शृङ्गारप्रकाशः/तृतीय प्रकाशः

विकिस्रोतः तः
Jump to navigation Jump to search

शृङ्गारप्रकाशः/तृतीय प्रकाशः

तृतीयः प्रकृत्यादिशब्दप्रकाशः 3.1. तत्र पद्यतेऽनेनार्थ इति पदम्। तत्र्त्रिधा--क्रियारूपं, कारकरूपं, उपस्काररूपं च । तेषु साध्यार्थभिधायु क्रियारूपं, साधनार्थभुधायि कारकरूपं, साध्यसाधनयोर्भूषणादिभूतमुपस्काररूपम्। तेषां प्रत्येकं षड्ड्डत्ध्;भेदत्वात्पभिधायि कारकरूपं, साध्यसाधनयोर्भूषणदिभूतम#ुपस्काररूपम्। तेषां पत्र्येकं षड्ड्डत्ध्;भेदत्वात्पदस्याष्टादश भेता भवन्ति। तेषु भावपदं, कर्तृपदं, कर्मपदं, भावकर्मपदं, भावकर्तृपदं, कर्मकर्तृपदं चेति क्रियारूपपदभेदाः। तेषु भावपदं यथा--पच्यते, अपाचि, पक्ष्यते देवदत्तेन. आस्यते, आसि, आसिष्यते भवता भिद्यते, अभेदि, भेत्स्यते कुसूलेन,. श्रायते, अश्रायि, श्रायिष्यते यवाग्वा. एवं श्रायुषीष्ट, शश्रे, आश्रायुष्यतौदनेन। घानिषीष्ट, जघ्रो, अघानिष्यत हस्तिना. ग्राहिषीष्ट, जगृहे, आग्राहिष्यत ग्राहेण. दर्शिषीष्ट, दद्दशे, अदर्शिष्यत प्रेयसेति। कर्मपदं यथा--पच्यते ओदनस्सूदेन, आस्यते मासो भृतकेन, गम्यते ग्रामः पान्थेन, सुप्यते क्रोशश्शिशुना, अकारि कटः कुशलेन, अरोधि गौर्गोपालकेन, अदोहि धेनुर्वल्लवेन, अतारि पृथिवी राज्ञा, अन्ववातप्त कितवःझ कर्मणा, अनुबभूवे कम्बलः करेण, पक्ष्यते यवागूर्भिषजा, अलानिषीष्ट भिक्षा तापसेन। एवं करिष्यते ग्राहिता ग्राहिषीष्ट ग्रिन्थः, दर्शिष्यते दर्शिता दर्शिषीष्ट प्रयो#ानिति। कर्तृपदं यथा--पचति चैत्रः, आस्ते मैत्रः, तपति सुपर्णं सुवर्णकारः, तप्यते तपस्तापसः, सृजति मालं मालकः, सृजते धर्मं धार्मिकः, उदसर्जि स्वं वदान्यः, उदपादि सत्यं भूपः, पारिपारयन्ते वृक्षं कर्णकाः, शोषयते व्रीहीनातपः, संयुज्यते गृहमेघी भार्यया, पच्यते सलोहितं फलमुदुम्ब्रः, तथा अदीपि अदीपिष्ट धूमः, अबोधि अबुद्ध प्रसुप्तः, अपूरिष्ट कामः, अतायि अतदीयिष्ट धर्मः, आप्यायि आप्ययिष्ट लोकः, इति । भावकर्मपदं यथा--इच्छामि भुञ्जीत, संभावयामि भुञ्जीत भवान्. समर्थयाम#ि भोक्ष्यते भवान्, श्रद्धदे नाभुक्त भवान्, अवकल्ययामि नाभोक्ष्यते भवान्, न श्रद्धदे ननु भवान् वृषलं याजयेत्, नावकल्पयामि तत्रभवान् लृष्लं याजयिष्यति, न मर्षयामि तत्रभवान् वृषलमयाजिष्यत् , विगर्हे अपि तत्रभवान् वृषलं याजयति, स्मरसि देवदत्त काश्मीरेषु वत्स#्याम, अभिजानासि कलिङ्गेषु यदवसाम, अभिजानासि कलिङ्गेषु शश्वदवसाम, स्मरसि काश्मीरेषु वत्स्यामस्तत्रौदनं भोक्ष्यामहे, अभिजानासि कलिङ्गेष्ववसाम तत्रौदनभुञ्जमहि, एहि मन्ये रथेन यास्यसि जाने सुप्तो विहाय, गच्छामि, पश्य मृगो धावति, इह पश्यामः, कर्मणि द्विवचनबहुवतनान्युदाढद्धठ्ठड़14;नयन्ते इति । भावकर्तपदं यथा--चोरस्य रुजति, चोरस्यमयति, चोरस्य बाधते, चोरस्य पीडड्डत्ध्;यति, चोरस्य दहति, चोरस्यातभ्कयति, चोरस्य स्पृशति, चोरस्य शोषयति, चोरस्य मर्दयति, चोरस्य मोट्यति, चोरं ज्वरयति, चोरं संतापयति। तथा--भरति पचति पक्ष्यति, भपत्यपाक्षात#्, भवेदपि भवेत्, स्यात् अपि स्यात्, नास्ति रमे, अयूयुजस्त्वमसि, असित्नमीशिषे, अस्ति गच्छामो वयम्, अस्त्यत्र कांचिद्गां पश्यति, सि भवति गम्यते, भवतु साध याम इति । कर्मकर्तृपदं यथा--रज्यति वस्त्रं स्वयमेव, कुक्ष्यति पादस्स्वयमेव, अवकिरते हस्ति, अवाकूष्र्ट वा स्वयमेव, ग्रन्थीते माला, अग्रथिष्ट वा स्वयमेव, चिकीर्षत् कटः, अचिकीर्षत वा स्वयमेव, उच्छ्रयते दण्डड्डत्ध्;ः, उदशिश्रयत वा स्वयमेव, अनुरुद्ध गौस्स्वयमेव, अकृतकटः स्वयमेवेति। 3.2 अन्ये पुरमीषामपि कर्मकर्तृत्वं मन्यन्ते । भिद्यते कुसूलं स्वयमेव, भिद्यते रज्जुस्स्वयमेव, लूयते केदारस्स्वयमेव, पच्यते फलं स्वयमेव, भज्यते काष्ठं स्वयमेव, कुक्ष्यते पादस्स्वयमेव, अदोहि गैस्स्वयमैव, अरोधि गौस्स्वयमेव, अहावि हविस्स्वयमेव । तथा, भूषयत#े कन्या स्वयमेव,मण्डड्डत्ध्;यते कन्या स्वयमेव, दोहयते गौस्स्वयमेव, आरोहयते हल्ती स्वयमेव, दधयते राजा स्वयमेव, मण्डड्डत्ध्;यते कन्या स्वयमेव, दोहयते गौस्स्वयमेव, आरोहयते हस्ती स्वयमेव, दधयते राजा स्वयमेव, अभिवादये गुरुः स्वयमेव, लावयते केदारः स्वयमेव, पाचयते ओदनस्स्वयमेव, भेदयते कुसूलः स्वयमेव, गणयति गणः स्वयमेव, स्मयति वनगुस्मः स्वयमेव, इति। 3.3. आहुश्र्च "कर्मवत् कर्मणा तुल्यक्#ियःय्" (पा.3.1.87), क्रमवद्भावे यदात्मनेपदचिण् भावाः प्रयोजनं अचः कर्मकर्तरि चिण्वदाहुश्च "नरुधः" (पा.3.1.64), "नदुहस्नु नामां यक् चिणौ" (पा.3.1.89) "यक् चिणोः प्रतिशेधे हतुमण्णिश्रिब्रुञामुपसंख्यानम्" (वा.2881) "भूषाकर्मकिरादीति णिश्रन्थिग्रन्थिब्रुआत्मनेपदाकर्मकाणामुपसंख्यानम्" (वा.1882)। तत्तु सम्यके तथा हि--भुद्यते कुसूलः स्वयमेव, अकारि कटः स्वयमेवेत्यादिषु कर्मण्येव यक् चिणौ स्वयं शब्दात्तु कर्मकर्तृकत्वप्रतीतिः, अरोधि गौः स्वयमेवेति । रूधेरपि क्रमविवक्षायां चिण् भवत्येव, अरोधि गौरात्मनैवेति भवति। य एवार्थ आत्मनैवेति स एव स्वयमेवेति। अरोधीति चोक्ते नाश्रुते कर्तृवातिनि पगदान्तरे कर्मकर्तृत्वं गम्यते । तस्मादिहापि कर्मण्येव णिच् । भूषयते कन्या स्वयमेवेत्यदिषु तु "णेरणौ यत्कर्मणौ चेत् स कर्ता नाध्यने" (पा.1.3.67) इति फलवति कर्तर्येवात्मनेपदम्। कुतस्त्या तर्हेतेषु कर्मकर्तृताप्रसिद्धः। श्रूयतां क्रमपदेषु तावत्, क्रियामाणं तु यत्कर्म स्वयमेव प्रसिध्यति। सुकरं स्वैर्गुणैः कर्तुः क्रमकर्तेति तं विदुः।। 3.4. कर्तृपदेषु भूतपूर्वकत्वात् तद्वदुपचार इति । तथाहि, कन्यादयो लावण्यतिशयादिभिः आत्मभूषायै प्रसाधनादीन् प्रयुञ्चते च । माघादयो महाकवयः "अकुञ्चितप्रेमनिरूपितक्रमं करेणुरारोहयते निषादिनम्। ससंततं दर्शयते गतस्मयः कृताधिपत्यामिव साधुबन्धुताम्।।" इति फलमनयोः सुखसिकालोकरञ्जनं च। अन्यथैको हालस्तिपकैः पीडड्डत्ध्;्येत, द्वितीयो दुर्दर्श इति नाभिगम्येन अतेतनेष्वपि, क्रियाफलविवक्षायां तु द्दश्यते--परिवारयन्ते वृक्षं कण्टाकाः, शोष्यते ब्रीहीनातप इति । एतेन करणेन तुल्यक्रियः कर्ता कर्मवद्भवतीत्यापि न वक्तवयं भवति। परिवारयन्ति कण्टकैर्वृक्षं मनुष्याः, परिवारयन्ते कण्टकाः स्वयमेवेति । तथा दुहिपच्योः सकर्मकयोः कर्ता बहुलं कर्मवद्भवतात्यापि न वक्तव्यम्। दुग्धे गौः पयः स्वयमेव; पयो पुञ्चतीति गम्यते । तस्मादुदुम्बरस्सलोहितं फलं पच्यते इति कर्मतैव क्रियाविशेषणविवक्षीता । उदुम्बरशब्दोऽत्र फलवृत्तिः, उदुम्बरं तत् कालोन पच्यते सलोहितगुणं यथा भवति लोहितेन पाकेन संबध्यते इति यावत्; कर्तृत्वविक्षायां च पचत्यात्मानमिति । तथा युजेः ज्यत् कर्ति च वक्तव्यम्। मासं युज्यते ब्रह्मचारीति । कर्तृत्वविवक्षायां दैवादिकत्वम् न सेत्स्यति। कर्मण्यविवक्षायां तु कर्मत्वं, यथा कर्तृत्वं तु स्वयं शब्देन गम्यते। इत्यलमतिप्रसङ्गेन। 3.5. कृदन्तमति खलु क्रियारूपं विद्यते तत्र भावो यथा--इह तैः यातं, आसितं, इह तैर्भुक्तं, इह तैः पूतं, कृतं भवता, प्रसुप्तं भवता, सुकृतं भवता, सुसिक्तं भवता, भूतं भवता, भविष्यमाणं भवता, ढद्धठ्ठड़14;वयमानं भवता, भवितव्यं भवता, भवनीयं भवता, भव्यं भवता, अवश्यं भाव#्यं भवता, आदरशितं भावं भवता,ईषदाढ्यं दुराढ्यं स्वाढ्यं भवं भवता, ईषदुत्थाने भवता, सुस्त्रावं भवता, इति। कर्म यथा--प्रकृतः कटो भवता, कृतः क्रियमाणः करिष्यमाणो भवता, खलु कटः कर्तव्यः, कृत्यः करणीयः कार्यः ईषत्चार्यः ईषत्करः क्रियार्थो भवता, ईषदाढ्यंकरः स्वढ्यंकरः ईषत्पानस्सोमो भवता, सुपानः दुष्पानः दुश्शासनोऽरिभिर्भवान्, सुयोधनः दुर्योधनः दुर्मर्षणः दुर्धर्षणः ईषल्लभ्यो जनैर्भवान्, सुलभः दुर्दर्श इति । कर्ता यथा--कृतवान् कटं, उपेयुवान् ग्राममाकामुकः, योषमाभिलाषुकः, ओदनं बुभुक्षुः, श्रियमाशंसुः, ददिर्गाःपविस्सोऽयमं, अवन्दायी, शतंदायी, ग्रामंगामी, ग्रामतां गामी, कटं कारको व्रटति, ओदनं पाचको व्रजतीति । भवकर्म यथा--क्रियाः, क्रियन्ते, विधयो विधीयन्ते, उष्ट्रासिका आस्यन्ते हतशायिकाश्शय्यन्ते, अर्हति भवानिक्षुभक्षिकां, इक्षुभक्षिकां मे धारयसि, व्यावहासीं व#िदधते, सांकोटिनं कुर्वन्ति, उत्सवमान्त्रयै, आमन्त्रणमामन्त्रयौ, मन्त्रयै, कां त्वं कारमकार्षिः, कां कारिकां कां कृतिकां क्रियां कृत्यां, किं कृतं सर्वं कारिमकार्षं, सर्वां कारिकां सर्वं कृतिं क्रियां सर्वं कृत्यां सर्वं कृतमिति।