनुः । अतोऽस्य क्रियावचनत्वमन्यतः क्रियाप्रतीतेर्न कल्प्यते । यदि वा निमित्तभेदोपधेयविशेषापरामर्शेन रूपभेदं संबन्धस्यावगमयन्ति कर्मप्रवचनीयाः । यथा--अधि ब्रह्मदत्ते पञ्चाला#ः, अभिमन्युः अर्जुनतः प्रतीति स्वस्वामिभावस्सादृश्यं च कर्मप्रवचनीयात्प्रतीयते । विशिष्टाधिकरणव्यवच्छेदास्तु संबन्धास्स्वरूपातिशयेन क्रियाबेदामधिगमयन्ति । यथा--पञ्चालानां परिपालनकरादानादयः कार्या ब्रह्मदत्तेन, अभिमनयुरध्यवसायसंप्रहरणादयस्सदृशा अर्जुनेन,प्रक्रन्तसंबन्धवशात् अपप्रियन्ते । तदयमनुः संहिताप्रवर्षणयोस्संबन्धं हेतुफलभावेनावच्छिनत्ति । अध्ययनविशेषरूपत्वत्तु संहितायाः । तस्य च शब्दातिशयप्रकाशसामथ्र्यान्निशमनमत्रार्थगृहीतं न कर्मप्रवचनीयाधिगम्यमिति । तस्य तु दर्शनं, अनुः पश्चाद्भावाभइधाने प्रतीतसामर्थो यथा--अनुरूपादानमिति । स इहापि तदर्थमेव भवितुमर्हतीति तस्य हेतौ विधीयवशाद्धेतौ वृत्तिः कल्प्यते । पश्चाद्भावेऽपि अविरोधः, यतः पौर्वापर्यमिह हेतुफलविषयम् । अयमेव तर्हि संबन्धावच्छेदरेतुत्वं पृथक्करणनिमित्तं निपातेभ्यः कर्मप्रवचनीयसंज्ञानां । कथं तर्हि अधिपरी अनर्थकौ, सुः पूजायाम्, अतिरतिक्रमणे च, अपिः पदार्थसंभावानान्ववसर्गगर्हासमुञ्चयेष्वित्यमीषां कर्मप्रवचनीयत्वम् । न हि कश्चिदेभिस्संबन्धोऽवच्छिद्यते । सत्यमेतत् । किन्तु कार्यार्थमेषां अतद्धर्माणामपि शास्त्रे वाचनिककर्मप्रवचनीयत्वमभिहितमिति। 5.33. ननु च जात्यादिप्रवृत्तिनिमित्तोपग्राहिणो वृक्षादयः सत्ववचनाः । तद्विपरीताश्चादयो असत्ववचना इत्युच्यते । न च जातिर्नाम प्रत्यक्षादिसमधिगम्यं किञ्चित्प्रमेयमस्ति । तथा हि ; असौ न प्रत्यक्षाप्रत्यक्षस्य पूर्वापराननुस्यूतास्वलक्षणत्वाज्जातेश्चपूर्वापरानुस्यूतरूपत्वात् । तदाह--- समानवृत्तिता नाम सामान्यस्य विशेषतः । कथं स्पृशति सापेक्षमनपेक्षाक्षजा मतिः ।। 5.35. तं पष्टभाविनस्तु विकल्पास्स्वाभावेनावस्तुविषयत्वान्न सामान्यसिध्द्यै प्रभवन्ति । नाप्यनु मान शब्दो वा समान्यमवस्थापयति । तयोपरि विकल्पविषयत्वेन वस्तुव्यवस्थापकत्वायोगात् । वस्तुप्राप्तिस्तु भेदानवध्यवसायनिमित्तनस्त्वद्यवसायाद्भविष्यति । इतश्च न व#्यक्तिव्यतिरिक्तसामान्यं कुवलयामलकबिल्वादिवद्भेदेनानुपलम्भाद्धटपटादिवञ्च देशबेदाग्रहणात् व्यक्त्यग्रहे च घटपटादिवदेव तदनुपलब्धेव्र्यक्तिवृत्तित्वात्सामान्यस्य तदग्रहे तदनुपलब्धिरिति चेन्न । वृत्त्यनुपपत्तेः । किं प्रातिपिण्डंड्डत्ध्; कार्त्स्न्येन वर्तते जातिरुदैकदेशेन ? पिण्डेड्डत्ध्; सामान्यमेकत्र यदि गोत्नवजातिर्न कुत्रचित् ।। समग्राऽस्तीति गोबुद्धिः प्रतिपिण्डंड्डत्ध्; कथं भनेत् ।। न चास्य