शृङ्गारप्रकाशः/द्वितीयः प्रकाशः

विकिस्रोतः तः
Jump to navigation Jump to search

द्वितायः प्रातिपदिकादिप्रकाशः

2.1 प्रातिपदिकं त्रिधा--विभक्तावयवम्, अविभक्तावयवम्, अनुकरणं च । तत्र विभक्तावयवं त्रिधा--कृद्रूपम्, तद्धितरूपम्, समासरूपं च । तेषु भावकारकाभिधायिनो धातुप्रत्यायाः कृतः । तत्र धात्वर्थ एवापूर्वापरीभूतो भावः ; यदाह-- कालानुपाति यद्रूपं धात्वर्थस्य क्रियेति तत्। परितो यत् परिच्छिन्नं तद्भाव इति कथ्यते।। 2.2 स इह षोढा समभवति--सिद्धः, साध्यः, सिद्धासमाप्तः, साध्यासमाप्तः, सिद्धसाध्यः, साध्यसिद्धश्र्चेति । तेषु उद्भुतप्रत्ययांशत्वेन क्रियानुद्रेकात् सत्त्वभूतत्वे लिङ्गसंख्याद्युपग्राही "कर्तृकर्मणोः कृति" (पा.2.3.65.) इति संबन्धविभक्तेर्निमित्तं सिध्दः ; यथा--आश्र्चार्यमिदमोदन्स्य च पाको ब्राह्मणानां च प्रादुर्भावः, भेदिका काष्ठानां देवदत्तस्य, चिकीर्षा यज्ञदत्तस्य कटस्य इति । अत्र उभयप्राप्तौ कर्मण्येव इति नियमे उभयोः प्रप्तिर्यस्मिन् कृति इति व्याख्यानात्, अकाकारयोश्र्च नियमप्रतिषेधात्, कर्तर्यपि षष्ठ्येव भवन्ती भावस्य सिद्धतां द्योतयति । उद्भतप्रकृत्यंशत्वेन क्रियोद्रेकादसत्त्वभूतत्वे लिङ्गसंख्याद्यनुपग्राही कर्तृकर्मणोः कारकविभक्तेरेव निमित्तं साध्यः ; यथा-- ओदनं भोक्तुं याति, स्वाधायमधीतेय स्नापयति, पयः पायं पायमास्ते इति । अत एव "न लोक" -ए(पा.2.3.69.) इत्यादिना षष्ठी निषिध्यते । सिद्ध एव तद्धितानुबन्धी सिद्धासमाप्तः ; यथा--व्यावरक्रोशी, साङ्कूटिनम्, कृत्रिमम् इति । अत्र यथा आभिजित्यः, कौञ्जायन्यः इत्यादावणाद्यभिहितोऽप्यपत्यार्थः, तौत्तिरीयाः छागलेयिनः इत्यादौ थणद्यभिहितोऽपि प्रोक्तर्थः, स्वाप्थिक्राध्येतृवेदितृविषयतद्धितोत्पत्तिमन्तरेण न समाप्यते, तथा व्यतिहाराभिविध्युपाधिको णजिनुणुक्तः शुद्धश्र्च क्त्र्यभिहितः सिद्धोऽपि भावः स्वार्थिकवनिवृत्तार्थीयतद्धितोत्पत्तिमन्तरेण न समाप्यत इति सिद्धासमाप्तो भवति । साध्य एवानुप्रयोगानुबन्धी स#ाध्यासमाप्तः ; यथा--चकासाञ्चकार, विदाङ्कुर्वन्तु, रैपोषं पुष्यति इति । अत्र यथा शुक्लीभवति, पटपटाकरोति, इत्#ायदावभूततद्भावादिषु च्व्याद्यन्तम्, लुनीहि लुनीहीत्येवायं लुनाति, राष्ट्रमट अठमट दूरमटेत्येवायमटति, इत्यादिषु क्रियासमभिहारादिषु सोडड्डत्ध्;न्तम् अनभिव्यक्तपदार्थकत्वादसमाप्तं स्वार्थाभिव्यक्तेये कृभ्वाद्यनुप्रयोगं यथाविध्यनुप्रयोगं चापेक्षते, तथा आमन्तं णमुलन्तं चानभिव्यक्तपदार्थकत्वादसमाप्तं साध्यरूपमेव स्वार्थाव्यक्तये कृभ्वाद्यनुप्रयोगं यताविध्यनुप्रयोगं चापेक्षत इत्येतदुक्तो भावः साध्यासमाप्तो भवति । तदाह--"आम इव णमुलोऽप्यसमाप्तार्थत्वाञ्चदिवदनुप्रयोगः सिद्ध एव यथाविद्यर्थे तु वचनं कषादिषु यथाविध्यनुप्रयोगः" इति । तेन चकासांचकार इत्यादिनाऽयमर्थे भवति--चकास्ति स्म, विदन्तु, रायः पुष्यन्नमुं फुष्यति, इति । अत एव क्रियाविशेषणेनैव सिदधामिति न केचित् णमुल्प्रकरणमारभन्ते । ननु च क्रियाविशेषणानां कर्मता नपुंसकता च ; कथं च पुषेरेव पुषिः कर्म भवति ? न ह्यात्मनैवात्मा व्याप्यते ; न हि सुशिक्षितोऽपि वटुः स्वं स्कन्धमारोढुं शक्नोति। नैवम् ; नागरकं वृत्तं वर्तेत, विश्वजिता यजेत, इत्यादौ सामान#्यविशेषयोरनैकात्म्येन व्याप्त्यवच्छेदयोरुपलम्भात् सामान्यपुषेरेवावयवपुषिः कर्म भवति । न च क्रियाविशेषणानां कर्मतैवेति नियमः ; क्रिया हि यथा साध्यमानत्वाते कर्म, तथोत्पद्यमानत्वात् कत्र्र्यपि भवति ; ततश्र्चोभयथाऽपि क्रियाविशेषणानि योज्यन्ते--रैपोषंकृत्वा पुश्यति, रैपोषं यथा भवत्येवं पुष्यतीति । सिद्ध एव साध्यधर्मयोगू सिद्धसाध्यः ; यथा--आश्र्चर्यो गवां दोहोऽशिक्षितेनागोपालेन, साधु खलु पयसः पानं यज्ञदत्तेन, विचित्र हि सूत्रस्य कृतिः पाणिनिना, इति ; अत्र उभयप्राप्तै कर्मण्येव षष्ठीति कर्तरि तृतीयाम्नानात् सिद्धोऽप्ययं विवक्षातः साध्योऽपि भवतीति ज्ञायते । अन्ये त्वन्यथा सिद्धसाध्यं वर्णयन्ति--उष्ट्रासिकामास्ते, पञ्च वारान् भुङ्क्ते, पञ्च प्रयोगान् पचति इति । अत्रोष्ट्रासिकावारप्रयोगाणां क्रियाविशेषावृत्त्यनुष्ठनरूप्तवेनापृथग्भावात् क्रियाभिख#्याप्यानां द्वितीयादर्शनादभेदविवक्षातः सिद्धानामपि क्रियावदेव साध्यत्वमवगमय्ते ; तदाह-- तत्स्वभावविशेषत्वा#्दव्याप्या नोष्ट्रासिकाऽन्या। साध्यत्वे त्वासनैकात्म्यत् फलतः कर्म कथ्यते।। सोऽयमित्यभिसंबन्धादभेदे धर्मधर्मिणोः। क्रियाय इव साध्यत्वं वारादीनां न दुष्यति।। 2.3 तेन उष्ट्रासिकामास्ते इत्यादीनामयर्थो भवति--उष्ट्रवदास्ते, पञ्चावृतिं्त भुजिक्रियां करोति, पञ्च पाकान्निर्वर्तयति इति । साध्य एव सिद्धधर्मयोगी साध्यसिद्धः ; यथा-- कर्तव्यं भवतः, कार्ये भवतः इति । अत्र "न लोकाल्ययनिष्ठाथलर्थतृनाम्" (पा.2.3..69.) इति लादीनां साध्यार्थाभिधायित्वात् कर्तृकर्मणोः षष्ठीनिषेधे, "कृत्यानां कर्तरि वा" "क्तस्य च वर्तमाने" (पा.2.3.71.67.) ; नपुंसके भावे उपसंख्यानम् इत्यादिभिः पुनः षष्ठीविधानात् पक्षे विवक्षातः सिद्धार्थाभिधायित्वमवगम्यत इ#्तयेतदुक्तो भावः साध्यसिद्धो भवति । न चात्र कृत्यानां निषेधो न श्रूयते, यतः खसर्थतृनामित्यत्र खलर्थेत्यनेन कृत्यक्तखलर्थाः शतृशानञ्चनशश्र्च संगृह्यन्ते ; तृन्नित्यनेन पुनस्तृन्नेवेति । अत एव निष्ठादिभावस्येव कृत्यभावस्य कर्मण्यपि षष्ठी न भवति ; यथा-- गतमस्तं यथाऽर्केण यथाऽभ्युदितमिन्दुना। तता मनिन शैथिल्यमागन्तव्यं मृगीद्दशः।। 2.4. कथं पुनः सकर्मकात् भावप्रत्ययः ? तेन ह्यकत्मकाद्भविव्यम् ; यदाह "लः कर्मणि च भावे चाकर्मकेभ्यः" (पा.3.4.69.) "तयोरेव कृत्यक्तखलर्थाः" (पा.3.4.70) ; न हि भवति कृतं कटं देवदत्तेनेति । उच्यते--नैतदन्तरभ्गं द्रव्यकर्म, अपि तु "कालाध्वभावगन्तव्याः कर्म,#ंज्ञा ह्यकर्मणाम्" इति बहिरङ्गेषु कालादिकर्मसु गन्तव्यलक्षणं गत्यर्थकर्म ; बहिरङ्गता च "कालाध्वनोरत्यन्तसंयोगे" (पा.2.3.12.) इति पुनर्द्वितीयाग्रहणेन ज्ञायते ; अन्याथा बि कर्मणि द्वितीयायाः सिद्धात्वात् गत्यर्थकर्मणि चतुर्थीचेत्येव ब्रूयात् । यस्यैव च द्रव्यकर्मणोऽन्तरङ्गस्याबावेनाकर्मकः, तस्यैव भावेन सकर्मको भवति ; अतो विद्यमानमपि कालादिकर्म नाकर्मकव्यपदेशं विघ्नयति । अन्ये त्वन्यथा साध्यसिद्धं वर्णयन्ति--उष्ट्रासिका आस्यन्ते, हतशायिकाः शय्यन्ते, यवाग्वाः पाकाय व्रजति इति । अत्र आसिकाशायिकयोराख्याताभिहितक्रियात्मकत्वात् पाकस्य व्रजिक्रियासाध्यत्वात्, सत्यपि साध्यत्वे लिभ्गसंख्यासंबन्धिविभक्तियोगाद्विवक्षातः सिद्वत्वमपि गम्यत इत्यथं साध्यसिद्धो भवति । तथाऽपि उष्टरासिका आस्यन्ते, हतशायिकाः शय्यन्ते, इत्यमूभ्यां सामान्यव#िशेषोपचरितरूपो भावात्मैव प्रत्याय्यते ; स आख्याताभ्यां सामान्यरूपेण, ण्वुलन्ताभ्यां विशेषरूपेण । बहुवचनं तु कुत्सातिशयार्थम् ; याहि नामोष्ट्रस्य कुत्सावत्यो बहुप्रकारजुषो बढद्धठ्ठड़14;व्यः आसिकाः, याश्र्च हतानामतिशयवत्यस्तथाभूता एव भूयस्यः शायिकाः प्रतीताः, ताभिः विशेषरूपाभिरिमासिका शायिका च उपामानोपमेयसंबन्धजनितभेदाभेदपरिग्रहाल्लकारेणापि सामान्यविशेषभावेन कुत्सातिशयार्थे बहुत्वेनैव प्रत्याय्यते, बहुत्वेन विना सामान्यविशेषभावानुपपत्तेः ; तेनोष्ट्रासिका इवासनानि हतशायिका इव शयनानि क्रियन्ते भवन्तीति वा वाक्यार्थो भवति । नन्वेवमुष्टासिकादीनां वारप्रयोगादीनां च कर्मतेव नपुंसकताऽपि प्राप्नोति ; यथा--मृदि पचति, प्रशस्तं पचतीति । उच्यते --त्रिधा खलु क्रियाविशेषणं भवति--बाह्यम्, आब्यन्तरम् ; बाह्यभ्यन्तरं च ; तत्र बाह्यं धर्मरूपं वारादि ; आभ्यन्तरं तु विशेषरूपमुष्ट्रासिकादि, बाह्याभ्यन्तरं गुणरूपं मृद्वादि । तेषु बाह्यं सोऽयमित्यभिसंबन्धादभेदोपच#ारेणाविचलितस्वरूपमेव प्रधानं विशिंषत् कथमिव स्वलिङ्ग जह्यत् ? आभ्यन्तरं तु विशेषांशपरिग्रहादाविष्टलिङ्गसंख्यं कथमिव पाऽन्यलिङ्गं गृढद्धठ्ठड़14;णीयात् ? बाह्याभ्यन्तरं तु गुणत्वात् स्वकलिङ्गविरहे "गुणवचनानमाश्रयतो लिङ्गवचनानि" (महाभाष्यम् 1.2.64.) इति विशेष्यलिङ्गग्राह्येव भवति ; तत्र सध्यैकस्वबावत्वादलिङ्गसंख्यायाः क्रियाया विशेषणत्वे मृद्वादीनां नपुंसकत्वमेव न्याय्यम् । उष्टानाकावारादीनां तु नित्यमाविष्यलिङ्गत्वाद्विशेषांशपरिग्रहात् क्रियाविशेषणत्वेऽपि न नपुंसकलिङ्गत । अथ पाकाय व्रचति, एधेभ्यो व्रजति, इति क्रिया रन्धनाय स्थालीतिवात् तादथ्र्यचतुथ्र्यन्तः लिद्ध एव कस्मान्न विज्ञायते ? नैवम्, "भाववचनाश्र्च" (पा.3.3.11.) इति तापथ्र्य एव प्रत्ययोत्पत्तेः, "तुमर्थाञ्च भाववचनात्" (पा.2.3.15.) इति स्वार्थ एव चतिर्थाविधानात् । किमर्थे पुनरिदम्? भावे हि घञादयः सिद्धा एव, तादथ्र्ये चतिर्थी । क्रियार्थोपपदेन तुमुनाऽस्मिन् विषये घञादयो मा बाधिषतः ; वासरूपविधिश्र्चात्र तुमुन्णवुलाविति ण्वुस्ग्रहणान्नावरति । अथ यथैदानाहर्तेतु व्रजति एधेभ्यो व्रजतीति "क्रियार्थोप्पदस्य च कर्मणि स्थानिनः" (प#ा.2.3.14.) इति चतुर्थी, तथा पाकं कर्तुं व्रजति पाकाय व्रचतीति यदि भवेत्, को दोषः स्यत् ? न कश्र्चित् ; किं त्वेतत् पृच्छामि--स पाकः सिद्धः साध्यो वा ? यदि सद्धः किं कर्तुं व्रजति ? अथ साध्यः, क्रियार्थोपपदेषु तुमुना घढादयो बाध्यन्ते । अथ तुमर्थत्वेन साध्याभिनधाश्र्चतिथ्र्यन्तत्वेन चासत्त्वभूतार्थाः पाकयेत्यादिषु धञादयः, कथं यवाग्वा इत्यादेः संबन्धविभक्तेर्निमितं भवति ? शब्दाशक्तिरेषा यत् कस्यचिदेव केनचित्, केनचिदेव कस्यचित्संबन्धः ; तद्यथा--अभिन्नेऽप्यर्थे प्रजागरिताऽपररात्रानिति तृनोबाह्यकर्मोपसर्गकर्मयोदात् जायते, न जागरूक इत्युक्तस्य ; ऊरीकरोति पाकादिकमित्यूर्यादिनामेकानेकानेकविशेषस्थाया करोतिक्रियया भवति संबन्धः, न तदर्थविषयैः पचादेभिः ; सूर्यमपि न पश्यन्ति असूर्यंपश्या राजदारा इति व्यवहितामपि सूर्यकर्मिकां द्दशिक्रियां नञ् न#िषेधति, न सूर्यत्तम् ; एवं न पुनर्गीयन्ते अपुनार्गेयाः श्र्लोकाः, श्राद्धं न भूङ्क्ते अश्राद्धभोजी ब्राह्मण इति । तथा लवणं न भुङ्क्ते अलवणभोजी भिक्षुः इत्यसूर्येपश्यादिवदसामथ्र्येऽपि नञ्समासो द्दश्यते ; न त्वकिंचित्कुर्वाण इति ; एवं माषं हरमाणः,अगाधादुत्सृप्त इति । अपि च, पयः पायं पायं, पयः पीत्वा पीत्वा, गेहमनुप्रवेशमनुप्रवेशम्, गेहमनुप्रविष्यानुप्रविश्यानुप्रविश्य, इत्याभीक्ष्ण्यवीप्सयोः पदद्विर्वचनं प्रयोजयन्ति णमुलादयः, न पापच्यते, दोविशोततदेहीति यङ्शसादयः ; लोलूयत इति द्विर्वचनमन्तेरेणाप#ि क्रियालमभिहारमवगमयति यङन्तम्, न सुनीहि लुनीहीति लोलूयत लोडड्डत्ध्;न्तम् ; कृतपूर्वी कटम्, अधीति व्याकरणम्, इति वृत्तिवशेनोज्झितकर्माभिधानशक्तयः कर्मविभकिं्त न विध्नयन्ति निष्ठदयः ; ग्रामं गन्तुमनाः, कटं कर्तुकाम इति निवृत्तिच्छिन्ना अपि कर्मणि द्वितीयामेव #्परयोजयन्ति तुमुनादयः ; उभयप्राप्तौ कर्मणयेवेति नियमेऽपि विचित्रा सूत्रस्य कृतिः पाणिनेः इति , शब्दानामनुशासनमाचार्यस्य इति, समासाय कर्तरि संबन्धविभक्तिमप्युपाददते क्तिनादयः, साध्यार्थाभिधआयिनोऽसत्त्वभूतार्था अपि यवाग्वाः पाकायेति कर्मणि संबन्धविभक्त्यैव समबध्यन्ते घञादय इति तदुक्तभावः साध्यसिद्धो भवति।। 2.5 क्रियानिमित्तं कारकम् ; तदपि षोढा--कर्ता, कर्म, करणम्, संप्रदानम्, अपादानम्, अधिकरणं चेति । तत्र कर्ता--स्वतन्त्रः, हेतुः, कर्मकर्ता च ; तेषु क्रियायाः स्वेच्छया करणादीनि यः प्रयुङ्क्ते न तु तैः प्रयुज्यते, स स्वतन्त्रः ; यथा--पुत्रपौत्रस्य दर्शकः, पुरां भेत्तेति । तमेव क्रियाप्रवृत्तं यः प्रयुङ्क्ते स हेतुः ; यथा--राजानं योधितवान् राजयुध्वा धनुषमान्, नखानि मोचयन्ति नखमुजानि धनूंषीति । कर्मैव स्वातन्त्र्येण विवक्षितं कर्मकर्ताः ; यथा--स्वयमेव पच्यन्ते पचेलिमा माषाः, स्वयमेव भज्यन्ते भङ्ग#ुराणि काष्ठानि इति । कर्मनिर्वत्र्यै, विकार्ये, प्राप्यं च ; तेषु यदसज्जन्यते, सद्वा प्रकाश्यते, तन्निर्वत्र्यम् ; यथा--कर्तव्यः कटः, इञ्चार्यः शब्दः, इति । यस्य प्रकृत्युच्छेदो गुणान्तरं वोत्पद्यते तद्विकार्यम् ; यथा--भुक्त ओदनः ; लूयमानः केदारः, इति । क्रियाकृतविशेषानवगतौ कर्तुः क्रिययाऽनास्थितमास्थितं वा यदाप्यते तत् प्रप्यम् ; यथा--दुर्दर्शः प्रभुः, सुयानो मार्ग इति । करणं -बाहम्, आभ्यन्तरं, बाह्याभ्यन्तरं च ; तेषु कर्तुः शरीराद्वहिरुपलभ्यमानं बाह्यम् ; यथा--आशितंभवं भक्तम्, धृतोदकः करकः, इति । तद्विपरीतमाभ्यन्तरम् ; यथा--प्रियंकरणं शीलम्, वशीकरणं प्रेम, इति । उभयगुणयोगि बाह्यभ्यन्तरम् ; यथा--दीयतेऽस्मै दानीयो ब्राह्मणः ; देवा देयासुरस्मै देवदायो डिड्डत्ध्;म्भः, इति । "कर्मणा यमभिप्रैति स संप्रदानम्" (पा.1.4.32.) इति पारिभाषिकस#ंज्ञाविषयः कर्ममात्राप्यं; यथा--दाश्यतेषस्मै देयमिति दाशः कैवर्तः, गां हन्ति आगतोयेति गौघ्नः अतिथिः इति । कर्मशब्देन क्रियाया अप्यिपादानात् क्रियाया यदाप्यते तत् क्रियाप्यम्; यथा--श्र्लाघन्तेऽस्मै जना इति श्र्वाघ्यो राजा, स्प-हयन्त्यस्मै लोकाःस्पृहणीयो विभव इति । अपादानम् - निर्धिष्टविषयम्, उपात्तविषयम्; यथा--प्रपतनो गिरिः, प्रस्त्रवणः शैलः इ#ित । भूत्रार्थादियोगोक्तमुपात्तविषयम् ; यथा--अवधिः पर्नतः, मर्यादा समुद्रः इति । अधिककरणम्--वैषयिकम्, ऐपश्र्लेषिकम्, नैमित्तिकं च ; तेषु विविधमनेकप्रकारं जातिगिणक्रियाद्रव्यादिभङिः सिनोतीति विषयो दाशकालादिः ; विषय एव वैषयिकम् ; यथा--निपिबन्त्यस्मिन् गवादय इ#ित निपानं जलाशयः, राजानो धीयन्तेऽस्यां राजधानी नगरप् इति । उपश्र्लेषोऽवष्टम्भः, तस्मै प्रभवत्यौपश्र्लोषिकम् ; यथा--इषवो धीयन्ते इषुधिः उपासङ्गम्#ा, शेरतेऽस्यां शय्या प्रयङ्कः। निमित्तमेव नैमित्तिकम्, यथा--रज्यन्तेऽस्मिन् सामाजिकमनांसि इति रङ्गः प्रेक्षा, प्रसीदन्ति अस्मिन् नयनमनांसि इति प्रासादः सौधम् इ#ित । तदैतदुभयमपु--शुद्धम्, सङ्कीर्णम्, उपाधिमत्, रूढिमत्, समबन्धि, अनुबन्धि चेति षोढा विप्रथते। तत्र अर्थान्तरैरसमंस्पर्शः शुद्धिः ; सा भावानां यथा--ओदनत्य पाकः अलं कृत्वा, खलु स्थित्वा इति; कारकाणां यथा--अपां स्त्रष्टा, वर्षशतस्य पूरकः, सोमं पवमान इति । संपर्कः, सङ्करः ; स भावानां यथा--कालो भोक्तम्, अलं भोक्तम्, भोजं भोजं व्रजतीति ; कारकाणां यथा--गमनमर्हति गम्या योषित्, जेतिं शक्यते जय्यः शत्रुः, पक्तुं व्रजति, पाचको व्रजतीति । बाह्यमाभ्यन्तरमुभयं वा शास्त्रोपात्तं विशेषणमुपाधिः ; ल भावानां यथा--भवतः शायिका, उपसरो गवाम्, समजः पशूमामिति । कारकाणां यथा--तुन्दपरिमृजोषलसः, स्तम्बेरमो हस्ती, द्दतिहरिः पशुः इति । गुणवचनत्वे द्रव्यवचनत्वरूढिः ; सा भावानां यथा--मृगय#ा, वासना, परिव्रज्येति ; करकाणां यथा--कुम्भकारः, पङ्कजमु अमावास्येति । नियोदतः प्रतियोग्यपेक्षः समबन्धः ; स भावानां यथा--भुक्त्वा व्रजति, भोक्तुमिच्छित्, अप्रप्य नदीं पर्वत इति ; कारकाणां यथा--चङक्रम्यमाणोऽधीते, अधीयानो वसति, गोदायो व्रजति । अनुषङ#्गोग्यपेक्षः संबन्धः ; स भावानां यथा--सांराविणं वर्तते, रैपोषं पुष्यति, चकासांचकार इति ; कारकणां यथा--अग्निष्टोऽमयाजी, उष्ट्रकोशशतं दायी इति । अथैतदभिधाने त्रिप्रकाराः कृते भवन्ति--भाववचनाः, कारकवचना, भावकारकवचनाश्र्च । तेषु अथुजादयः, ण्वुलादयः, णजादयः, तुमुनादयः, सयादयः, णमुलादयश्र्च भाववचनाः ; ण्वुलादयः, अणादयः, उणादयः, क्किनादयः, शात्रादयः, तृनादयश्र्च कारकवचनाः ; तव्यादयः, तवायादयः, क्तादयः, खलादयः, सुघादयः, घञादयश्र्च भावकारकवचनाः। तत्र भाववचनेष्वनुपाधौ सिद्धभावे अथुजादयः ; यथा--नन्दथुः, यज्ञः, स्वप्नः, क्रिया, कण्डूड्डत्ध्;या, व्यज्या इति । अत्रेव रोगाद्युपाधिमति ण्वुलादयः ; यता--अरोचके बाधते, प्रवाहिकातः करोति, भवत आसिका, इक्षुभक्षुकां मे धारयसि, कां त्वं कारिककार्षीः, अकरणिस्ते वृश्ल इति । सिद्धासमाप्ते णजादयः ; यथा--व्यावक्रेशी वर्तते, व्यावहासूं कुर्वन्ति, करणेन निर्वृत्तं कृत्रिमम्, भुक्त्वा व्रजति, अपमित्ययाजते, स्वादुङ्कारं भुङ्क्ते, चोरङ्कारमाक्रोशति। तुमथ एव धन्दोविषये सयादयः ; यथा--वक्षे रायस्त्वा, द्दशे विश्वय सूर्यम्, अÏग्न देवा विभाजं नाशक्नुवन्, ईश्वरोऽभिचरितोः, ईश्वरो विलिखः इति । स्वाध्यासमाप्ते णमुलादयः ; यथा--कारकः, स्त्रष्टा, नन्दनः, प#्रियः, यज्वा, जरन्निति । सोपपदाः कत्र्रादिष्वणादयः ; यथा--काण्डड्डत्ध्;लावः, पादहारकः, सुभगंकरणम्, गोघ्नः, शमभुः, गोष्ठः इति। निरिपपदा रूढिमन्त उणादयः ; यथा--कारुः, दात्रम्, धात्री, दासः, भीष्मःइति । उभयेऽपि लोपवन्तः क्किनादयः ; यथा--घतृस्पृक, सद्दक्, अर#्थभाक्, शुभंयुः, प्राङ्, युङ् इति । कर्तर्येवोद्रिक्तक्रियांशाः शात्रादयः ; यता--यवागूं पचन्, सोमं पवमानः, आशितं दाश्वन्, वेदमनूचानः, भुक्तवानोदनम्, ग्रामं गमी इति । त एव ताच्छील्याद्युपाधिमन्तस्तृनादयः ; यथा--जागरितापररत्राः, मुण्डड्डत्ध्;यितारः श्राविष्ठायनाः, वधूमूढाम्, अलंकरिष्णुः, कतीह कवचमुद्वहमानाः, शतं दायी, एधानाहारको व्रजति इति । भावकारकवचनेषूद्रिक्तानुद्रिक्तक्रियामशाः तव्यादयः ; यथा--कर्तव्यं भवता, करणीयं भवता, कार्यः कटो भवतः, कृत्यः कटो भवतः, वास्तव्यो भवान्, ब्रह्मभूयं भवतः इति। त एव धन्दोव#िषयास्तवायादयः ; यथा--परिधातवै, परिस्तरितवै, अवचक्षे, अवगाहे, दिद्दक्षेण्यः, कर्तुं हविः इति । उद्रिक्तक्रियाशाः क्तादयः ; यथा--भुक्तं भवता, भुजायमानं भवता, भोक्ष्यमाणं भवता, भुक्तमोदनम्, भक्त औदनो भवता, एवं भोक्ष्यमाणः इति । त एव व्यक्तकालाः खलादयः ; यखा--स्वढ्यंभवं भवता, सूत्थानं भवता, प्राशितंभवं भवता, दुराढ्यंभवं भवता, इषत्पानः सोमो भवता ; आ#ितंभवं भक्तम् इति । अनुद्रिक्तक्रियाशाः प्रायो गुणवतना लियुडड्डत्ध्;ादयः ; यथा--व्यासस्य वचनं, पाणिनेरुक्तिः, धात्रस्य हसितं , इध्मानां व्रश्र्चनं, जनानां भक्तिः, राज्ञां मत इति। त एव प्रायो द्रव्यवचना घञादयः ; यथा--पर्यायः क्रियाणां, विपर्यायः कालस्य, संग्रहः शास्त्रणां, अधीतः स्वाध्यायः, अधिगत उपायः, श्रेयानुपाध्यायः इति।। 