भावकर्ता यथा--ब्रह्मभूयं वर्तते, ब्रह्महत्या न भवति, पाको वर्तते, त्यागो भवति,सांराविणं वर्तते, आखूत्थो भवति, अन्वेषणा वर्तत#े, व्यावभाषी भवति, समजः पशूनां, उटजः पशूनां, गवामुपसरः, ऋतूनां पर्यायः, भवतः आसिका, भवतः शायिका, आभ्यूषखादिका वर्तते, इक्षुभक्षिका उदपादि, शिरेर्तिर्वर्तते, प्रवाहिका न भवति, शिरोरोगश्शिरो बाधते, अरोचको न भवति, निग्रहस्ते, अवग्रहस्ते, अजननिस्ते, अभवन्तिस्ते वृषल भूयादिति। कर्मकर्ता यथा--स्वयं धौतौ पादौ, स्वयं विलीनमाज्यं, अकृष्टपच्याश्शालयः, पचेलिमाः माषाः, भुदेलिमानि काष्ठानि, भुदुराभुः, भुदुराराज्ञः, भङ्गरं काष्ठं, आरोहयमाणो हस्ती, लूयामानः केदारः, ब्रुवाणा कथा, भूषमाणा कन्या, ग्रन्थाना स्त्रक्, श्रद#्ध्नाना स्त्रक्, चिकीर्षमाणः कटः, अवकिरमाणो हस्ती, मनमाणो दण्डड्डत्ध्;ः, उच्छ्रायमाणो दण्ढः, दुहाना धेनुः, रुन्धाना गौः, आघ्नाना गौः, रजायद्वस्त्रं, कुष्यन् पाद इति । 3.6. अन्ये पुनरमीषामपि क्रमकर्तृत्वं मन्यन्ते। प्रकृतः कटं भवान् प्रकृतः कटो भवता, ययातः पन्थानं भवान् यातः पन्थानं भवता, आसीनो मासं भवान् आसीनो मासो भवता, भुङ्क्ते ओदनं भवान् भुङ्क्त ओदनो वृक्षो भवता, अधिशयीत खट्वां भवान् अधिशयिता खट्वा भवता, आरुढो वृक्षं भवान् आरूढो वृक्षो भवता, आश्लिष्टः प्रियां भवान् आश्लिष्टा प्रिया भवता, उपासितस्सूर्यं भवान् उपस्थितस्ससूर्यो भवता, उपासितोऽÏग्न भवान् उपासितोऽग्निर्भवता, अनुषितो गुरुं भवान् अनूषितो गुरुर्भवता, अनुजातो माणवको माणविकां अनुजाता माणाविका माणविकेन. अनुजीर्णो वृषलं देवदत्तः अनुजीर्णा वृषली देवदत्तेन इति तन्न सम्यग्वाक्यभेदजात्। ननु च भवान् आक्षेपलब्धः कर्ता न तिङ् वाच्चः; तत्कथमुच्यते कर्तृपदं, भावकर्तृपदं कर्मकर्तृपदं चेति । तथा हि, अवयवव्यतिरेकाभ्यां शब्दस्याभिधानशक्तिः कल्प्येत। भावनाक्षेपेण च प्रतीयते; क्रतरि न तत्र प्रत्ययस्यान्वव्यत्तिरेकौ खल्प्यते, यथा जात्याक्षेपेण व्यक्तेः प्रतीतौ न तां प्रति शब्दस्य वाचतशक्तिकल्पनोपपत्तिमती। कथं पुनः कर्तुरनभिधाने प्रत्ययस्य वचनपुरुषभेदो युज्यत? यथैव नात्मनेपदेषु, जात्यभिधानपक्षे जातेरलिङ्गसङ्ख#्याया अपि तदाधारव्यक्त्याश्रयाणि लिङ्गवचनानि प्रवर्तन्ते तथैव भावनायाः अभेदेऽपि तथा कत्र्राश्रयो वचनपुरुषभेदः प्रपत्स्यकतीति। 3.7. न च कर्तरि लकारः स्मर्यते इति वाच्यम्; यतः "कर्तरि कृत्" (पा.3.4.67) "लः कर्ममि च भावेऽचाकर्मकेभ्यः" (पा.3.4.69) "वर्तमाने लट्" (पा.3.1.1.123)। लस्य तिबादयः। "तिङस्त्रोणि त्रीण प्रथममध्यमोत्तमाः", "तान्येकवचनद्विवचमबहुवचनान्येकश#ः", "युमष्दि.... ... .... मध्यमः", "अस्मद्युत्तमः", "शेणे प्रथमः" (पा.2.4.101.102,106,107,108) "भावर्मणोरात्मनेपदम्", "शेषात्कर्तरि परस्मैपदम्" (पा.1.3.13.78) इत्यादिवाक्यानां "द्व्येकयोर्द्विवचनैकवचने", "बहुषु बहुवचनम्" (पा.1.4.22,21) इति संख्याविधानेन सहैकार्थविवक्षयात्वेकवाक्या व्याख्याता । एको हि पचतीत्यादिशब्दस्तैव्र्याक्रियते। तत्रैव वाक्यार्थो भवति। कर्तपरेकवचनत्वे एकवचनं क्किपित्यादि, कर्तृवचनं तिबित्यादि, कर्तुर्बहुवचनत्वे बहुवचनं झीत्यादि; एवं च भावनाक्षिप्तकर्तृसंख्यायामेव लकारः स्मर्यते, न कर्तरि । उच्यते; यदि भावनाक्षिप्तर्कृसंख्यायामेव लकारेणोच्यते, देवदत्तेवनास्यते इ#ित भावाभिधायिनोऽपि कर्तृसंख्यामेवाभिधानं प्राप्नोति; उभयत्रापिकर्तृसद्#ावात#्। येनैव हि निमित्तेन पचतीत्यादौ कर्मसंख्यायमेवाभिधेयमासादति तैनैव प्रयोगान्तरेऽप्यासादयेत्। कथं च कर्तर्यभिधीयमाने तद्विशिष्टसंख्याभिधानं युक्तम्। 3.8. अथ संख्यामात्रभिधीयते न विशेषः; तर्हि पुरुषादिभेदप्रतीतेरनुपपत्तिः तद्विशिष्टभिधानं च तदभिधानुपरस्सरमेव न्याय्यं ; नागृहूतविशेषणे विशेष्यबुद्धिर्वर्तत इति न्यायात्। न च शब्देनासंस्पृश्यमानोऽपरि कर्ता सन्निधिमात्रेण संख्यां विशेषयितुमुत्सहते स#ंख्याया धर्मरूपत्वाद्धम्र्णा कर्तुरवच्छेदकत्वेन संस्पर्शा युज्यते । करणादीनामपि सान्निध्यधर्मित्वात् तथात्वोपपत्तेः। किञ्च लकारेणाभिहितयोर्भावानसंख्ययोरुत्तरः, कालः भावनाक्षिप्तः कर्ता लभ्यते। ततोऽस्य पूर्वभावात् भावनासमकालमभिहितां सख्याया अविषेषात् सर्वकारकाणामवच्छेदः प्राप्नोति। पश्चाञ्च कर्ताक्षिप्तः कथं भावनासमकालमभिहितां संख्यामात्मनि निरुन्ध्यत्। अथ संख्यावद्भावनाप्रतीतिसमकालमेव कर्ता प्रतीयते; न तह्र्याक्षेपलभ्यः । अपि तु संख्यावल्लकोरेणाभिधीयत एवेति । किञ्चस देवदत्तदिपदेन पचतीत्यादे स्सामान#्धिकरण्यदर्शनात् । संख्यावानि कर्तैव लकारेणआभिधीयते। यदि पुनः कर्तुस्संख्यानमेकत्वादिकं लकारो ब्रयात् तदा देवदत्तस्य पचतीत्येवं प्रयोगः स्यात् यता देवदत्तस्यैकत्वमिति । अथ न संख्यानमुच्यते लकारेण, किन्तु, संख्येय एव देवदत्तादिरभिधीयते। देवदत्तः पचतीत्येकत्वसंख्यावच्छिन्नः पाकं करोतीत्यर्थः। एवं च, संख्येयेऽभिधीयमाने कर्तैवाभिहितो भवति। 3.9. न च कत्र्रभुधानेऽपि शक्तेः कारकत्वात् समानाधिकरणनुपपत्तिरिति वाच्यम्। शक्तिर्हि लकारेणाप्यभिधीयमाना गुणद्रव्यपरन्त्रैवाभिधीयते। यथा--शुक्लः पटः, शुक्ला शाटीति । अपिच भवन्तोऽपि कर्मसकारवाच्यत्वं मन्यन्ते । तदनुपपन्नम्। यथैव द्विभावनाक्षेपलभ्यत्व#ात् कर्तुरवाच्यत्वं यथा कर्मणोऽपि भवितुमर्हति। अथानाक्षेपात्कर्मणो वाच्यत्वम्। एवं च सति कर्तुरपि तथात्वोपपत्तिः । न हि क्रियाक्षेपे कर्तृकर्मणोर्विशेषमुपलभामहे। यथैव हि कत्र्रा विना क्रिया न प्रतीयते एवं कर्मणाऽपि । न सर्वत्र कर्मसंबन्ध इति चेत्, तत्र#ास्ति। तत्र कथम्। अथ कर्मणोऽपि क्रियाक्षेपलभ्यत्वात् तद्गताऽपि संख्यैवोच्यते सकारेण। कथमिदानीं कर्तृकर्मानभिधायको लकारः क्कचित् कर्तृगतां संख्यामभिधत्तेः क्कचित्कर्मगतामिति विशोषो भविति। न च विशेषणं नास्तीति वाच्यम्। यतः पचतीत्यत्र उल्लसितेन कर्तृरूपत्वेन पच्यत इत्यत्र रूपगृहीतकर्मनिष्ठत्वेन प्रतीतिरुत्पद्यते। किञ्च लकारेण कर्तृकर्मणोरनभिधाने देवदत्तः पचतीत्यभिहिते कर्तरि तृतीया। ओदनः पच्यत इ#ित कर्मणि द्वितीयचा प्राप्नोति। अथैवमुच्यते कर्तृकर्मसंख्यायोपरभिहितत्त्वान्न भविष्यतो। विभक्ति कृदन्तेषु तर्ह#िनिष्टप्राप्तिः संख्यायाः कृत्याभिधानात्। तत्र पक्क ओदन इति द्वितीया, इति तृतीया प्राप्नोति। 3.10. ननु चोभयंविभक्त्यर्थः संख्याकर्मादयश्च । तत्र यथा आख्यातेषु सङ्ख्यायाः अभिहितत्वात् कर्तृकर्मणोर्द्वितीयातृतीये न भवतः, तथा कृदन्तेषु कारकस्याभिहितत्वात् सङ्ख्या सङ्ख्याया द्वितीयादयो न भविष्यन्ति। स्यादेतत् । यद्यभिहिते प्रतिषेधस्स्यात्, अनभिहिते त्वयं विधिः सामथ्र्यैकवाक्यताभ्यां पर्युदासश्रयणात् । तत्र तिङन्तेषु संख्याभिधानेऽप्यनभिहितत्वात् सङ्ख्यायाः कार्कवनिभक्तयः प्राप्नुवन्ति । अपिच देवदत्तः पचन्, देवदत्तः पचमानः इति शतृशानचोः कर्तरि च सङ्खयाया अप्यनभिधानात् तृतीया न प्राप्नोति। अथ शतृशानज्यं कर्तुरनभिधानमाश्रियते तिङः किमपराद्धम्? तस्याऽपिलादेशत्वाच्छतृशानचोः कृत्वात्कर्तरिकृदिति (पा.3.4.67) वचनात् कर्तुरभिधानादिति चेत् कर्मणः कथमोदनं पच्यमान इति । अथ स्थानिनो लकारस्य कर्मणि विधानात् तदादेशत्वाञ्च शानचः कर्माभिधानं भविष्यति। तथाहि । "लः कर्मणि च भावे चाकर्मकेभ्यः" (3.4.69) इति "भावकर्मणोरात्मनेपद#ं" (1.3.13) इतिवा कर्मणि लकारो विधीयते। एवं सति यत्रापि तिङोऽपि विधीयते तत्रापि कर्मणि प्राप्नोति । ततश्च कर्तर्यपि केनापवार्यते तत्राऽपि कर्तरि कृत्। "शेषात् कर्तरि परस्मैपदं" (1.3.78) इति कर्तरि लकारोऽपि विधीयते तदुक्तम्-- आत्मनेपदरूपेण सर्वत्रैव हि कर्मणि । लकारस्स्यात् तथैवाऽयं कर्तर्यपि भवेन्नकिम्।। 