निरवयवत्वादेकदेशा विद्यन्ते । न चैकपिण्डेड्डत्ध्; समाप्त्या वर्तमाना पिण्डड्डत्ध्;ान्तरेऽपि समाप्त्यैव काचिद्धृत्तिरुपलभ्यते । न चसमवायात्मिका वृत्तिः । स ह्ययुतसिद्धानां भवति । अयुतस्सिद्धिस्सम्बन्धश्चेति विप्रतिषिद्धम् । द्रव्यगुणयोः अपृथक्सिद्धयोरपि सम्बन्धदर्शनान्नैवमिति चेन्न । तत्रापि गुणव्यतिरिक्तस्य गुणिनो भेदेनासिद्धेः । अवयवावयनोरपि पृथक्सिद्धेरबावान्न सम्बन्धः । नापि रूपरूपिलक्षणस्सम्बन्धो भविष्यतीति वक्तव्यम्, रूपार्थस्य निरूपयितुमशक्यत्वात् । किमयं रूपशब्दश्शुक्लादिगुमवचनस्स्वबाववचनो वा । शुक्लादिवचनत्वे नीरूपाणां पवनमनः प्रभृतीनां द्रव्याणां सामान्यशून्याता स्यात् ।आकारःवचनत्वेऽप्यवसन्निवेशरहितानां तेषामेव सामान्यवचनं प्राप्नोति । स्वभाववचनत्वे तु जातिजातिमतोरव्यतिरेक एव भवेत् । "भाति हि विभेदेन स्वभावो न स्वभाविनः । शब्दातिरिक्ततैवेयं न तु वस्तवतिरिक्तता ।।" अपि चेयं जातिः , सर्वसर्वगतापि स्यात्पिण्डड्डत्ध्;सर्वगतापि वा । सर्वसर्वगत्वेऽस्याः कर्कादावपि गोमतिः ।। अश्वधीश्शाबलेयादावुष्ट्रबुद्धिर्गजादिषु । पदार्थसङ्करश्चैवमत्यन्ताय प्रसज्यते ।। अथाभिव्यक्तिसामथ्र्यनियमान्नैष सङ्करः । हितकर्कादिपिण्डड्डत्ध्;ानां गोत्वाभिव्यक्तिकौशलम् ।। मैवं खण्डड्डत्ध्;ाद्यभिव्यक्तमपि गोत्वनमनंशकम् । स्रवत्रैव प्रतीयेत न वा सर्वगंत भवेत् ।। तदंशग्रहणे तस्य न हि कश्चिन्नियामकः । दीपवद्व्यञ्जकः पिण्डड्डत्ध्;ो न तु तं पिण्डड्डत्ध्;वृत्ति तत् ।। सर्वत्रागृह्यमाणं च सर्वत्रास्तीति को वदेत् । सर्वसर्वगतं तत्र न गोत्वमुपपद्यते ।। पिण्डड्डत्ध्;सर्वगतत्वे तु काममेतददूषणम् । किन्तु नैवाद्य जातायां गवि गोप्रत्ययो भवेते ।। पिण्डेड्डत्ध्;नासीदसञ्जाते जातिर्जातेऽपि विद्यते । संक्रामति न चान्यस्मात्पिण्डड्डत्ध्;ादन्यत्र निष्क्रिया ।। आयान्त्यपि न तत्पिण्डड्डत्ध्;मपोञ्झितपुरातनम् । न चांशैर्वर्तते चेति केयं व्यसनसन्ततिः ।। 5.36. तस्मादपोहरूपमलीकमेव सानान्यं, न परमार्थसदिति । ततश्च तदभावात्तद्वतऽनुपपत्तिरिति । अत्रोच्यते । किं जात्यादेर्बाह्यस्य शब्दार्थस्याभावादपोहे पक्षरातः, उत प्रतीतिबलेनेति । न तैवत्प्रतीतिबलेन, प्रतीतेरनुगताकारकॉविषयत्वेनापोहपरिपन्थित्वात् । नापि जातेरसत्त्वं प्रत्यक्षेण, स्वलक्षमवदावेदितस्वरूपत्वात् । आद्यमेव हि विज्ञानमर्थसंस्पर्शि चाक्षुषम् । न दतुत्तरभावीति किमिदं राजशासनम् ।। तदेवास्तु प्रमाणं वा तेनापि त्वधिगम्यते । व्यावृत्तं वस्तुनो रूपं नानुगामीति का प्रमा ।। भवेद्यदि विशेषैकविषयं निर्विकल्पकम् । सामान्याध्यवसायोऽयमकस्मात्कथमुद्भवेत् ।। नचैतच्छाब्दरूपम् । यतः, पश्यत्यनुगतं