2.6. भावकारकसंबन्धिस्वार्थाभिधायिनोऽधातुप्रत्ययास्तद्धिताः । तत्र भावो द्विधा--अन्तरङ्गः, बहुरङ्गश्र्चेति । तयोः शब्दस्यार्थे प्रवृत्तिनिमित्तमन्तरङ्गः, यदाह--"यस्य गुणस्य हि भावाद्द्रव्ये शब्दनिवेशः, स तस्य भावः ; तदभिधाने त्वतलौ।" तस्योपलंग्रह#ाय संग्रहकारः पठति-- "शब्दे तां जातिं शब्दमेवार्थजातौ जातिः शुक्लादौ द्रव्यशब्दे गुणं तम्। कृत्तत्संयोदं योगि चाभिन्नरूपं वाच्यं वाच्येषु त्वादयो बोधयन्ति।।" 2.7. ततः स षोढा भिद्यते--जातिः, गुणः, स्वरूपं, संबन्धः, संहतिः, अभिन्नरूपं इति । तेषु जातिर्यछा--गोत्वं, शुक्लत्वं, मानुष्यकं, स्त्रैणं, पौंस्नं, ब्राह्मण्यं इति। गुणो यथा--शुक्लत्वं, शीध्रत्वं, सूर्यत्वं, दिक्त्वं, तदात्वं इति । संबन्धो यथा--पाचकत्वं, काण्डड्डत्ध्;लावत्वं, दण्डिड्डत्ध्;त्वं, औपगवत्वं, राजपुरुषत्वं, नीलोत्पलत्वं, गौरखादिरत्वं इति । अभिन्नरूपं यथा--सत्त्वं, विद्यमानत्वं, गर्गत्वं, पञ्चालत्वं, पदार्थत्वं, पङ्कजत्वं इति ।। ननु च, जातिगुणाज्जतिगुणो धवखादिरादेः स्वजातिसंघाते। डिड्डत्ध्;त्तादौ च स्वरूपे कृत्तत्संयोगे तु संबन्धे।। 2.8. त्वादयः इति स्मृतिः ; कथमभिन्नरूपादवपि भवति? उच्यते--"कृत्तद्धितसमासेषु संबन्धाभिधानमन्यत्र रूढ्यभिन्नरूपाव्यभिचरितसंबन्धेभ्यः" । अत एवोक्तं--"कृत्तत्संयोगं योगिना भिन्नरीपं" इति।। अवधेरपि वाच्यत्वं त्वादीनामिष्यते बुधैः। गोत्वाद्धि गौरिति ज्ञानमभिधानंच जायते।। 2.9. ते ह्येवमाहुः--"तस्य बावस्त्त्वतलौ" भवतोऽस्माभिधानप्रययामिति भावः। तदसत्; न हि गोत्वं गौरिति ज्ञानस्योत्पत्तानपादानतां जनयत् "जनिकर्तुः प्रकृतिः" "भुवः प्रभवो वा" भवति; यथा--शृङ्गाच्छरो जायते, हिमवतो गङ्गा प्रभनतीति । ज्ञानं त्वात्मन एव जायते, मनसैवोद्भवति ; तदाह--"व्यापकादप्यात्मनो युगपत् ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ; नाहमद्राक्षं, नाहमश्रौषं, नाहमज्ञासिषं, अन्यत्र मे मनोऽभूदिति " । निमित्तत्वं तु गौरिति ज्ञानोत्पत्तौ शब्दस्येव गोत्वादेरपीष्यत एव । तत्र यथा समवायिनः श्वैत्यत् श्वैत्यबुद्धैः श्वेते श्वैत्यबुद्धिः, तथा समवायिनो गोत्वाद्गोतिवबुद्धेः गवि गोत्वबुद्धिः ; ते परस्परं कार्यकारणभूते इति । अभिधानं तु शब्दः ; स च ये नोञ्चारितेनार्थः प्रतीयते । तस्यापि न गोत्वमवधिर्भवति । शब्दो ह्याकाशादेव जायते, मुखादेव प्रभनति ; न गोत्वादैः । तदाहुः--"मुखे हि शब्दमुपलाभामहे भूमावर्थम्" इति । यदाऽपि नित्यः शब्द इति मतं तदाऽपि शब्दस्य गोत्वादयो वाच्याः विशेष्याः प्रत्याय्यत्वे तु विपरिणामविपरिवर्तपक्षयोर्वक्ष्यमाणन्यायेन प्रत्युत शब्दस्यैवावधित्वम्। अधायसस्तु साद्दश्यादुपाधेरुपाधिसाद्दश्याभ्यां वा संभवति ; यथा--शुक्तिकादौ रजतादेः, स्फटिकादौ रक्तादेः, प्रतिबिम्बादौ नुखादेरिति । तत्र यो यदध्यास्यते , यो यदध्यास्ते वा, स तस्याधिकरणं कर्म व #ास्यात्, न त्वेवावधिः ; गोत्वं निमुत्तम#ुपादाय गोशब्दो गामध्यास्ते गवि वाऽध्यास्यते । तदिष्यत एव "यस्य गुणस्य हि भावात् द्रव्यं शब्दनिवेशः तदभिधावने त्वतलौ" इति ।। 2.10. धात्वर्थरूपः कृदभिगधेयो बहुरङ्गः ; सोषपि षोढा--भावरूपः, कारकरूपः, संबन्धिरूपः, भावविशिष्टः, संबन्धिविशिष्टश्र्चेति । तत्र प्रवृत्तिनिमुत्ततुल्यो भावरूपः--ब्राह्मणस्य कर्म ब्राह्मण्यं, पुरोहितस्य कर्म पौरोहित्यं, स्तेनस्य स्तेयं, सख्युः सख्यं,दूतस्य दूत्यं, वणिजो वाणिज्यमिति । कारकैस्तुल्यकक्ष्यः कारकरूपः ; यथा--राजानमर्हति राजवद्वृत्तं, आप्रयोजनकालं भवति आकालिकी प्रवृत्तिः, श्येनस्येव पातोऽस्यां वर्तते-श्येनंपाता क्रिया, दण्डड्डत्ध्;ः प्रहरणमस्यां क्रिडड्डत्ध्;ायां-दाण्डड्डत्ध्;ा, महिमा अस्त्यस्यां महिमिनी समस्य#ा, वटकं प्रकृतमस्यां वटकमयी यात्रेति। रूढे द्रव्यभूतः संभन्धिरूपः ; यथा--चाषाणां समूहः चाषं, नाट्यानामाम्नायो नाट्यं, भृग्वङ्गिरसां विवाहो भृग्वङ्गिरसिका, काकोलूकस्य वैरं काकोलूकिका, अवीनां संघातो अविकटः, तेषामेव विस्तारोऽविपटः इति । अतर्कितोपनतचित्रीकरणादिसद्दशो भावविश्ष्टः ; यथा--काकस्य चागमनं याद्दच्छिकं, तालस्य च पातः, तेन तालेन पतता काकस्य वधः ; एवमेव देवदत्तस्य चागमनं दस्युनां चेपनिपातः, तैश्र्च तस्य वधः ; तत्र यो देवदत्तस्य दस्यूनां च समागमः स काकतालसमागम इवेत्येक उपमार्थः, यश्र्च देवदत्तवधः स काकवध इवेति द्वितीय उपमार्थः, तत्र प्रथमः समासार्थः काकतालमिति, द्वितीयः प्रत्ययार्थः काकतालीयमिति ; समासश्र्चायमस्मादेव ज्ञापकात् ; यदाह--समासाञ्च तद्विषयादाकस्मिक इवार्थे च्छो भवति ; तद्विषयादित्यत्र हि तदित्यनेन "इवे प्रतिकृतौ" इतीवार#्थः परमृश्यते। एवमजाकृपाणीयं, अन्धकव- र्तकायं, घुणाक्षरीरं, अर्धजरतीयं, गोमयपायसीयं इति । संबन्धिनाऽवच्छिन्नः संबन्धिविशिषटः ; यथा--हल्यः काषः, सौधः समकोचः, पौरुषेयो वधः, अथर्वण आम्नायः, वैदो घोषः, छान्दोसग्यो धर्मः इति । उपाधिरपि संबन्ध्येव भवति, यथा--गार्गिकया विकत्थते, काठिकयाऽधिक्षिपति, गार्गिकामन्ववेतः, गार्गिकामवगवान्, काठिकामावगतवान् इति। धात्वर्थोपि भाव एव ; क्रियाऽपि ह्युपमानेन परीता परिच्छिन्ना साध्यसिद्धभावो भवति। स त्रिधा--भावकारकः, राज्ञा सद्दशं वर्तते--राजवत्, जढस्य तुल्यं ब्राह्मण#ादिस्थास्वध्ययनादिक्रियासु साहचर्याद्वृत्तिः, जातिद्रव्ययोरन्यतरेण क्रियायाः साद्दश्यानुपपत्तेः। यदाह--"तेन तुल्यं क्रिया चेद्वत्तिः ; तेनेति तृतीयासमर्थात् तुल्यमित्येतस्मिन्नर्थे वतिप्रत्ययो भवति । कारकविशिष्टो यथा--राज्ञेव व्यवहृतमनेन राजवत्, देवम#्व भवन्तं पश्यामि देववत्, असिनेव दात्रेण च्छिनच्चि असिवत्, ब्राह्मणयेव यदा देवद्त्तय ददाति ब्राह्मणवत्, पर्वतादिवासनादवरोहति प्रवतवत्, पितरीव गुरावचरति पितृवत्। अत्र पुनरिदमेव सूत्रमन्यथा व्याख्यायते--तेन कारकविशेषेण तुल्यं यथा भवति। एवं चेत् क्रिया भवति भावोत्पन्ने विहितप्रत्यये कदाचित् प्रत्ययमुखोन क्रियाविशेषणं भवति, कदाचित् प्रकृतिमुखेन ; यथा--तीव#्रः पाकः, तीव्रं पाकं इति । संबन्धिविशिष्टो यथा--ब्राह्मणस्योवाध्यनमस्य ब्#ाह्मणवत्, राज्ञ इव रौद्रं वृत्तमस्य पाजवत् ; जडड्डत्ध्;स्य सद्दसं वचनमस्य जडड्डत्ध्;वत्, सूर्यस्येव प्रकाशोऽस्य सूर्यवत्, पुतुर्यथा पालनमस्य पितृवत्, गुरोस्तुल्यमनुशासनमस्य गुरुवते, इति । अत्रतु "तत्र तस्येव" इत्यनेन वतिः । ननु च "तेन तुल्यं" इत्यनेनैव सिद्धे किमर्थे "तत्र तस्येव" इति सूत्रारम्भः ? द्रव्यगुणयोस्तुल्ययोः प्रत्ययो न लभ्यः इति ; यथा--मधुरायामिव पाटलिपुत्रे प्रासादाः मधुराक्त्, ब्राह्मणस्येव क्षत्रियस्य शुक्ला दन#्ताः बाह्मणवत् इति । यद्येव पूर्वसूत्रे क्रियाग्रहणं न करिष्यते, साहचर्याञ्च क्रियायामिव द्रव्यगुणयोः प्रातिपदिकं वर्तिष्यते ; ततश्र्च मैत्रेयतुल्या गावश्र्चैत्रस्य, ब्राह्मणेन तुल्या दन्ता क्षत्रियस्य इति विगृह्य पूर्वसूत्रेणैव वतिः सेत्स्यतीति । तदसत#् ; एवं हि गवयेन तुल्योषनड्ड्डत्ध्;वान् इत्यत्रापि प्रत्ययः प्रसजेत् ; इवार्थे तु प्रत्यये सप्तमीषष्ठ्यन्ताभ्यांमेव विधीयमाने गवय इवानड्ड्डत्ध्;वान् इत्यत्र प्रत्ययप्रङ्गो न स्यात् ; सप्तमीषष्ठ्यन्तायोर्हि बाह्यं संबन्धिनमपेक्ष्य इवशब्दप्रयोगो भवति, न पुनरिवार्थापेक्षयैव ; इवशब्दो हि उपमानोपमेयभावलक्षणसंबन्धद्योतकः, न तु संबन्धिरूपाभिधायी । तस्माद्गवयेन तुल्योऽनड्ड्डत्ध्;वान् इत्यत्र मा भूत् प्रत्ययप्रसङ्ग इति पूर्वसूत्रे क्रियाग्रहगणम् । तÏस्मश्र्च कृते द्रव्यगिणयोस्तुल्ययोः प्रत्ययो न स्यादिति सप्तमीषष्ठ्यन्ताभ#्यामिवार्थे "तत्र तस्येव" (पा.5.1.116.) इति वतिर्विधायते । अथ "तदर्हम्" (पा.5.1.117) इति किमर्थम् ? अर्हतो या क्रिया कर्तृस्तत्रापि वतिरिष्यते। उपमानाविवक्षायां तद्विधानं न लभ्यते।। उपामानोपमेयत्वमन्यस्यान्येव वा सह। अवस्थाभेदभिन्नत्वादेकस्याप्यात्मनैव वा।। 2.11 तत्रान्यस्यान्येन यथा--अवैयाकरणोऽप्ययं वैयाकरणवह्रृते, योषिदप्येषा पुंवद्वक्तीति ; अवस्थाभ्दभिन्नत्वादेकस्याप्यात्मानो यथा--वैयाकरणोऽप्ययवज्ञया कदाचिदवैयाकरणवद्ब्रूहीते ; योषिदप्युच्यते - सत्रीवद्वदेति । वायाकरणोऽप्यवज्ञया कदाटचिदवैयाकरणवद#्ब्रूते ; श्रूयते हि--यर्वाणस्तर्वाणा नाम साक्षातकृतधर्माण ऋषयो बभूवुः । ते हि "अन्तर्वेद्यामेव न म्लेच्छितव्यम्, अतोऽन्यत्रावज्ञया" इति यद्वा नस्तद्वा न इति वक्तव्ये यर्वाणस्तपर्वाण इत्यूचुः । योषुदपि कदाचिदाश्रिताप्रागल्भ्यात् पुंवद्वक्ति, यथोच#्यते-- सरस्वतीव कर्णाटी विजयाङ्का जयत्यसौ। या वैदर्भगिरां भूमिः कालिदासादनन्तरम्।। अस्यैपम्यद्वयस्यापि विवक्षातोऽपरिग्रहे। वतिः कथमिवार्थीय इति (मत्वा) यमुच्यते।। 2.12 तत्र राजवद्वृत्तमित्यत्र यदैवंविधार्थविवक्षा--पृथ्वादिना राज्ञा तुल्यं वृत्तमनेन राज्ञा राजवद्वृत्तं राज्ञेति, तदाद्येनैव सूत्रेण सिद्धः प्रत्ययः । यदा त्वेताद्दशी विवक्षा-राज्ञ इव पृथोरस्य वृत्तं राजवद्वृत्तं राज्ञ इति, ताद द्वितीयसूत्रेण । यदा त्विदं वृत्तं राजानमेवार्हति नान्यमित्युपमानोपमेयभावाभावे राजवद्वृत्तमिति प्रयोगः, तदा "तदर्हम्" (पा.4.1.116.) इत्यनेन वतिर्विधीयत इति नानर्थकः सूत्रारम्भः ।। 2.13 अन्ये तु--"तेन तुल्यं क्रिया चेद्वतिः" (पा.5.1.115) इत्यत्र द्वितीयव्यानपक्षे क्रियायाः क्रिया विशेषणं न संभवतीति कारकविशिष्टभावपक्षं "तदर्हम्" (पा.5.1.117) इत्यनेन समवाहयति ; राजानमर्हति यद्व्यवहरणं, देवमर्हति यद्दर्शनं, असिमर्हति यच्छेदनं, ब्राह्मणमर्हति यद्दानं, पर्वमर्हति यदवरोहणं, पितरमर्हति यत् पारतन्त्रयम् ; तदुच्यते राजवत्, देववत्, असिवत्, ब्राह्मणवत्, पर्वतवत्, इति । राज्ञेव व्यवहृतमित्यादिभिस्तु तस्यार्थः प्रदर्शित इति ।। 2.14 कारकमपि भाववदेवान्तरङ्गं बहिरङ्गं च ; तोयराख्याताभिधेयमन्तरङ्गं, अनाख्याताभिधेयं बहिरङ्गंम् ; कर्ता हेतुकर्ता, कर्म चेति, करणं संप्रदानपदानमधिकरणं चेति तत्रान्तरङ्गभेदेषु कर्ता शुद्धः, मिश्रः, संकीर्णश्र्च । तेषु क्रियाकरकान्तरासंपृक्तः शुद्धः ; यथा--इष्टमनेन इष्टी यज्ञी, कृतः पूर्वं कटोऽनेन क़तपूर्वी कटमिति । क्रियान्तरसंपृक्तो मिश्रः ; यथा--व्याकरणं वेत्ति अधीते वा वैयाकरणः, शश्वद्भवः शाश्वतिकः इति । क्रियाकारकान्तरसंपृक्तः संकीर्णः ; यथा--शालायां प्रवेशमर्हति, शालीनः अधृष्यः ; त#ेषु आत्मास्थक्रियो यथा--पारायणं वर्तयति पारायणिकः ; चान्द्रायणं वर्तयति चान्दिरयणिक इति । परस्थक्रियो यथा--वातं शमयति वातिकं तैलं ; पित्तं शमयति पौत्तिकमिति । परात्मस्थक्रियो यथा--यथा--आक्षद्यूतेन निर्वृत्तमाक्षद्यूतिकं धनं, पाकेन निर्वृत्तं पाकिमं,माणिकं इति । उद्रिक्तकर्माशो यथा--वसन्ते पच्यन्ते वासन्त्यः कुन्दलताः, षष्टिरात्रेण पच्यन्ते षाष्टिकाः शालय इति। अनुद्रिक्तोद्रिक्तक्रर्मोशो यथा--वंशं गतो वश्यः, शार्षच्छेदमर्हति शार्षच्छेद्य इति । कर्म--निर्वत्र्यं, प्राप्यं च । तेषु यदसज्जन्यते, सद्वाप्रकाश्यते, तन्निर्वत्र्यम् ; यथा--उरसा निर्मितः औरसः पुत्रः, पाणिनिना प्रोक्तं पाणिनीयं व्याकरणं इति । यस्य प्रकृत्युच्छेदो गुणान्तरं वा विधीयते तद्विकार्यम् ; यथा--विषेण वध्यः विष्यः शत्रुः, कुसुम्भेन रक्तं कौसुम्भं वस्त्रमिति । आस्थितमनास्थितं वाक्रियया यदाप्तुमिष्यते तत् प्राप्यम् ; यथा--नावा तार्यः नाव्यो ह्रदः, अयानयं नेयः अयानयीनः शार इति । ननु च शारोप्यास्थितः कस्मान्न भवति ? त्यागरूपं प्रहातव्येऽप्यर्थे (प्राप्ये) संसर्गदर्शनम्। आस्थितं कर्म यत्तत्र द्दैरूप्यं भजते क्रिया।। 2.15 यथां--पन्थानं गच्छति, गर्तमुत्तरतीति । शारस्तु प्राप्य एव ; यथा--अजां नयति ग्रामं, (ग्रामं) वहति भारम् इति । नन्वेवं ग्रामस्य प्राप्यता प्राप्नोति, नाजादेः ; कः पुनराह न प्राप्नोतीति ; किंन्तु अकथितत्वेन तत्र क्रियाव्याप्यत्वेनाद्द्वितायैव, न प्रत्ययान्तरम्--गां दोग्धि पयः, पौरवं गां याचते इति । बहिरङ्गभेदेषु करणं--बाह्यं, आभ्यन्तरं, बाह्याभ्यन्तरं च । तेषु बाह्यं यथा--सुपां व्याख्यानः सौपः, ससाटस्य भूषणं ललाटिका । आभ्यन्तरं यथा--मतस्य करणं मत्यं, चतुर्णां पूराणश्चतुर्थः इति। बाह्याभ्यन्तर#ं यआथ--समिध आधीयन्तेऽनेन सामिधेन्यो मन्त्रः, (स एव) हृदयस्य बन्धनः हृद्य इ#िति। संप्रदानम्--दादतिकर्माप्यं, कर्ममात्राप्यं, क्रियाप्यं च । समप्रदीयते भोजनादिककमस्मै इत्यान्वर्थसंज्ञकं ददातिकर्माप्यं ; यथा--अग्रभोजनं नियुक्तमस्मै दीयते आग्रभोजनिकः, पञ्चास्मै वृद्धिर्वा, आयो वा, शुल्कंवा, उपदा वा दीयन्ते पञ्चकः पुरुषः इति। "कर्मणा यमभइप्रैति स संप्रधानाम्" (पा.1.4.33.) इति पारिभाषिकसंत्रकं कर्ममात्राप्यं ; यथा--राष्ट्रियो राजन्यः, कलिं कुर्वन्तयस्मै कालेयं गन्धद्रव्यं इति । कर्मशब्देन क्रियाया अप्यभिधानात् क्रिययाऽपि यमभिप्रैति स समप्रदतानमिति क्रियाप्यम् ; यथा--अलङ्कर्मास्मै निर्दिश्यते अलङ्कर्मीणः अन्यूनः, न षडड्डत्ध्;क्षातक्रियं च । तेषु "ध्रुवमपायेऽपादानम्" (पा.1.4.24.) इति निर्द्रिष्टविषयम् ; यथा--अग्रिः पतति अस्मात् आग्नेयः ग्रावा, नद्यः स्यन्दन्ते अस्माति नादेयः शैल इत#ि । भूत्रार्थादियोगोक्तमुपात्तविषयम् ; यथा--कुकिं्ष रक्षन्ति असमाति कैक्षेयकः कृपाणः, मुद्गा भवन्त्यस्मात् मौद्गीनं क्षेत्रं इ#िति । अवधिमात्रार्थमपेक्षिताक्रियम् ; यथा--कर्णस्य मूलं कर्णजाहं, पक्षस्य मूलं बश्रतिः इति । अधिकरणं--वैषयिकं, औपश्लोषिकं,नैमित्तिकं च । तेषु विविधमनेकप्रकारं जातिक्रियागिणद्रव्यादिभिः सिनोतीति विषयः देशकालादिः ; विषय एव वैषयिकः ; यथा--गावः सन्त्यस्मिन् गोमाने देशः, पौषी पौर्णमास्यस्मिन् पौषो मास इति । उपश्लोषोऽवष्टम्भः, तस्मै प्रभवति औपश्लोषिकं ; यथा--दण्डिड्डत्ध्;नोऽस्यां सन्ति दण्डिड्डत्ध्;मती शाला, विंशतिरिहाधिका विंशं शतमिति । निमित्तमेव नैमित्तिकं ; यथा--पूर्णो मासोऽस्यां पौर्णमासी (ति), परिस्वत्रस्यात् परिखेयो देश इति । कारकं च अन्तरङ्गबहिरङ्गभोदाद् द्विरूपमपि प्रकृत्यचुपाधेः कारकविशिष्टं यथा--अयानयं नेय अयानयीनः शारः ;करणविशिष्टं यथा--चक्षुषा गृह्यते चैक्षुषं रूपं ; अधिकरणविशिष्टं यथा--स्त्रुघ्ने कृतो वा, लभ्यो वा, क्रीतो वा सत्रौघ्नः ; अपादानविशिष्टं यथा--तन्त्रादचिराहृतः तन्त्रकः पट इति ; कर्तृविशिष्टं यथा--अश्वैरुह्यते आश्वो रथः ; कर्तृर्विश्ष्टं यथा--अश्वैरुह्यते आश्वो रथः ; कर्तृविशेषणमपि कर्तैव ; चतुर्भिरुह्यते चातुरं शकटं ; अपिच-- कौमारी सा भवेद्भार्या यां कुमारः प्रपत्स्यते। प्रपद्यते कुमारि यं स कौमारो मतः पतिः।। 2.16 संप्रदानविशिष्टं तु कारकं नास्ति । कर्ता कर्मविशिष्टो यथा--श्राद्धमनेनाद्य भुक्तं श्राद्धिकः ; क्रियाविशेणभितिशब्दोपसंहारं च कर्मैवं ; तिद्धिशिष्टो यथा-- प्रतिकूलं वर्तते प्रतिकूलिकं, माशब्द इत्याह माशब्दिक इति ; करणविशिष्टो यथा--अक्षैर्दीव्यति आक्षिकः अधिकरणविशिष्टो यथा--प्रावृषिकः, प्रावृषि भवः प्रवृषेण्यः ; अपादानाविशिष्टो यथा--पितुंरागतं पित्र्यं धनं इति । क्रतृविशिष्टः कर्ता नास्ति। करणं कर्मविशिष्टं यथा--ग्रीवाया भूषणं ग्रीवाया भूषणं ग्रैवेयं रुक्मदाम। एवं संप्रदानमपि यथा--मांसमेभ्यो नियुक्तं दीयते मांसिकाः पितरः । अपादानं क्रतृविशिष्टं यथा--व्रीहयो भव्त्यस्मात् व्रैहेयं क्षेत्रम्। एवमधिकरणमपि यता--शर्कराः सन्ति अस्मिन् शर्करिलो देशः । तदेव कर्मविष्टं यथा--पदमस्मिन् द्दश्यं पद्यः कर्दमः ; करणाविशिष्टमपि यथा--दण्डड्डत्ध्;ः प्रहरणमस्यां दाण्डड्डत्ध्;ा क्रीडड्डत्ध्;ा इति । करणादयोऽस्य विशिष्टा न विद्यन्ते । कर्मकत्र्रौरेवाकरकसंबन्धिनिपातैर्विशेषणयोगः । स कर्मणोऽकारकेण यथा--मासाय भूतो मासिकः, समवत्सरमधीष्टः सांवत्सरिक इति ; कर्तिर्यथा--संतापाय प्रभनति सांतापिकः, वर्षे भूतो भावी वा वार्षिक इति । क्रमणः संबन्धिना यथा--वाक्यपदे अधिकृत्य--तित्तिरिणा प्रोक्तं विदन्ति अधीयते वा तैत्तिरीयाः, पूर्वं कृतं भुक्तं पीतं वा एभिः पूर्निणा इति । क्रमणो निपाते न यथा--यथाकथाच क्रियते याथाकथ्यमिदं, बहिः द्दश्यते बाह्यं इति ; कर्तुर्यथा--आराद्ङवः आरादीयः साक्षाद्द्रष्टा साक्षी इति । 