3.11. नच कर्तरि या कर्मणि या सङ्ख्या तत्र तिङो भवन्तीत्याश्रतुमुचितम्। न हि "लः कर्मणि च भावे चाकर्मकेभ्यः" (3.4.69.) इत्यस्य "द्व्योकयोर्द्विवचनैकवचने" , "बहुषु बहुवचनं" (1.4.22.21) इत्यानेनैकवाक्यत्वं विद्यते, भावेऽपि लकारस्य विधानात् ।न च भावस्य साध्यत्वेन संख्यायोगोऽस्ति । नापि स्वैजसित्यादेर्विभक्तिविधानस्य संख्याविधानेन सहैकवाक्यत्नवं असंख्येभ्योऽप्यव्ययेभ्यस्सुवुत्पत्तेः। आह च महावार्तिककारः--सुप्तिङोरविशेषविधानात् द्दष्टविप्रयोगत्वाञ्च नियमार्थे वचनम्। 3.12. महाभाष्यकारोऽप्याह--सुप्तिङोऽविषेणोत्पद्यन्ते ; उत्पन्ननां नियम् इति । तस्मान्न कर्तृकर्मसंख्यायां लकारविधिः, अपितु कर्तृकर्मणोरेवेत्यभ्युपगन्तव्यम्। कथं पुनस्सर्वकारकसन्निधाने लकारेण कर्तृकर्मणोरेवाभिधानम्। उच्यते, तयोरेव प्राधान्यात् तत्र कर्तुः प्राधान्यं करणादीनां तदधीनवृत्तित्वात् कर्मणस्तु तदर्थत्वमेव तत्प्रवृत्तेः । यदिवा कर्तृकर्मव्यापारभिधायिनो धातोः पर उपजायमानो लकारः कर्तृकर्मणी एवाभिधादति । अथ कथं कर्तृकर्मवत् कालादिकमपि नाभिदधाति विषयभेदात् । तथाहि; षडड्डत्ध्;र्थाः तुङन्तेन प्रतीयन्ते--क्रिया, कालः, उपग्रहः, कारकं, पुरुषः, संख्येति। तेषु क्रियाकालात्मनेपदनिमित्तानि प्रकृतिरभिधत्ते; प्रत्ययः साधनं संख्या पुरुषं च । तत्र प्रकृत्यभिधेयेषु क्रिया प्रधाने, कालोपग्रहौ विशेषणम्। प्रत्ययाभिधेयेषु साधनं प्रधानं, कालोपग्रहौ विशेषणम्। प्रत्ययभिधेयेषु ,साधनं प्रधानं, संख्यापुरुषौ विशेषणम्। कथं पुनः संख्या कारकस्यैव विशेषणं, न क्रियाकालोपग्रहपुरुषाणाम्। 3.13. उच्यते क्रियायास्साध्यत्वेनापरिनिष्रन्नत्वात् कासस्य च क्रियातो व्यतिरेकात् व्यतिरेकेऽपि वा क्रियावच्छेदकत्वेनोपसर्जनत्वात्। उपग्रहस्यापि गन्धनादेः क्रियाकर्मत्वेनापरिनिष्ठितत्वे अनिदन्तार्देश्यत्वादसंबन्धस्संख्यायाः पुरुषस्तु प्रथमादिसाधनमेव, न#ान्यः कश्चित् । अतः कारकेणैव संख्याभिसंबध्यते, न क्रियादिभिरिति । तदेवं तिङवाच्यत्वेन कर्तुः कर्तृपदं, भावकर्तृपदं, कर्मकर्तृपदं चेति यदुक्तं, तदनुपपन्नमेवेति। कर्तृपदं, कर्मपदं, करणपदं, संप्रदानपदं, अपादानपदं, अधिकरणपदञ्चेति कारकरूपभेदाः । तत्र कत्र्रादयः कारकप्रस्तावेऽग्रतः प्रपञ्चयिष्यन्ते; इह तु संबन्धाविच्छेदाय लेशत उदाहियन्ते। तेषां कर्ता त्रिध#ा--स्वतन्त्रोऽस्वतन्त्रः कर्मकर्ताचेति । तत्र क्रियायां स्वेच्छया यः करणादिकारकाणि प्रयुङ्क्ते नतु तैः प्रयुज्यते सः स्वतन्त्रः। स द्विधा--स्वविभक्तिवाच्यः, परविभक्तिवाच्यश्चेति। तयोस्स्वविभक्तिवाच्यो यथा-- मानभङ्गपटुना सुरतेच्छां तन्वता प्रथयता द्दशि रागम्। लेभिरे सपदि बावयतान्तर्योषितः प्रणयिनेव मदेन।। परविभक्तिवाच्यो यथा-- चारुता वपुरभूषयदासां तामनूननवयौवनयोगः। तं पुनर्मकरकेतनलक्ष्मीस्तां मदो दयितसङ्गमभूषः।। 3.14. योऽन्यप्रयुक्तः क्रियासु व्याप्रियते सोऽस्वतन्त्रः । सोऽपि द्विधा--उद्भतव्यापारोऽनुद्भूतव्यापारश्च। तयोरुद्भूतव्यापारो यथा-- गुणानुरक्तामनुरक्तसाधनः कुलाभिमानी कुलजां जनाधिपः। परैस्त्वदन्यः क इवापहारयेन्मनोरमामात्मवधूमिव श्रियम्।। अनुद्भूतव्यापारो यथा-- चित्तनिर्वृति विधायि विविक्तं मन्मथो मधुमदश्शशिभासः। सङ्गतं च दयितै स्सम नयन्ति प्रैम न्यन्ति प्रेम कामपि भुवं प्रमदानाम्।। 3.15. कर्मकर्ताऽपि द्विधैव । उद्रिक्तकर्मंशः, अनुद्रिक्तकर्मांशश्च। तयोरुद्रक्तकर्मांशो यथा-- तत्तदुच्छवसुतपीतभैन्दवं सोडुड्डत्ध्;मक्षममिव प्रभारसम्। मिक्तषट्पदविरावमञ्जनुसा भद्यते कुमुदमानिबन्धनात्।। अनुद्रिक्तकर्मांशो यथा-- उदारकीर्तेरुदयं दयावतः प्रशान्तबाधं दिशतोऽभिरक्षया। स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनी।। कर्तुः क्रिययाऽनन्यार्थया यदाप्यते तत्कर्म। तदपि त्रिधा--निर्वत्र्यं, विकार्यं, प्राप्यञ्च । तेषु निर्वर्यं द्विधा---"यदसज्जायते सद्वा जन्मना तत्प्रकश्यते।।" तयोः प्रथमं यथा-- अयमान्दोलितप्रौढचन्दनद्रुमपल्लवः। उत्पादयति लोकस्य प्रीतिं मलयमारुतः।। द्वितीयं यथा-- सन्तमेव चिरमप्रकृतत्वादप्रकाशितमदिद्युतदङ्गे। विभ्रामो मधुमदः प्रमदानां धातुलीनमुपसर्ग इवार्थम्।। विकार्यमपि द्विधा। प्रकृत्युच्छेदात् गुणान्तराधानञ्च । त6 प्रथमं यथा-- क्रोधं प्रभो संहर संहरेति यावद्गिरः खे मरुतां चरन्ति। तावत् स बढिद्धठ्ठड़14;नः भवनेत्रजन्मा भस्मावशेषं मदनं चकार।। द्वितीयं यथा-- तां पुलोमतनयालकोचितैः पारिडड्डत्ध्;ातकुसुमैः प्रसाधयन्। नन्दने चिरमयुग्मलोचन स्सस्पृहं सुरवधूभिरैक्ष्यत।। 3.17. प्राप्यमपि द्विधैव। कथितमकथितञ्च। तत्र यत्कृत्यक्तखलर्थादिभिरभिधीयते तत्कथितं, यत्तैर्नाभिधीयते तदकथितं । तयोराद्यं यथा-- निपीयमानस्तबका शिलीमुखैरशोकयष्टिश्चलबालपल्लवा। विडड्डत्ध्;म्बयन्ती दद्दशे वधूजनैरमन्दष्टोष्टकरावधूननम्।। द्वितीयं यथा-- तामस्मदर्थे युष्माभिर्याचितव्यो हिमाचलः। विक्रियायै न कल्पन्ते सम्बन्धास्सदनुष्ठिताः।। 3.18. क्रियासिद्धै साधकतमत्वेन यदव्यवहितं व्याप्रियते तत्करणम्। तदपि त्रिधा--ब्राह्ममाभ्यन्तरं बाह्याभ्यन्तरञ्च । तेषु बाह्यं द्विधा--व्यवधायकमव्यवधायकञ्च। तयोराद्यं यथा-- धूपोष्मणा त्याजितमाद्र्रभावं केशान्तमन्तःकुसुभं तदीयम्। पर्यक्षपत्काचिदुदारबन्धं दूर्वावता पाण्डुड्डत्ध्;मधूकदाम्ना।। द्वितीयं यथा-- वैदर्भनिर्दिष्टमसौ कुमारः क्लृप्तेन सोपानपथेन मञ्चम्। शिलविभङ्गौ र्मृगराजशाब स्तुङ्गं नगोत्सङ्गमिवारुरोह।। आभ्यन्तरमपि द्विधा--कर्तृर्भिन्नमभिन्नञ्च । तयोर्भिन्नं यथा-- शिलाघनै र्नाकसदामुरस्थलैः बृहन्निवेशैश्च वधूपयोधरैः। तटान्तनीतेन विभिन्नवीचिना रुषेव भेजे कलुषत्वमम्भसा।। द्वितीयं यथा-- प्रयुक्तसत्कारविशेषमात्मना नमा परं संप्रतिपत्तुमर्हसि। यतस्स्तां सन्नतगात्रि सङ्गतं मनीषिभि स्साप्तपदीनमुच्यते।। बाह्याभ्वन्तरमपि द्विधा--बहिर्मुखमन्तर्मुपखञ्च । तयोराद्यं यथा-- गतया पुनः प्रतिगवाक्षगवं दधती रतेन भृशमुत्सुकताम्। मुहुरन्तरालभवस्तगिरे स्सवितुश्च योषिदमिमीत द्दशा।। द्वितीयं यथा-- बिभ्रतौ मधुरतामतिमात्रं रागिभिर्युगपदेव पपाते । आनन2र्मधिरसो विकसद्भि र्नासिकाभिरसितोत्पलगन्धः।। 3.19. क्रियाकार्यत्वेनावधीरितं कर्मणा कियया वा संयोगः यदनुभवति तत्संप्रदानम्। तित्र्त्रिधा-- ददातिकर्मव्याप्यं, कर्ममात्रव्याप्यं, क्रियाव्याप्यं चेति। तेषु ददातिकर्मव्याप्यं द्विधा--स्वत्वस्याऽनिवृत्तौ निवृत्तौ च । तयोराद्यं यथा-- चुम्बनादलकचूर्णारूषितं शंकरोपि नयनं ललाटजम्। उच्छवसत्कमलगन्धये ददौ पार्वतीवदनगन्धवाहिने।। द्वितीयं यथा-- दातुं व प्रभवसि मामन्यस्मै हर्तुमेव वा दासम्। नाऽहं पुवनस्तथात्वं यथाबि मां शङ्कसे भूरु।। क्रियाकर्मव्याप्यं द्विधा--ददात्यर्थविषयं च । तत्र प्रथमं यथा-- श्रीमल्लताभवनमोषधयः प्रदीपा श्शय्या नवाति हरिचन्दनपल्लवानि। अस्मिन्नतिश्रमनुदश्च सरोजवातारस्मर्तुं दिशन्ति न दिवस्सुरसुन्दरूभ्यः।। द्वितीयं यथा-- शशंस तस्मै प्रणिपत्य नन्दी शुश्रुषया शैलसुतामुपेताम्। प्रवेशयमास च भर्तुरेनां भ्रूक्षेपमात्रानुमतप्रवेशाम्।। क्रियाव्याप्यमपि द्विधैव। पारिभाषिकमपारिभाषिकञ्च। तयोः प्रथमं यथा-- न स्त्रजो रुरुचिरे लमणीभ्यश्चन्दनानि विरहे मदिरा वा। साधनेष्वभिरतेरुपधत्ते रम्यतां प्रयसमागम एव।। द्वितीयं यथा-- इत्थं विथधिज्ञेन पुरोहितेन प्रयुक्तपराणिग्रहणोपचारौ। प्रणेमतुस्तौ पितरौ प्रजानां पद्मासनस्थाय पितामहाय।। 