रूपमविज्ञातेऽपि वाचके । दाक्षिणात्य इवाकस्मात्पश्यन्नुष्ट्रपरम्पराम् ।। अपि च शाबलेयपिण्डड्डत्ध्;मवलोकितवतः कालान्तरे कालान्तरे बाहुलेयपिण्डंड्डत्ध्; पश्यतश्शाबलेयपिण्डड्डत्ध्;मस्मरणमुत्पद्यते । तत्सामानयाभावे न घटते । न ह्यन्यस्मिन्दृष्टेऽन्यस्मरणनिमित्तं किञ्चिदस्ति । तयोरनुगतरूपाभ्युपगमे तदुपपद्यते नान्यथेति । किञ्च व्यक्त्यन्तरद्रशनेऽपि स एवायं गौरिति प्रत्यभिज्ञायते । तदप्यनुगतरूपाग्रहणे न युज्यते । न च व्यक्तिभेदस्य, प्रत्यक्षसिद्धत्वात् । यत्र च लघुतरपरिमामतलमुद्गादिप्रचयसन्निधानेऽवीच्छिन्नस्वलक्षणग्रहणं नास्ति । तत्रानुवृत्तमेव रूपमिन्द्रियेण गृह्यते । तस्माद्विशेषवत्सामान्यापढद्धठ्ठड़14;ववोन य#ुक्तः । तस्मात्पूर्वाक्षसम्पाते तुलायत्वगम्यते । नानात्वं चेति सामान्यभेदौ द्वावपि वास्तवौ ।। सामान्यमिदमित्येवम्थ तत्रानुपग्रहः । व्यावृत्तमिदमित्येवं किंवा बिद्धिस्स्वलक्षणा ।। समानवृत्तिसापेक्षं न च सामान्यवनेदनम् । तत्र सन्निहितत्वात् व्यक्तिवन्नानुपग्रहः ।। समानवृत्त्यपेक्षत्वात्सामान्यस्यानुपग्रहे । विशेषोऽपि च माग्राहि व्यावृतिं्त स ह्यरेक्षते ।। अनुवृत्तिर्हि येष्वस्य का तेषां ग्रहणे गतिः । व्यावृत्तिरपि येभ्योऽस्य येभ्योऽस्य का तेषां ग्रहणे गतिः ।। अथानुवृत्तिव्यावृत्तिनैरपेक्ष्येण केवलम् । वस्त्वेव गृह्यते कामं कीदृक्तदिति कथ्यताम् ।। निर्विकल्पकवेलायां निर्दिष्टुं तन्न शक्यते । तदुत्थास्तूभयत्रापि साक्ष्यं ददति निश्चायाः ।। यञ्च वृत्तिविकल्पादिदूषणं तत्र वर्णितम् । तत्प्रत्यक्षमहिम्नैव सर्वं प्रतिहतं भवेत् ।। 5.37. यत्तावदिक्तं कुवलयामलकादिवदनवभासादिति तत्र प्रतीतिभेदो दर्शित एव । यत्तु देशभेदेनाग्रहणात्, तदग्रहे तद्बुध्द्यभावादिति तत्र जातेस्तदाश्रित्वं कारणं, नासत्त्वम् । यदप्युक्तं वृत्त्यनुपपत्तेरति तत्राप्युच्यते, प्रतिपिण्डंड्डत्ध्; कार्त्स्न्येनैव जातिर्वर्तत इति पिण्डड्डत्ध्;ान्तरे तदुपलम्भो अस्त्येव । एकदेशास्तु जातेर्न सन्त्येव । क्केदमन्यत्र दृष्टं चेदहो निपुणता तव । दृष्टानां याचते यस्त्वं प्रत्यक्षेऽप्यनुमानवत् ।। 5.38. किंनामधेया वृत्तिरियमिति चेन्न नामधेयमस्याः जानीमः, पिण्डड्डत्ध्;समवेता जातिरित्यव प्रछक्ष्मेहे । नन्वयुतसिद्धयोस्सम्बन्धः समवायः, स विप्रतिषेधादेव निरस्तः न शक्यते निरसितुम् । प्रतीतिभेदाद्भेदोऽस्तु देशभेदस्तु नेष्यते । तेनावकल्पते वृत्तिस्समवायस्स्तूच्यते ।। अवयवायविनोर्गुणगुणिनोश्चेयमेव वृत्तिः । अर्थान्तरत्वं चैतरोर्जातितुल्यन्याययतया सिद्धमेव । देशभेदश्च तयोर्नास्तीति