2.17. ननु क्रिययाऽपि कर्मणः कर्तुर्वा विशेषणयोघः संभवति ; तद्यथा--पाकेन निर्वृत्तं पाकिम्, अपमित्यापमित्यकं, याचितेन याचितकं इति ; यथा च सुस्न्नातं पृच्छति सौस्न्नातिकः, प्रभतमाह प्राभूतिकः, कृतः (तं) पूर्वमनेन कटः कृतपूर्वी कटं इति । उच्यते --क्र#ियाऽपि प्राकृतं कर्मैव ; अतस्तद्विशिष्टयोरपि कर्मकत्र्रौः कर्म(कर्तृ)विशिष्टत्वमेव भवति। ननु च निर्वृत्तमित्येतस्य कथं कर्मता ? इदं ह्यनुद्रिक्तकर्मोशे कर्ति (कर्तरि वा) प्रयुज्यमानं द्दश्यते । नैवम्, अन्तर्भूतण्यर्थत्वेनास्या सकर्मकत्वमपि मन्यन्ते; तथा च कात्यायनः-- "उत्तारणाय जगतः प्रपितामहेन तस्मात्पदात्त्वमसि रज्जुरिव प्रवृत्ता।" 2.18. मल्लनागोऽप्याह--"नागरकवृत्तं वर्तेत" इति । अथ कृतपूर्वी कटं इति कथम् ? न ह्यनेन प्रयोगेणापि भवितव्यम् । किं कारणम् ? द्वितीयया तावत् वोत्पत्तव्यम् । तत् कुतः ? क्तेनाभिहितम् । प्रत्ययोनापि नोत्पत्तव्यम् । किं कारणम् ? असामथ्र्यत् । कथमसामथ्र्यम् ? सापेक्षमसमर्थे भवतीति। उच्यते --नायं कर्मणि क्तः ; अपि तु भावे । भावसाधनेन च कृतशब्देन योच्यते क्रिया तयेप्सितं कटादि कर्मानभिहितमेवेति । तत्रल यथा ग्रामं गतो देवदत्त इति धातुनिष्ठाभ्यामभिधीयमानयोः क्रियाकत्र्रोः ग्रामादिकर्मभिरभिसंबन्धो भवति, एवं कृतपूर्वीति कृतशब्देन तद्धितेन वाऽभिधीयमानयोः क्रियाकत्र्रोः कटादिकर्मभिरभिसंबन्धो भवति ; तथा हि--कृतं पूर्वमनेनेत्यस्मिन्नर्थे कृतपूर्वीशब्दस्तद्धितान्तो वर्तते ; तेवन च पूर्वं कृतवानित्ययमर्थः संपद्यते ; एवं च सापेक्षत्वाभावान्नास्त#्यसामथ्र्यम् ; अस्ति च करोतिवाच्यक्रियापेक्षं कटस्य कर्मत्वमिति तद्धितद्वितीयोत्पत्त्योर्नानुत्पत्तिः । तदुक्तम्-- अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः। संबध्यते क्रिया तद्वत् कृतपूर्वादिषु स्थिता ।। इति ।। 2.19. यदा तु कृतः पूर्वं कटोऽनेनेति विग्रहः, तदाऽपि न दोषः ; यतः यद्यपि कृतादिशब्दाः कर्मणि व्युत्पाद्यमानाः मामानाधिकरण्याते कटादिकर्मविशेषं निर्भुञ्जते, तथाऽपि नेत्थंभूता एव प्रत्ययमुत्पादयन्ति, वृत्तीनां विशेषप्रत्यायनासामथ्र्याते ; अतो वृत्त#िविषयोऽनपेक्षितविशेषकर्मावन्तर- भूतकर्मसामान्योऽन्य एव कृतशब्दो भवति। अविवभितकर्माणोऽन्तर्भीतकर्माणश्र्चाकर्मका एव जायन्ते ; यथा--"तस्माद्दीक्षितो न ददाति न पचति न जिहोति " इति । एवमकर्मकत्वेऽन्तर्भावाभिधाय्येव ; तञ्चनपेक्षत्वात् सामथ्र्ये सत#ि प्रत्ययमुत्पादयति । प्रत्ययार्थश्च कर्ता क्रियाया प्रकृत्यर्थेन यदीप्सति तत् कर्मानभिहितं प्रत्ययेन ; ततो द्वितीया भवति। तदुक्तं भाष्ये--"योऽसौ कृतकटयोरभिसंबन्धः स उत्पन्ने निवर्तते ; अस्ति च करोतेः कटेन सामथ्र्यमिति द्वितीया भविष्यति कृतपूर्वी कटमिति " । हरिरप्याह-- विशेषकर्मसंबन्धे विनिर्भुक्ते कटा (कृता) दिभिः। विशेषनिरपेक्षोऽन्यः कट (कृत) शब्दोऽवकल्पते।। अकर्मकत्वे सत्येवं क्तान्तं भावाभिधायि यत्। तेन क्रियावता कत्र्रा योगो भवति कर्मणाम् ।। इति।. 2.20. यदि वा शास्त्रप्रक्रियाभ्यासबाधितमतीनामेवायमभिमानः--वाक्यार्थे वत्तयो भवन्तीति । परमार्थतस्तु--वृत्तिवाक्ययोरन्यत्वमेव मन्यन्ते, अर्थविप्रकर्षात् । यथा हि--वाक्ये यः कटादिकर्मसंबन्धः स वृत्तौ नास्ति, तस्#ायन्तर्भूतकर्मणः कृतशब्दसय भावाभिधायित्वात् ; तदुक्तम्-- विशेषः श्रूयमाणोऽपि प्रधानोषु गुणोषु वा। शब्दान्तरत्वाद्वाक्येषु वृत्तौ नित्यं न विद्यते।। 2.21. भाष्यकारोप्याह--"नेदमुभयं युगपद्ङवति वाक्यं च प्रत्ययश्र्च ; यदा वाक्यं न तदा प्रत्ययः, यदा प्रत्ययः सामान्येन तदा वृत्तिः, तत्रावश्यं विशेषार्थिना विशेषणोऽनुप्रयोक्तव्यः कृतपूर्वी कटमिति" एवमधीतमनेन, अधीतं व्याकरणमनेन इति वा अधीति व्यकरणे इत्यपि व्यख्यातम्। 2.22 संबन्धी द्विधा--प्रधानं गुणभूतश्र्च । तयोः प्रथमान्तभिधेयः प्रधानम्; स त्रिधा-द्रव्य-रूपः, गुणरूपः, अभिन्नरूपश्च । तेषु "तस्यापत्यम्" (पा.4.1.92.) इत्यादिराश्रयवचनो द्रव्यरुपः ; स द्विधा--निरपेक्षः, सापेक्षरूपश्र्च। तयोः निरापेक्षो यथा--वस#िष्ठस्यापत्यं वासिष्ठः, पाणिनेः शिष्यः पाणिनीयः, पञ्चालानां राज पाञ्चालः, पृथिव्याः ईश्वरः पार्थिवः, पाटलायाः पुष्पं पाटलं, जम्ब्वाः फलं जाम्बवम् इति। सापेक्षो यथा--पितुः पिता पितामहः, पितुभ्र्राता पितृव्यः, मातुभ्र्राता मातुलः, भ्रातुरपत्यं भ्रातृव्यः,स्वसुः स्वस्त्रीय इति । "तस्येदं" (पा.4.1.120.)इत्यादिराश्रित-झ्र्वचनःट गुणवचनो गुणरूपः ; स द्विधा--षष्ठीविशेष्यः अषष्ठीविशेष्यश्च । तयोः षष्ठीविशेष्यो यथा--युष्माकमियं गौः यौष्माकी गौः, देवदत्तस्य भूतपूर्वो देवदत्तरूप्यः राजा, पुत्रस्य निमित्तं प#ुत्रीयः संयोगः, विदिशाया अदूरभवं वैदिशं नगरं, मूर्वायाः विकारः मौर्वं भस्म, दूर्वाया अवयवः दौर्वः काण्डड्डत्ध्;ः इति । अषष्ठीविशेष्यो याथा--वत्सेभ्यो हितो वत्सेभ्यो हितो वत्सीयो गोधुक्, अङ्गारेभ्य इमानि अङ्गारीयाणि काष्ठानि, शरणे साधुः शरण्यो राजा, आकर्षे कुशलःआकर्षको धूर्तः, पुष्पैः वित्तः पुष्पचणः चम्पकः, सूर्येणैकदिक् सौरी बलाका इति । प्रकृत्यैकच्छायोऽभिन्नरूपः ; स द्विधा--लिङ्गसंख्यानुपग्रही, लिङ्गसंख्योपग्राही च । तयोर्लुगभिधेयो लिङ्गसंख्योपग्रीही ; यथा--गर्गस्यापत्यानि गर्गाः, पञ्चालस्य राजानः पञ्चालाः, अत्रेः अपत्यानि अत्रयः, कुसुम्भ्याः पुष्पं कुसुम्भं, बदर्यः फलं बदरं, लवणेन संसष्टः लवणः सूपः इति । लुबभधेयो लिङ्गसंख्योपग्राही ; यथा--पञ्चालानां निवासः पञ्चाला डड्डत्ध्;नपदः, वरणाः सन्त्यस्मिन् वरण नगरी, शिरिषाणामदूरभवः वोपगृढद्धठ्ठड़14;णाति, न वचनम्--हरीतक्याः फल#ानि हरीतक्यः ; खलतिकादिषु वचनमेव, न व्यकिं्त--भिन्नाधिकरणत्वात् द्वयमेवाश्रयते पितरं पुत्रं च ; तथाहि--उभयमपि संबन्धादभ्यधिकं प्रतीयते--करणः, तथाऽप्येक एव ; भेदे हि नोभयाधिकरण एकः स्यात्, संबन्धद्वयप्रसङ्गात् । सोऽयमेकोऽनेकाश्रयः, एकश्चैव विभक्त्योच्यते, एकस्म#ादेव तद्धितोत्पत्तिर्भवति। एवमपि पितुरेव षष्ठीति नियमो न स्यात्। कः पुनराह नियम इति ; यावता मातुः पिता मातामह इत्यापि भवति। कुतः पुनरिदं यदेकदा तु स्वामिनोऽन्यदा तु स्वस्माद्विभक्तिः तद्धितो वेति ? संबन्धस्य पदन्यासातिरेकात् । नियोगतो हि पितापुत्रयोरेकस्य प्राधान्यमन्यस्योपसर्जनत्वं, तुल्यत्वे संबन्धाभावात्। तत्र न प्रधानं पुत्रादि गुणनुरोधेन प्रवर्तितुमर्हति ; उपसर्जनं तु पित्रादि यथा प्रधानानुग्रहः तथाऽऽत्मानं निर्वर्तयति, स्वरूपावस्थितौ प्रधानार्थासिद्धेः । अतोऽप्रधाने संबन्धस्याधिकः पदन्यासः । तत्र षष्ठी तद्धितोत्पत्तिर्वा भवति। सा चैकत्वात् संबन्धस्य पुत्रगतमप्येनमभिधत्ते । यदा तु मातुः पिता मातामहः इति विवक्षातः प्राधान्यविपर्ययः, तदा अपत्यादुत्पन्नया षष्ठ्या द्विष्ठोऽप्यसावभिहित इति न सा तद्धितो वा पितृशब्दात् ; तदुक्तम्-- द्विष्ठोप्यसौ परार्थत्वाद्गुणेषु व्यतिरिच्यते। तत्राभिधीयमानश्च प्रधानेऽप्युपयुच्यते।। इति ।। 2.23 एवं "तेनैकदिक्" (पा.4.3.112) "तदर्थ विकृतेः प्रकृतौ" (पा.5.1.12.) "तस्य निमित्तम्" (पा.4.1.38.) "तेन वित्तश्चुञ्चुप्चयणपौ" (पा.5.2.26) "तस्मै हितम्" वतुप्प्रकरणे "युष्मदस्मद्भ्यां धन्दसि साद्दश्य उपसंख्यानम्" इत्यादिषु सहार#्थतादथ्र्यवित्तहितलक्षणोपपदपरिशेषादयः संबन्धविशेषाः षष्ठ्यन्ता अपि द्विष्ठत्वादेकविभक्तिवाच्यत्वेनावगन्तव्याः । ननु च तृतीयादीनां व्यतिरेकविभक्तित्वात् षष्ठीवदेव भवति, संबन्धाभिधानसामथ्र्यते ; प्रथमायाः पुनरव्यतिरिक्तप्रातिपदिकार्थाभिदायिन्याः कथमिवैतद#ुपपद्यते--त्वामिव त्वावान्, अहमिवमवान् इति। अत्रैके वर्णयन्ति--त्वावतः पुरुवसो, यज्ञं विप्रस्य मावतः, न त्वावानन्यो दिव्यो न पार्थिव इति प्रथमान्तायाः प्रकृतेः प्रधानभूतेऽपि संबान्धिनि प्रयोगदर्शनात् प्रत्ययोऽवगम्यते । अन्ये त्वाहुः--त्वमिव त्वावान्, अहमिव मावान् इत्युपमानमत्र प्रथमान्तं प्रकृत्यर्थः, उपमेयं प्रत्ययार्थः। न तत्र तावदवच्धेदकत्वादुपमानं प्रधानम् । अवच्छेदकादप्युपमानात् षष्ठी नोत्पद्यते, व्यतिरेकहेतोरसंभवात् ; इवशब्दो ह्यसत्त्वभूताभिधायित्वान्न व्यतिर्काभिधायकः ; साद्दश्यद्योतको ह्यस#ौ। अन्यश्च न कश्चिदिह व्यति र्कहेतुः श्रूयते । अतश्च गौरिव गवयः इत्यादाविवत्र षष्ठ्या अभावः ; व्यतिरेकहेतौ तु सतीवशब्दप्रयोगे उपमानात् षष्ठ्यत्पद्यते--देवदत्तस्येव यज्ञदत्तस्य दन्ता इति । तदुरक्तम्-- इवशब्दप्रयोगे तु बाह्यात् संबन्धिनो विना । नाधिक्यमुपमानेऽस्ति द्योतकः स प्रयज्यते।। 2.24. मा भूत् षष्ठी ; प्रथमयाऽपि न भवितव्यमेव, उपमानस्यावच्छेदकत्वेनाप्याधिक्यात् । कः पुनराह--अनधिक एव प्रातिपदिकार्थे प्रथमेति ; पाटलिपुत्राद्राजकं सप्त योजनानि, सप्तसु वा योजनेषु इत्यध्वनः प्रथमा सप्तमी च स्मर्यते ; संबोधने च प्रथमैव विधीयते ; धिक् देवदत्तं, हा देवदत्तं, इति च द्वितीयाविषये प्रथमाप्रयोगो द्दश्यते ; यथा-- "हा धिक्कष्टनिष्टमस्तकरुणः कोऽयं विधेः प्रक्रमः ।" "कन्यान्तःपुरमेव हा प्रविशति क्रुद्धो मुनिर्भार्गवः ।।" इति।। 2.25. षष्ठ्यन्ताभिधेयो गुणभूतः ; स त्रिधा--भावविशिष्टः, कारकविशिष्टः, समवन्धिविशिष्टश्च । तेषु भावेनावच्छिन्नो भावविशिष्टः ; स द्विधा--मुख्येन, उपाधिना च । तयोर्मुख्येन यथा--कृषिरस्यास्तीति कृषीवलः, मायावी, आमयावी, दयालुः, श्रद्धालुः इति। उपाधिना यथा--मृदङ्गो वाद्यत इति शिल्पमस्य मार्दङ्गिकः, अपूपाः क्रियन्त इति शिल्पमस्य आपूपिकः, मासं ब्रह्मचर्यमस्य भिक्षोः मासिकः, अस्ति परलोक इति मतिरस्य साधोः आस्तिकः, नास्ति नरकादिकमिति मतिरस्यासाधोः स नास्तिकः, दिष्टमेव प्रभनतीति मतिरस्य जिगीषोः दैष्टिकः इति । कारकेणावच्छिन्नः कारकविशिष्टः ; स द्विधा--स्वतन्त्रेण च । तयोः स्वतन्त्रेण यथा--धनमस्यास्तीति धनवान् वदान्यः, पञ्चमोऽस्य मासो जातस्य वर्तते पञ्चमो बालकः, प्रासादोऽस्य स्यात् प्रासादीयं दारु, तारकः संजाता अस्य तारकितं नभः, समयः प्राप्तोऽस्य सामयिकं कर्म, एकमन्यत् कर्माध्ययने वृत्तमस्य ऐकान्यिकः इति । अस्वतन्त्रेण यथा--लवणं पण्यमस्य प्रास्थिकः, वासुदेवे भक्तिरस्य वासुदेवकः, धनुः प्रहरणमस्य धानुष्कः, प्रस्थः परिमाणमस्य प्रस्थिकः, सलातुरोऽस्याभिजनः सालातुरीयः, ग्रामो निवासोऽस्य ग्रामाणः इति । संबन्धिनावच्छिन्नः संबन्धिविशिष्टः ; स द्विधा -- विशेष्येण, विशेषणेन च । तयोः विशेष्येण यथा--अपूपा हिता एषां आपूपिकाः अवन्तयः, मीलमाबर्हि एषां मूल्या माषाः, बृहत्यादिरस्य बार्हतः प्रगाथः, कालः प्रकृष्टोऽस्य काकलिकमृणम् ; किंच निशासंबव्धाध्ययनमपि निशा, तदस्य सोढं नैशः, एवं प्रैदोषिकः इति । विशेषणेन यथा--इन्द्रो देवता अस्य ऐन्द्रं हविः, संशप्तकाः योद्धारोऽस्य सांशप्तकः संग्रामः, विनयः प्रयोजनमस्यां वैनयिकी विद्या, देवदत्तो ग्रामणीरस्य दैवदत्तकः सङ्गः, पञ्च अवयवाः अस्यां पञ्चतयी गतिः, पञ्च अस्य भृतिर्वस्न्ने वा प्चकः पदार्थः इति । ननु च "तस्यापत्यम्" इत्यादौ उपगोरपत्यं औपगवः इति "समर्थानां प्रतमाद्वा" (पा.4.1.82) इत्यधिकारात् षष्ठ्यन्ता प्रकृतिरपत्यावतो गुणभूतस्य वाचिका ; प्रथमान्तं तु प्रधानभूतमपत्यं प्रत्ययार्थ एव । "तस्येदम्" (पा.4.3.120) इत्यादावपि प्रधानं संबन्धि तद्धितवाच्यमित्युपपद्यते । "साऽस्य देवता" (पा.4.2.24) इत्यादौ तु इन्द्रो देवता अस्य एन्द्रं हविः इति पूर्वोडड्डत्ध्;ाशादिरसयेत्यनेनाधानभूतसंबन्धिवाचकत्वेन निर्दिष्टः प्रत्यायार्थः । तत्कथमिवायं विप्रयस्तः प्रधानगुणङाव उपपन्नो भवति ? उच्यते--गुणभूतोऽपि संबन्धी बुद्ध्यन्तरेणाप्रधानाभावात् प्रच्याव्यासादितप्रधानभावः प्रत्ययार्थत्वेन प्रदश्र्यते। अत एव इन्द्रो देवता अस्येत्येतावानेव विग्रहो न कार्यः ; वृत्तिसमानार्थेन हि तेन भवितव्यम्। न चैतावतो वृत्तिसमानार्थता ; वृत्त#ौ हि इन्द्रादिदेवतावच्छिन्नं पुरोडड्डत्ध्;ाशाद्यवगम्यते, वाक्ये तु पुरोडड्डत्ध्;ाशाद्यवच्छिन्नेन्द्रादिदेवतेति। अयं तु विग्रहो वृत्त्या समानार्थः--इन्द्रो देवता अस्य तदिदमिन्द्रस्वाम्यवच्छिन्नमैन्द्रं हविः इति । तदिदमुक्तम्-- अनन्तरोक्तः सबन्धी प्रतिपद्य प्रधानताम्। बुद्ध्यन्तरपारमर्शाद्वाच्यतां प्रतिपद्यते।। प्रकृत्यर्थाविशिष्टो हि प्रत्ययार्थोऽभिधानभाक्। न्यायः स नतः सास्येत्यधिकारसामाश्रयात्।। झ्र्।न्यायस्ससम्मतः सास्येत्यधिकारसमाश्रयात्ट 2.26. एवं "सोऽस्यदिरिति छन्दसः प्रगाथेषु" इत्यादावपि गुणभूतः संबन्धी तद्धिताभिधेयो बोद्धव्यः । यत्र तु गुणभूतः संबन्धी प्रत्ययार्थः तत्र न प्रधानम् ; यत्र प्रधानं तत्र न गुणभूतः ; कुतः पुनरिदं ज्ञायते ? आचार्यप्रवृतिज्र्ञापयति--यदयं निवासनिव#ासवत्संबन्धे उबयमाह--"तस्य निवासः" (पा.4.2.69) "सोऽस्य निवासः" (पा.4.3.89) इति। 2.27. ननु च अपत्यापत्यवत्संबन्धेऽप्युभयं संभाव्यते--माता अपत्यमस्य मातामहः, पिताऽपत्यमस्य पितामहः इति। नैवम् ; पितुः पिता पितामहः, मातुः पिता मातामहः इति करिष्यते। तथाऽपि हृदयस्य बन्धनं शृङ्खलमस्य बन्धनं करभे, इति कथम् ? नान्योत्र बन्धनशब्दः सबान्धिवचनः--यथा हि बन्धनमित्यनेनदामोच्यते । नैवम् ;बन्धनमित्यनेन संज्ञाशब्दोपाश्रयः शृङ्खलकःकरभ इति। एवं च निवासतद्वतोरपि शेषषष्ठ्यभ्युपगमत्वे कर्तृविशिष्टमधिकरणं वाच्यम्--शिबीनां निवासः शैबः इति ; अपरत्र अधिकरणविशिष्टः कर्ता--ग्रामो निवासोऽस्य सोऽयं ग्राम्यः इति । ननु च ग्रामशब्दोऽयं समूहवचनः ; तद्यथा--"अश्वग्रामविधौ कृति न समरेष्वस्यास्ति तुल्यः पुमान्" "न रूणात्सीन्द्रियग्रामम्" इति । किं चातः ? समूहश्च समूह्यपेक्ष इति सापेक्षत्वादसामथ्र्ये तद्धितोत्पत्तिर्न भवति। न च सामान्येन समूहाद्भविष्यतीति वाच्यम्, तावत्येवार्थे तस्यापरिसमाप्तेर्दुरधिगमाभिधाने च सामथ्र्यभावात् । न च यता--देवदत्तस्य मातुः पिता मातामहो देवदत्तस्य, विष्णुमित्रस्य गुरोः कुलं गुरुकुलं विष्णुमित्रस्येति तद्धितः समासो वा भवति, एवमस्यापि भविष्यतीति वाच्यम् ; न ह्ययं संबन्धुशब्दानामेव च सापेक्षाणां वृत्तयो भवन्ति ; यदाह-- संबन्धिशब्दः सापेक्षो नित्यं सर्वः प्रवर्तते। स्वार्थवत् सा व्यपेक्षाऽस्य वृत्तावपि न हीयते।। 2.28. अन्येषां तु सविशेषणानां न वृत्तिः, वृत्तानां वा न विशेषणमित्येव ; न हि भवति ऋद्धस्य राज्ञः पुरुषः ऋद्धराजपुरुष इति ; नापि ब्राह्मणानां ग्रामो निवासोऽस्य ब्राह्मणानां ग्राम्योऽयमिति । कथं तर्हि राज्ञः पुरुषः शोभनो राजपुरिषः शोभनः इति ? भवत#ि वै प्रधानस्य सापेक्षस्यापि वृत्तिः । कथं तर्हि ग्रामो निवासोऽस्योति ग्रामस्य विशेष्यत्वात् प्राधान्ये सापेक्ष्सयापि वृत्तिर्न भवति ? अनन्तरोक्तन्ययेनात्र षष्ठ्यर्थस्य प्राधान्यात् । ननु, अयमपि संबन्धिशब्दः कस्मान्न भवति ? समूहार्थमात्र एव वृत्त्यपरिसमाप्तेः । तर्हि न भवितव्यमेव ग्रामशब्दान्निवासनिवासव्तसंबन्धे तद्धितेन ? न भवितव्यम् ; यथा--अव्युत्पन्नजनसमूहास्पदार्थोऽयमुपचारवृत्त्या भवति ; द्दश्यते तात्स्थ्यात् तद्वदुपचारः, यथा मञ्चाः क्रोशन्तीति ; यदि वा ग्रामशब्दोयं बढद्धठ्ठड़14;वर्थः ; यथा--अस्ति शालासमुदाये--ग्रामो दग्ध इति ; जनपदसमुदाये--ग्राम आगत इति ; अस्ति वाटपरिक्षेपे--ग्रामं प्रविष्ट इति ; सारण्यके ससीमके सस्थण्डिड्डत्ध्;लके च भूप्रदेशे--ग्रामो लब्ध इति ; अस्ति अव्युत्पन्नजनसमूहास्पदे--"शूद्रकर्षकप्रये जनपदं निवेशयेत् ; तत्र अष्टशग्राममध्ये प्रधानं स्थापनीयम#् ; स नागराणां निवासो नगरमिति ।" तत्र अव्युत्पन्नजनसमूहास्पदे यो ग्रामशब्दो वर्तते, ततो भवितव्यं तद्धितेन--ग्रामो निवासः अस्येति सोऽयं ग्राम्यः ग्राम्यः ग्रामीणः इति ।। 