3.20. तत्र कत्र्रा कर्मणा वा क्रियाजन्यमेव ध्रौव्येण यद्विगाहमवगाहते तदपादनम्। तत्र्त्रिधा-- निर्दिष्टविषयमुपात्तविषयमपेश्रितक्रियञ्च । तेषु निर्दिष्टविषयं यथा--उज्झितं अनुज्झतं च। तयोराद्यं यथा-- स्वेदानुविद्धाद्र्रनखक्षताङ्के सम्दष्टभूयिष्ठशिखाकपोले । च्युतं न कर्णादपि कामिनीनां शिरीषपुष्पं सहासा पपात।। द्वितीयं यथा-- औषसातपभयादपलीनं वासरच्छविविरामपटीयः। सन्निपत्य शनकैरिव निम्नादन्धकारमुदवाप समानि।। उपात्तविषयमपि द्विधा। हेयमुपादेयञ्च। तयोराद्यं यथा-- करौ धुनाना नवपल्लवाकृती वृथा कृथा मानिनि मापरिश्रमम्। उपेयुषी कल्पलताभिशङ्कया कथं नु विवस्यति षट्पदावली।। द्वितीयं यथा-- अतिथिं नाम काकुत्स्थात् पुत्रमाप कुमुद्वती । पश्चिमाद्यमिनीयामात् प्रसादमिव चेतना।। अपेश्र्तक्रियमपि द्विधैव। सामान्यापेक्षं विशेषेपेक्षं च तयोराद्यं यथा-- मा पुनस्तमभिसीसरमागस्किरिणं मदविमोहितचेताः। योषिदित्याभिललाष न हालां दुस्त्यजः खलु सुखादपि मानः।। द्वितीयं यथा-- कुतो भवानध्वनि चित्रकूटात् द्दष्टस्त्वया श्रीललितप्रभावः। किं तेन मुग्धे मदनोत्सवेऽस्मिन् कामं त्वया वेश्मनि लेखयामि।। 3.21. कत्र्रा कर्मंणा व्यवहितं क्रियाधारोऽधिकरणम् । तत्त्रिधा--वैषयुकं, औपश्लेषिकं नैमित्तिकं च । तेषु वैषयिकं द्विधा । तयोराद्यं यथा-- कदलीप्रकाण्डड्डत्ध्;रुचिरोरु तरौ जघनस्थलीरिसरे महती। रशनाकलापगुणेन वधू र्मकरध्वद्विरदमाकलयन्।। द्वितीयं यथा-- विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्यपटुना युधि विक्रमः। यशसि चाभिरुचिः व्यसनं श्रुतेः प्रकृतिसिद्धमिदं हि महात्मनाम्।। औपश्लोषिकमपि द्विधा--एकदेशिकमभिव्यापकं च। तयोराद्यं यथा-- स्पर्शभाजि विगदच्छविचारौ कल्पिते मृगद्दशां सुरताय। सन्नतिं दधति पेतुरजस्त्रं द्दष्टयः प्रियतमे शयने च।। द्वितीयं यथा-- रागकान्तनयनेषु नितान्तं विद्रुमारुणाकपोलतलेषु । सर्वथाऽपि दद्दशे वनितानां दर्पणेष्विव मुखेषु मदश्रीः।। नैमित्तिकमपि द्विधैव शुद्धं सङ्कीर्णं च । तयोराद्यं यथा-- क....एधूमंधारे अरे अब्बुत्तणमग्गिणो समप्पिहिइ। मुहकमल चुब्बणालेह धम्मि पासंठिएदि अरे।। द्वितीयं यथा-- इहाधीती पूर्वं धृतधरणिभारः कमठराडड्डत्ध्;पांनाथेनास्माद्गिरशितशरण्येन पठिताः। ततः प्राप्ता दूरीकृततनतापैर्जलधरैरस्सतां दुःखोपज्ञं सततमुकारोपनिषदः।। 3.22. प्रवृत्तप्रयोजकस्तु निमित्तविशेषो हेतुः कर्ता च भवति। सोऽपि त्रिधा-- प्रेरकोऽनुककूलः प्रत्ययकश्च । तत्र प्रेरको द्विधा-- व्यवहितोऽव्यवहितश्च । तयोव्र्यवहितो यथा-- सा चूर्णगौरं रघुनन्दनस्य धात्रीकराभ्यां करभोपमोरूः। आसञ्जयामास यथाप्रदेशं कण्ठे गुणं मूर्तमिवानुरागम्।। अव्यवहितो यथा-- सावशेषपदमुक्तमुपेक्षा स्त्रस्तमाल्यवसनाभरणेषु। गन्तुमुत्थितमकारणतस्स्म द्योतयन्ति मदविभ्रममासम्।। अनुककीलोऽपि द्विधा--सिद्धः साध्यश्च। सिद्धो यथा-- गेहैजिरेषु नवशालिकणावपातगन्धानुभावसुभगेषु कृषीवलानाम्। आनन्दयन्ति मुसलोल्लसनावधूतपाणिस्खलद्वलयपद्धतयो वधूट्यः।। साध्यो यथा-- सुण्णम्मि गिरिं गामे वणमहि सविता अभङ्ग वइवेढे । गहवइ धूआदं सण मणोहरो मंप सा वेइ।। ।झ्र्वधूभ्यः इ#ित पाठभेदः।ट 3.23. प्रत्यायको द्विधा--अद्दष्टयोज्यक्रियो द्दष्यप्रयोज्यक्रियश्च । तयोः कंसं घातयति, पुष्पेण चन्द्रं योजयतीत्यादिद्दष्टप्रयोजनक्रियः । स यथा-- शैलैस्सन्धयति स्म वानरहतैर्वाल्मीकिरम्भोनिधिं । व्यासः पार्थशरैस्तथापि न तयोरत्युक्तिरुद्भाव्यते।। वागर्थौ च तुलाधृताविव तथआप्यस्मत्प्रबन्धानयं । लेको दूषयितुं प्रसारितमुखस्तुम्भं प्रतिष्ठे नमः।। 3.24. वाराणस्यां रात्रीः विवासयति, माहिष्मत्यां सूर्यमुद्गमयति, इत्यादिद्र्दष्टयोज्यकिरयः। स यथा-- विपुंलतरनितम्बाभोगरुद्धेरमण्या श्शायितुमनाधिगच्छञ्जीवितेशोऽवकाशम्। रतिपरिचयनश्यन्नैद्रतन्द्रः कथंचिद्गमयति शयनीये शर्वरीं किं करोतु।। 3.25. कथं पुनः कंसं घातयति कथकः, बलिं बन्धयति गाथक इत्यादौ प्रयोजकव्यापारेण णिजुत्पत्तिरुच्यते। शब्दोपहितलूपांस्तान् बुद्धेर्विषयतां गतान्। प्रत्यक्षमिव कंसादीन् साधकत्वेन मन्यते।। 3.26. तेषां चोतपात्तिप्रभृत्याविनाशात् समृद्धिमाचक्षाणः परानपि तथैव प्रत्याययति। तथा हि। वक्तारे भविन्ति, गच्छ हन्यते कंसः, किं गतेन हतः कंस इति । एवं रातिं्र विवासयतीत्यादावपि तथा प्रत्यायनमवगन्तव्यम्। अयं च सूत्राणामारम्भपक्षे न्यायः; सूत्रारम्भपक्षे तु आख्यानात् कृत्सतदाचष्टे कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवञ्च कारकमित्यादाहृतं पुरस्तात्। 3.27. अथायं णिजर्थो धात्वर्थत्वेनावाच्छिद्यमानः किं साक्षादवच्छिद्यते? एवं भवितुमर्हति । न द्यन्यतिहोलभ्यते तदनुपपन्नम्। क्रियोऽसाध्यत्वेन स्वसाधनापेक्षया परस्परेण सम्बन्धः। अस्तु तर्हि कर्तृव्र्यवधानेनायुक्तं चैतत्। धात्वर्थो हि कर्तृव्यापाररूपः, सोऽनुपलभ्यमानमपि कर्तारमाक्षिप्य तद्दवारेण प्रत्ययार्थं विशेष्यति। 3.28. न चैवं सति प्ररणानर्थक्यं यतो विच्छेदमाशङ्कमानः क्रियायं प्रवृत्तमपि प्रेरयति। यत्राप्यप्रवृत्त एव प्रवत्र्यते तत्रापि योग्यत्वाद्वुद्धिसथं क्रियासम्बन्धं गृहीत्वा प्रयुङ्क्ते। अबुद्धिनिबन्धनोऽपि क्रियाकत्र्रोस्समबन्ध उपपद्यते । तदाप्याख्यानात्कृतस्तदाष्ट इत्याद्युपसंख्यानेन वा सामान्यम्। कृतत्वाद्धेतुतोह्यविशिष्टमिति बुद्धिनिवन्धनत्वेनैव प्रत्याख्यातः। तदा च बुर्द्धि सोबुद्धि वासुदेवेन हन्यत इत्येवंभूतबुद्धिविषयं प्रयोजकव्यापारमाश्रित्य पुनर्बौद्ध एव प्रयोजकव्यापारोऽङ्गीकृतः। अथोऽर्थाक्षिप्तकर्तृसङ्गताया धात्वभिहितायाः क्रियायाः प्रत्ययार्थत्वेन प्रेरणादिना सम्बन्ध इति । अत एव प्रवृत्तोऽपि प्रेष्यमाणे लोडड्डत्ध्;ादिप्रत्ययोत्पत्तेः कर्तृत्वस्यापायात्। ननु कथमप्रवृत्तबाह्ययोगः कर्तृत्वमुषेयात्। प्रैषसाध्यं च कर्तृत्वं कथं नाम? प्रागेव भवेत्। उच्यते ; नेदं बाह्यप्रयोगप्रवृत्त्यधीनं कर्तृत्वमभिधीयते। क्रियायं तु सम्बध्यमानत्वेन विवक्षतायां तत्साध्यता। नान्तरीयकः सामथ्र्यप्रातितसन्निधानः कर्ता स्थित एव प्रयोजकव्यापारेण बाह्यप्रयोगसिब्द्यर्थमेव विषयीक्रियते । अन्यथा प्रयोजकव्यापारापेक्षकर्तृत्वे प्रयोजकोत्तरकालमेवास्य कर्तृत्वं भवेदिति न संप्रति कर्तृत्वाभावे तन्निबन्धनो लोडड्डत्ध्;ादिरुपपद्यते । तस्मात्पचतीत्यादिना यः पचति सः पाकं प्रति प्रवर्तयत्विति कथितं भवति। क्रियासामथ्र्यदेनं निज्र्ञातं कर्तारं प्रैष्यतयाभिधेयभावेन लकारोभिनिव#िशते । तथाहि; सोऽयं पाकादिधात्वर्थसामथ्र्यदवगतः कर्ता साधनत्वार्थस्य बाह्यप्रयोगसंपत्यर्थप्रेषणादिव्यापारविषयीकृतः प्रत्यनाभिधीयत इत्यामनन्ति। 3.19. भवतु नाम क्रियाप्रापितसन्निधानः कर्ता । सतु नियत एव पुरुषः कथं ज्ञायते ? येनैवमुच्यते यस्तवं पचसि स पाकं प्रवर्तयेति। अत एव भाष्ये सत्क्रियस्य कर्तुः प्रयोगे णिचमभिधाय द्रव्यमात्रस्य प्रयोगे, लोट उत्पत्तिरभिहिता--पृच्छतु मा भवान्, अनुयुङ्क्तं म#ा भवानि इति। उच्यते द्रव्यमात्रमपि प्रेप्यमाणं क्रियासाधनयोग्यमेव प्रेष्यते , न काष्ठाकुडड्डत्ध्;्यदि। नन्वेवं णिचो लोटश्च विषयसङ्करः प्राप्नोति, नास्ति सङ्करः ; यस्यावगतमसकृत् प्रमाणान्तरेण क्रियाकर्तृत्वमसावेव सम्भाविताक्रियो णिज्वषयः। अदृष्टक्रियासामथ्र्यंतु योग्यमेव । द्रव्यमात्रं लोड्ड्डित्ध्;वषय इति तेन पचेत्यसमर्थः यस्त्वं पचसि पाकार्हः पाके शक्तः स त्वं प्रवर्तय पाकमिति। एवं च क्रियाकर्तृत्वेन योग्यतया ज्ञायमानस्य प्रयोगे प्रवत्र्यमानत्वात् कर्तुरेवाधिकार इत्युक्तं भवति। 3.30. विद्वच्छूराभिजातकर्तृते राज्ये भवानधिकृत इत्यादिवचनभङ्गिभिरयमेवार्थस्समथ्र्यते । यदि तर्हि न कर्ताधिक्रियते नाऽयं मतिमान् विशिष्टमेव पुरिषमेवंप्रकारेऽधिकारेनुरुन्धीत यमेव कञ्चित्पुरुषमुपाजजीत। अथवा एते लोडड्डत्ध्;ादिविषयाः प्रैषादिविषयाः । ते कस्य धर्मभूताः, तत्रैव ते वर्णयन्ति प्रयोक्तुः ; प्रयोक्ता हि प्रैषणादिभिरभिहितसिद्धयेऽभिलाषान् पुरुषं प्रवर्तयति; सतु क्कचित्प्रेषयन्, क्कचिदध्येषयन्, क्कचिदामन्त्रमाण इति शब्दस्यैते व्यापारा इत्यपरे । प्रेषणा हि सर्वविध्यादिसाधारणरूपा । साच शब्दव्यापारः निमन्त्रणादयस्तु प्रमाणादिनिबन्धनास्तद्विशेषाः। तथाहि, इदं निमन्त्रणं, इयमनुज्ञा, अयं प्राप्तकाल इति प्रकरणादेरवगम्यते । अन्यन्मतं प्रयोज्यव्यापारविशेषः ; ते चासंविदिताः। सतु पुरुषो लिङादिप्रयोगात् भोजनादिक्रियासु निमन्त्रणाद्यवस्थान्तरमात्मानं मन्यते निमन्त्रितोऽहमध्येषितोऽहमिति। 