विस्पष्टमयुतसिद्धत्वम् । यदप्युच्यते---"नानिष्पन्नस्य सम्बन्धो निष्पत्तौ युतसिद्धाता । " इति तदपि परिहृतमाचार्यैः । जातिसम्बन्धं चेत्येकः काल इति वदद्भिः या चेह वृत्तिस्तत्सूत्रभूतकण्ठणादिषु । जात्यादीनामनङ्गत्वात्ताभ्यां वृत्तिर्विलक्षणा ।। तस्माद्वृत्त्यनुपपत्तेरित्यदूषणम् । यदपि सर्वसर्वगतत्वं पिण्डड्डत्ध्;सर्वगतत्वं च विकल्पय दूषितं तदपि यत्किञ्चित् यथाप्रतीति तदभ्युपगमात् स्रवसर्वगा जातिरिति तावदुपेयते । सर्वत्र ग्रहणं तस्या व्यञ्जकव्यक्तसन्निधेः । व्यक्तिव्र्यञ्जकतामेति जातेर्दृष्टैव नान्यथा ।। दृष्टिर्यत्र यजदात्वस्यास्तदा तत्रैव तन्मतिः । सर्वत्र विद्यते जातर्नतु सर्वत्र दृश्यते ।। तदभिव्यञ्चिका यत्र व्यक्तिस्तत्रैव दृश्यते । व्यक्तेरन्यत्र सत्त्वेऽस्याः किं प्रमाणं तदुच्यते ।। इहाप्यानीयमानायां गवि गोत्वोपलम्भनम् । गोपिण्डेड्डत्ध्;न सहैकस्या नचागमनसम्भवः ।। देहेनेवात्मनस्तस्मादिहाप्यस्तित्वमिष्यताम् । अभिनव्यक्तिस्तुतत्काला यत्कालं व्यक्तिदर्शनम् ।। तस्मात्सकृदभिव्यक्ता नान्यदापि प्रतीयते । अभिव्यक्तिश्च तद्देशा यद्देशा व्यक्तिरीक्ष्यते ।। तस्मादस्मिन्नभिव्याक्ता न देशेऽन्यत्र दृश्यते । पिण्डड्डत्ध्;सर्वगतत्वेऽपि स्वयूथ्यैः कश्चिदाश्रितो ।। भविष्यत्यन्यजातायां गवि गोधीस्तयाग्रहात् । जायमानैव हि व्यक्तिर्जायते जातियोगिनी ।। एक एवहि कालोऽस्या जातिसम्बन्धजन्मनोः । नेह जातेः पुरास्तित्वं नचसंक्रान्तिरन्यतः ।। किंन्तु स्वहेतोस्सा व्यक्तिस्तादृशौवोपजायते । कथमेतदितीदं तु येन पर्यनुयुज्यते ।। इदमप्यपरं हन्त तेन पर्यनुयुज्यताम् ।वृषः पिशङ्गो गौः कृष्णा सा च नीसतृणाशिनी ।। ताभ्यामुत्पादितो वत्सःकथं भवति पाण्डुड्डत्ध्;रः । यथा रूपादिसम्बन्धा सा व्यक्तिरुपलभ्यते ।। तथैव जातियुक्तेति का ते व्यसनसन्ततिः । अगोव्यावृत्ततायां च नैष प्रश्नो निवर्तते ।। तस्मादगोनिवृत्तं तदन्यजातं स्वलक्षणम् । तस्माद्वस्तुस्वभावस्य विदित्वानुयोज्यताम् ।। योद्यचुञ्चुच्वमुत्सृज्य प्रतिपत्तिर्निरूप्यताम् ।। 5.39. प्रतिपत्तिश्च विशेषेषअविव सामान्येऽपि निरपवादा दर्शितैव । तस्माद्विशेषवदप्रत्याख्योऽयं सामान्य इति । उपाधिरेव त्रिविधः प्रधानमपि च त्रिधा । त्रिधोपस्कारवान्प्रातिपदिकार्थश्च वर्णितः ।। वाचकत्वं निपातानां द्योतकत्वं च निश्चितम् । कर्मप्रवचमीयानामुक्त सम्बन्धसङ्गतिः ।। अथो विभक्त्यर्थविधास्त्रिधोच्यते त्रिधैव वृत्त्यर्थपदार्थनिर्णयः । क्रियादिवाक्यर्थनिवर्तनात्ततस्त्रिधैव वाक्यार्थगतिः प्रपञ्चयते ।। इति महाराजाधिराज श्रीभोजदेवविरचेति शृङ्गारप्रकाशे उपाध्याद्यर्थचतुष्टयप्रकाशो नाम पञ्चमः प्रकाशः।।