2.29. अथ स्वार्थिकाः । तेऽपि द्विधा--असत्त्वभीतार्थाः, सत्त्वभूतार्थाश्च । उभयेऽपि प्रत्येकं षोढावाचकाः, द्योतकाः, विशेषकाः, सबाभिधायकाः, सार्थकाः, निरर्थकाश्र्चेति। तत्र असत्त्वभूतार्थेषु शक्तिमात्राभीधायिनो वाचकाः ; यथा--तत आगतः, तत्र वसति, पुरस्तादागतः, पुरस्तद्वसति, देवत्रा गच्छति, मनुष्यत्रा तिष्ठति इति । पदार्थगतकुत्साप्रशंसाद्यभिव्यञ्जकाः द्योतकाः ; यथा--कुत्सितं पचति पचतकि, प्रशस्तं पचति पचतिरूपं, ईषदसमाप्तं पचति पचतिकल्पं, प्रकृष्टं पचति पचतितराम् ; एवं नितारां, अतीवतरां इति । वाचकत्व#े द्योतकत्वे वा मङ्गलवीप्साद्यधिकार्थाभिधायिनो विशेषकाः ; यता--बहुभ्यो देहि बहुशो देहि इति । अल्पं देहि अल्पशो देहि इति, द्वाभ्यां द्वाभ्यां देहि, माषं माषं देहि माषशो देहि, एवं कस्मिन् काले कदा, केन प्रकारेण कथमिति । अनुप्रयोगाद्यपेक्षिणः सहाभिधायका#ः ; यथा--अनग्निरग्निः संपद्यते अग्निसात्संपद्यते, देवाय देयं करोति देवत्राकरोति । एवं तं भवन्तं ततो भवन्तं, एतेन दीर्घायुषा अत्र दीर्घायुषा, अस्मै आयुष्मते इहायुष्मते, कस्य देवानां प्रियस्य क्क देवानां प्रियस्य इति । गतिसंज्ञादिकार्यनिमित्तभूताः सार्थक#ा#ः ; यथा--शुक्लीकृत्य, पटपटायते, द्वेधाकारं, अभितो ग्रामं, विना देवदत्तेन, दक्षिणाहि ग्रामात् इति । शब्दोपचयादिमात्रहेतवो निरर्थकाः ; यथा--उरसि प्रत्येव प्रत्युरसं, आत्मन्यध्येव आध्यात्मं, गिरिमन्वेव अनुगिरं, उञ्चैरेव उञ्चकैः, त्वयैव त्वयका, अस्माभिर#ेव अस्माकाभिः इति । एवमन्येऽपि--देवा अर्जुनतोऽभवन्, पूर्वातो ग्रामस्य, ग्रामंपूर्वेण, पुरस्ताद्रमणीयं, एकध्यं करोति, पञ्चकृत्वः पचति इत्यादयः असत्त्वभूतार्थाः स्वार्थिकेषु यथायोगमवगन्तव्याः । अन्ये तु--वतिमपि शक्त्यभिधायिषु विशेषकस्वार्थिकेषु वर्णयन्ति ; यथा--राज्ञेव व्यवहृतमनेन राजवत्, देवमिव भवन्तं पश्यामि देवदत् इत्याद्युदाहृतं पुरस्तात् । एवं च सूत्रे व्याचक्षतेतेन तुल्यम् इत्येतस्मिन्नर्थे वतिर्भवति यत्तुल्यं क्रिया चेत् सा भवति । क्रियेत्यनेन क्रियानिमित्तभूताः शक्तयं उच्यन्ते । न चैतद्वाच्यंम#्--एवं सति क्रिया न संगृहीता भवति ; यतः क्रियाऽपि कारकमेव ; यथोच्यते-- क्रियामन्ये तु मन्यन्ते क्कचिदप्यनपाश्रिताम्। साधनैकार्थभावित्वे प्रवृत्तिमनपायिनीम्।। सामान्यभूता सा पूर्वं धात्वर्थैः प्रविभज्यते। ततो व्यापाररूपेण साध्ये च व्यवतिष्ठेते।। प्रकृतिः साधनानां सा प्रथमं तञ्च कारकम्। शक्तिरेवाधिकरणे स्त्रोतोवदुपकर्षति।। अपूर्वं कालशकिं्त वा क्रियां वा कालमेव वा। तमैवंलक्षणं भावं केचिदाहुः कथंचन।। इति।। 2.30. तत्र तस्येवेत्यस्य च प्रयोजनमुपन्यस्तं पुरस्तात्--द्रव्यगुणयोस्तुल्ययोः प्रत्ययो न लभ्यत इति। नन्वेवं सति देवदत्त इव स्थूलः, यज्ञदत्त इव गोमान्, इत्यत्र प्रत्ययो न प्राप्नोति, सप्तिमी षष्ठ्यन्तत्वयोरभावात्। अत्रापि क्रियाग्रहणाद्भविष्यति । कथं पुनः क्रियाशब्देन गुण उच्यते ? क्रियापूर्वंकत्वात् ; स्थूलगुणयोगाद्धि स्थूलो भवति, गौसंबन्धाञ्च गोमान् इति । नन्वेवं सति क्रियाग्रहणमपि न कर्तव्यम् ; प्रर्वतामविशेषेणैव तेन तुल्यं इत्येतस्मिन्नर्थे वतिः । "तत्र तस्येव" इत्यनेन च नार्थः सूत्रारम्भ#ेण । "तदर्हम्" इत्येतदप्युपमानान्न व्यतिरिच्यते ; यद्धि वृत्तं राजानमर्हति तद्राजसद्दषमेव भवति। एवं च तेन तुल्यमित्येवावतिष्ठते । तथा चाह चनाद्रगोमी-- "इवे वतिः" इति । नन्वेव सति गौरिव गवय इत्यात्रापि वतिः प्रान्पोति । नैवम् ; उपमायां वतिः,नैपमाने । यद्यपि वतिशब्देनोभयमपि द्योत्यते, तथाऽप्यन्यदेवौपम्यम्, अन्यदेवोपमानम् ; भूयोऽवयवसाद्दश्यस्य योगो ह्युपमा ; यथा--चन्द्र इव मुखम्। सद्दशात् सद्दशप्रतिपत्तिरुपमानम् ; यथा--गौरिव गवय इति।। 2.31. सत्त्वभीतार्थभेदेषु लिङ्गविशेषाद्यभिधायिनो वाचकाः ; यथा--देव एव देवता, देवतैव दैवतं, उपधिरेव औपधेयं, भाग एव भागधेयं, उपाय एव औपयिकं, चत्वा र एव वर्णाः चातुर्वण्र्यं इति । कुत्साप्रशंसाद्यभिव्यंजका द्योतकाः ; यथा--कुत्सितो वैयाकरणः वैयाकरणपाशः, प्रशस्ता मृत् मृत्स्न्ना, तनुः उक्षा उक्षतरः, लघुः कुटी कुटूरकः, ईषदसमाप्तः आढ्यः आढ्यकल्पः, भूतापूर्वो राजा राजचरः इति । वाचकत्वे द्योतकत्वे वाव्याहृतत्वाद्यर्थविशेषव्यक्तिहेतवः विशेषकाः ; यथा--व्याहृतार्था वागेव वाचिकम्, उपदेशरूपं कर्मैव कार्माणम्, असहाय एक एवं एकाकी, अश्व इवायमश्वकः, कुशाग्रमिव कुशाग्रीया बुद्धिः, शिलेव शैलेयं दधि इति । प्रकृतिविशेषेभ्यो नित्यमुपजायमानाः सहाभिधायकाः ; यथा--करीषगन्धेरपत्यं करूषगन्ध्या, अभिजीतोऽपत्यामाभिजित्यः, कुञ्जस्यापत्यं कौञ्जायन्यः, परस्परं विविध आक्रोशोव्याक्रोशी, समन्ताद्रवः सांराविणं , राज्ञामायात्तं राजाधीनम् इति । "लुपि .युक्तवद्व्यक्तिवचने" (पा.1.2.51) इति कार्यार्थाः सार्थकाः ; यथा--चञ्चा रमणीयम्, वर्धिका द्रशनीयः, वासुदेवः प्रतिमा, बलदेवश्चित्रं, देवपथः आकाशरेखा, हंसपथः क्रौञ्चं इति । शब्द#ोपचयादिमात्रहेतवः निरर्थकाः ; यथा--प्रज्ञ एव प्राज्ञः, विनय एव वैनयिकः, मृत्तिका, सूर एव सूर्यः, नामैव नामधेयं, देवानां राजैव देवराजः इति । एवं कतरः, कतमः पटुतरः, पटुतमः,. पटिष्ठः, पटीयान् इत्यादयोऽपि सत्ततवभूताः स्वार्थाः स्वार्थिकेषु यथायोगमवगन्तव्याः । किं पुनरमी पदप्रकृतयः प्रातिपदिकप्रतृयो वा ? कुतस्ते संशयः ? उभयथोपलम्भात् ; तथा ह्येषां युष्मकाभिः, कदा, तर्हित्यादौ प्रातिपदिकप्रकृतित्वम् ; भिन्दकि, त्वयक, मयकि इत्यादौ पदप्रकृतित्वमुपलभ्यते । ततश्च यावकः, अश्वकः, उच्चकैः इत्यादौ संदेहः ; न संदेहः ; स्वार्थद्रव्यलिङ्गसंख्याशक्तिमात्रा- भिधानेन प्रातिपदिकात् स्वार्थादिनिमित्तकुत्साप्रशंसानुकम्पातिशयपरिसमाप्त्यधिकार्थद्योतनेन पदागदेव स्वार्थिकोत्पत्तिरभनतीति। स्वार्थद्यभिधानेन हि परिसमाप्तार्थे पदं स्वार्थदिनिमित्तकैः कुत्सादिभिः संबन्धमुत्सहते ; तदाह-- कुत्साप्रशंसातिशयैः समाप्तार्थ तु युज्यते। पदं स्वार्थादयः सर्वे यस्माक्तुत्सादिहेतवः।। यद्यपि स्वार्थाद्यन्यतमनिबन्धनाः क्कचित् कुत्सादयो भवेयुः, तथाऽपि तत्साकल्यार्थं पदादेव कादयः उत्पाद्याः । तत्र अन्यतमनिबन्धनाः कुत्सादयो यथा-- किं द्वारि दैवहतिके सहकारकेण संव्रधितेन विषवृक्षक एष पापः। यस्मिन्मनागपि विकासविकारभाजि भीमा भवन्ति मदनज्वसंनिपाताः।। 2.32. अत्र हि दैवहतशब्देन लब्धायां नीत्युपाधौ सर्वथैवानुकम्प्यमानतायां, सहकारकंवर्धन- निबन्धनत्वमेवास्याः कपा द्योत्यते--एवं नाम त्वं दैवोपहताऽसि, यत् सहकारच्छद्मानां विषपादपं द्वारि संपर्धयसि इति । विषपादपशब्देन लब्धायां सहकारस्य सर्वथैव कुत्सायां,पादपविकासकाले कामिनामसह्यस्मरज्वरसंनिपातहेतुकत्वमैवास्याः कप्रत्ययेन प्रत्याय्यते । तदुक्तम्-- कुत्सितत्वेन कुत्स्यो वा न सम्यग्वा विकुत्सितः। स्वशब्दाभिहिते केन विशिष्टोऽर्थः प्रतीयते।। न च सांप्रतिकी कुत्सा शब्दाभेदे प्रतीयते। पूज्यते कुत्सितत्वेपि प्रशस्तत्वेऽपि कुत्स्यते।। तद्यथा-- एक इह जीवलोके जीवतिरूपं नृरूपपशुरूपः। यः प्रेमपाशपाशे मृग इव न मृगीद्दशां पतति।। 2.33. एवमनुकम्पाप्रशंसयोरपि वाच्यमिति । अनुकाभिकाभीकादयोऽपि स्वार्थिकप्रत्यान्ता एव । तेषामन्वादिभिर्हि क्रियाविशेषः कश्चिदाक्षिप्यते ; तत्र च कामयते इत्यादौ प्रत्ययो भवन् स्वार्थे एव भवति। ननु च "अनुकाभिकाभीकः कमिता" इत्यत्र अनुकामायतेऽसौ इत्यनुकः, अभिकामयतेऽसौ इत्यभिकः, अभीको वेति वृत्तिसमानार्थवाक्यकल्पनायां धातोः पूर्वमुपरसर्गेण संबन्धः, साधनेन वा ? किं चातः ? यद्युपसर्गेण, प्रकृत्यर्थो वक्तव्यः, अनुकामयते, अभिकामयते इत्यर्थे प्रत्ययस्यैवेत्पादात् । अथ साधनेन, पश्चादुपसर्गयोगो न घटते ; न ह्यसत्त्ववचना अन्वादयः सत्त्वभूतार्थवचनैः सह संबन्धमुत्सहन्ते । यथेच्छसि तथाऽस्तु। अस्तु तावत् कमः प्रथममुपसर्हेर्णैव संबन्धः । ननु चोक्तं प्रकृत्यर्थे वाक्तव्यं इति । स नास्ति पृथक्, प्रत्ययार्थविशेषणभूतस्यैवान्वादेः प्रकृतिभावात् ; यथा "भृशादिभ्यो भुव्यच्वेः" इत्यत्र मनस्वी सुष्टु भवति सुमनयते, दुर्मनायते, अभि-अभिमनायते इति सुदुरभीनां प्रत्ययार्थभवमने विशेषणत्वेऽपि प्रकृतिभावः । ननु असुमनाः सुमना भवतीति प्रकृत्यर्थविशेषणत्वमपि सुदुरभीनां कस्मान्न भवति ? तथा सति स्वमनायत, दुरमनायत, इत्यडड्डत्ध्;ागमः स्वादीनां पूर्वतः प्राप्नोति ; यथा--असंग्रामयतेति । तत्र संग्रामयतेः सोपसर्गस्यैव चुरादिषु पाठ इति चेत्, इहापि तत् समानम् ; भृशादिषु हि सुमनसं, दुर्मनस्, अभिमस् इति प्रकृतयः पठ्यन्ते। यद्येवं, अन्वरुध्यतेतिवत् स भविष्टति । नैवम् ; यद्यपि "अनो रुध कामे" इति दिवादिषु पठ्यते, तथाऽपि यथा अरुध्यतेति द्दश्यते नैवममनायतेति । तर्हि प्रत्ययार्थविशेषणपक्षे, यथा श्येन इवाचरति श्येनायते इत्यत्र आङः प्रयोग उक्तार्थत्वान्न भवति ; एवं सुमवायत इत्य#ादौ स्वादीनामपि न भवेत् । नैवम् ; तत्र हि आङर्थ एव प्रत्ययार्थविशेशणम्, इह तु तत्र स्वादीनामर्थाः ; ततश्च मनायत इत्युक्ते न ज्ञायते सुष्ठु दुष्ठु अभि वा मनस्वी भवतीति स्वादयः प्रयुज्यन्ते ; यथा "पुच्छभाण्डड्डत्ध्;चीवराण्णिङ्" (पा.3.1.20.) इत्यत्र "प#ुच्छादुदसने व्यसने पर्यसने च" इति पुच्छमुदस्यति उत्पुच्छयते, व्यस्यति विपुच्छयते, पर्यस्यति पिरिपुच्छयते इति , एवं अनुकामयते अनुकः, अभिकामयते अभिकः, अभीके वेति। अस्तु वा पूर्वं कमेः साधनेन संबन्धः। ननु चोक्तम्--पश्चदुपसर्गयोगो न घटत इति । निपाता अन्वदयो भविष्यति--अनुरूपः कमिता अनुकः, अबिरूपः अभिकः, अभाको वेति । तथाऽपि, अनुकोऽनुकमिता, अभिकोऽभिकमिता इति वक्तव्यं स्याते ; यथा--"उत्क उन्मनाः" इति। नैवम्, सामान्येनापि विशेषभिधानं द्दश्यते ; तद्यथा--"गम्लृ सृप्लृ गतौ" इत्यत्र हि गच्छतीतिगौः, सर्पतीति सर्पः इति गमनसर्पणोयर्यद्यपि महान् विशेषः तथाऽपि गतावित्यविशेषेण निर्दिश्यते एतेन "नत् नासिकायाः संज्ञायां टूटञ्नाटज्भ्रटचः" (पा.5.2.31.) इत्यद्यपि व्याख्यातम् ; अत्र हि नासिकायाः अवटीटनं, अवनमनं, अवभ्रंशः इति नतिविशेषा नते इत्यानेनसामान्यशब्देनाभिधीयन्त इति । उपसर्गतो वा न दोषः ; अनुरूपं कामयते, अभिरूपं कामयत इति क्रियाभागमात्रेणैव संबन्धादन्वादयः प्रत्ययार्थे विशिंषन्तः प्रकृतिभावं लप्स्यन्ते ; यथा--सुमनायते, विपुच्छयते इति । विषम उपन्यासः ; तत्र हि मनःपुच्छादिकायाः परकृतेः श्रवणं विद्यते ; इह तु तद्रन्धोऽपि नास्ति ; यतः परः प्रत्ययः उत्पद्येत । नैवम् ; इयान्, इयत्, अधुना इत्यादावपिप्रकृतेरश्रवणात् । तत्र प्रत्ययनिमित्ता प्रकृतेर्निवृत्तिः इति चेत्, इहापि निपातननिमित्ता भविष्यति । कश्चैवमाह प्रकृतेः पर एव प्रत्ययोभवतीति ? "अव्ययसर्वनाम्नामकच् प्रक् टेऋः" "विभाषा सुपो बहुच् पुरस्तात्तु पूर्वस्य" (पा.4.3.71.68.) समासान्ताश्च सर्वे टजादयः भवन्ति । अपि च, प्रकृतिः प्रत्ययः इति रूपसिद्धिमात्रमेतत् । इदं तु अर्थवत्त्वम्--अयं शब्दोऽस्मिन्नर्थे साधिर्भवतीति । स चक्कचिदेवमुच्यते--"अनुकाभिकाभीकः कमीता" (पा.5.2.74.) इति ; क्कचिद्वा "नते नासिकायाः संज्ञायां टीटढ्नाटज्भ्रटचः" इति ; क्कचिदुत्कर्षः "अनुपद्यन्वेष्टा" (पा.5.2.90.) इति ; क्कचत् "श्रोत्रियश्छनन्दोऽधीते" "क्षेत्रियचे परक्षेत्रे चिकित्सयते (स्यः)" (पा.5.2.84.92.) इति क्कचत् "उपाधिभ्यां त्यक्त्रासन्नारूढयोः" (पा.5.2.34.) "अत्यभूतिलोमाभङ्गाभ्यो रजसि कटच्" इति ; क्कचत् "अवैः संघाते कटच्" "दुग्धे सोढजूढमरीसचः" इ#िति ; क्कचत् "पशुनामभ्यः स्थाने गोष्ठच्" "द्वित्वै नौयुगच्," "षट्त्वे षङ्गवच्" इति ; भवने क्षेत्रे शाकटशाकिनौ, "स्नेहे तैलच्" इति ; क्कचित् "निष्फलतिलात्पिञ्जपैजौ" "वाचो व्याहृतार्थायां ठक्" इति; क्कचत्, रूढितोऽर्थमनिर्दिश्य#ैव "वेः शालच्छङ्कटचौ" "संप्रोदश्च कटत्" "अवात्कुटारञ्च" "नेर्बिडड्डत्ध्;ज्विरीसचौ" "इनच्पिडड्डत्ध्;ाञ्चिकचि च" (पा.5.2.28,29,30,32,33.) कचिकादेशश्च, इति । ननु च धातुः प्रथमं साधनेन संबध्यते, पश्चादुपसर्गेण ; तत्कथमुच्यते ? यथेच्छसि तथाऽस्तु, विशेष्यं हि पूर्वसुद्धं विशेषणसंबनव्धमनुभवति ; विशेष्यश्च धात्वर्थः, क्रियारूप उपसर्गाणां, उक्तं च--"क्रियावचनो धीतुः" इति ; क्रिया च साध्यमुच्यते ; स#ाध्यं च साधनसंबन्धमन्तरेण न स्यात्। तदुक्तम्-- प्रयोगार्हेषु सिद्धस्सन्भेत्तव्योऽर्थो विशिष्यते । प्राक् च साधनसंबन्धात्क्रिया नैवोपजायते।। (वाक्यपदीयम्,2-1-85) 2.35. तन्न, भाविसंबन्धयोग्यतासमाश्रयणात् । इदं चावश्यमभ्युपगन्तव्यम् ; अन्यथा हि क्रियावचनो धातुः इत्यपि न स्यात्। न च "धातोः कर्मणः सामानकर्तृतादिच्छायां वा" (पा.3.1.7.) इति सन उत्पत्तिः ; तदाह-- धातोस्साधनयोगस्य भाविनः प्रक्रमाद्यथा । धातुत्वं कर्मभावश्र्च तथाऽन्यदपि द्दश्यताम्।। (वाक्यपदीयम् 2-186) 2.36. यदि च धातोः पूर्वपसर्गेण संबन्धो न स्यात्, कथमुच्यते "विपराभ्यां जेः" (पा.1.3.19.) "अधिशीङ्स्थासां कर्म" (पा.1.4.46) इति ? ननु पूर्वमुपसर्गसंबन्धः क्कोपयुज्यते ? साधनसंबन्धमन्तरेण तद्विशेषनभिव्यक्तेः । नैवम्, फलकाले बीजसंस्कारस्येव तस्योपयोगात् ; तदुक्तं-- बीजकालेषु संबद्धा यथा लाक्षारसादयः । वर्णादिपरिणामेन फलानामुपकुर्वते ।। बुद्धिस्यादभिसंबन्धात्तथा धातूपसर्गयोः । अम्भन्तरीकृतो भैदः पदकाले प्रकाशते ।। अडड्डत्ध्;ादीनां व्यवस्थार्थं पृथक्त्वेन प्रकल्पनम् । धातूपसर्गयोः शास्त्रे धातुरेव हि ताद्दशः।। क्रियाविशेषाः संघातौः प्रक्रम्यन्ते क्कचित्तयोः । तथा हि संग्रामयतेः सोपसर्गादटो विधिः।। (वाक्यपदीयम्.) 2.37. अतः अनुकामयते इत्यादौ धातोः प्रथममुपसर्गेण साधनेन वा संबन्धे न दोष इति। उपसर्गाणां क्रियाविशेषणत्वे त्रयी गतिः--वाचकत्वं, द्योतकत्वं, सहाभिधायकत्वं च ; यथोच्यते-- स वाचको विशेषणां संभवात् द्योतकोऽपि वा। श्क्त्याधानाय धतोर्वा सहकारी प्रयुज्यते।। 2.38. तत्र यदा वाचकत्वं तदा धातोः प्रथममुपसर्गेण संबन्धः ; यथा--प्रतिष्ठते, निराकरेति इति । यदा द्योतकत्वं तदा साधनेन ; यछा--प्रपचति, निकर्षति इति । यदा सहाभिधायकत्वं तदा धातूपसर्गयोस्तुल्यकालं साधनेन संबन्धः ; यथा--अधूते, अध्येति इति । तदुक्तम्--स्वादिभिः कैवसैर्यत्र गमनादि न गम्यते । तत्रानुमानात् द्विविधात्तद्धर्मा प्रदिरुच्यते ।। क्कचित्संभाविनो भेदाः कैवलैरभिदर्शिताः । उपर्गेण संबन्धे व्यज्यन्ते प्रपरादिना ।। यदाऽभिधानसामथ्र्यं धातोर्नैकाकिनस्तदा । धातूपसर्गौ संभूय समर्थावर्थमाहतुः।। इति।. (वाक्यपदीयम्) 2.39. ननु च, प्रथमतः साधनसंबन्धे प्रपचतीत्यत्र प्रकृष्टः पचतीति स्यात्, न तु प्रकृष्टं पचतीति। तन्न, साधु पचतीत्यादावपि समानदोषत्वात् तत्र क्रियाविशेषणत्वात् क्रियामात्रेणैव संबन्ध इति चेत्, इहापि स एवार्थः । कथं च प्रादयश्चदिवसत्त्ववचनाः क्रियाविशेषका#ः कर्तृविशेषणं भवेयुः ? "उपसार्गाः क्रियायोगे" (पा.2.4.59) इति वचनात् । कथं पुनसत्त्ववचनाश्चादयो भवन्ति ? उच्यते-- तेषामुञ्चवचार्थत्वात् सर्वसंबन्धदर्शनात् । अन्यतन्त्रतयोद्भूतेरसत्त्वार्थत्वमुच्यते।। अथ किमति वाचकाः, उत द्यतकाः इति । तत्रैके वर्णयन्ति--- "तत्प्रयोगावसेयत्वाद्वाच्यस्तेषां स गम्यते । समुञ्चयादिरर्थात्मा यथाऽन्येषां गवादिकः।।" अन्ये त्वाहुः--- "षष्ठ्यभावासत्त्वोक्तेरेकानुक्तेः परस्थितेः । गुणभावात्स्मृतेश्चैषां द्योतकत्वं सुनिश्चितम्।।" इति ।। तदेतदग्रतः प्रातिपदिकार्थनिर्णये निश्चेष्यत इति नेह प्रत्नयते।। 2.40. अथ पृथग्रथानामेकार्थीभावः समासः। स त्रिधा--प्राकृतः, वैकृतः, शेषश्च । तेषु समस्तपदानाप्तव्ययीभावदिसंज्ञानिमित्तं पूर्वपदप्रधानादिका प्रकृतिः ; तत्र भवः प्राकृतः । स चतुर्धाअव्ययीभावः, तत्पुरुषः, बहुव्रीहिः, द्वन्द्वः इति। तेषु पूर्वपदप्रधानोऽव#्ययीभावः । स त्रिधा--अव्ययानां, अनव्ययानां, कर्मप्रवचनीयानां च । तत्र अव्ययानां यथा--अधिस्त्रि, उपकुम्भम्, अ#्#्तितैसृकं, ससखि, यावदमत्रं, बहुर्गामं इति । कर्मप्रवतनीयानां यथा--अपत्रिगर्तं, परित्रिगर्ते, आप्रपदं, आपाटलिपुत्रं, अनुवनं, अनुवनं, अनुगङ्गं इति। उत्तरपदार्थप्रधानस्तत्पुरुषः । सोऽपि त्रिधा--व्यधिकरणः, समानाधिकरणः, द्विगुश्च ; तत्र व्यधुकरणो यथा--राजपुरुषः, कष्टश्रितः, शङ्कुलाखण्डड्डत्ध्;ः, धान्यार्थः, यूपदारु, वृकभयम्, कुम्भीपाकः इति ; समानाधिकरणो यथा--नीलोत्पलं, एकपुरुषः, केवलान्नम्, त्रिलोकहर्म्यं, पञ्चपूली, चतुःपात्रं इति । अन्यपदार्थप्रधानो बहुव्रीहिः ; स त्रिधा--प्रधानसंन्ध्यर्थः, अप्रधानसंबन्ध्यर्थः, कारकार्थश्च ; तेषु प्रधानसंबन्ध्यर्थो यथा--दक्षिणस्याश्च पूर्वस्याश्च दिशोर्यद्न्तरालं सा दक्षिणपूर्वा, एवं दक्षिणापरा, सहाग्निया वर्तते स#ाग्निः, सवंशपुत्रः, केशेषु केशेषु गृहूत्वेदं युद्धं प्रवर्तते केशाकेशि, दण्डैड्डत्ध्;श्च दण्डैड्डत्ध्;श्च प्रहृत्य दण्डड्डत्ध्;ादण्डिड्डत्ध्;, इति । प्रथमान्तमिह प्रधानमन्यपदार्थः । अप्रधानसंबन्ध्यर्थो यथा--चित्रा गावः अस्य चित्रगुः, अर्धं तृतीयमेषां अर्धतृतीयाः, अविद्यमाना भार्या अस्य अभार्यः, उष्ट्रस्येव मुखमस्य उष्ट्रमुखः, कण्ठे स्थिताः कालाः अस्य कण्ठेकालः, केशसंहारः चूडड्डत्ध्;ा अस्य केशचूडड्डत्ध्;ः इति। षष्ठ्यन्तमिहाप्रधानमन्यपदार्थः । कारकार्थो यथा--आरूढो वानरो यं स आरूढवानरो वृक्षः, ऊढो रथोऽनेन ऊढरथोऽनङ्वामान्, एवं क्षुण्णव्रीहि मुसलम्, उपह#ृतपशू रुद्रः, उद्धृतौदना स्थाली, मत्तबहुमातङ्गं वनं इति । अत्र द्वितीयादिवाच्यं कर्मादिकारकं सामासार्थः। उभयपदार्थप्रधानो द्वन्द्वः ; स त्रिधा--इतरेतरविषयः, समाहारविषयः, उभयविषयश्च ; तत्र भादविक्षायामुतरेतरयोगः ; यथा--धवस्वदिरौ, मातापितरौ, दधिपयसी, शिववैश्रणौ, गोऽश्वौ, दशेमे मार्दङ्गिकपाविकाः इति । अभेदाविक्षायां समाहारः ; यथा--पाणिपादं, रथिकाश्वारोहं, तक्षायस्कारं, गवाश्वं. प्रत्यष्ठात् कठकौथुमं, उदगात् कठकालापां इति। विभाषितैकवद्भाव उभयविषयः ; यथा--अश्वबडड्डत्ध्;बौ, अश्वबडड्डत्ध्;बं, हंसचक्रवाकाः, हंसचक्रव#ाकम्। धवखदिरपलाशाः, धवखदिरपलाशं इति । 