3.31. अन्येत्वाहुः--विधिरेक एवार्थः प्रत्ययस्य । स च यजेतेत्यादेर्यथारूपोऽवगम्यते तथारूप एव। कटं, कुरु, इह करोत्यर्थात्मके विधिवद्धात्वर्थानुयायीति कारकाणामभिसंबन्धः। यतः करोत्यर्थात्मकव्यापारेण कारकाणां विशेष उपजायमान उपलभ्यते कुर्वद्धि कारको भवति। अन्येत्वाहुः---योऽयं पाकादिको विशेष इतरेतरवैलक्षण्येनोपलभ्यमानः प्रतिनियतफलजनकः। यत्रैव फलसाधकत्वात् करणानि प्रवर्तन्ते तस्यैव तु व्यापारातमकत्वात् क्रियारूपताऽपि संपन्नैवेति। अपरमतं तन्नविवेक्तुं इह कारकाणि व्याप्रियन्ते न व्याप्रयन्त इति । उभयात्मके वस्तुनि विशिष्टोपाधिरूपस्य निर्धारितत्वादेकत्रआऽपि प्रवृत्तिमुपयत् कारकमितरत्रापि प्रवृत्तमिवोपलभ्यते । अथापरे ब्रुवते उभयात्मकमेव हि क्रियारूपं वस्तु कारकैस्संपद्यते । अत एव कारकाणां प्रवृत्तिविशेषः क्रियेत्येतद्भावनापक्षेऽपि सङ्गच्छते, न चास्माभिस्सकलधात्वर्थानुयायिकरोत्यर्थरूपा भावना अङगीक्रियते; यदित्थमध्यगीषत कृभ्वस्तयः क्रियासामान्यवतनाः क्रियासामान्यवचनाः क्रियाविशेषवचनाः पच्यादयः इति। किंतु प्रत्ययवाच्यत्वमस्या अनुकृष्यते। 3.32. नु च भावनापक्षे कारकाणामिति बहुवचनानुपपत्तिः कर्तुरेव हि व्यापारो भावना, न कारणामुच्यते। कर्तैव कारकशब्देनोक्तः, न पुनरितरकरणादि । कर्तृणां तु क्रियाभेदेन बहुवचनम्। कथं पुनरिदं ज्ञायते। यतो भुजिक्रियामूरीकृत्येदमभिधत्ते। अन्यथा कारकाणि शुष्कौदनेप्रवर्तन्ते अन्यथा मांसौदन इति। कर्तैव शुष्कौदने मन्दप्रस्थानेन प्रवर्तते, मांसौदने संरम्भेणातः क्रतुर्मन्दतासंरंभप्रदर्शनं ज्ञायते।कर्तैव परिगृहीता, यस्य बुद्ध्यानुषङ्गात्तथाप्रवृत्तिः। ननु च शुष्कौदनमांसौदनयोः करणाधिकरणदीनामपि तद्भेदनिमित्तं बहुवचनं भव#िष्यति। नैवम्; विद्यमानमपि कारकान्तरं कांस्यापात्रादिशुष्कमांसौदनयोर्मन्दतया संरंभेण वा प्रवर्तते। यदापि सकलकारकव्यापारः क्रियति पक्षस्तदापि प्रधानत्वात् कर्तैव कारकशब्देनोच्यते, तस्य च सर्वक्रियाविशेषयत्वान्नकारकाणामिति प्रयोगप्रवृत्तिहेतुत्वाञ्च । कर्म पुनः यद्यपितदर्थत्वात् प्रवृत्तेः प्रधानं तथापि तस्मास्रवविषयत्वान्नकारकाणामिति बहुवचनेन सङ्ग्रहः। यद्येवं कर्तृशब्द एव कस्मान्न कृतः कर्मणि लकाराणां तस्य व्युदासो माभूत्? तेन यत्र संभवति कर्म तत्राङ्गीकृतमेव तु तदपेक्षया बहुवचनम्। ननु च संरंभादिप्रदर्शनाञ्चेतनाव्यापारस्य क्रियात्वं न प्राप्नोति। नैवम्; संरंभादेः कर्तृविलक्षणत्वात् । अतः क्रतृव्यापारः क्रियेति सिद्धम्। नन्वेवं सति भाष्यं न संगच्छते कः पचेः प्रधानार्थः, याऽसौ तण्डुड्डत्ध्;लानां विक्लितिरिति अर्थं प्राधान्यमाश्रित्य तद्भाष्यमित्यविरोधः। यत्तदर्थं प्रषणं, अध्येषणं वा ससर्वः पच्यर्थ इति। एवं च पचतीत्याख्यातस्य विक्लित्युपसर्जनं विक्लेदनमर्थे भवति। 3.33. अन्ये तु कारकाणामिति बहुवचनं सर्वकारकव्यापारत्वेन व्याचक्षते यस्मात्सर्वकारकव्यापाराभिधायित्वं धातूनां दृश्यते । तथाच देवदत्तस्य काष्ठै स्स्थल्यामोदनस्य च पाचकः इत्यादौ सर्वाण्येव कारकणि धात्वर्थस्य विशेषणं ; नात्र कस्याचिद्गुणभावः प्रधानभावोवा अवगम्यते। आक्यातास्तर्हि सर्वकारकव्यापाराः किमिति नावगम्यन्ते ? प्राधान्यात्कर्तृकर्मणोरेव लकारोत्पत्तेः तद्व्यापार एवाख्यातात्प्रतीयते । किं पुनस्सर्वेषां कारकाणामेका प्रवृतिः? आहोस्वित् प्रतिकारकं भिन्नः प्रवृत्तयः क्रियेति। न तावदाद्यः पक्षः, सर्वेषामेकस्याः प्रवृत्तेरसंभवात्। न हि यैव काष्ठानां प्रवृत्तिस्सैव देवदत्तस्य स्थाल्यादेश्तच संभवति तस्मात्प्रतिकारकं भिन्नाः प्रवृत्तयः धातुना युगपदभिधीयमानाः क्रियेत्युच्यन्ते । अथवा पुरस्त्वेकैव सर्वकारकाणां प्रवृत्तिः क्रिया। तथाहि; सर्वैरेव कारकैरेका प्रवृत्तिरुपजन्यते । अथवा पुनरस्त्वेकैव स्रवकारकाणां प्रवर्तन्ते । किञ्चित्तु केनचिद्रूपेण जनयतीत्यवान्तरभेदात्करणादिव्यपदेश एकश्चानेकत्र वृत्तिर्जातिवदुपपद्यते । विशेषाद्वास्याः फलजननरूपत्वं, न पुनरधिश्रयणादिरूपतेति विशेषणादिरूपतेति। विशेषणादिरूपं निपातादिरूपं, संबोधनादिरूपं, संबन्धादिरूपं, हेत्वादिरूपं चेत्युपस्काररूपाः। एते चाग्रत उपस्कारर्थाप्रस्तावे प्रपञ्चतो वर्णयिष्यन्त इति नेह प्रतव्यन्ते। संवन्धाविच्छेदार्थं तु लेशत उद#ाहियन्ते। 3.34. तत्र विशेषणआदयः क्रियाविशेषणं, कारकविशेषणं, उपसर्गश्च। यथा--साधु पचति, भीष्ममुदारं दर्शनीयं कचं करोति, एवमन्ये रथेन यास्यतीति। निपताः कर्मप्रवचनीयीः अव्ययानि च यथा-- अहं च त्वं च वृत्रहन् असांप्रतं जेतुमित्याख्यादयः आख्यातानि । कृतस्तद्धिताश्च यथ#ा--स्मरसि देवदत्त काश्मीरेषु वत्स्यामः, रैपोषं प #ुष्यति, ब्राह्मवढद्धठ्ठड़14;व्रवीति। सम्बोधनादयः आमन्त्रणमवधि भावलिङ्गं च यथा--हे देवदत्त भुक्त्वा व्रजतीति, स इति, संबन्धादयश्शेष इति उपपदम्। सहार्थश्च यथा--राज्ञः पुरुषः कुशलं देवदत्तायेति, पुत्रेण सहायात इति । ह#्त्वादयो हेतुर्लक्षणं तारथ्र्य च यथा--विद्यया शःष कमण्डड्डत्ध्;लुना छात्रः, यूपाय दार्विति । कथं पुनरयं हेतुः कारकाद्विशिष्यते? "द्रव्यादिविषयो हेतुः कारकं नियतक्रियम्।।" यथा--बीजेन सस्यं, तपासा कृशः, अन्नेन वलति, व्रतेन ब्राह्मण्यं, कारकं यथा--देवदत्तः श#्रद्धया तीर्थे हेमशतं निष्कं ब्राह्मणाय ददाति। यद्येवं द्रव्यादिविषयतवेन क्रियायामनियत एव भवति। यथा--पुत्रेण सद्द ब्राह्मण इति । नैवम्; न हि सहार्थस्य द्रव्यादीनि प्रतिनिवर्तनभावश्शबेदनोच्यते। हेतोः पुनराश्रितव्यापारस्याऽपि तृतीयादिभिस्स विधीयत इति क्रियाविषयः करणात्कथं भिद्यत इति चेत्, क्रिया यैः करणं त्सय दृष्टः प्रतिनिधिस्तथा । हेत्वात्थोपि क्रियाहेतुर्नच प्रतिनिधीयते।। तर्हि तादथ्र्यदभेदः। किमिदं तादथ्र्यं नाम ? कार्यस्य कारणं प्रति प्रयोजकत्वं तादथ्र्ये ; विशिष्टः कार्यकारणभावः इति यावत् । यद्धि यदर्थं तन्नियोगतस्तस्य करणम्। यथा--अङ्गुलीयाय कनकमिति कथं तर्हि हेनेर्न भिद्यते ? यतः कारण्स्य कार्यप्रस्तावयोग्यताहेतुत्वं कार्यस्य कारणं प्रति प्रयोजकं तादथ्र्यमिति। अयं च विशेषः कार्यवाचिन एव तादथ्र्ये चतुर्थी ; कार्यवाचिनो निमित्तवाचिनश्च हेतोस्तु तृतीयेति। यद्येवं हेतुलक्षणयोर्हेतुलक्षणा तृतीया कनकात्प्रप्नोति। न च तादथ्र्यभयमपि संवन्ध उत्पत्स्यते, इति। नैवम्, तस्मै तद्रथमि#ित सर्वनाम्ना योर्थः प्रतिपद्यते स एव स्वकारणापेक्षया प्रातितव्यतिरेकश्चतुथ्र्या संबध्यते। यथा--यदर्थमस्य मन्त्रः तदनेनाधिगतमिति सर्वनामार्थ एव कार्ययोगि, तथेहापि तच्छब्दोपात्त एवार्थः प्रयोजनतया विपरिणतः; तदर्थं शब्दो नाभिधीयते। भावप्रत्ययान्तोऽप्यसौ कार्यगतमेव रूढविशेषाण्याचष्टे कार्यस्य कारणं प्रति प्रयोजकत्वं तादथ्र्यमिति। तत्कथं कारकस्य तादथ्र्यविभक्तिराशङ्क्येत ? कार्यंस्थाऽपि चतुथ्र्योभयगतस्यापि संबन्धस्यावगतत्वात् अव्यतिरिक्तप्रतिपदिकार्थाभिन्नः कारणशब्दाद्भवति, न तु व्यतिर#ेकलक्षणा तृतीयेति। अयं च हेतुतादथ्र्योर्विषयः। 3.35. वासेनाधीते, अध्ययनेन वसतीति, या च यूपाय दारु, अध्ययनाय वलतीति । यस्तु मन्यते तदर्थतान्तविषयस्य पाराथ्र्यरूपा कार्यप्रसवयोग्यता हेतोरनन्यार्थस्य तादथ्र्यं, तस्य तद्विशषयस्येति अनन्यार्थस्येति विशेषणद्वयमपार्थं उभयत्राविशेषात्। यदि तावदर्थसयानन्यार्थता तादथ्र्यं तदस्त्। कनकस्य वलयादावपि सामथ्र्यं सङ्घातादथोक्तिधर्मेण तद्धेतावपि समानम्। न हि विद्याया यशोहेतुनां मुक्त्वा कार्यान्तरयोग्यतां ब्रूते; पारार्थ्यरूपेत्यपि न वचनीयं कार्यप्रसवयोग्यतेत्यनेनैव गतार्थत्वात्। ननु च नटस्य शृणोतीत्यादौ कार्यप्रसवयोग्यस्यापि नटादेः पाराथ्र्येण, विवक्षायां मा भूद्धेतुत्वमिति विशेषणं क्रियते । नैवम्; यथा उपाध्यायादधीत इति उपाध्यायादेः परार्थत्वेन कारकत्वं प्रयोजकत्वमेव तादथ्र्यमिति । 