2.41. प्रकृतेरन्यथात्वं विकृतिः, तत्र भवः वैकृतः । सोऽपि चतुर्धा--प्राधावन्यविपरीतः, सामथ्र्यविपरीतः, वाक्याधिकारार्थः, अर्थान्तरगामी च । तेषु प्राधान्यविपर्ययस्त्रिधा--पूर्वपदार्थ- प्राधान्यविपर्ययः, उत्तरपदार्थप्राधान्यविपर्ययः, अन्यपदार्थप्राधान्यव#िपर्ययश्चेति । तत्र पूर्वपदार्थप्राधान्यविपर्ययोऽव्ययीभावो यथा--शाकप्रति, अक्षपरि, तिष्ठद्रु, उन्मत्तगङ्ग, पञ्चनदं, सप्तदोदावरं इति । उत्तरपदार्थप्राधान्यविपर्ययस्तत्पुरुषो यथा--राजदन्तः, पूर्वकायः, प्राप्तजीविकः, गोगर्भिणी, अश्वमताल्लिका, गोबृन्दारकः इति। अन्यपदार्थप्राधान्यविपर्ययो बहुव्रूहिर्यथा--द्वौ वा त्रयो वा द्वित्राः, एवं पञ्चषाः, आसन्नो दशानां आसन्नदशः, एवमदूरदशः, एवं द्विर्दश द्विदशाः, एवं त्रिदशा इति । सामथ्र्यविपर्यस्त्रिधा--पदासामथ्र्यात्, वाक्यासामथ्र्यत् ; तत्र पदासामथ्र्ये सापेक्षत्व#े यथा--देवदत्तस्य गुरूकुलं, ग्रामं गन्तुकामः, ज्ञातचित्तः कान्तया, निवेद्तात्मा गुरूभ्यः, कृतपस्र्थानो नगरात्, निष्पन्नबुद्धिः शास्त्रेषु इति ; वाक्यासामथ्र्ययमस्वपदविग्रहे यथा--ब्राह्मणेभ्योऽयं ब्राह्मणार्थः सूपः, ब्राह्मणार्था यवागूः, मासो जातस्यमासजातः, एवं संवत्सरजातः, द्वे अहनी जातस्य द्य्वहजातः, एवं द्व्यढद्धठ्ठड़14;नजातः इति ; वृत्तयसामथ्र्यं संबन्धे यथा--लूर्यमपि वन पश्यन्ति असूर्यंपश्या राजदाराः, पुनर्न गीयन्ते अपुनर्गेयाः श्लोकाः, श्राद्धं न भुङ्क्ते अश्राद्धभोजी ब्राह्ममः, एवमलवणभोजी भिक्षुः इत#ि, तीर्थे घ्वांक्ष इव तीर्थध्वांक्षः, एवं तीर्थेकाकः इति। अर्थाधिक्यं त्रिधा--विशेषणस्य, विशेष्यस्य, समुदायस्य च ; विशेषणस्य यथा--वर्षशतमायुरस्य शतायुः, जनसहस्त्रं विभर्ति सहस्त्रंभरः, अश्रेणयः श्रेणयः कृताः श्रेणीकृताः, अपण्डिड्डत्ध्;तः पण्डिड्डत्ध्;त उक्तः पण्डिड्डत्ध्;तोक्तः, शस्त्रीव श्यामा शस्त्रीश्यामा, पुरुषोऽयं व्याघ्र इव पुरुषव्यघ्रः इति ; विशेष्यस्य यथा--घृतेन पूर्णो घटः घतृघटाः, अश्वैर्युक्तो रथः अश्वरथः, दध्नोपसिक्त औदनः दध्योदनः, गुडेड्डत्ध्;न मिश्रा धानाः गुडड्डत्ध्;धानाः, अक्षेषु प्रसक्तो धूर्तः अक्षधूर्तः, शाकप्रधानः पार्थिवः शाकपार्थिवः इति ; समुदायस्य यथा--श्वभिः लेह्यः कूपः, काकैः पेया नदी काकपेया नदी, खट्वायामारूढः खट्वारूढो जाल्मः, पात्र एव समिताः पात्रेसमिताः, एवं किंराजा यो न रक्षति, किंगौः यो न वहति इति ; अत्र पूर्वयोरतिशयः, शेषेषु क्षेपः समुदायस्य प्रतीयते । अर्थान्तरगमनं त्रिधा-- पूर्वार्थस्य त्यागात्, अत्यागात्, त्यागात्यागाभ्यां च ; तत्र पूर्वार्थस्य त्यागो यथा--तैलपायिका, शक्रगोपः, अश्वकर्णः, पञ्चा ङ्गुलः, करवीरः, पुंनागः इति ; अत्यागो यथा--कृष्णसर्पः, लोहितशाली, कालशाकः, गौरस्वरः, नरासिंहः, दन्तल#ेखः इति ; त्यागात्यागौ यथा--सप्त पर्णान्यस्य पर्वणि इति सप्तपर्णः, अष्ट पदानि अस्य पङ्क्तौ पङ्क्तौ इति अष्टापदम्, शतं पत्राणामस्याः पुष्पे पुष्पे इति शातपत्रिका, दर्शने नवैव मालिका अस्या नवमालिका, नक्तमुव मालायामस्य नक्तमालः, कृता माला अस्य पुष्पैः इति कृतमालः इति । 2.42. उदाहृतप्रकराभ्यामन्यः शेषः ; स चतुर्धा--सूत्रशेषः, असूत्रशेषः, ज्ञापकसेषः, एकशेषश्चेति। तेषु सूत्रसेषस्त्रिधा--गणोक्तः, वार्तिकोक्तः, सामान्योक्तश्च ; तत्र "तिष्ठद्रुप्रभृतीनि" (पा.2.1.17.) "पात्रे समितादयः" (पा.2.1.48.) "मयूव्यंसकादयः" (पा.2.1.72.) इति गणोक्तः ; यथा--आयतीगवं, समभूमि, उदुम्बरमशकम्, पिण्डड्डत्ध्;ीसूरः, अहंपूर्वीका, आहोपुरुषिका इति ; "निरादयः क्रान्तग्यलर्थे पञ्चम्या" गमिगाम्यादिकृतापकृतानामुपसंख्यानम्" "अव्ययानां बहुव्रीहिः वक्त्व्यः" इति वार्तिकोक्तः ; यथा--निष्कौशाम्बिः, ओदनबुभुक्षुः, क्रियाक्रयिका, पुटापुटिका, उञ्चैर्मुखः, अस्तिक्षीरा इति ; "सुप्सुपा" (पा.2.1.4.) "#िएपूर्वादिनिः" "सपूर्वाञ्च" (पा.5.2.86, 87) "कुशाग्राच्छः" "समासाञ्च तद्विषयात्" (पा.5.3.105,106) इति सामान्योक्तः ; यथा--परश्शता रा-#ानः, परस्सहस्त्रा शरदः, पुनरुत्स्यूतं वासः, पुनर्नवं पयः, कृतपूर्वा कटं, काकतालीयो न्यायोऽयं इति । असूत्रशेषस#्त्रिधा--नामविषयः, कृद्विषयः, तद्धितविषयश्च ; "अपरस्पराः क्रियासातत्ये", "पारस्करप्रभृतीनि च संज्ञायाम्" (पा.6.1.144,257) "पृषोदरादीनि .यथोपदिष्टम्" (पा.6.3.109) इत्यादिर्नामविषयः ; यथा--अपरस्पराः सार्था गच्छन्ति, आश्चर्ये वर्तते, पारस्करो मुनिः, कास्तीरं नगरं, पृषोदरः कश्चिन्मयूरः पक्षी इति ; "उपपदमतिङ्" "कुगतिप्रादयः" (पा.2.2.19,18) "कर्तृकरणे कृता बहुलम्" (पा.2.1.32.) इत्यादिः कृद्विषयः ; यथा--कुम्भकारः, पङ्कजं, ऊरीकृत्य, प्रजवू, अश्वक्रीति ; "द्विगोर्लुगनपत्ये" (पा.4.1.88) "त्ककितवादिभ्यो द्वन्द्वे" (पा.2..4..68) "समासान्ताः" (पा.5.4.68) इत्यादिस्तद्धितविषयः ; यथा--पञ्चसु कपालेषु संस्कृतः पञ्चकपासः, तैकायनयश्च कैतवानयश्च तिककितवाः, उपशरदम्, देवराजः, महोक्षः, मृगनेत्रा रात्रयः इति । ज्ञापकशेषस्त्रिधा--विधिज्ञापितः, निषेधज्ञापितः, प्रयोगज्ञापितश्च । तत्र "कोः कत्तत्पुरुषे", "ईषदर्थेऽपि" (पा.6.3.101,105) "नञो नलोपस्तिङ्यवक्षेपे च" "कारकेऽन्यस्य दुक्" "व्यतिहारे सर्वादीनां लुब्बहुलम्" संख्याविसायपूर्वस्याढद्धठ्ठड़14;नस्याहन्नन्यतरस्यां ङौ" (पा.6.3.110) "दायाद्यं दायदे" (पा.6.2.5) इत्यादिको विधिज्ञापितः ; यथा--कदुष्णं, अपचसि, अन्यत्कारकः, अन्योऽन्यम्, सायढद्धठ्ठड़14;नः, विद्यदायादः इति। "अलुगुत्तरपदे", "पञ्चम्याः स्तोकादिभ्यः", "आत्मानः पूरणे तृतीयायाः" "वैयाकरणाख्यायां पराञ्चतुथ्र्याः" झ्र्पा.6.3.1,2,6,7ट "वाग्दिक्पश्यद्भ्यो युक्तिदण्डड्डत्ध्;हरेषु यक्षासंख्यमलुग्वक्तव्यः", "षष्ठ्याः अदसः फक्फिञोः", "अपोयोनियन्मतुषु सप्तम्याः" इत्यादिः निषेधज्ञापितः ; यथा--ब्राह्मणाच्छंसी, आत्मानातृतीयः, परस्मैपदम्, पश्यतोहरः, आमुष्यकुलिका, अप्सुयोनिः इति । "जनिकर्तृः प्रकृतिः" "तत्प्रयोजको हेतुः" झ्र्पा.1.4.30,55.ट "अपोनप्त्रपान्न्पतृभ्यां घः" झ्र्पा.4.2.27ट "यथातथाचान्तः", "वर्तमानसामीप्ये वर्तमानवद्वा" झ्र्पा.3.3.131ट "अपरस्पराः क्रियासातत्ये" झ्र्पा.6.1.144ट इत्यादिः प्रयोगर्#ापितः ; यथा--भूतहर्ता, दण्डड्डत्ध्;नायकः, तनूनपात्, याथातथ्यं, यत्नगौरवं, क्रियासाफसल्यं इति । एकशोषस्त्रिधा--सरूपाणां, असरूपाणां, सरूपासरूपाणां च । तत्र सरूपाणां भिन्नार्थानामभिन्न्रथानां भिन्नभिन्नार्थाननां च ; भिन्नर्थानां यथा--अक्षौ, माषौ, पक्षौ, पादौ, गोवौ; अभिन्नार्थानांयथा--वृक्षौ, प्लक्षौ इति ; भिन्नाभिन्नार्थानां यथा--अश्विनौ, पुष्पवन्तौ, गावौ, सारस्वतौ, युवां, यूयं, इति । असरूपाणां सर्वनाम्नां, संबन्धिनां, सहचारिणां च ; सर्वनाम्नां यथा-- स ट देवदत्तश्च तौ, एतौ च यज्ञदत्तश्र्च एते, अयं च त्वं च युवाम्, अमू च त्वं च यूयं, त्वं चाहं च आवां, स च आवां च लयं इति ; संबन्धिनां यथा--दस्त्रश्च नासत्यश्च दस्त्रौ, देवदत्तश्च विष्णुमित्रश्च विष्णुमित्रौ, शौण्डड्डत्ध्;श्टच धूर्तादयश्च शौण्डड्डत्ध्;ाः, अर्धर्चश्च गोमयादयश्च अर्धर्चाः, पुरोडड्डत्ध्;ाशश्च पुरोडड्डत्ध्;ाशाः, छत्री च पदात्यादयश्च छत्रिणाः ; सरूपारूपाणां भिन्नशब्दानां, भिन्नवचनानां, भिन्नलिङ्गानां च ; भिन्नशब्दानां यथा-- गाग्यश्च गाग्र्यायणी च गाग्र्यौ, वात्स्यश्च वात्स्यायनश्च वात्स्यौ, पर्थमश्च प्रथमानन्तरश्च प्रथमौ, भूमश्च भीमश्च भीमसेनश्च भीमौ, वक्रदण्डड्डत्ध्;श्चकुटिलदण्डड्डत्ध्;श्च वक्रदण्डड्डत्ध्;ौ, श्रीमांश्च लक्ष्मीवांश्च श्रीमन्तौ इति ; भिन्नंवचनानां यथा--देवश्च दत्तश्च देवदत्तौ, तौ च देवदत्तश्च देवदत्ताः ; एवं विष्णुमित्राः ; कृष्णसारौ, तौ च सारश्च कृष्णसाराः ; एवं नीललोहिताः ; अपारश्च पारश्च अपारपारौ, तौ च पारपारश्च पारपाराः ; एवमपारपाराः इति ; भिन्नलिङ्गानां यथा--कुक्कुटश्च कुक्कुटी च कुक्कुटौ, श्वशुरश्च श्वश्रश्च श्वशुरौ, गावश्च गावश्च गावः इमाः, वत्सकाश्च वत्सिकाश्च वत्सिका इमे, अश्वश्च अश्वश्च अश्वा एते, शुक्लश्च शुक्लाच शुक्लं च तदिदं शिक्लम्, तानीमानि शुक्लानि इति । कथं पुनरेकशेषः समासविशेषो भवति ? संक्षेपाभिधाने सति द्वन्द्वसमानार्थत्वात् ; तथा हि--असरूपाणां द्वन्द्वः, सरूपासरूपाणामेकशेष इति । कोऽनयोः समानोऽर्थः ? येयं युगपदधिकरणवचनता--पदार्थानां सहविवक्षेत्यर्थः ; तदाह-- अनुस्यूतेव भेदाभ्यामेका प्रख्योपजायते । यस्यां सहविवक्षां तामाहुद्र्वन्द्वैकशेषयोः ।। इति । तत्रा यदा प्रयोगैकतया बुद्ध्याऽनेकमर्थमवगत्य यथावगतमेवाभिधातुमध्यवस्यते, तदैकज्ञानवच्छेदानिरूपितभेदस्यास्य भागशोऽभिधानासंभवादवयवशब्दाः संघातविष्या विज्ञायन्ते ; तद्यथा--धवखदिरौ वृक्षौ इति । यद्येवम्, यथा धवखदिरपलाशमिति द्वन्द्वस्य समूहार्थत्व#ादेकवचनम्, एवमेकशेषस्यापि प्राप्नोति । नैवम् ; द्वन्द्वः समाहारेतरेतरयोगयोः, एकशेषः पुनरितरेतरयोग एव ; तस्य हि समाहारपक्षे भिन्नार्थप्रतिपादकानेकशब्दनिवृत्तौ वचनमपि य्दयनेकार्थे न भवेत् केनानेकार्थः प्रतीयेत ? न हि वृक्ष इत्युक्ते वृक्षश्र्च वृक्षश#्च वृक्षश्चेति कश्चिदप्यवैति ; तस्मादाम्नातोऽपि द्वन्द्वसमानार्थतया समाहार एकशेषोऽनभिधानादप्रयोगार्ह एवेति विज्ञायते । द्वन्द्वे तु यद्यपि एकवचनान्नानेकार्थावगतिः, तथाऽपि अनेकशब्दश्रुतिनिबन्धनाऽसौ भविष्यतीति समाहारेऽपि न दोषः । एकशेषोऽपि यत्रान#ेकाभिधानसामथ्र्य कथंचिद्भवति, भवत्येव तत्र समाहारैकवचनम् ; यथा--शुक्लं लश्त्रं शुक्ला शाटी शुक्लः पटः इति तदिदं शिक्लमिति । यथा तह्र्योकस्यैव शब्दस्यानेकार्थाभिधानसामाथ्र्यादेकशेषे शढद्धठ्ठड़14;दान्तरणां निवृत्तिः, एवं द्वन्द्वेऽपि कस्मान्न भवति ? यदि भवेत्, एकशोषादविशेषः प्रसज्येत । समाहार एकवचनं विशेष इति चेत् अनेकार्थो न गम्येत ; न हि पलाषामित्युक्ते धवश्च खदिरश्च पलाशश्चेति कश्चिदप्यवैति । अथ, यथा पतरौ भ्रातरावित्यादिषु शब्दान्तरनिवृत्तावपि तदर्थोऽवगम्यते तथा प्लक्षन्यग्रोधौ धवखदिरावित्यादिषु द्वन्द्वेष्वपि कस्मान्न भवति ? उच्यते--शब्दशक्तिरेषा भवति हि कश्चिदेकोऽपि शब्दो द्वयोरभिधायकः ; यथा--रोदसीशब्दो द्यावापृथिव्योः ; कौचित् पुनद्र्वावेवैकमर्थमभिदधाते ; यथा--अधीते, अध्येति इति । अत्र एव शब्दशक्तिदर्शी मुनिः केषुतिदेवं विरूपेष्वेकशेषमारभत#े--"भ्रातृपुत्रौ स्वसृदुहितृभ्याम्" (पा.1.2.68) "पिता मात्रा" (पा.1.2.70) इति ; अन्येषु तु द्वन्द्वमैवाभ्यनुजानाति।। 2.43 ननु च, "चार्थे द्वन्द्वः" (पा.2.2.29.) स्मर्यते ; स यथा समाहारेतरेतरयोगयोः, तथा समुञ्चयान्वाचययोरपि प्राप्नोति। नैवम्, समुञ्चयान्वाचययोः पदानामसामथ्र्यात् । कथमसामथ्र्यम् ? सापेक्षमसमर्थे भवतीति ; तथाहि--गौश्र्चाश्वश्र्च गच्छतीत्यादिरेकक#्रियापेक्षः समुञ्चयः, भिक्षामट गां चानयेत्यादिकरनेकक्रियापेक्षः अन्वाचयः ; एवं च बाह्यर्थापेक्षाया पदानां परस्परमसामथ्र्यम् ; समर्थश्च पदविधिर्भवति । समाहारेतरेतरयोगयोस्तु समूहत्वात् समूहस्य च समूहस्य च समूहिरूपत्वादवयवानां सति सामथ्र्ये समासो भवत्येव ; यथा--धवखदिरपलाशं, धवखदिर- पलाशाः इति । एवं तर्हि समूहस्यैकत्वात् समाहारवदितरेतरयोगेऽष्येकवचनमेव प्राप्नेति। नैवम्, समाहार एव परस्परानुप्रवेशादिव समधिगताभेदानामुपसर्गनूकृतावयवः समुदायोऽभ्यनु- ज्ञायते, यस्यानभिव्यक्तावयवत्वादेकवर्तिपदैरभिधियमानत्व#ात् समुदायसंख्यानिबन्धनैकवचन- मवयवेभ्यः प्रस्तूयते । तत्र यथा पचतीत्यादौ अधिश्रयणादिक्रियाकलापः प्रत्यवयवं परिसमाप्यते , तथा समुदायार्थोऽपि प्रतिपदं साकल्येन परिसमाप्यते । ततः एकैकस्य पदस्य समुदाय- निबन्धनः संस्कारो भवति । कथं पुनः धवादयो निर्धारितार्थभ#ेदाः पदान्तरस्यार्थमभिधातुं क्षमन्ते ? प्रवृत्तिनिवृत्तिसमारोपात् ; यथोक्तं--"यदि प्रक्षरतीति प्लक्षः, न्यग्रोधोऽप्येवम्, यदि न्यग्रोहतचीति न्यग्रौध- प्लक्षोऽप्येवं" इति । माहचर्यादिवशेन वा परस्पररूपापत्तिः ; यथा--"सप्तमी शौण्डड्डत्ध्;ौः", "अर्धर#्चाः पुंसि", ते विष्णुमित्राः, छत्रिणो गच्छन्तीति । तत्र यथा शौण्डड्डत्ध्;ार्धर्चादयः बहुवचनान्यथानुपपत्तिसमभिगम्यान् सहचारिणो भिन्नरूपान् धूर्तगोमयादी- नुपाददते, तथा धवादिशब्दाः प्रतीतार्थभेदाः साहचर्यादिनिमित्तनुरोधेन खदिरादीनुपाददते। तथा हि--एकवृत्तिवदावारोधप्रतीतसाहचर्यौ धवखदिरौ ; अत एव तयोरेव प्रत्यवयवनिशाद्वहुवचनं न भवति । कथं पुनर्धवादीनामर्थान्तराभिधानं शख्यमध्यवनातुम् ? यावता लोकः पदसमुदायादर्थसमुदायमवैति, नावयवात् । यद्प्युक्तम्--प्रवृत्तिनिवृत्तिसमारोपादिति, तदप्यसारम् ; न हि प्रक्षरतीति व्य#ुत्पत्त्या न्यग्रोधः प्लक्षः, नापि न्यग्रोहतीति व्युत्पात्त्या प्लक्षो न्याग्रोधो भवति ; रूढानां हि धर्मनियमाय यथाकतंचित् व्युत्पत्तिः क्रियते, न तु व्युत्पत्तिवशेन रूढयोऽवतिशष्ठन्ते । नापि प्रकृतिप्रत्ययवदन्वयव्यतिरेकसमधधिगम्या धवादीनां समुदायार्थता। यदप्युच्यते-- शौण्डड्डत्ध्;ार्धर्चादिवत् धवशब्दः साहचर्यादिलक्षणया खदिरमुपादत्ते इति , तदपि न सम्यक् ; सति श्रुत्यर्थसंभवे लक्षणाया अयोगात् ; न च खदिरार्थो धूर्तगोमयादिवल्लक्षयितव्यः, तस्य खदिरशब्देरनैव साक्षादभिधानात् । एवं तर्हि, यदा धवखदिरादयः समुदायाः प्रविभागेनान्वाचिख्यासिताः, तदा तमेव समुदायं प्रत्याय्यतयाऽभिसंधायावयावा उपादीयन्ते, न त्ववयवार्थप्रतिपादनाभिप्रायेण । अतस्तस्यां युगपदधिकरणवचनतायां समीहितायां समुदायपरत्वादवयवप्रयोगस्य, तेषामवयवानां प्रत्येकमनेकार्थत्वमुच्यते । किं पुनः प्रयोक्तुरभिप्रायपरत्वादवयवप्रयोगस्य, तेषामवयवानां प्रत्येकमनेकार्थत्वमुच्यते । किं पुनः प्रयोक्तुरभिप्रायमनुरुध्यन्ते शब्दाः ? येन तदभिसंधानात् समुदायमाभिदध्युः । नेत्याह ; अन्यत्राप्यवयवाभिधायिनां शब्दानामवयवमुखेन समुदायाभिदानसामथ्र्ये द्दश्यते ; यथा--सुरभि कुवलयं, यन्मधुरं राजतनं इति ; यदि हि सिरभिधुरश्बदौ गन्धरममात्रभिधायिनावपि गन्धरसादिसमुदायान् कुसुमफलविशेषादीनवयवमुखेन नाचक्षते, कु वलयादिभिः सह सामानाधिकरण्यं विरुध्येत । सत्यमेतत् ; अस्ति समुदायाभिधानसामथ्र्यमवयवशब्दानाम्, किं तु सुरभि कुवलयं इत्यादौ सामानाधिकरण्येन तदवधार्यते ; द्वेन्द्वे तु निबन्धनमशक्यमवधारयुतुमिति तस्यानुपपत्तिः । नैवम्, समुदायाभिधानस्य प्रकान्तत्वात् । यद्येवं पट्वीमृद्य्याविति समानाधिकरणलक्षणः पुंवद्भावः प्राप्नोति । उच्यते ; कस्मान्न भवति दर्शनीयाया माता दर्शनायामाता? अथ मतमेतत्--प्राक् समासाद्यत्र सामानाधिकरण्यम्, इहापि न दोषो भवति; न हि प्राक् समासात् सामानाधिकरण्यमत्र विद्यते । ननु च वाक्येऽपि समुदायप्रक्रमैणैवावयवपदानां प्रयोगात्, कथमुच्यते प्राक् समासात् सामानाधिकरण्यं नास्तीति ? समुदायप्रक्रमस्य निर्विबन्धनत्वेनाप्रतीयमानत्वात् ; कुवलायादिशब्दसामानाधिकरण्यं हि सुरभिप्रभृतीनामसमासेऽपि समुदायतानुबन्धनम् ; इह त्वेकार्थीभावः समुदायाभिधाने निमित्तमिति वाक्ये सामानाधिकरण्याप्रसिद्धः । एवमपि, विप्रतिषिद्धेषु युगपदधिकरणवचनताया अनुपपत्तिः ; यथा--सुखदुःखे, जननमरणे, शीतोष्णो इति ; सुखादिप्रतिघातेन हि दुःखादयः, दुःखादिप्रतिघातेन च सुखादय इति। नैवम् ; सर्व एव शब्दा विप्रतिषिद्धा ; प्लक्षन्यग्रोधावित्या- त्रापि हि प्लक्षशब्दः प्रयुज्यमानः प्लक्षार्थे संप्रत्याययति, न्यग्रोधार्थे निवर्तयति ; न्यगेरोधशब्दः प्रयुज्यमानो न्यग्रोधार्थे प्रत्यायत्, प्लक्षार्थे निवर्तयति । तत्र चेद्युक्ता युगपदध्करणवचनता द्दश्यते, इहापि युक्तं द्दश्यताम् । एवमपि शब्दपौर्वापर्यप्रयोगादर्थपौर्वापर्याधानं प्राप्नोति । ततः किम् ? युगपदधिकरणवतमताया अनुपपत्तिः--फ्लक्षन्यग्रोधौ प्लक्षन्यग्रोधा इति ; यथैव हि शब्दानां पौर्वापर्यं तद्वदर्थानामपि स्यात् । नैवम ; एवं सति, द्विवचवनबहुवचनयोरप्यनुपपत्तिः ; प्लक्षशब्दो हि सार्थको निवृत्तः, न्यग्रोधशब्दः उपस्थितः ; , चैक एकार्थ इति तस्मादेकवचनमेव प्राप्नोति । विग्रहे खल्वपि युगपदधिकरणवतनता द्दश्यते, किं पुनः समासे ; तद्यथा--"द्यावा ह क्षामाः", "द्यावा चिदस्मै पृथिवी सन्नमेते" (ऋ.7.6.11,2.6.9) इति । समुदायात् सिद्धमिति चेत्, तन्न, समुदायस्यैकार्थत्वात् । एकार्था हि समुदाया भवन्ति ; तद्यथा--शतं यूथं वनमिति नायमेकार्थः ; किं तर्हि ? द्व्यर्थो बढद्धठ्ठड़14;वर्थश्च ; प्लक्षोऽपि द्य्वर्थः, न्यग्रोधोऽपि द्य्वर्थः । यद्येवमनेकार्थत्वात् "बहुषु बहुवचनम्" (पा.1.4.21) इति बहुवचनं प्राप्नोति । तन्न, बहुत्वाभावात् ; याभ्याभेवात्रैको द्य्वर्थस्ताभ्यामेवापरोऽपि । यद्येवमन्य#ेवाचकेन शब्देनान्यस्य वचनं नोपपद्यते । एवं तर्हि प्लक्षोऽपि न्यग्रोघः, न्यग्रोधस्य च प्लक्षत्वात् स्वशब्देनैवाभिधानं भविष्यतीति । कथं पुनः प्लक्षोऽपि न्यग्रोघः, न्यग्रोधोऽपि प्लक्षः स्यात् ? यावता कारणाद्द्रव्ये शब्दासंनिवेशो भवति । कारणाद्द्रव्ये शब्दसंन्वेश इति चेत्, कारणनुक्तं पुरस्तात्--यदि प्रक्षरतीति प्लक्षः न्यग्रोधेऽप्येतद्भविति, यदि न्यङ्रोहतीति न्यगर्#ोधः, प्लक्षेप्येतद्भविष्यतीति । दर्शनं वै हेतुः न च न्यग्रोधे प्लक्षशब्दो द्दश्यते । द्रशनं हेतुरिति चेत्, तुस्यमेतद्भवति ; प्लक्षेऽप#ि न्यग्रोधशब्दो द्दश्यते । नन्वेतढद्धठ्ठड़14;ब्रवीमि--नैष लोके संप्रत्ययोऽस्ति, न हि प्लक्ष आनीयतामित्यिक्ते न्यग्रोधे आनीयते । द्वन्द्वविषयमेवैतद्द्रष्टव्यम् ; युक्तं पुनर्यन्नियतविषया नाम शब्दाः स्युः ? बाढं युक्तम्, अन्यत्रापि दर्शनात् ; तद्यथा -- समानेऽपि रक्ते वर्णे गौर्लोहित इ#ित भवति, अश्वः शोण इति ; समाने शुक्ले वर्णे गौः श्वेत इति भवति, अश्वः कर्क इति । यदि तर्हि प्लक्षोऽपि न्यग्रोधः न्यग्रोधोऽपि प्लक्षः, एकेनैवोक्तत्वादपरस्य प्रयोगोऽनुपपन्नः। अनुक्तः प्लक्षेण न्यग्रोध इति कृत्वा न्यग्रोधशब्दः प्रयुज्यते । फथमनुक्तः ? यदिदामीमेवोक्तं प्लक्षोऽपि न्यगर्#ोधः न्यग्रोधोऽपि प्लक्ष इति । सहभूतावन्योऽन्यस्यार्थमाहतुः, न पृथग्भूतौ । किं पुनः कारणम् ? शब्दशक्तेः स्वभाव#ः ; प्रतिनियता हि वृत्तिवाक्ययोः शब्दानामभिधानशक्तिः ; तद्यथा--श्सत्रीश्यमा देवदत्तेति । "उपमानानि सामान्यवचनैः" (पा.2.1.55) इति समासे शस्त्रीशब्देनावाच्छिद्यमानाविशेषावरुद्धः श्यामाशब्दो यद्यपि न सामान्यवचनः, तथाऽप्यसौ देवदत्तायामुपमीयमानायां वर्तते शस्त्रीव श्यामा देवदत्तेति ; तदिदमुक्तम्--"प्रागभिसंबन्धाद्यः सामान्यवचनः" इति समासमभिसंबन्धशब्देन दर्शयति ; यतस्तत्र विनिवृत्तविशेषान्तराकांक्षाणि यथासमीहितविशेषावरूद्धानि पदानि । सोऽयं वृत्तिवाक्ययोर्विशेषः । किं च, निष्कौशाम्बुः, निर्वाराणसिरिति भेदे सति निरादीनां न क्रान्ताद्यर्थसंभवः । अपि च, गौरखरवदरण्यम्, लोहितशालिमान् ग्राम इति । "प्राग्वृत्तेर्जातिवाचित्वं न च गौरखरादिषु ।" यथा--स्न्निग्धकिसलयमरण्यं, मत्तमातङ्गं वनमिति । "वृत्तिरन्यपदार्थे या तस्या वाक्येष्वसंभवः।।" 2.44. एवं च प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधाः इति द्वद्वेऽपि सहभूतयोरेवान्यार्थाभिधानं भविष्यति, न पृथग्भूतयोरिति । अथवा, इह कौचित् पलक्षन्यग्रोधौ प्राथमकल्पिकौ ; कौचित् क्रियाय गुणेन वा प्लक्षं इवायं प्लक्षः, न्यग्रोधावेव, अथवा प्लक्षन्यग्रोधाविति । तत्रासंदेहार्थो न्यग्रोधशब्दः प्रयुज्यते । सेयं यूगपदधिकरणवचनता दुःखा दुरुपपाददा च । यदपि चास्या ज्ञापकं "द्यावा ह क्षामा" इति, तदपि छान्दसम्। इदं तर्हि ज्ञपकमस्तु "परवल्लिङ्गतातिदेशोऽनरथकः । नानर्थकः, तत्पुरुषस्य क्कचित् पूर्वपदार्थप्रधानत्वात्; यथा--अर्धं पिप्पल्याः अर्धपिप्पली, पूर्वं कायस्य पूर्वंकायः, उत्तरं शरूरस्य उत्तरशरीरं इ#ित । यद्योवं, प्राप्तजीविकः, निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्ब्याः निष्कौशाम्बिः, अलं कुमार्यो अलंकुमारिः इत्यत्रापि परवल्लिङ्गता प्राप्नेति। एवं तर्हि, द्वन्द#्वेन सह निर्दिशाञ्चार्थविषयोऽत्र तत्पुरुषो गृह्यते ; यथा--क्रयाक्रयिका, पुटापुटिका, फलाफलिकेति, अश्वमतल्लिका, कुमारीतल्लजकः, गोप्रकाण्डंड्डत्ध्; इति । अत्र हि, यथा धवश्च खदिरश्चेति युगपदधिकरणवचनतायां, तथा समानाधिकरणतायापि विशेषणविशेष्यभावेन संमूर्थन्ताविवान्य#ोन्यमर्थौ भवतः । तथा हि-- प्रयोजत्त्या महत्त्वाश्रयश्र्चासावल्पमूल्यत्वेन लघुत्वात् क्रयिका चेत्युपपद्यते, नीसोत्पलादिवाद्विशेषणविशेष्यभावः । एवं फलाफलिका, पुटापुटिकेति । अश्वमतल्लिकेत्यत्राश्वशब्दः प्रवर्तमानः सर्वाश्वावग्रहरुपेण प्रवर्तते ; मताल्लिकाशब्दः प्रशंसावचनः प्रवर्तमानो विशिष्टावग्रहरुपेणावाच्छिनत्ति " । यदि वा, मतल्लिकेत्येतत् प्रशंसावचनं न्युनाधिकभावमनपेक्ष्यप्रवर्तमानमनेनैव धर्मेण सर्वयोग्यं सत् अश्व इत्यनेन विशिष्टायां योग्यतायां नियम्यते । ततो यथा--शुक्लः कृष्णश्चयं मृगः सारङ्गः शबलइति वा, तथा अश्वमतल्लिकेत्येतदुभयरूपोऽर्थ इत्युभयमुभयेन संनिवेश्यते । एवं कुमारीतल्लजकः, गोप्रकाण्डंड्डत्ध्; इति । यद्येवं, अर्धपिप्पलीत्यादिषु षष्ठीसमासापवादेषु परवाल्लिङ्गता न प्राप्नेति । नैवम्, तत्रापि अर्ध च तत् पिप्पली चार्धपिपप्लीति, पूर्वश्र्चासौ कायश्र्च पूर्वकाय इति सामानाधिकरण्यमैव परमार्थः । अत एव यत्र सामानाधिकरण्यस्यासंभवः, तत्र षष्ठीसमास एव भवति ; यथा--वेद्यर्थ दक्षिणं मेरोः, स्वरार्धे, चूडिड्डत्ध्;कार्धं, पणार्धे इति । न च अर्धादीनामेवैष नियमः, यतोऽन्यत्रापि सामानाधिकरण्यस्य विवक्षाऽविवक्षाबभ्यामुभयथा तत्पुरुषो भवति ; तद्यथा--अग्रहस्तः, हस्ताग्रं, तलपादः, पादतलं इति ।। 2.45. ननु च, "चार्थे द्वन्द्वः" (पा.2.2.29.) इत्युच्यते ; चश्र्चाव्ययम् तेन समासस्याव्ययसंज्ञा प्राप्नोति ; नैष देषः ; पाठेनाव्ययसंज्ञा क्रियते ; न च समासस्तत्र पठ्यते । मा भूदपाठे संज्ञा, तथाऽप्युभिधेयवल्लिङ्गवचनानि भवन्ति ; यश्र्चेह#ार्थोऽभिधीयते, न त्सय लिङ्गसंख्याभ्यां योगोऽस्ति । नेदं वाचनिकम्--अलिङ्गता, असमख्यता च । किं तर्हि ? स्वाभाविकमेतत् । तद्यथा--समानमीहमानानामधीयानानां च केचिदर्थेन युज्यन्ते, अपरे न ; न चेदानीं कश्चिदर्थवानिति कृत्वा सर्वैरर्थवद्भिश्शक्यं भवितुम्, कश्र्चिद्वाऽनर्थक इति सर्वैरनर्थकैः । तत्र किमस्म्#ाभिः शक्यं कर्तुम् ; यत्प्राक् समासाञ्चर्थस्य लिङ्गसंख्याभ्यां योगो नास्ति, समारे च भवति ; स्वभाविकमेतत् । अथवा, आश्रयतो लिङ्गवचनानि भविष्यन्ति, यथा गुणवचनेषु । गुणवचनानां हि शब्दानामाश्रयतो लिङ्गवचनानि भवन्ति । तद्यथा, शुक्लं वस्त्रं, शुक्ला शाटी, शुक्लः कम्बलः, शुक्लौ कम्बलौ, शुक्लाः कम्बलः इति । यदसौ द्रव्यं श्रितो भवति समासस्तस्य यल्लिङ्गं वचनं च तत्समासस्यापि भविष्यति । अथेह कस्मान्न भवति--याज्ञिकश्चायं वैयाकरणश्च, कठश्चायं बढद्धठ्ठड़14;वृचश्च, औक्थिकश्चयं मीमांसकश्चेति ? शेष इति वर्तते, अशेषत्वान्न भविष्यति । यदि शेष इ#िति वर्तते -- "उपास्न्नातं स्थूलसिक्तं तूष्णींगङ्गं महाहदम् । द्रोणं चेदशको गन्तुं मा त्वा ताप्तां कृताकृते।।" इत्येतन्न सिध्यति । नैष दोषः ; अन्यद्धि कृतमन्यदकृतम् । चार्थे द्वन्द्ववचने असमासेऽपि चार्थसंप्रक्ययादनिष्टं प्राप्नेति -- "अहरहर्नयमानो गामश्वं पुरुषं पशुम् । वैवस्वतो न तृप्यति सुराया इव दिर्मदी ।।" "इन्द्रस्त्वष्टा वरूणो वायुरादित्यः" इति । नैष दोषः ; इह "चे द्वन्द्वः" इतीयता सिद्धम् ; कथं पुनश्र्चे नाय#ं वृत्तिः स्यात् ? शब्दो ह्येष- ; शब्देऽसंभवादर्थे कार्यं विज्ञास्यते । सोऽयमेवं सिद्धं सति यद्रथग्रहणं करोति, तस्यैतत्प्रयोजनम् ; यथैवं विज्ञायेत--चकृतेऽर्थे चार्थ इति । कः पुनः चकृतोऽर्थः ? समूञ्चयः, अन्वाचयः, इतरेतरयोगः, समाहार इति । तत्रद्वयोः सापेक्षत्वात् समासो न भवति, द्वयोस्तु भवतीति प्रतिपादितं पुस्ताता। ननु चैवम्, चकृतोऽर्थश्र्चार्थ इति पश्रे प्लक्षन्यग्रोधावित्यत्र प्लक्षश्र्च न्यग्रोधश्र्चेति विग्रहः प्राप्नोति ; यावता प्लक्षश्र्च न्यग्रोधश्र्चेदप्युक्ते गम्यत एतत्--प्लक्षोऽपि न्यग्रोधसहायः, न्यग्रोधोऽपि प्लक्षसहाय इति। तत्र को दोषः स्यात् ? प्लक्षौ च न्यग्रोधौ चेति यदक्तं तन्न घचते । युगपदधिकरणवतचनाप्रदर्शनमात्रपरमेतत्, न त्वयमेव परमार्थः । एवं हि क्रियमाणे एकश्र्च विंशतिश्र्च एकविंशतिः, द्वौ च विंशतिश्र्च द्वाविंशतिरित#ि द्विवचनं बहुवचनं च प्राप्नोति । किं पुनरेकविंशतिरित्यादयो द्वन्द्वः ? बाढम्। एकाधिका विंशतिरिति पक्षे हि संख्यास्वरो न प्राप्नोति ; स हि शतसहस्त्रमिति षष्ठीसमासे मा भूदिति द्वन्द्वः एवाभ्यनुज्ञायते । यद्येवमितरेतरयोगपक्षे द्विवतनम्, समाहारपक्षे नपुंसकत्वं प्राप्नोति । नैवम् ; "लिङ्गमशिष्यं लोकाश्रयत्वात्" इति समाहरेऽपि नपिंसकत्वं न भवष्यति । अथ द्वादशेत्यत्रापि समाहारः कसमान्न भवति ? आ दशभ्यः संख्याः संख्येय एव वर्तन्ते ; अतः उद्भतावयवसमुदायतायामितरेतरयोग एव प्राप्नोति ; यथा "अधिकरणैतावत्त्वे च" (पा.2.4.15.) दशेमे मार्दङ्गिकपाणविका इति ।। 2.46. तदेतत् कृत्तद्धितसमासभेदाद्विभक्तावयवं त्रिधा प्रातिपदिकभिहितम् । अथाविभाक्तावयवनुच्यते । तदपि त्रिधा--नामरूपं, अव्यरूपं, निपातरूपं च । तत्रानपेक्षितशब्दव्युत्पत्ततीनि सत्त्वभूतार्थाभिधायीनि च नामानि । तानि त्रिधा--एकार्थानि, अनेकार्थानि, एकानेकार्थानि चेति ; तत्र, एकार्थानि यथा--वृक्षः, कुण्म्, कुमारी, डिड्डत्ध्;त्थः, शुक्लः, शीघ्रः, इन्द्रः, शुक्रः, पुरन्दरः, कोष्ठः, कुसूलः इति । अनेकार्थानि यथा--अक्षाः, माषाः, पादाः, अवयः, हरयः, गावः, भूतयः, पुण्डड्डत्ध्;रूकं, पुष्करं, साम, ललाम इति । एकानेकार्तानि यथा-- दस्त्रौः, नासत्यौ, पुष्पवन्तौ, उभौ, रोदसी, रोदस्यै, दाराः, वर्षाः, आपः, वनं, सोना, इति। प्रायोणालिङ्गसेख्याशक्तिन्यव्ययानि ; तेषु द्रव्यवचनानि यथा--स्वः, प्रातर्, दिवा, दोषा, नक्तं, सायं, विहायसा, भूः, शम्, संयोः, मयः इति ; गुणवचनानि यथा--उञ्चैः, न#ीञ्चैः, सुष्ठु, अपष्ठु, मुधा, अद्धा, मृषा, मिथ्या, अलं, बललत्, पृथक्, विष्वक् इ#िति । संबन्धवचनानि यथा--समया, निकषा, बहिः, अन्तः, अन्तरेण, ऋते, आरात्, युगपत् साकं, सार्धं, अमा, सह इति । असत्त्ववचनाश्र्चादयो निपाताः। तेऽपि त्रिधेव--स्वतन्त्राः,परतचन्त्राः, विशेषपरतन्त्राश्र्च ; तेष्वस्त्यादयः स्वतन्त्राः ; यथा--अस्ति, असि, अस्मि, एहि, ब्रूहि, मृदुहि, मन्ये, जाने, पश्य, पश्यत्, स्यात् इति.। कर्मप्रवचनीयाश्र्चादयः परतन्त्राः---वृश्रमनु विद्योतते, उपार्जुनं योद्रारः, अप त्रिदर्तेभ्यो वृष्टो द्वः, अभिमन्युरर्जुनतः प्रति, यदत्र मां प्रति स्यात्, अधि ब्रह्मदत्ते पञ्चालाः, अहं च त्वं च वृत्रहन्, (ऋ.6.4.23) "वायुर्वा त्वा मनुर्वा त्वा" (तै.सं.1.7.7.2.) "अहमेव पशूनामीशे", सरोजमिव ते मिखम्, "न नूनमति नो श्वः" (ऋ.2.4.10) "कस्विदेकाकी चरति" (तै.सं.7.4.18.1.) इति । गतिप्रादयो विशेषपरतन्त्रा ; यथा--प्रकरोति, पराकरोति, ऊरीकरोति, गुलुगुधाकरोति, कारिकाकरेति, खाट्करोति, पटपटाकरोति, तिरस्करोति, पुलस्करोति, श्रद्धा, अन्तार्धिः इति ।। 2.47. अथानुकरणम् । तदपि त्रिधैव--साध्वनुकरणं, असाध्वनुकरणं, अव्यक्तानुकरणं च । तत्र प्रथमं पार्थकः, निरर्थकं च । तयोः सार्थकं यथा--द्विः पचत्वित्याह,अग्नि इ#्तायह, पचतीत्याह; अत्र सार्थकत्वात् "तिङ्ङतिङः", (पा.8.1.28.) इति निघातः "ईदूदेद्द्वचनम्" (पा.1.1.11) इति प्रगृह्यत्वम्, "तिङन्तात्वादप्रातिपदिकत्वे सुबुत्पात्तिश्र्च न भवतीति । निरर्थकं यथा--"सुः पूजायाम्"" "अपिः पदार्थसंभावनाऽन्ववसर्गगर्हासमुञ्चयेषु", (पा.1.4.94,96) "चः समुञ्चये" ; अत्रार्थस्यानुकरणात् स्वस्वरूपत्वाञ्च प्रातिपदिकत्वे सुपः श्रवणं भवतीति । द्वितीयम्--अशक्तिजं, अपभ्रंशश्र्च ; तत्राशक्तिजं यथा--अहो ऋतक इति वक्तव्ये, असुरा हेलयो हेलय इ#िति वदन्तः पराबभूवुः । तृतीयं--निरुल्लेखं, सोल्लेखं च ; तयोः निरुल्लेखं यथा--पटत्पटदिति करोति, पटपटायते । सोल्लखं यथा--तदेतदेवैषा दौवी वागनुवदति स्तमयित्नुर्दाद इति ; दास्यत, दत्त, दयध्वमिति तदेतत्र्नयं शिक्षेत्--दमं दानं दयामिति।। 2.48. प्रत्ययविशेष एव शक्तिसंख्याविभागकृद्विभक्तिः । सा त्रिधा--तिङ्विभक्तिः, सुब्विभक्तिः, अव्ययविभक्तिश्र्च । तासु तिङ्विभक्तिः षोढा-पस्मैपदविभक्तिः, आत्मापदविभक्तिः, सार्वधातुकविभक्तिः, आर्धदातुकविभक्तिः, व्यक्तकालविभक्ति, अव्यक्तकालविभक्तिश्र्च ; #ाएतासु परस्मैपदविभक्तिः यथा--पचति, पचतः, पचन्ति ; आत्मनेपदविभक्तिर्यथा--पच्यते, पच्येते, पच्यते; सार्वाधातुकविभक्तिर्यथा--व्यपच्यत, व्यच्येतां, व्यपच्यन्त ; आर्धधातुकविभक्तिर्यथा--पपाच, पक्ता, पक्षाष्ट; व्यक्तकालविभक्तिर्यथा--अपाक्षीत्, अपचत्, पक्ष्यते ; अव्यक्तकालविभक्तिर्यथा--पचतु, पचत्, अपक्ष्यत इति । सुब्विभक्तिरपि षोढा--कारकविभक्तिः, शेषविभरक्तिः, उपपदविभक्तिः, प्रधानविभक्तिः, संबोधविभक्तिश्र्च; तासु कारकविभक्तिर्यथी--कटं करोति, दात्रेण लुनाति, ब्राह्मणाय ददाति ; संबन्धनविभक्तिर्यथ#ा--विद्यया .यज्ञः, ययूप दारु, गवां कृष्णा संपन्नक्षीतमा इति ; शेषविभक्तिर्यथा--मातुः स्मरति, वृक्षस्य पर्णं पतति, माणवकस्य पितरं पन्थानं पृच्छति ; उपपदविभक्तिर्यथा--वृक्षं प्रति विद्योतते विद्युत्, नमो देवेभ्यः, ऋते देवदत्तत् ; प्रधानविभक्तिर्यथा--देवदत्तः पचति, चैत्रेण पच्यते, वीरः पुरुषः इति ; संबोधनविभक्तिर्यथा--हे देवदत्त, व्रजामि देवदत्त, आगच्थ देवदत्त इति । तद्धितप्रत्ययविशेषोऽव्ययविभक्तिः। सा द्विधा--विभक्तिकार्यवती, अविभक्तिकार्यवती च । विभक्तिकार्यवती "प्राग्दिशो विभक्तिः" (पा.5.3.1) इति । सा त्रिधा--विभक्त्यादेशरूपा, प्रत्ययादेशरूपा, प्रत्ययादेशरूपा, प्रत्ययरूपा च ; तासु विभक्त्त्यादेशरूपा यथा--"पञ्चम्यास्तसिल्" "सप्तम्यास्त्रल्", "इदमो हः", "किमोऽत्", (पा.5.3.7,10,11,12) भवान्दीर्घायुरायुष्मान्देवानांप्रिय एतैर्योग#े तेऽन्यासां चेति ; यथा--सर्वस्मात्, सर्वतः, यस्मिन्, यत्र, तं भवन्तम्, ततो भवन्तं, एतेन दूर्घायुषा अत्र दीर्घायषा, इहायुष्मते अस्मै आयुष्मते, कस्य देवानां प्रियस्य क्क देवानां प्रियस्य इति ; प्रत्ययदेशरूपा "तेसेश्र्च" (पा.5.3.8) तसिः। स च "गएप्रतियोगे पञ्चम्यास्तसिः" "अपादाने चाहीयरुहोः", "अतिग्रहव्यथनक्षेपेष्वकर्तरि तृतीयायः", "षष्ठ्या व्याश्रये (पा.5.4.44,45,46,48)" आद्यदिभ्यश्च सर्ववुभक्तिः, इति ; यथा--अभिमन्युरर्जनतः प्रति, शैलतोऽवतरति, शीलतोऽतिगृह्यते, देवा अर्जुनतोऽभवन् ; आदौ आदितः, प्रमाणेन प्रमाणतः इति ; प्रत्ययरूपा--"था हेतौ च च्छन्दसि", "इदमस्थमुः", "इमोर्हिल्", (पा.5.3.15,16), "प्रकारवचने थाल्" "था हेतौ च च्छन्दसि", "इदमस्थमुः", "किमश्च" (पा.5.3.23,26,24,25) इति ; यथा--सर्वदा, एतर्हि ; सर्वथा, प्रकथा, इत्थं, कथं इति। अविभक्तिकार्याऽपि त्रिधा--शब्दोक्ता, अर्थोक्ता, प्रयोगोक्ता च ; तासु शब्दोक्त यथा--"सप्तमीपञ्चमीप्रथमाभ्योस्तातिः", (पा.5.3.27) "देवमनुष्यपुरुषपुरुमत्र्येभ्यो द्वितीयासप्तब्योर्बहुलम्" (पा.5.4.56) इति ; यथा--पुरस्ताद्वसति, पुरस्तादागतः, पुरस्ताद्रमणीयं, देवत्रा गच्छति, मनुष्यत्रा वसति, पुरुषत्राभिनिविशेते इति ; यथा--अग्निना तुल्यमयं वर्तते अग्निवत्, देवमिव भवन्तं पश्यामि देववत्, ब्रह्मणेन तुल्यमस्मै दीयते ब्रह्मणवत्, व्याघ्रेण तुल्यमस्माद्विभेति व्याघ्रवत्, मधुरायामिव पाटलिपुक्त्रे प्रासादाः मधुरावत्, श्रोत्रियस्येवास्य शुक्ला दन्ता श्रोत्रियवत्। तद्धितविभक्त#िरिति वक्तव्ये अव्ययग्रहणम्, अधिस्त्रि, प्रत्युरसं, पारेगङ्गं, पुरा, साक्षात् इत्येवमादीनामुपसंग्रणार्थमिति।। 