3.36. अथ लक्षणस्य का वार्ता? लक्षणमपि तादर्थत्यवद्धेतुविशेष एव । सिद्धो हि हेतुः कारको ज्ञापकश्च । तत्र कारकस्य स्वव्यपारानीश्रयणे हेतुरित्याख्या, ज्ञापक्सय लक्षणमिति पदार्थन्तरपरिच्छेदहेतुता हि लक्षणार्थः। अनाश्रितेषु (तु) व्यापारे निमित्तं हेतुरिष्यते। आश्रयावधि भावंतु लक्षणे लक्षणं विदुः।। 3.37. क्कचित्तु हेतुरपि लक्षणम्। जटाभिस्तापस इति इत्थं भूतलक्षणं, अक्ष्णा काण इति विकारलक्षणं, कपिला विद्युत्युत्पातलक्षणं, गोषु दूह्यमानासु गत इति भावलक्षणं, पचन्नास्त इति क्रियालक्षणं च व्याख्यातमिति। एकार्थपरः पदसमूहो वाक्यम्। तन्त्रिधा--संस्कृतं प्राकृतमपभ्रंशश्चा। ब्राह्मणं यथा-- शंयो मनुष्याणां रागद्वस्समूढो भवति। तत्रान्येषामधिपत्तिः सर्वेषां मनुष्यकैः कामैस्संपन्नमतः। स मनुष्याणां परम आनन्दः। आर्षे द्विधा। स्मृतिः पुराणं च । तयोस्मृतिर्यथा--- शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते। ते च स्वा चैव राज्ञस्तु ताश्तच स्वा चाग्रजन्मतः।। पुराणं यथा-- हिरण्यकशिपुर्दैत्यो यां यां दिशमुदैक्षत । भयभ्रान्तैस्सुरैश्चक्रे तस्यै तस्यै दिशे नमः।। लौकिकं द्विविधं, काव्यं शास्त्रं च । तयोः काव्यं यथा-- कस्य नो कुरुते मुग्धे पिपासाकुलितं मनः। अयं ते विद्रुमच्छायो मरुमार्ग इवाधरः।। शास्त्रं यथा-- प्राकामधवलं यस्याश्चक्षुः पर्यन्तपक्ष्मलम्। नवनीतोपमं तस्या भवति स्मरमन्दिरम्।। प्राकृतं त्रिधा, सहजं, लक्षितं, श्लिष्टं च। तेषु सहजं द्विधा--संस्कृतसमं देश्यं च। तयोस्संस्कृतसमं यथा-- सरले साहसरागं परिहर रंभोरु मुञ्च संरम्भम्। विरसं विरायासं वोढुं तव चित्तमसहं मे।। देश्यं यथा-- विप्प अपि आपु आणुणाहं षडड्डत्ध्;रसमं परिहसन्तेई। वासअर विणडिड्डत्ध्;ओ विसं ललंस्व णावेसि ।। लक्षितं द्विधा, महाराष्ट्रं शौरसेनं च। तोयर्महाराष्ट्रं यथा-- णमह अवढ्ढअतुंगं अविसारिअवित्थअं अणोणअगहिरं । अप्पलहुअपरिसंढद्धठ्ठड़14;णं अणाअपरमन्थपाअडंड्डत्ध्; महुमहणं।। शौरसेनं यथा-- ........... फनमथ चन अप्पकुवि अकाधी चरणकिपचि अपटि । पिप्पंतसु नखतप्पनेसुं एतासतनुततरं रुतं।। मागधं यथा-- हदमाणुशमंभोयणं कुंभशहाशवशाहिशच्छिदं। अणिशंअ पिबामि शोणिदं वलिशशदं शमलेण भोयदु।। अपभ्रंशस्त्रिधा। उत्तमो मध्यमः कनिष्ठश्च । तेष्वावन्त्यलाचटूयादिरुत्तमः। तत्रावन्त्योयथा--एकदू असलोणी अल आहरणसुसंठवी अच्छि उपसंपटं वीवउकहिम्मलं भट्टएवटपि अमइए। उणजाणइडंड्डत्ध्; विरहातुणुजूरि अएज्झ हरोदावणुदिण्णुवहिणे विण्णूरि अ ए।। लाटीयो यथा-- हिरउ हरन्त हो चेरहोए भुजिदन्दुहले जप्पिउपणव्व सच्छिले विलोइ अउगणे। एंहूपिणपिण गणत्थणि संथहउव्कपणु जव्चन्दाणभेदिज्जइ अहरहोदन्तपणा।। आभीरगौर्जरादिर्मध्यमः। तयोराभूरो यथा-- लवियव्फउ बीउदुद्वडड्डत्ध्;ाकउ हहाण गच्छसि पुतहोमत्थजभु। जदहिडड्डत्ध्;ां उजं मे पि जवि आआसि।। गौर्जरा यथा-- अव अख्खो ञ्जी समुद्रुतरि सिलदुहि गरुकाणि । मन्दो हि ए पिलहि अउउजंपरुञ्जइतें अणि।। काश्मीरपौरस्त्याजिः कनिष्ठः। तयोः काश्मीरो यथा-- कंवलि आल एकं ते कुदिच्छलदन्तहि विठि सुद्धि एमं इवि आलसीलंति। सव अंगापिदुसरासहि खवाचि दुं फलिनन्तेकी आआसण अईदसि।। पौरस्त्यो यथा-- महणाहि अकुटुंबि सामइन्दीहिरेरेभाउ जपिहुरि । विण्णउजान्तां वव्इरिवामेव्केरेधूजे वासां हावाथि। आंखीजणुकणआंसहुंकाजाथितेहाथेञ्चित उदूकराए । वल आच्छइणी जीव उपाथरूपस अंणइ भवणहिं वाच्छरं।। 3.8. तद्तत् समस्तमपि वाक्यजातमाख्यतोपाधेरेकादशप्रकारं विप्रथते। तद्यथा--एकाख्यातमनेकाख्यातमावृत्ताख्यातमनुवृत्ताख्यातं विपरिणाताख्यातमेकार्थाख्यातं समुञ्चिताख्यातं कृदमिहिताख्यातमपेक्षिताख्यातमेकान्तराख्यातं निरन्तराख्यातमिति । तेष्वेकाख्यातं यथा-- वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ।। अनेकाख्यातं यथा-- यदेव रोचते मह्यं तदेव कुरुते प्रिया। इति वेत्ति न जानाति तत्प्रियं यत्करोति सा।। आवृत्ताख्यातं यथा-- जयत्यमलकौस्तुभस्सबकितांसपीठो हरि र्जयन्ति मृगलोचनाचलदपाङ्गदृ,#्ठिक्रमाः। ततो जयति मल्लिका तदनु सर्वसंवेदना विनाशकरणक्षमो जयति पञ्चमस्य ध्वनिः।। अनुवृत्ताख्यातं यथा-- चरन्ति चतुरम्भोधिवेलोद्यानेषु दन्तिनः। चक्रवालादिकुञ्चेषु कुन्दभासो गुणाश्च ते।। विपरीताख्यातं यथा-- सोऽस्मिञ्जयति जीवातुः पञ्चेषोः पञ्चमध्वनिः । तेच चैत्रे विकीर्णेवा तक्किलीकेलयोऽनिलाः।। एकार्थाख्यातं यथा-- विकसन्ति कदम्बानि स्फुटन्ति कुटजौद्गमाः। उन्मीलन्तिच कन्दल्यो दलन्ति ककुभानिच।। समुञ्चिताख्यातं यथा-- तामवातारयत्पत्नीं रथादवततार च।। कृदभिहिताख्यातं यथा-- ततःकुमुदना थेन कामिनीगण्डड्डत्ध्;पांडुड्डत्ध्;ना। नेत्रानन्देन चन्द्रेण माहेन्द्री दिगसङ्कृता।। अध्यहृताख्यातं यथा-- यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा। यश्चैनं गन्धमाल्याभ्यां सर्वत्र कटुरेव सः।। अनपोक्षिताख्यातं यथा-- कियन्मात्रं जलं विप्र जानुदध्नं नराधिप । तथापीयमवस्था ते न हि सर्वे भवादृशाः।। एकान्तराख्यातं यथा-- तेनाद्रिबन्धो ववृधे पयोधिस्तुतोष रामो मुमुदे कपीन्द्रः। तत्रास शत्रुर्ददृशे सुवेलः प्रोचे जलान्तो जहृषुः सुधाशाः।। 3.38. ननु च निरन्तराख्यातं समुञ्चिताख्यातमेकार्थाख्यातमावृत्ताख्यातमुत्यादयो वाक्यविकल्पा नोपपद्यन्ते, वाक्यकारो हि मन्यते। नास्त्येव तिङन्तयोस्संबन्धः। तथाच "तिङ्ङ तिङः" (पा.8.1.28.) इत्यत्रातिङवचनमनर्थकं समानवाक्यधिकरादित्यतिङ्वचनं प्रत्याचष्टे।नह्येकत्र वाक्ये द्वे तिङन्ते स्त इति, एव #ंलश्रणं करोति; आख्यातं साव्ययकारकविशेषणं वाक्यम्। तत्राख्यातग्रहणं न कर्तव्यम्; नह्यव्ययकारकविशेषणपदानि निबन्धनमन्तेरेणावपदपरिग्रहार्थम्। यत्रैकमाख्यातपदमव्ययकारकविशेषणपदीनि सन्निपतन्ति, तद्वाक्यं यथा-- स्यात#्? अनेकाख्यातपदप्रयोगे तु वाक्यसंज्ञा माभीदित्यनाश्रितङ्ख्याख्यातपदांशकानिरासा#्तमेकतिङ्वाक्यमिति वचनान्तरमारभते । तत्रेदं विचार्यते; किमेकस्मिन् वाक्ये द्वयोस्तिङन्तयोस्संबन्ध एव नास्ति, उत सत्यापि संबन्धे द्वितीयं न प्रयुज्यते? एकतिङ्वाक्यमिति पूर#्वाचार्यसमयादनु। किञ्चिदाह । सत्यपि तिङन्तयोस्संबन्धे तिभन्तामान्त्रितयुष्मदस्मदादेशप्लुतादिकार्यव्यवस्थार्थन्यवस्थार्थमेकतिङ्वाक्यमिति पारिभाषिकमेव वाक्यलक्षणं क्रियते। किं कारणम्? समानवाक्यार्थत् पदादूत्तरयोस्तिङामन्त्रितयोर्निघातस्स्मर्यते। "युष्मदस्मदो षष्ठीचतुर्थिद्वितीस्थयोर्वं नावौ" (पा.8.1.20) वादयः आदेषा विधीयन्ते । "वाक्यस्य टेः प्लुतः उतात्तः" (पा.8.1.82) इति वक्याचामन्त्यस्य प्लुतश्शिष्यते इति । तञ्च तदोपपद्यते यदेकतिङावाक्यमिति पारिभाषिकं वावयलक्षणं क्रियते। अन्य्था "समर्थः पदविधि" (पा.2.1.1)रिति पदानां परस्परासामथ्र्ये वाक्यस्य चापरिसमाप्तै सर्वथा न प्राप्नोति। तथाहि; नद्यास्तिष्ठिन्ति कूले वृक्षस्य लम्बते शाखायां, कः प्रिये मयि कोपः? का सुभग प्रिया ते? शालीनां ओदनं दास्यामीति मे माता ब्रवीति। आगच्छ भो देवदत्त कुग्रामं गच्छावः। ग्रामं यदि यासि रे न मामपि प्रतीक्षस्व । अत्र तिष्ठति । नाकूलमभिसंबन्धान्न नदी, लम्बनेन शाखा न वृक्षः, क इत्यनेन कोपेन प्रिया, केत्यमनेन तु प्रिया न सुभगा ते इ#ित युष्मदस्मदर्थेन दानं न शालयः मे इत्यस्मदर्थे न मातावचनम्। आगच्छ देवदत्त ग्रामं यदि यासि रे इत्येतावति वाक्ययोः परिसमाप्तिः। किं तर्हिगच्छावो मामपि प्रतीक्षस्वेति ततश्च निघातादिकार्याणामप्राप्तिः। एकतिङ्परस्य तु पदसमुदायस्य वाक्यत्वे परंपरया यथाकथञ्चिदभिसंबन्धे निघातयुष्मदस्मादादेशा युज्यन्ते। "युक्तेयुक्ते चोपसङ्ख्यान" मिति युक्तेन वक्तव्यं भवित। एव साकांमक्षसाऽया पदकदम्बकस्य एकत#िङवच्छेदेन वाक्यत्वप्रतीतौ वाक्यस्य टेः प्लुत इति वाक्याचामन्त्यस्योदात्तः प्लुतः इति सिद्धो भवति। 