2.49. "प्रथमानिर्दिष्टं समास उपसर्जनम्" "एकविभक्ति चापूर्वनिपाते" (पा.1.2.43,44)। तत् त्रिधा--विशेष्यरूपं, विशेषणरूपं, तुल्यरूपं च ; तत्र वि#ेश्यरूपं यथा--पुरुषोऽयं व्याघ्र इव पुरुषाव्याघ्रः, पूजितोऽश्वः अश्वकुञ्जरः, गर्भिणी गौः गोगर्भिणी, स्त#ोकोऽग्निः अग्निस्तोकः, कायस्य पूर्वः पूर्वकायः, अर्धं पुप्पल्याः अर्धपिप्पली इति ; विशेषणरूपं यथा--राज्ञः पुरूषः राजपुरूषः, दन्तानां राजा राजदन्तः, कष्टं श्रितः कष्टश्रितः, जीविकामापन्नः आपन्नजीविकः, नीसमुत्पलं नीलोत्पलं, उत्तमः पुरुषः पुरुषोत्तमः इति ; तुल्यरूपं यथा--शश्त्रीव श्यामा शस्त्रीश्यामा, खञ्जश्चासौ कुब्जश्चेति खञ्जकुब्जः, निर्गतः कौशाम्ब्याः निष्कौशाम्बिः, चात्रा गोवोऽस्य चित्रगुः, अर्धं तृतीयमेषां अर्धतृतीयाः, के सब्रह्मचारिणोऽस्य किंसब्रह्मचारी इति । ननु च, अर्धं तृतीयमेषामिति अन्यपद#ार्थो नोपपद्यते । स हि तत्र स्यात्, यत्र येषां पदानां समासः, ततोऽन्यस्य पदस्यार्थो भवति। नैष दोषः । अवयवेन विग्रहः, समुदायः समासार्थः । नन्वेवं सति, "असुद्वितीयऽनुससार पाण्डड्डत्ध्;वम्" "सङ्कर्षणाद्वितीयस्य बलं कृष्णस्य वर्धताम्" । इदित्यादिषु द्वयोद्र्व#िवचनमिति द्विवचनं प्राप्नोति । नैवम्, अलिर्द्वितीयो यस्यत्यन्यपदार्थेनैक एवोच्यते । यथा--"जनार्दनस्त्वात्मचतुर्थ एव" इति । यदि वा, द्वितीयशब्दोऽयमस्ति तीयान्तः संख्यापूरणः ; अस्ति चाव्युत्पन्नः सहयवाची, तस्येह ग्रहणम्--असुद्वितीयः असिसहाय इत्यर्थः । आत्मचतुर्थ इति कोऽयं समासः ? नन्वन्यपदार्थः--आत्मा चतुर्थः अस्येति । आत्माना चतुर्थ इति तत्पुरुषः कस्मान्न भवति ? "आत्मनश्र्च पूरणे" (पा.6.3.6) इति तृतीयाया अलुक्प्रसङ्गात् । यद्येवम्, अलुक् न वक्तव्यः ; आत्माना चतुर्थ इति वाक्यं भविष्यति ; #ःएआत्मचतुर्थ इति च वृत्तिः ; न चात्मटतुर्थ इत्युक्ते बहुव्रीहौ तत्पुरुषे वाऽर्थभेदो विद्यते, उभयथाऽपि चतुस्संख्योपलक्षितसमुदायप्रतीतेः । नैवम्; एवं सति, राज्ञः सखा राजसखः इत्यप्युक्ते संबन्धादेतद्नन्तव्यम्--नूनं राजाऽस्य सखा ; राजसखेति चोक्ते गन्तव्यमेतत्--राज्ञस्सखाऽयमिति । ततश्र्च बहुव्रीहितत्पुरुषयोरन्यतरो न प्राप्नोति । मैवम्; अस्त्यत्र विशेषः--तत्पुरुषे समासान्तो भवति ; यथा--"स्वस्ति सोमसखाय ते" बहुव्रीहौ न भवति ; यथा--"वृत्रं जहि मरुत्सखे" इति । इहापि तह्र्यस्ति विशेषः--तत्प#ुरुषे आत्मानाचतुर्थसाध्यमेतत् ; बहुव्रीहावात्मचतुर्थसाध्यमेतदिति। अपि च, अन्यथाजातीयः प्रत्यक्षेणार्थसंप्रत्ययः, अन्यथाजातीयः खल्वनुमानेन भवति ; तत्रायं राज्ञस्सखा, आत्माना चतुर्थ इति प्रत्यक्षेण ; संबन्धस्योभयनिष्ठत्वात् नूनं राजाऽप्यस्य समुदायस्यैकार्थत्वादेकवचनम्, एवमर्धतृतीया इत्यत्रापि कस्मान्न भवति ? अन्येऽपि ह्येकार्था एव समुदाया भवन्ति ; तद्यथा--शतं, यूथं, वनमिति । विषम उपन्यासः ; आत्मचतुर्थ इत्यत्र हि बहुव्रीहिणोपसर्जनीकृतप्रतीयमानपरसंख्येयसमानाधिकरणात्मचतुर्थशढद्धठ्ठड़14;दशक्त्यभिधेयो जनार्दन एकोऽस्येत्यन्यपदस्यार्थः प्रतिपाद्यते ; इह तु अर्धतृतीयशब्दशक्त्यभिधेयास्त्रयः सेखेयेयाः । तत्र यद्येकवचनं वाक्ये वृत्तौ वा भवति, केषां तदर्धं तृतीयं भवति ? नन्वेवमपि, अर्धतृतीया द्रोणा इति द्रोणशब्दः समुदाये वृत्तो नार्धे वर्तते । नैष दोषः ; सम#ुदायेषु वृत्ताः शब्दाः अवयवेष्वपि वर्तन्ते ; तद्यथा--पूर्वे पञ्चालाः, उत्तराः कुरवः इति । अथ, द्वौ द्रोणावर्धाढकं च कर्तव्यमर्धतृतीया द्रोणा इति । न कर्तव्यम् । समुदाये शब्दाः प्रवृत्ताः तेष्ववयवेषु वर्तन्ते, तृतीयमनयोरिति विग्रहः क्रियते, को दोषः स्यात् ? षष्ठ्यर्थो नोपपद्यते ; किं हि द्वयोस्तृतीयमर्धं भवति ? भवानपि पृष्टो व्याचष्टाम् । अथेह देवदत्तस्य भ्रातेति कः संब्धार्थ ? एकस्मात् प्रादुर्भाव इति चेत्, वात्र्तं तत् ; तद्यथा--सार्तिकानामेकप्रतिश्रयद्विजानां प्रातरुत्थाय विप्रतिष्ठमानान#ा#ं न कश्र्चित्पर- स्परभिसंबन्धो भवति एवंजातीयकं भ्रातृत्वं नाम ; तत्र चेद्युक्तः षष्ठ्यर्थो द्दश्यते, इ#ि#िहापि युक्तो द्दश्यताम् ; द्वयोह्र्यनुजन्मा तृतीयो भवति । द्दश्यते चान्यत्रापि द्वयोस्तृतीयेन संबन्धः ; तद्यथा-- निसर्गभिन्नास्पदमेकसंस्थमस्मिन्द्वयं श्रीश्र्च सरस्वती च । कान्त्या गिरा सूनतया च योग्या त्वमेव कल्याणि तयोस्तृतीया।। इति ।। 2.50. नन्वेवम्, अर्धतृतीया आनीयन्तामित्यर्धानयनं न प्राप्नोति, बहुवचनं च नोपपद्यते। नैष दोषः ; भवति हि बहगुव्रीहौ तद्गुणसंविज्ञानमपि ; तद्यथा--शुक्लवाससमानय, लोहितोष्णीषाः ऋत्विजः प्रचरन्तीति तद्गुण आनीयते, तद्गुणाश्र्च प्रचरन्ति । बहुवचनं तु द्वित#्रादिवदुपपद्यत इति ; तत्र यथा आनीयन्तामिति त्रयाणामिव द्वयोरप्यानयनपक्षे बहुवचनमुपपन्नं भवति, तथेहापि भविष्यति। विषम उपन्यासः ; तत्र हि द्वौ वेत्युक्ते त्रयो वेति गम्यते, त्रयो वेत्युक्ते द्वौ वेति गम्यते ; सैषा समानाधिकरणपदार्थपञ्चकाधिष्ठाना वाक्; तत्र युक्तं बहुवचनम् ; इह त्वर्धं तृतीयमनयोरित्युक्ते यद्यपि गम्यते त्रयाणं पूरणस्तृतीयो भवतीति, तथाऽपि समासेऽन्यपदार्थपरतया द्वयोरेवाभिधानाद्बहुवचनस्य नोत्पत्तिः । तद्गुणसंविज्ञानमपि समासाभिधानपक्षएवोपपद्यते; समासश्र्च सामथ्र्ये सति भवति ; सामथ्र्यं च वृत्तिवाक्ययोरैकाथ्र्यम् ; तञ्च तदोपजायते, यदि वृत्ताविव वाक्येषऽपि समासार्थस्य बहुवचनं भवति। 2.51. अथ किंसब्रह्मचारीति कोऽयं समासः ? के सब्रह्मचारिणोऽस्येति । कः सब्रह्मचारीती कर्मधारयः कस्मान्न भवति ? भवति, यदि क्षेपो गम्यते, यथा--किंराजा यो नरक्षति, किंगौः यो न वहति । केषां सब्रह्मचारीति तत्पुरुषस्तर्हि भवतु । कठ इति प्रतिवचनं नोपपद्यते ; न ह्यन्यत् पृष्टेनान्यदाख्येयम् ; अतः कठानामिति प्रतिवक्तव्यं भवति । बहुव्रीहावप्येतत्तुल्यमेव ; तत्रापि के सब्रह्मचारिणोऽस्येति बहुवचनप्रश्र्ने कठ इति नैकवचनेनोत्तरं भवति । नैष दोषः ; अग्नौ करवाणीति न्यायेन भविष्यति ; तद्यथा--किश्र्चिदाह-अग्नौ करवाणीति, तत्र कुर्विति तत्कर्तर्यनुज्ञाते कर्माप्यनुज्ञानं भवति। एवं तथैव के सब्रह्मचारिणोऽस्येत्युक्ते कठा इति प्रत्युक्ते संबन्धादेतदेगम्यते अयमपि कठः ; तथा कठ इत्यप्युक्ते संबन्धादेतदवगन्तव्यम्--तेऽपि कठाः । समासेन तु प्रतिनिर्देष्टुमशक्यम्, उपसर्जनं हि तत्र दे भवन्तीति।। 2.52. ऐकपद्यं समासः। स त्रिधा--उपश्र्लिष्टाक्रियः, गमितक्रियः, अक्रियश्र्च । तेषूपश्लिष्टाक्रियो द्विधा--उभयस्थक्रियः, अन्यतरस्थक्रियश्च ; तयोरुभयस्थक्रियो यथा#ी--कृताकृतं, क्लिष्टाक्लिशितं, स्न्नातानुलिप्तः, भ्रष्टलुञ्चितः, कृष्टातिकृष्टं, क्रयाक्रयिका इति ; अन्यतरस्थक्रियो यथा--भोज्येष्णं, प्राप्तजीवुकः, आहिताग्निः, कष्टश्रतः, काकपेया, इध्मप्रव्रश्र्चनः इति । गमितक्रियो द्विधा---उभयकारकः, अन्यतरकाररश्र्च । तयोरुभयकारको यथा--दध्नोपसृष्ट ओदनः दध्योदनः, गुडेड्डत्ध्;न मिश्रा धाना गुडड्डत्ध्;धानाः, शङ्कुलया कृतः खण्डड्डत्ध्;#ः, अक्षेषु प्रसक्तः र्शौण्डड्डत्ध्;ः अक्षर्शौण्डड्डत्ध्;ः, कण्ठे स्थितः कालो यस्य कण्ठेकालः, पञ्चसु कपालेषु संस्कृतः पञ्चकपालः इति । अन्यतरकारको यथा--प्रगत आचार्यः प्राचार्यः, अतिक्रान्तो मालामतिमालः, अवक्रष्ठः कोकिलया अवकेसिलः, परिग्लानोऽध्ययनाय पर्यध्ययनः, निश्क्रान्तः कौशाम्ब्याः निष्कौशामबिः, प्रपतितानि पलाशान्यस्य प्रपसाशः इति । अक्रयोद्विधा--वस्तुरूपः, अवस्तुरूपश्र्च । तयोर्वस्तुरूपो यथा--उपकुम्भं, त्रिभुवनं, नालोत्पलं, राजपुरुषः, चित्रगुः, धवखदिरौ इति । अवस्तुरूपो यथा--अधिस्त्रि, प्रत्युरसं, यथा--शक्ति, यावदमत्रं, पारोगङ्गं, मध्येसमुद्रं इति । अयं तु उपश्लिष्टक्रियो गमितक्रियश्च भवति। यथा-- आयतीगवमागच्छत्यातिष्ठद्गूपतिष्ठते । निकुच्य कर्णे शार्दूलोऽपोह्य पुच्छी प्रधावति।। यथा च-- शलाकापर्यभिद्यूतं चतुष्पर्यक्षुर्यपि । विपर्यस्ते विधौ पश्य तलादेरपि जायते ।। 2.53. केशाकेशि, बाहूबाहवि, दण्डड्डत्ध्;ादण्डिड्डत्ध्;, मुष्टीमुष्टि इत्यापि गमितक्रियमसत्त्वरूपं केचित् । यथा-- रोषावेशादाभिमुख्येन कौचिन्नामग्राहं रंहसैवोपजातौ । भित्वा हेती मल्लवन्मुष्यटिघातैघ्र्गन्तौ बाहूबाहवि व्यासजेताम् ।। कैचित्पुनरस्य वस्तुरूपत्वं ब्रुवते । यथा-- दण्डड्डत्ध्;ादण्डिड्डत्ध्; न कुर्वन्ति न कचाकचि कोकिलाः । तथाऽपि जितमेवाभिर्वाग्भिरेव जगत्रयम् ।। इति । कुतः पुनरेतत् यदेकदा दण्डड्डत्ध्;्यादण्डड्डत्ध्;्यादयः सत्त्वरूपाः, अन्यदा त्वसत्त्वरूपा इति ? "तत्र तेनेदमिति सरूपे" (पा.2.2.27) सूत्रस्य व्याख्यानभेदात् । तत्रास्य सूत्रस्यायमर्थः--द्वे समानाकृती शब्दरूपे अन्यपदार्थे समस्येते--तत्रेति तेनेति च । कः पुनरिहान्यपदार्थः ? केचिदाहुः--इतिशब्दप्रकारवाचित्वाचित्वात् ; उत्तरस्मिन् सत्त्वरूपता, इदमिति सर्वनाम्ना वस्तुरूपपरामर्शात् । कःझ पुनः इहेतिशब्दार्थः ? योऽसौ तत्रेत्यधिकरणे तेनेति करणे वा इदमर्थानुयायिनी इतिकर्तव्यतारूपा क्रिया, तत्र गृहूत्वा तेन प्रहृत्य इ#्तायदिकः, सर्वनामार्थो यत्तदिति तदिति व्यपदेशार्हग्रहणप्रहरणादिकायाः क्रियायाः साध्यं युद्धादि । तदाह चन्द्रगोमी--"तत्र गृहीत्वा तेन प्रहृत्य युद्धे सरूपं सुप्सुपैकार्थे भवति" इति । किमेतद्वक्तव्यम् ? न वक्तव्यम् । कथमनुच्यमानं गम्यते ? "सरूप" इत्येकशेषापवादेन द्वयोरधिकरणयोः करणयोश्र्च तुल्यकालनिर्दशात्। न हि द्वयो#्सतुल्यबलयोः प्रतियोगिनोव्र्यापारमन्तरेण द्वयोरधिकरणयोः करणयोर्वा तुल्यकालनिर्देशो भवति । तथाऽपि युद्धादिनियमो न लभ्यते । कः पुनराह--नियम् इति ? युद्धग्रहणादेरन्यत्रापि प्रयोगात् । हस्ते हस्ते च गृहीत्वा मीत्राय पुत्रं समर्पयति हस्ताहस्ति, गालिभिश्र्च गालिभिश्र्च निर्भत्स्र्य प्रवृत्तः परिहासो गालीगालि इति।। 2.54. ननु च, अन्यपदार्थे बहुव्रहिरित्युच्यमाने विस्पष्टपटुर्वटुः, पुनरुत्स्यूतं वासः, परश्शताः शरदः, इति सामान्यसमासानाम् ; स्वयंधौतौ पादौ, सामिभुक्तमन्नं, श्रेणीकृताः पत्तयः, इति विशेषसमासानाम् ; विनिरृत्तप्ररूढो वृक्षः, कृष्णपिङ्गलो ग्रावा, ईषत्क#़डड्डत्ध्;ारोऽश्मेति विशेषणसमासानां ; अवकोकिसं वनं, पर्यध्ययनश्छात्रः, निष्कौशाम्बिः सार्थः इति प्रदिसमासानाम ; शस्त्रीश्यामा देवदत्ता, अवतप्तेनकुलस्थितं तवैतत्, कूपमण्डूड्डत्ध्;को माणवकः इत्युपमानसमासानाम् ; राजवल्लभा वल्लभी, वरप्रदेया कन्या, मासो जातोऽस्येति षष्ठीसमासानाम् ; कष्टश्रितो रिपुः, वृकभीतो न्यङ्कुः, शङ्कुलाखण्डड्डत्ध्;ः पोगंडड्डत्ध्;ः इति कारकसमासानाम् ; अश्राद्धभोजी ब्राह्मणः, पुमाननेकः पदार्थः इति नञ्समासानां च बहुव्रीहिसंज्ञा प्राप्नेति । नैवम् ; नैषामन्यपदार्थत्वं समासेन क्रियते, अपि तु गुणवचनत्वेन । यदस#ौ द्रव्यं श्रतो भवति गुणः, तस्य यल्लिङ्गं वचनमार्थो वा स तस्यापि भवति ; तद्यथा शुक्लं वस्त्रं, शुक्ला शाटी, शुक्लः केबलः, शुक्लौ पटौ, शुक्ल पटाः इति । कथं पुनः विस्पष्टपटुप्रभृतीनां सामान्यससंता ? "विस्पष्चादीनि गुणवचनेषु" (पा.6.2.24) इति ज्ञापकैः समासावगमे विशेषसमाससंज्ञाभावे, "सह सुपा" (पा.2.1.4.) इति समासाभ्युपगमे च "प्राक्डड्डत्ध्;ारात्समासः" (पा.2.1.3.) इति समाससंज्ञाश्रयणात्। कथं स्वयंधौतादीनां विशेषसमासता ? "स्वयं क्तेन" "सामि" (पा.2.1.24,.27) इति स्वयंसामीतिशब्दयोर्वृत्तिवाक्यविशेषेऽपि स्वरैकपद्यार्थमैव समासारम्भात्।" "श्रेण्यादयः कृतादिभिः" (पा.2.1.59) "च्व्यर्थे" इति च वृत्तावर्थविशेष्यभावात्। ननु च, यदा छिन्नो न तदा प्ररूढः, यदा प्ररूढो न तदा छिन्नः; तत्कथमर्थयोः परस्परमसंमूर्छनायां समानाधिकरणलक्षणो विशेषणविश#ेष्यभावो भवति? य एव छिन्नः स एवायं प्ररूढः इत्यनुसंधानात्। अथेह कथं कृष्णपुङ्गल इति ? यो ह्यस्य कृष्णो भागः न स पिङ्गलाः, यस्तु पुङ्गलः स न कृष्ण इति । समुदायेषु वृत्ताः शब्दा अव.वेषु वर्तन्ते ; यथा--पूर्वे पञ्चालाः, उत्तराः कुरव इति । यदि वा, कृष#्णावयवयोगात्स एव कृष्णः, पुङ्गलावयवयोगात्स एव पुङ्गलः इतियुपपद्यते सामानाधिकरणयम् । अथ, ईषदित्यनेन किं विशेष्यम्? कडड्डत्ध्;ारगुषयुक्तः पदार्थः। कथं पुनव्ययानामसत्तववचनत्वे सत्त्वभूतार्थविशेषणत्वं भवति? क्रियाविशेषणत्वात्। का पुनरत्र क्रिया? कडड्डत्ध्;ारेण गुणेनयोगः। यदि वा अव्ययानां केषांचित् सत्त्वगन्धित्वेन शक्तियोगादिः सत्त्वधर्मो द्दश्यते; तद्यथा--दोषामन्यमहः, दिवामन्या रात्रिः। "दिवाकारद्रक्षति यो गुहासु लूनं दिवा भीतमिवान्धकारम्" इति । "ग्रहवति मित्रहारिणि न त्वं योषाऽसि दोषऽसि" इति । एवमयमपि सत्त्वगन्धित्वेन गुणं विशिंषन् द्रव्यं विशेषयिष्यति । ननु, कडड्डत्ध्;ारं, द्रव्यमेव कस्मान्न विशेषयते ? यथा--ईषत्तन्त्रं कातन्त्रं इति । तथा सति गुणस्येषद्भावो न लभ्यते ; तदुक्तम्--"ईषद्भणवतचनेन" इति । अथ कथं प्रादीनां द्रव्यवचनैः समासः ? यत्र हि कश्र#्चित् क्रियावाची शब्दः प्रयुज्यते, तत्रैव प्रादीनां प्रयोगो भवति। उच्यते, प्रयोगादेवैतद्गन्तवय्#ं--नूनमत्र प्रयोगार्हः शब्दो न प्रयुज्यते, येन प्रादेः सामथ्र्यमिति । तद्यथा--धूमं द्दष्ट्वाऽग्निरत्रेति गम्यते ; त्रिविष्टब्धकं च द्दष्ट्वा, परिव्राजक इति । के पुनरत्र प्रयोगार्हाः शब्दाः ? ये कृदन्ताः कर्मकर्तृवाचिनः; तद्यथा--अवक्रुष्टं कोकिलया अवकोकिलं, परिग्लानोऽध्ययनाय प्रयध्ययनः, निष्क्रन्तः कौशाम्ब्या निष्कौशाम्बिः इति । अथ कथं शास्त्रीश्यामादय उपपन्नसमासा उपपद्यन्ते ? "उपमानानि सामान्य वचनैः" (पा.2.1.55.) इत्यादिभिः। यद्यैवम्, "इवेन विभक्त्यलोपः पूप्वदप्रकृतिस्वरत्वं च" इति न वक्तव्यम् वाससी इव, कन्ये इव, इत्यादिप्रयोगाणां "उपमानानि सामान्यवचनै#ः" इत्यनेनैव सिद्धेः, विभक्त्यलोपमात्रे पुनरलुक्प्रकरणे वक्तव्यं भवति। उच्यते--नायमिव शब्दः सामान्यवाची, अपि तु सामान्यद्योतकः, तद्याथा--नेत्रे नीलोत्पले इत्युक्ते तदाकाकतान्त्यादयः प्रतीयन्ते। शस्त्रिश्यामेत्यादिषु साक्षात् सामान्यचवचनः श्यामाशब्दः प#्रयुज्यते। अथ, अवतप्तेनकुलस्थितमित्यत्र कथम्? न ह्ययमुपमायां, अपि तु क्षेपे । उपामानेनात्र क्षेपो गम्यते--अवतप्ते नकुलस्येव स्थितं तवैतञ्चापलमिति; यथाऽवतप्ते नकुलश्र्चिरस्थाता न भवति, तद्वत् कार्यमारभ्य यश्र्चिरं तत्र नावतिष्ठते स एवमुच्यते--अवतप्ते नकुलस्थितं तवैतदिति । एतेन कूपमण्डुड्डत्ध्;क इत्यापि व्याख्यातम; यथा कूपमण्डूड्डत्ध्;कः कूपाद्बहिरनिस्सरन् देशान्तरव्यवाहारं न जानाति, तथाऽयं स्वगेहाद्वहिरनिःसरन् न देशान्तपरव्यवहारवेदी ; स एवमुच्यते--कूपमण्डूड्डत्ध्;कोऽयमिति । अथ राजवल्लभेत्यादयः कथं षष्ठीसमासाः? यतो राजवल्लभेत्यवं बहुव्रीहिः कस्मान्न भवति--राजा वल्लभोऽस्याः इति ? अचेतनत्वेन वल्लभ्या वाल्लब्यायोगात् । राज्ञस्तु वल्लभेति भवति। तत्र राजा निज्र्ञतस्यार्थः, स्वबावतः सामान्यात् प्रच्युतः, सामान्ये व्यवस्थितस्योपकर्तुमशक्तेः; संबन्धिसामान्यापेक्षः, स#ंबन्धिसामान्यापेक्षो वा, संबन्धन्तरस्य व्यवच्छेदार्थे प्रवृत्तेः, उभयाधिष्ठानत्वे सत्यापि संबन्धस्य परार्थमुपादानादुद्भूतसंबन्धषष्ठ्यन्त उपादीयते । प्रधानानि चानिज्र्ञातार्थानि प्रथमयैव विभक्त्या युज्यन्ते; तद्यथा--"क्क पुनरिदं पठितम् ? भ्राजा नामश्लोकाः " इति । ततश्च वल्लबाशब्दोऽ- निज्र्ञातार्थत्वादात्मव्यपदेशाय स्वार्थाद्प्रच्युतः स्वभावतो विशेषवृत्तिः, सत्यप्यर्थित्वे गुणानामेवोपलम्भात्; परत इदंकारं लिप्समानो निज्र्ञातार्थेन संबन्धिना स्वार्थविशेषे नियम्यमान उपतौत्सुक्यः औदासीन्येन प्रवर#्तते। तत्र भेदाधिष्ठानस्य संबन्धस्य वाचिका षष्ठी, पदान्तराभिधेये संबन्धिकांक्षावता गुणपदेन विशेष्यमाणा गुणपदस्था श्रूयते, विशेषविषय्तवात्समासस्य। गुणाश्र्च स्वार्थोपसर्जनप्रधानार्थोपपादिनो भेदे विनिवर्तमाने भेदाधिष्ठानं संबन्धंमभ्यन्तरीकृत्य प्रवर्तन्ते । तत्र राजवल्लभेति संबन्धे प्रातिपदिकार्थतामापाद्यमाने तद्विषया षष्ठी, स्वभावतो निवृत्ता कार्यार्थे सामान्येन प्रसक्ता "सुपो धातुप्रातिपदिकयोः" (पा.2.4.71.) इति शास्त्राद्विनिवर्तमाने वाऽन्वाख्यायते। अथ वरप्रदेया कन्येति कोऽयं समासः? षष्ठीतत्पुरुष एव ; यथा--देवदेयं पुष्पं, ब्राह्मणदेयं धनमिति। नन्वेवम्,, एते चतुर्थीसमासाः कस्मान्न भवन्ति? "चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः" (पा.2.1.36) इति तदर्थादिष्वेव तत्समाम्नानात्। तादथ्र्य एव हि तर्हि समासा भवन्तु; यद्धि यस्मै प्रदीयते तदर्थमेव तद्भवति। नैवम्। न तादथ्र्यमात्रे चतुर्थी समास्यते। यथा--अवहननायोलूख्रसम। अपि तु प्रकृतिविकारतादथ्र्ये ।यथा--यूपरूपाया विकृतेः प्रकृतिभूतं दारु यूपादार्विति। ननु च नात्र प्रकृतिविकारग्रहणमस्ति ; द्दश्यते चाप्रकृतिविकारबावेऽपि, अश्वघासः, श्वश्रूसुरं, "अथातो धर्मजिज्ञासा" इति चतुर्थीसमासः ; तत्कथमुच्यते प्रकृतिविकारतादथ्र्ये एव चतुथ्र्यास्सामथ्र्यमिति? आचार्यपर्वृत्तिज्र्ञापयति यदयं बलिरक्षितग्रहणं करोति--यथाजातीयतकानां च समासे बलिरक्षिग्रहणमनुरूक्तं भवति, तथाजातीयकानां समासः। विकृतीनांमेव चतुथ्र्यन्तानां प्रकृतिभिस्सह समासे वलिरक्षितग्रहणमपुर#ुक्तं भवति, न तादथ्र्यमात्रे। अश्वघासादयस्तु षष्ठीसमासा भविष्यन्ति । यद्धियदर्थे भवति, अयमपि तत्राभिसंबन्धः--तस्येदमिति । तद्यथा--गुरोरिदं यद्भर्वर्थमिति। तादथ्र्यमपि संबन्धविशेषः ; विशेषे चावश्यमेव सामान्यं संभवति। न चैतत्क्रर्मादिष्वपि न द्दश्यते--माषाणामश्र्नीयात्, श्रुतं ते सर्वमेवैतत् इति । ननु च वरप्रदेया कन्येति यदि ददातिप्रयोगेऽपि न संप्रदानम्, संप्रदानेषडड्डत्ध्;पि न चतुर्थी, कोऽन्यः तयोर्विशेषो भविष्यति ? कः पुनराह--नात्र संप्रदानम्; संप्रदान एवैषा चतुथ्र्यर्थे षष्ठू ; द्दश्यते हि संप्रदान#ादौ षष्ठीचतुर्थयोरविशेषेण प्रयोगः; तद्याथा--"हिमवतो हस्ती" "पुरुषमृकश्चन्द्रमसे " (तै.सं.5.5.11,15) "न वा अरे जायायै कामय जाया प्रिया भवत्यत्मनस्तु कामाय जाया प्रिया भवति" (बृ.2.4.5) चिराय द्दष्टः, चिररात्राय द्दष्टः, "रोचते मम घृतं सह नुद्गैः शालयो दधिशरं क्रमकाश्र्च" "शृतमेव ममापि रोचते शृतशीतं च सशर्करं पयः" इति। अथ मासजातोऽयमिति किंप्रधानोऽयं समासः? उत्तरपदार्थप्रधावनः । सधर्मणाऽनेनान्यैरुत्तरपदार्थप्रधानैर्भवितव्यम्। अन्येषु चेत्तरपदार्थप्रधानेषु यैवासावन्वर्वर्तिनी विभक्तिस्तयाः समासेऽपि श्रवणं भवति; तद्यथा--राज्ञः पुरुषो पुरुषो राजुरुषः इति । इह पुनर्वाक्ये षष्ठी, समासे प्रथमा। कैनैतदेवं भवति? योऽसौ मासजातयोरभिसंबन्धः स समासे निर्वन्तते, अभिहितः सोऽर्थोऽन्तर्भूतः प्रातिपदिकार्थः संपन्न इति, तत्र "प्रातिपदिकार्थेप्रथमा" इति प्रथमा भवति। न तर्हिदानीमिदं भवति--मासजातस्येति। बाह्यं संबन्धिनमपेश्र्य भविष्यति। ननु च "कालाः परिमाणिना" (पा.2.2.5) इत्यनेनायं समासः। न च जातस्य मासः परिमाणं, अपि तु तिं्रशद्रात्रस्य ; यथा--द्रोणो बदराणां देवदत्तस्येति न देवदत्तस्यद्रोणः परिमाणं, अपि तु बदराणम्; तदाह--"कालस्य येन समासस्तस्यापरिमाणित्वादनिर्देशः" इति। किं पुनर्भवान् कालं मन्यते ? येन मूर्तीनामुपचया अपचयाश्र्च लक्ष्यन्ते । तस्यैवं तर्हि कयाचित् क्रियाया युक्तस्याहरिति भवति, संवत्सर इति च रात्रिरिति च । कया क#्रियया? आदित्यगत्या। तयैवाऽसकृदावृत्तया मास इति च भवति, संवत्सर इति च भवति। यद्येवं भवति जातस्य मासः परिमाणं, किं तु मासो जातस्येतिवत् मासौ जातस्यय मासा जातस्येति प्राप्नोति । नैवं, मासजातः इत्युक्ते द्वित्वादिसंख्याविशेषस्यानुपलम्भात् । यत्र तूपलब्धेर्निमित्तमस्ति तत्र भवत्येव ; यथा--द्वौ मासौ जातस्य द्विमासजातः, एवं त्रिमासजातः इति। कथं पुनः कारकाणं समास इत्युपपन्नं भवति? तेषां हि क्रिययैवाभुसंबन्ध; न च क्रियावाचिनः सुबन्तत्वमस्ति । सुबन्तयोरेवान्तर्भूतक्रियाविशेषयोर्भविष्यतीति चेत्, नैवम्; द्रव्याणां क्रियोपृनिस्संबन्धं शेषविषयो भवति, न कारकविषयः । स्वभावसिद्धं हि द्रव्यं सिद्धवदभिधीयमानं द्रव्यान्तरं प्रत्यत्मप्रतिलम्भे निराकांक्षं न कर्मादिभावं भजते। न च समासप्रकरणे कारकाणि समस्यन्ते इति वचनमस्ति। उच्यते--मा भूद्वचनम्; अर्थतस्तु गम्यते ; यदाह--द्वितीया श्रितादिभिः समस्यते; कष्टं श्रितः कष्टश्रितः इति । तत्र श्रित इत्युपात्तक्रियाविशेषपरिच्छिन्नः कर्ता, अभ्यन्तर#ीक-तसाध्यसाधनसंबन्धक्रियान्तरसंबनधार्हः स्वश्रयाविषयासु बाह्यासु शक्त्यन्तरैरपि विरुद्धैकार्थसमवायः कष्टादीन्युपसर्जनीभूतया श्रयतिक्रिययाऽपेक्षते। ततश्र्च श्रयतिक्रियया संबन्धात् कष्टे कर्मत्वमिति श्रयणक्रियापूर्वकः कष्टश्रितयोरभिसंबन्धो भवति। तस्मिन्स्ववृत्त्यवयवार्थशक्त्यनुगृहीतेऽर्थान्तरे प्रादुर्भूते तदभिधायी शब्दस्समाससंज्ञां लभते। एवं वृकाद्भीतो वृकभीत इत्यत्रापि "पञ्चमी भयेन" (पा.2.1.37) इति वृकस्य भये "भीत्रार्थानां भयहेतुः" (पा.1.4.25) इत्यपादानत्वात् सति, सामथ्र्ये, अभ्यन्तरीकृतक्रियाकारकसंबन्धः समुदायः समाससंज्ञां लभते। ननु च, न वृकस्य भूतं प्रत्यपादानत्वं, अपितु भयं भीतिरित्येतानि। उच्यते--यथा मासो जातस्येति मासाख्यः क्रियाकलापः प्रथमकुक्षिगर्भवियोगाख्यस्य जन्मनोऽवधिभावेन परिच्छेदको भवति, जन्मप्रतिलब्धां वा सत्तां समावृत्य जातमपेक्षते, तथेहापि वृकादित्ययमपादानशब्दो भयमात्रस्यैवावच्छेदको भविष्यति, न भूतस्य। यदि, वा, यथा कष्टश्रित इत्यत्रोपात्तश्रयतिक्रियासंबन्धात् कष्टे कर्मत्वमिति श्रयणक्रियापूर्वकं कष्टेन संबन्यते, तथेहाप्युपात्तभयक्रियाववच्छिन्नः कर्ता भयक्रियासंबन्धाद्धृ- कस्यापादानत्वमिति भयक्रियापूर्वकं वृकेन संभत्स्त इति। भवतु यत्रोपसर्जनीभूताया अ#्पि क्रिययाः श्रवणम् ; यत्र तु क्रिया न श्रूयते तत्र कथं शङ्कुलाखण्डड्डत्ध्; इति ? प्रतीयमाना भविशष्यति; तथा हि--शङ्कुलाखण्डड्डत्ध्;ः इत्युक्ते कृत इति प्रतीयते; तदेतद्द्योतयन्नह--"तृतीया तत्कृतेन गुणवचनेन" इति। न्यायसिद्धत्वाद्वचनानार्थक्यमिति चेत्, न ; वचनस्य नियमार्थत्वात्-यत्रैव कृत इत्यादि गम्यते तत्रैव समासः, अन्यत्र मा भूदिति। एवं च गम्यमानकरोतिक्रियोपगृहीतकरणकर्तृतृतीयान्तेन शङ्कुलादिना खण्डड्डत्ध्;ादीनां गुणमुक्तवतां मतुब्ल#ोपादिना द्रव्यवचनानां तृतीयान्तार्थकृतत्वे सति सामथ्र्यमवसीयते; यथा--अक्षणा काणः, पादेन खञ्जः इति। तदेवमाक्षिप्तकरोतिक्रियावच्छिन्नः क्रियान्तरसंबन्धार्हः खण्डड्डत्ध्;शब्दार्थो गम्यमानोपसर्जनीभूतया करोतिक्रियया शङ्कुलादीनपेक्षमाणः करणभूकौः कर्तृभूतैर्वा शङ्कुल#ादिभिस्संबध्यते। तद्वचनश्र्च समुदायोऽभ्यन्तरूभूतक्रियाकारकसंबन्धः समाससंत्रो भवति। अथेह कस्मान्न भवति--दध्ना पटुः घृतेन पटुरिति? असामथ्र्याते। कथमसामथ्र्यम् ? सापेक्षमसमर्थं भवति; न हि दध्नः पटुना सामथ्र्यम्। किं तर्हि ? भुजिना--दध्ना भुङ्क्तेपटरिति । इहापि तर्हि न प्राप्नोति--शङ्कुलाया खण्डड्डत्ध्; इति ; अत्रापि न शङ्कुलायाः खण्डेड्डत्ध्;न सामथ्र्यम्? किं तर्हि ? करोतिना--शङ्कुलया कृतः खण्डड्डत्ध्; इति । तत्कृतेनेति वचनाद्भविष्यति। वचनादिति चेत्, अथेह गिणवचनेनेत्यु#्चयमाने कथं मतुब्लोपाद्द्रव्यवचनेन खण्डड्डत्ध्;ादिनेति प्रतीयते ? वचनग्रहणात्; इह तृतीया तत्कृतेन गुणेनेति सिद्धे यद्वचनग्रहणं करोति त्सयैतत् प्रयोजनम्, एवं यथा विज्ञायेत--गुणमुक्तवान् गुणवचनः, खण्डड्डत्ध्;गिणवान् खण्डड्डत्ध्;ः, पाण्डुड्डत्ध्;गुणवान् पाण्डुड्डत्ध्;ः इति । यद्येवं, नार्थस्तत्कृतग्रहणेवन भवति; भवति हि शङ्कुलायाः खण्डेड्डत्ध्;न सामथ्र्यम्; असामथ्र्यादिह न भविष्यति--दध्ना पटुरिति। इदं तर्हि तत्क्#ृतस्य प्रयोजनं--द्रव्यवचनैः कारकसमासे ततदनुरूपा क्रिया अध्याहर्तव्येति; तद्यथा--अक्षेषु प्रसक्तः शौण्डड्डत्ध्;ः अक्षशौण्डड्डत्ध्;ः इति । अथ द्रव्यवचनस्तत्कृतसमासे गिणवचनेनेत्यपि क्मर्थम्? इह माभूत्--धान्येन धनवान्, गोभिर्वपावान् इति ।। 2.54. अथ, अश्रद्धभोजीते कोऽयं समासः? असमर्थनञतत्पुरुषः। किं पुनरिहासामथ्र्यम्? पूर्वोत्तरपदयोर्मिथोऽनपेक्षा ; तथा हि--अश्राद्धभोजीति भुजिक्रियया नञः संवन्धः, न श्रद्धेन ; न हि तस्यायं नियमः-नश्रद्धं भोक्तव्यमिति । अपि तु--श्रद्धं न भोक्तव्यमिति । यत्र हि वर्तिपदार्थसमवायिनि क्रियाऽभिधीमाना प्रतीयमाना वा स्वभावतो विवृता नञा द्योत्यते--अपाचकः, अब्राह्मणः इति, तत्रैव सामथ्र्यम्। यत्र तु बाह्यक्रियाया नञः संबन्धस्तत्रासामथ्र्यंमेव ; यथा--सूर्यमपि न पश्यन्ति असूर्यंपश्या राजदाराः, न पुनर्गीयन्ते अपुनर्गेयः श्लोकाः, लवणं न भुङ्क्ते अलवणभोजी भुक्षुरिति । नन्वेवं, अवयवार्थव्यतिरिक्तसमुदायार्थाभावेऽर्थवत्त्वाभावात् कथं प्रातिपदिकसंज्ञा ? समासग्रहणदिति चेत्, अनर्थके कृतार्थत्वान्नियमानुपपत्तिः; ततश्र्चार्थवतो वक्यस्यापि प्रातिपदिकत्वप्रसङ्गः। ननु च, "असूर्यललाचयोद्र्दशितपोः" (पा.3.2.36) इत्यनेनासमर्थनञ्समासानां साधुत्वे ज्ञापिते, अ किंचित्कुर्वाणः, अ माषं हरमाणः, अ गाधादुत्सृप्तः इत्यादीनामपि मा भूत् समास इत्यसूर्यंपश्यादयश्र्चत्वार एवासमर्थसमासाः परिगण्यते ; परिगणनसामथ्र्यादेव प्रातिपदिकसंज्ञाऽपि भविष्यति; तथाऽप्यनर्थकत्वादाश्रयाभावे संख्याकर्माद्यभावे तेषां वाचिका द्योतिका वाऽपि विभक्तयो नोत्पद्येरन्। नैवम्; समुदायस्तावदानर्थक्येऽपि "न केवला प्रकृतिः प्रयोक्तव्या" इति नियमादवशयमैवाव्ययादिवाद्विक्तिमात्रपेक्षेते ; अवयवस#्त्वर्थवत्त्वात् संख्याकर्मादेराश्रयत्वेन तां विशिष्टामेवाङ्गीकरोति; ततश्र्च यथाऽऽतुरानातुरयोरेकबोजनप्रतिपत्तावातुराणां भोजनमनातुरोऽपि प्रतिपद्यते, तथावयवार्थानु#्गरहार्थकोऽपि समुदायो विङक्तिविशेषमेव प्रतिपत्स्यत इति न कश्र्चद्दोषः। ननु, असत्येकार्थीभावे व्यपेक्षाधर्माः कथं न निवर्तन्ते ? के पुनस्ते ? विशेषण.योगः, श्राद्धं न भुङ्क्ते बविमामन्त्रणं चेति समुञ्चयः, श्राद्धं श्राद्धानि वा भुङ्क्ते इति संख्याविशेषयोगः। ते च वाक्य एवोपलभ्यन्ते, न त्वश्राद्धभोजीति वृतौ ; नब्यश्राद्धभोजी ब्राह्मणस्य शोभनमित्यादि। तत्कछमुच्यते---नास्त्यत्रैकार्थीभाव इति ? नैवम्; अश्राद्धब्दो ह्यत्रासमर्थः., न त्वश्राद्धभोजिशब्दः; अश्राद्धभोजिविषयाश्र्चैते विशेषणैयोगादयः प्रतीयन्ते, नाश्राद्धविषया इति। ननु च, यद्यश्राद्धब्दः समुदायार्थाभावानर्थकः, अश्राद्धभ#ोजिशब्दोऽप्यर्थवदनर्थकसंघातत्वादनर्थकः प्राप्नोति। अस्त्वानर्थक्यम्। वाक्यविषयास्तु धर्मा भविष्यन्ति तञ्चानर्थक्यमपि परिहर्तन्यम्; इदं च परिहियते--शब्दशक्तिरेषा यदभिन्नऽप्यर्थे केवचिच्छब्देनाभिधीयमाने विशेषणादियोगो भवति केनतिन्न भवति, तत्र वक्येऽसमर#्थसमासपतामनामविद्यमानमपि वृत्तौ शब्दान्तरत्वादस्त्येकार्थाभिदायित्वमिति । ननु, च यद्यसामथ्र्यऽपि वचनात्समासः--किमद्य ते वस्त्रं नीलं उत्पलमालि कर्णे; नेह कश्र्चित्पुरुषः व्याग्रस्सरति पल्लीम्; पश्य सखि कष्टं श्रितः प्रियो मेगुरुकुसम्; किं ते शङ्कुलया खण्डड्डत्ध्;ो देवदत्त उपलेन ; गच्छ त्वं यूपाय दारु शोभनं शैले ; निवर्तस्ववृक#ात् भयं देवदत्तस्य यज्ञदत्तात्; भार्या राज्ञः पुरुषो देवदत्त्सय ; सक्तः त्वमक्षेषु शौण्डड्डत्ध्;ः पिबति पानागारे इत्यादावपि समासः प्राप्नोति ; स तह्र्यत्रापि वचनात् "विशेषणं विशेष्येण", "द्वितीया श्रितादिभिः", "तृतीया तत्कृतेन", "चतुर्थी तदर्थेन","पञ्चमी भयेन" "षष्ठी सुबन्तेन", "सप्तमी शौण्डड्डत्ध्;ादिभिः" समस्यत इति । विषम उपन्यासः ; परिगणनादीन्यसामथ्र्य एव समासार्थमारभ्यन्ते। यथा--कृतपूर्वी कटमुत्याद्यर्थे "पूर्वदिनिः" "सपूर्वाञ्च" (पा.5.2.86,87) इति । "विशेषणं विशेष्येण" इत्येवामाद#ीनि तु ",मर्थः पदविधिः" (पा.2.1.1) इति सामथ्र्य सतियुरादीयन्ते । सामथ्र्यविषयप्रदर्शनार्थमेव च "विशेषणं विशेष्येण" इति प्रथमायां सामानाधिकरण्यम्, द्वितीयायां श्रतादिनिमथमः, कृतीयायां तृतीयायां तत्कृतादिवचनं, चतुथ्र्यं प्रकृतिविकारभावः, पञ्चम्यांभयादिपरिगणनं, षष्ठ्यां पूरणादिनिषेधःऋ, सप्तम्यां शौण्डड्डत्ध्;ादिनिर्देशः इत्युपपद्यते । तेन यत्र विशेषणादिषु सामानधिकरण्यादेरभावः, तत्रासामथ्र्यात् समासो न भवति।। 2.55. आब्राह्मणोऽयमिति कोऽयं समासः? समर्थनञ्तत्पुरुषः। किंप्रधानोऽयम्? उत्तरपदार्थप्रधानः। अब्राह्मणमानयेत्युक्ते ब्राह्मणमात्रस्यानयनं प्राप्नोति । नैष देषः ; इदं तावदयं प्रष्टव्यः--अथेह राजपुरूषमानयेत्युक्ते पुरीषमात्रस्यानयनं कस्मान्न भवति? राजाऽत्र विशेषकः प्रयुज्यते, तेन राजविशिष्टस्यानयनं भविष्यति । कः पुनरसौ? निवृत्तपदार्थकः। यदा पुनरस्य पदार्थो निवर्तते, तदा किं स्वाभाविकी निवृत्तिः? आहोस्विद्वाचनिकी ? किं चातः? यदि स्वाभावीकी, किं नञ् प्रयुज्यमानः करोति। तर्हि वाचनिकी भविष्यति; किंच प्रतिकीलवात्। चत्र यथा कील आहन्यमानः प्रतिकीलं निवर्तयति, एवं नञ् प्रयुज्यमानः पदार्थं निवर्तयत्। यद्येतन्नञो माहात्म्यं स्यात्, न जातुचिद्राजानो हस्त्यश्वं बुभृयुः, नेत्येव ब्रूयुः। एवं तर्हि स्वाभाविकी निवृत्तिः, नञ्निमित्ता तूपलब्धिः। तद्यथा--संतमसान्धकारे द्रव्यणां प्रदीपनिमित्तं दर्शनं, न च तेषां प्रदीपो निवर्तको भवति। यदि पुनरयं निवृत्तपदार्थको नञ्, किमर्थं ब्राह्मणशब्दः प्रयुज्यन्ते? एवं यथा विज्ञायेत--अस्य पदस्यार्थो निवृत्त इति । नेति ह्युक्ते संद्हः स्यात्--कस्य पदार्थो निवर्तत इति ; तत्रासमदेहार्थे ब्राह्मणशब्दः प्रयुज्यते । यदि वा, सर्व एते शब्दा अव.वेष्वपि वर्तन्ते--ब्राह्मणः, क्षत्रियः, वैश्यः, शूद्रः इति ।। "तपः श्रुतं च योनिश्च तत्र ब्राह्मणकारणम्। तपःश्रुताभ्यां यो हीनो जातिबर्#ाह्मण एव सः।। " 2.55. तथा गौरः कपलः पिङ्गलकेश इत्येतानप्यान्तरानि ब्राह्मण्ये गुणान् ब्रवति। समुदायेषु च वृत्तः शब्दः अवयवेष्वपि वर्तन्ते ; तद्याथा--पूर्वे पञ्चालाः, उत्तराः कुरव इति । एवमयं समुदाये ब्राह्मणशब्दो वृत्तोऽवयवेऽपि वर्तते गुणो जातौ च। गुणे तावत्--अब्र#ाह्मणोऽयं यस्तिष्ठन् मूत्रयतीति, अब्राह्मणोऽयं गच्छन् भक्षयतीति । अपि च, कालं कल्माषं माषाराशिवर्णमापण आसीनं द्दष्टाऽध्यवस्यति--नायं ब्रह्मणः; आब्राह्मणोऽयमिति निज्र्ञातं तस्य भवति; गुणकृता चार्थस्य निवृत्तिः। अथ जातौ--जातिहूने संदेहाद्दुरुपदोशाद्वाषऽन्यो ब्राह्मणशब्दाः प्रवर्तते। संदेहात्तावत्--गौरमयं शुच्याचारं पिङ्गलं कपलकेशं द्दष्टाऽध्यवस्यति--ब्राह्मणोऽमिति ; ततः पश्चादुपंलभते--नायं ब्राह्मणः; आब्राह्मणोऽयमिति निज्र्ञातं तस्य भवति । अत्र संदेहाञ्च ब्राह्मणशब्दो वर्तते; जातिकृता चार्थस्य निवृत्तिः। अथ दुपुदेशात्--दुरुपदिष्टमस्य भवति--अमुष्मिन्नवकाशे ब्राह्मणमानयेति। स तत्र गत्वा यं पश्यति तमध्यवस्यपि--ब्राह्मणोऽमिति । ततः पश्चादिपलभते--नायं ब्राह्मणः, आब्राह्मणोऽयमित#ि । तत्र दुरुपदेशाञ्च ब्राह्मणशब्दो वर्तते; जातिकृता चार्थस्य निवृत्तिः। ननु च, नञ्व्यवच्छेदाय ब्राह्मणादिशब्दप्रयोगे समासस्य पूर्वपदप्रधानता प्राप्नोति ; नैवम्, अव्ययसंज्ञाप्रसङात्; अव्ययं ह्यस्य पूर्वपदम्। नैष दोषः ; पाठेनाव्ययसंज्ञा क्रियते। न च नञ्समासस्तत्र पठ्यते। मा भूदव्ययेषु पाठः। तथाऽप्यभिधेयवल्लिङ्गवचवनानि भवन्ति; .यश्चेहार्थेऽभिधीयते न तस्य लिङ्गसङख्याभ्यां योगोऽस्ति। नेदं वाचनिकम्--अलिङ्गता, असङ्ख्यता वा। किं तर्हि? स्वाभाविकमेतत्। तत्र किमस्माभिश्शक्यं वक्तुं--यन्नञः प्राक्समासाल्लिङ्गसङ्ख्याभ्यां योगो नास्ति, समासे च भवति। यदि वा, तस्य यल्लिङ्गं वचनं च तत् गुणस्येव समासस्यापि भवति। उच्यते--अत्यन्ताभवः, अनत्यन्ताभावः, अन्यतराभावः, तादात्म्याभावः, संबन्धाभावः, प्रध्वंसाभावश्चेति। यथा--अरूपो वायुः, अनुदरा कन्या, अकिंयनः पुमान्, अपिशाचः कुडड्डत्ध्;्यः, अघटं भूतलं, अनङ्गः कामः, इति । यदा तूत्तरपदार्थेन नञर्थो विशेष्यते, तदा पूर्वपदार्थप्रधानस्तत्पुरुषः ; नञर्थोपाधेश्च षट् समासार्थभेदा जायन्ते--प्रागभावः, सामथ्र्याभावः, आवश्यकताभावः, इतरेतराभावः, सत्ताभावः, भावाभावः, इति ; यथा--अन#ुत्पन्नो घटः अप्रधृष्यस्सुभटः, अभूषितः कान्तः, अवर्षाः हेमन्तः, असत् शशविषाणम्, अनुद्भिन्नः प्रवालः, इति । यदा तु नञर्थेनोत्तरपादार्थो विशेष्यते, तदा उत्तरपदार्थप्रधानस्तत्पुरुषः। पदार्थस्य च नञर्थोपाधेः षट् समासभेदा जायन्ते। यथा--तदभावः, तदन्यः, तत्सद्दशः, तद्विरूद्धः, तदपकृष्टः, तदुत्कृटः, इति । यथा--अननयः, अनत्रिः, अब्राह्मणः, असितः, अमनुष्यः, अमानुषः, इति। ननु च, अन्यपदार्थतत्पुरुषयोरन्यत्रापि नञ्समासो द्दश्यते ; यथा--मक्षिकाणाभावः अभक्षिकमिति । नायं नञ्समाशः; किं तर्हि? "अव्ययं विभक्ति" इत#्यादिनाऽव्यायमभावार्थे समस्यते; अव्ययीभावश्र्च समासो भवति; यथा--निवातं, निशीतं, इति। किं पुनरमी नञ्समासार्था अन्यपदार्थादिषु व्यवतिष्ठन्ते उत संप्लवन्ते ? केचिद्व्यवतिश्ठन्ते प्रध्वंसाभावादयः; तद्यथा-- भवेदभीष्मद्रोणं घृतराष्ट्रबलं कथम्। यदि तत्तुल्यकक्ष्योऽत्र भवान् धुर्यो न युज्यते।। यथा च अनुदरा कन्या, अलोमिका एडड्डत्ध्;केति। केचुत्तु संप्लवन्ते प्रागभावादयः ; तद्याथा-- अजन्मा पुरुषस्तावदपुमान् पशुरेव वा। यावल्लोवतीक्रवीक्षितार्थं न बुध्यते।। 2.56. यथा च--अनेके, अनेकः इति । ननु च, एशबेदो बढद्धठ्ठड़14;वर्थः; तद्यथा--"एकः कोऽपि स कुम्भसंभवमुनिः" इतयुक्तर्षार्थ; तत्रैके तावदाहुरिति पक्षान्तरार्थ; एक एवायमावयोः स्वभावः इति तुल्यार्थः। नैकः शयीतेत्यसहायार्थः। एकमेवेदं शब्दब्रह्मेत्यभेदार्थः। एकः, द्वौ, बहवः इति संख्यार्थः। तक्तस्येह ग्रहणम्? संख्यार्थस्य। उक्तर्षादीनां कस्मन्न भवति:? अनभिधानात्; तद्यथा--अमित्र इत्युक्ते पूर्वपदार्थप्रधानतत्पुरुषे शत्रुरेव प्रतीयते,न त्वसूर्यः। एवं अनेके इत्युक्त बहव एव प्रतीयन्ते, न पुनरनुत्कर्षादिमन्तः। एतेन तत्पुरुषस्योत्तरपदप्राधान्ये सत्यनेक इत्युपि व्यख्यातम्। कथं पुनरेकस्य प्रतिषेधे बहूनां संप्रत्ययः स्यात्? प्रसज्ययायं क्रियागुणौ ततः पश्चान्निवृतिं्त करोति ; तद्यथा--आसय भोजय शायय अनेकं इति । स्यादेतत्, यत्र क्रियागुणौ प्रसज्येते; यत्र तु खलु न प्रसज्येते तत्र तु कथम्--अनेकस्तिष्ठतीति ? भवत्येवंजातीयकेष्वपि एकस्य प्रतिषेधे बहूनां संप्रत्ययः ; तग्यथा--न न एकं प्रियम्, न न एकं सुखम् इति ।. प्रकृतिप्रत्ययौ त्रेधा त्रिधोपस्कारभक्तयः। त्रिधौवोपपदप्र्तिपदिकानां विभक्तयः।। त्रिधोपसर्जनं त्रेधा समास इति कीर्तितः। प्रतिपादकशब्दोऽयमथान्वाख्येय उच्यते।। पदमिह त्रिविधं प्रतिपाद्यते त्रिविधामेव हि वाक्यमथ त्रिधा। व्यवहृतिः खलु शब्दनिबन्धना यदनयोरुभयोः प्रतितिष्ठति।। इति महाराजाधिराज श्रीभोजदेवविरचिते शृङ्गरप्रकाशे प्रातिपदिकादिप्रकाशो नाम द्वितीयः प्रकाशः।।