3.39. कश्चित्तु ब्रूते--नास्त्येव तिङन्तयोस्संबन्धः। स हि तिङन्तेषूपकल्प्यमानः षोढैवावकल्पते। विशेषणविशेष्यसंबन्धः, साध्यसाधनसंबन्धः, लक्ष्यलक्षणसंबन्धः, हेतुहेतुमत्संबन्धः, अवध्यवधिसंबन्धः, समुञ्चयादिसंबन्धश्चेति। तत्र विशेषणविशेष्यसंबन्धस्सामानाधिकरण#्येन वा स्यात् वैयधिकरण्येन वा। न तावत्सामानाधिकरण्येन पचति पठतीत्येतयोरत्यन्तमर्थभेदात्; न हि पदार्थयोपत्यन्तभेदेऽभेदे वा विशेषणविशेष्यभाव उपपद्यते। न हि भवति आम्रश्चूतोऽश्वत्थ इति, यत्र तु नात्यन्तभेधो वा तत्रेपपद्यते यथा नीलमुत्पलमिति। 3.40. ननु यथा प्रपचति स्तोकं पचति इत्यादावुपसर्गेण स्तोकादिना वाऽऽख्यातं विशेष्यते, तथाऽऽख्यातन्तरेणापि कस्मान्न विशेष्यते? नैवम्; अत्र यथा नीलवीरशब्दौ नीलत्ववीरत्वे विशेषणरूपेणाभिदधातौ उत्पलं पुरुषं च सामान्येनोपगृढद्धठ्ठड़14;णीतः। न रूपपुरुषसामान्ययोर्वा नियतौ भवतः, उत्पलपुरुषशब्दावप्युत्पलपुरुषौ विशेष्यरूपेणाभिदधतौ नीलत्वं वीपत्वं च सामान्येनोपगृढद्धठ्ठड़14;णीतः; न तु सामान्ययोस्तद्विशेषणयोर्वात्मानं नियमयतः। परस्परोपश्लोषकृतयोर्विशेषणविशेष्य भावो भवति। नचैतत् पचति पठतीत्येतयोरुपपद्यते; न हि नीलोत्पलादिवत#् पचतिः पठतिः पचति वा पठतिरुपगृहीतं शक्नोति। 3.41. ननु चात्यन्तमभिन्नार्थश्च दृश्यते विशेषणविशेष्यभावः । अभिन्नार्थयोर्यथा--अधीते, अध्यति, भिन्नार्थयोर्यथा--प्रतिष्ठते, प्रस्मरति । नैवं, अधीते, अध्येतीत्येतयोर्यद्यपि धातुरुपसर्गे न व्यभिचरति; व्यभिचरत्येवेपर्गो धातुम्। अतश्शक्यतेऽन्वयनव्यतिरेक#ाभ्यामर्थभेदः कल्पयितुं, यदर्थोऽयमधिरन्यत्र दृष्टस्तदर्थ इहापि भवितुमर्हति। अयंचाधिरन्यत्रोपरिभानार्थो दृष्टः, यथा-- अध्यास्ते, अदिरोहतीति ते मन्यामहेप्यस्य स एवार्थः इति तस्मादधीङेव शब्दक्रियो ज्ञानाक्रियश्चेति। अधिशब्दस्त्वेतमेवार्थमुपरिभावेन विशिनष्टि विशिष्टार्थक्रियश्चार्थवतां शब्दानां विधिपूर्वं विशब्दनं तथाधीतार्थविषयविज्ञानमिति एतावानेवार्थोऽधिना विभज्यते; इह तर्हि कथं प्रतिष्ठते, प्रस्मरति इति। नह्यत्र सत्यपि केवलाप्रयोगे तिष्ठतेः स्मरतेर्वा पचतिवत्सामान्याभिधायित्वं, किं तर्हि विरोधिन्येव क्रिया गम्यते? व्रज#ीक्रियास्मरणनिवृत्तिश्च व्यक्तंच प्रतिष्ठत इत्यनेन स्थानप्रारंभो नोच्यते। किं तर्हि गमनमेव स्मरतीत्यनेनापि स्मरणात् प्रारंभो नोच्यते; पितुस्स्मरणारंभ एवेति नैष दोषः।शब्दोऽयं प्रपचतीत्यादिकर्मवचनत्वेन निज्र्ञातोऽस्य विशेषतोदृष्टादनुमानादादिकर्मवचनत्वमनुमीयते। तिष्ठतिश्च देवदत्तस्तिष्ठतीत्यादौ क्रियावचनाद्धातुत्वेन निज्र्ञातः; अतोऽस्य सामान्यतो दृष्टादनुमानाद्गमनार्थत्वमपि विज्ञायते। बढद्धठ्ठड़14;वर्था अपि धात्वो भवन्ति, "वपिः प्रकरणे दृष्टश्छेदेऽपि प्रवर्तते" केशान्वपतीति। "ईहति श्च गतौ दृष्टः प्रेरणेऽपि प्रवर्तते । अग्निर्वा इतोप्रवमीहे ।।" करोतिरपूर्वप्रादुर्भावे दृष्टो निर्मलीकरणेऽपि वर्तते । पादौ कुरु, पृष्ठं कुरु, मा कुरु, उदरं स्नेहो हीयते, उन्मृदान मृदोन्मृदानेति गम्यते। तथा कटे कुरु, अश्मना नमितः कुरु, निक्षिपावक्षिपेति गम्यते। अयमपि चधातुत्वादनेकार्थो भवितुमर्हति; एतेन स्मरतिरपि व्याख्यातः। न चैतन्न दृष्टं विरुद्धार्थावर्थौ तुल्यरूपेण शब्देनाभिधीयेते। तद्यथा--सन्निकर्षयोर्दृष्टमाराच्छब्देनाभिधानं--आराच्छत्रुमपबाधस्व दूरं, दूराद्दवीयो अपसेध शत्रून् । अतस्तिष्ठतिरेव गमनार्थः, स्मरतिर#ेव स्मरणनिवृत्तिक्रियः; तद्विशेषश्चोपसर्ग इति युक्तमुक्तं वस्तुनोरत्यन्तभेदेऽभेदे वा विशेषणविशेष्यभाव इति यदाब-- "सम्भवे व्यभिचारे च विशेषणमर्थवद्भवति" इति। 3.42. नापि वैययधिकरण्येनाख्यातस्य विशेषणं भवति प्राधान्ये सत्यधात्वर्थभूतार्थत्वात् । इह राज्ञः पुरुष इति भरणादिक्रियानिमित्तो व्यतिरेको विशेषसम्बन्धनम्। न च प्राधान्यस्यैव राजार्थस्योपजायते ; न च तथाख्यातार्थस्य प्राधान्यं सत्वाभावे वा संभवति। यत्रापि च क्रियापदं न श्रूयते मातुः स्मरति सर्पिषो जानीते इति तत्रापि सा क्रियासाध्यास्येत्यनेन रुपेणाश्रयमाणक्तवभूतस्याप्रधानस्य मावादेरर्थस्य व्यतिरेकमुपजायते; श्रूयमाणक्रिया विशेषसंबन्धनिमित्तं भवति। न चैतदाख्यातस्योपपद्यते, सत्वभूतत्वादेव निमित्तानिर्द#िश्यतयास्येति व्यपदेशाभावात्। यत्स खलु परिनिष्ठितस्वभावमस्य तस्येति सर्वनामप्रत्यवमर्शयोग्यं तद्धिशेषणतया क्कचिदुपयुज्यते वा न वा, यत्पुनरात्मनैवापरिसमाप्तरूपे तद्विपूरीतं, तत्कथमिवान्यस्य विशेषणत्वंयायात्। 3.43. नन्विदानीमिव प्रपचति, स्तोकं पचतीत्यसत्त्वभूतयोः प्रशब्दस्तोतशब्दयोर्विशेषणत्वमुक्तम्। नैवम्; अन्यथा तदुपपत्तेः, उपसर्गाणां क्रियाविशेषणानां वा सत्वभूतानामप्यनन्यविषयत्वेनैव क्रियां प्रति गुणभावो भवति। तथाहि; योऽसौ क्रियाभूतो धर्मः प्रारंभाद#ि#ः, तं क्रियार्थमिव क्रियानुप्रविष्टमसत्वभूतमभिदधात्प्रशब्दोभिव्यञ्जयति। यदिवा यथाक्षिनिकोचादयः अनभिदधतः एवार्थान् प्रदर्शयन्ति, एवं क्रियास्थन् प्रारम्भादीनभिदधत एव प्रादयोऽवद्योतयन्ति । दृश्यते अनधीयमानस्याप्यर्थस्यात्मस्थावद्योतनं यथा-- दण्डड्डत्ध्;ा क्रीडड्डत्ध्;यति, तदस्यां प्रहरणमिति क्रीडड्डत्ध्;ायांणो विहितः क्रीडड्डत्ध्;ामब्रुवन् प्रहरणत्वं दण्डड्डत्ध्;त्वमवद्योतयति। तस्मात्पचतीत्यत्र पचिमेव संदिग्धं विशेषमेव स्थापयन्नस्तवार्थोपि शब्दो विशेषणत्वं, लभते। एवं स्तोकशब्दोपि क्रियाभूतं धर्ममपकर्षादिकं क्रियात्वसत्वभूतं क्रियामुप्रविष्टमभिदधानः क्रियानुरोधादेवासत्वभावमापनः क्रियाविशेषणत्वं भजते। 3.44. न चैवमाख्यातान्तरस्थं विशेषणमाख्यातमभिव्यञ्जयितुमभिधातुं वा शक्नोति द्वयोरपि प्राधान्येन परस्परानपेक्षत्वात्। भवतु, चोपसर्गादेरसत्वार्थस्यापि नीलोत्पलादिवदेव सामानाधिकरण्येन विशेषणविशेष्यभावः; वैयधिकरण्ये तु व्यतिरेकापेक्षायां कथमिवैतद्भवति? न हि अपरिष्पन्नत्वेंनात्मलाभ एव क्षीणस्यापरोपकारिणः करणादटो व्यतिरेका युज्यन्ते। अतो वैयाधिकरण्येनापि न तिङन्तयोर्विशेषणविशेष्यभावस्संबन्धो भवति। साध्यसाधनभावोऽपि नोपपद्यते, सहि क्रिययोः कर्तृत्वे कर्मत्वे वा स्यात्; साध्यं हि लस्तुत्पद्यमानत्वेन क्रत#ा कर्म चेति । न चैतदुभयमपि क्रियायाः क्रियान्तरं प्रतियुज्यते। तिङन्तेन हि क्रियात्मोत्पतिं्त प्रति प्रयतमानकारकाकांक्षापि प्रकृत्या प्रयोगेषु विनिवेशितस्वरूपाऽभिधीयते। अतोऽप्रतिलब्धात्मरूपत्वेन क्रियायास्साधनपरवशत्वेन तदवरुद्धत्वादितरेण क्रियात्मनासंबन्धसत्वेनास्याः कर्तृरूपता वा संभवति, यतः परिनिष्पन्नरूपस्यात्मलाभनिरपेक्षस्य सिद्धात्मनस्साधनभावो घटते, नतूक्तविपरीतात्मन इति। क्रियायाश्चायमेव स्वभावः, यदुत साधनाधीवनत्वेन साध्यस्वभावायाः प्रतीतिः या च साध्यस्वभावा सा कथमिवान्यस्मिन् साध्येसाधनभावंगच्छेत् येन कत्र्रीत्युच्यते या च साधनाधीनत्वेन साध्यस्वाभावा सा कथमिव क्रिया साध्येत येन कर्मेत्युच्यते ? यदि च स्यात् परिनिष्पन्नरूपद्रव्यवदेवेदं तया निर्दिश्येत। न च निर्दिशादपि न साधनम्। अवस्थारूपश्च साधनधर्मो व्यापारशब्दवाच्यः। क्रिया सा कथमिनात्मसिद्धये तथाविधमेव धर्मन्तरमपेक्षेत? अनेपेक्षितयोश्च कथमिव मिथस्संबन्धोपपत्तिः? 3.45. न च क्रियायाः किमपि तदवशिष्यते यत्साधनैरसाधितं क्रियान्तरस्य साध्यं भविष्यति। तदेवमितरेतरानायत्तरूपयोरसंबन्ध एव क्रिययोः। न च निवर्तमानलब्धात्मकं वस्तुनिवर्तकादृते परेण सह संबन्धमर्हेत्। उपकार्योपकारकनिबन्धनस्वभावानामितरेतरेण संबन्धलब्धात्मकस्य ल#ोपकारकत्वम्? क्रिया च तथारूपत्वविरहात् साधनेभ्यस्स्वोत्पत्तिमवेक्षमाणा कथमिवनातथाभूतक्रियान्तरेण संबन्धमियात् ? तस्मात् स्वसाधनावरुद्धत्वात्साध्यमानैकस्वभावायाः क्रियायाः कर्तृत्वे कर्तृत्वे वा न क्रियान्तरेण सह संबन्धः। 3.46. ननु च यथा पाकं करोति, पाको वर्तते, इति तिङ्कृदभिहितयोः क्रिययोस्साध्यसाधनभावो दृश्यते, तथाच पठति पचतीत्येतयोरपि कस्मान्न भवति? नैवम्; उक्तमिदं भाष्ये, अस्ति खलु तिङाभिहितस्य कृदभिहितस्य भावस्य विशेषः, कृदभिहितो हि भावो द्रव्यवत् प्रकाशमानः क्रियया समवायं गच्छतीति। न हि भवति, पचति, पठति, इ#ित सक्ष्यलक्षणभावोऽप्याख्याताभिहितयोः क्रिययोरभिन्नसाधनयोर्वा समभवति। द्विधाऽपि चानुपपत्तिः; साध्यमानत्वेन प्रवर्तमानस्य साधवनपन्त्रस्य चात्मनोऽनिदन्तानिर्दैशस्य साधनवल्लक्षणत्वायोगात्। ननु च माभूत् क्रियायास्साधनम्; लक्षणं तूभयथापि दृश्यते, पाचकः पठति, रुदतः प्राव्राजीदिति। ततो यः पचति स पठति, स रोदिति, अयं प्रव्रजतीत्याख्यातयोर्लक्ष्यलक्षणभावो भविष्यति। चिरं जीव, त्वयैव स्मारितोस्मि; आख्यातयोर्लक्ष्यलक्षणत्वेनासंबन्धकारणस्य यदत्र लक्षणहेत्वोः"क्रियायाः" (पा.3.2.126) इति शतृशानचौ तिङपरादौ स्मर्येते। अतो लक्षणत्वे क्रियायाः क्रियान्तरं प्रति समाश्रियमाणे पचन् रुदतः प्राव्राजीदित्येवभवितव्यम्। 3.47. ननु यः पचति स पठति, स रोदित्ययं प्रव्रजतीति तत्कथं संबन्धः? एतेन हेतुगेतुमद्भावः आख्यातयोः प्रत्युक्तो भवति, यतोऽसावपि द्विधा--हेतुर्वा देतुमत्परत्वेन, हेतुमतो वा हेतुपरत्वेन। तत्र हेतोर्हेतिमत्परत्वे शतृशानज्भ्यां हेतुमतस्स्वहेतुपरत्वेन, तुमुनादिभिर्भाव्यम्। यथा पचन् भिङ्क्ते, अधीयमानो वसति, भोक्तुं पचति, भोजको व्रजतीति। ननु पचति, भुक्ते, व्रजतीति त्त कस्य केन संबन्धः? अवध्यवधिमद्भावोपि तिङन्तयोर्नास्त्येव ; स हि देशतः कालतो वा स्यात्। न तावद्देशतः, तस्य मूर्तिमद्विषयत्वात् कालतस्तु युज#्यते। किंतु तत्र पूर्वाकाले क्तवाप्रत्ययविधानात् पक्त्वा भिङक्ते इत्येव स्यात्। न तु पचति भिङ्क्त इति समुञ्चयेनापि क्रियायास्संबन्धः। सोपि हि द्विधैव ; साधनानां वा क्रियायां यथा--गौरश्वश्च गृह्यताम्, क्रियाणां वा साधने यथा--असौ पचति पठति चेति ; नतु क#्रियाणां वा साधेन यथा--असौ पचति पठति चेति; ननु क्रियाणां क्रियायामेव। 3.48. ननु चैकत्वात्क्रियाया यद्यपि साधनसमुञ्चये क्रियाभिसंबन्धो नास्ति, तथाप्येकवस्तुविषयत्वेनक्रियासमुञ्चयोऽसौ भविष्यति। तथाहि; य एव पचति स एव पठतीत्यैकाधिकरण्ये भवत्येव संबन्धोपपत्तिः। नैवम्; साध्ययोस्साधनाय तयोरलब्धात्मनोस्साधनोन्मुखत्वेन परिवर#्तमानयोः क्रियायाः परस्परानपेक्षत्वात्, नह्यनन्वितात्मनामधिकरणमुपेक्षामुपजनयितुमलम्। अतस्सव्येतरगोविषाणवत् परस्परेणासमन्वितमेव क्रियाद्वयं साधने समुञ्चियते । न च समुञ्चीयमाने वस्तुनि मिथस्संबध्यते, तथा सति समाहारेतरेतरयोरन्यतरापत्तौ समुञ्चयस्यैवाभावात्।आदिग्रहणादन्वादयोऽनन्वय एव क्रिययोः, तस्मान्नास्त्येवाख्यातयोर्मिथस्संबन्ध इति। 3.49. ननु च अस्ति स भे रोचते, अस्ति त्वमीशिषे, नाहं रमेस्मिन्निति सामानाधिकरण्येन विशेषणविशेष्यभावो भवति। पचति, भवति, पक्ष्यति, भवत्यपाक्षीत्, भवेदपि भवेत्, स्यादपि स्यादिति कर्तृत्वेन पश्य मृगो धावति, इह पश्यामः, कर्मणि द्विवचनबहुवचनान्युदाहियन्ते। एह#ि मन्ये रथेन यास्यासि, स्मरसि देवदत्त काश्मीरेषु वत्स्यामस्तत्रौदनं भोक्ष्यामहे, न मर्षयामि यत्तत्र भवान् वृषलं याजयेदिति कर्मत्वेन साध्यसाधनभावः। यो भुङ्क्ते स गृह्यतां, योऽधीते स पचतीत्यभिन्नसाधनत्वेन, स स्वपिति, एष बुध्यते, स उदेति, अयमस्तमेतीति भिन्नसाधनत्वेन लक्ष्यलक्षणभावः । हन्तीति पलायते,. वर्षतीति धावतीति हेतोर्हेतुमत्परत्वेन, वक्ष्यामीति व्रजति, भोक्ष्यते इत्यास्त इ#ित हेतुहेतुमतोर्हेतुपरत्वेन हेतुहेतुमद्भावः । यावद्भुङ्क्ते ततो प्रजति, यदयं भुङ्क्ते ततः पठति, यदयं भुक्त्वा व्रजतीत्यधीत एव, ततः परमिति अवध्यवधिमद्भावः। सक्तून् पिब, धानाः स्वाद, ओदनं भुंक्ष्वेत्येवायमभ्यवहरति, पछति चायं पठति चेति समुञ्चयः, वटो भिक्षामट, गां चनयेत्यन्वाचयोऽपि तिङन्तेषु दृश्यते। तत्कथमुच्यते नाख्यातयोस्संबन्धोऽस्तीति? नैवम्; वाक्भेदादिना तदुपपत्तेः । अस्ति स स मे रोचते, असि त्वं त्वमीशिषे, अस्म्यहमहं रमे, अस्तयेद्नच्छमो वयं, भवत्वेवम्तत्, पयसोधयामयत्वममिथ्येवासि, यन्मुरजितस्तवमपूपुज इत्युक्तेषु वाक्यभेदा उपपद्यन्ते। निपाता वा अस्त्यादयः आख्यातसरूपनिरर्थका अपि वाक्यपूरणाय कमीमिद्वादिवत्प्रयुज्यन्ते ; न तु क्रियाभिर्विशेषणविशेष्यभावमनुभवन्ति। भवति पचतीतियादिषु तु पचतीति पक्ष्यतीति अपाक्षीदिति च योऽर्थो भवति असावस्तीत्यर्थः। ननु पचत्यादेर्भवन्तौ कर्तृत्वेन साध्यसाधनभावः; एवं भवेदपि भवेत्, स्यादपि स्यादिति। 3.50. ननु चावश्यमेव पचत्यादिक्रिया भवतिक्रियाकर्तृकत्वेनाभ्युपेया । यदि ह्येषा न भवेत्तेन कत्र्री स्यात् सिद्धरूपतया, न लकारेणाभिधीयते । न च सा सती सिद्धभावमुपैति। न च लकारसिद्धतदभिधानेन विना कर्तृभावेनेमां प्रतिपादजयितुमुत्सहते । ततो येनात्माना कत्र्र#ी न तेन क्रिया, येन च साध्यात्मना क्रिया न तेन कत्र्रीति वस्त्वन्तरमेव लकारेण कर्तृतया कथितमापद्येत। देवदत्तः पचतीति चानेन ज्ञातवत्प्राज्ञाप्येते विधेयता पत्येक्तेर्भवतीत्यत्र तु अज्ञातरूपतयोपादीयते भवनक्रियानुभवितृत्वात्। न च युगपदेव ज्ञातवदज्ञातवञ्च समाश्रयणं युक्तम्; अतो न क्रियाकर्तृत्वमुपयाति। पश्य मृगो धावतीत्यत्र तु पश्यशब्दो न तिभन्तः। किं तर्हि पिता निपा तोयमाश्चर्यमित्येतस्मिन्नर्थे वर्तते? पश्य भुङ्क्त इत्यर्थः। केचिदाख्यातसरूपौ पश्य पश्यत शब्दौ न दर्शनार्हेयं क्रियेत्यास्मिन्नर#्थे मन्यन्ते, अथवा पश्य मृगो धावतीत्यत्र नासावेवामह दृशं मृगसरणे नियुंक्ष्व । किं तर्हि ? चक्षुः प्रणिधत्स्व प्रमत्तो माभीरिति सतोऽप्रणिहितचक्षिस्सन् मृगसरणमन्यद्वा प्रतिपद्यते यथा रूपमन्यं दृष्ट्वा एतदेवाह, आलोकय आलोकयेति, तस्मात्पश्येतावत्प्यवस्यति, परिसमाप्तत्वान्नास्ति दृशस्सरणेन संबन्धः। अत यो धावति मृगस्तं पश्येति स्रवनाम्ना यदा सोऽर्थः प्रत्यवमृष्टो भवति तदा क्रिया तस्योपलक्षणाय प्रवर्तते। यो धावति सर्तारं पश्यति; अयं चार्थः पश्य धावतीति पदयोरसंबन्धत्वेन श्रुतार्थापत्तिगम्यः, न तु शब्दसन्निवेशी ; यदि वा श्रुतार्थापत्येव गम्यमावनेतिशब्दोपसंहृतस्य मृगो धावतीति वाक्यार्थस्य दृशौ कर्मत्वमेव पश्याम उदाहियन्त इति । अथावा द्वे एते वाक्ये, अकमेतावति वाक्यमिह पश्यामः यस्मादुहायन्ते प्रयुडड्डत्ध्;ज्यत इति द्वितीयम्। एहि मन्ये रथेन यास्यसीत्यत्र "प्रहासे च मन्योपपदे मन्योपपदे मन्यतेरुत्तम् एकश्चेति" (पा.1.4.106) वचनाद्यद्वायमर्थः, एहि मन्ये रथेन यास्यामीति । यदा वा सूत्रप्रतिषेधपक्षे स्वविषय एव मध्यमेत्तमौ तदा सर्वथा गम्यानेतिशब्दोपसमहृतस्य बाह्यार्थस्यैव कर्मत्वम् । एहीति च प्रहासविषयसंबोधनार्थ आख्यातस्वरूपो निपातः। आख्यातस्वरूपाश्च पुरुषसंख्यां च व्यभिचरन्ति। न हि भवति त्वमस्ति व्यमस्तीति। किञ्चास्तिरपि निपातः; सोढं यथा--अस्तिक्षीरा गौः । तत्र ह्याख्यातमिति कृत्वोक्तः सुबधिकारेऽस्तिक्षीरादिवचनमिति; न चाव्यय्तवान्निपातोऽयमिति परिहारः। 3.51. ननु च सङ्ख्यामभिचरन् कथमेकशब्दो बहूनां प्रहासे बहुत्वं ब्रूयात्? नैवम्, बहुभिरेकः प्रहस्यते, नैकेन बहवः, नहि बहुष्वेकं प्रहसत्सु सूत्रप्रतिषेधपक्षे एहि मन्ये रथेन यास्यामि । यदा वा सूत्रप्रतिषेधपक्षे अस्तीति कथं न सत्वभूतोर्थस्साध्साध्यसाधनसंबन्धमनुभवति। यो भुंक्ते स गृह्यतामित्यत्रापि वाक्यद्वितयमेव । न चात्र क्रिययोः लक्ष्यलक्षणभावः क्रियायाः कारकोपलक्षणत्वात् यो भुंक्ते स देवदत्त इति देवदत्तसत्वो लक्षणमेको वाक्यार्थः; स तथाभूतो गृह्यतामिति तस्य ग्रहणसंबन्धः, दर्शनमपरम्। न च यथासत्वं तद#्र्#ूपाभिधायित्वेन स्मरणात् कर्तृप्राधान्यमभिदधत् क्रियायाः क्रियान्तरं प्रति लक्षणत्वमभिधत्ते तथा क्रवनामाभिधातुं शक्नोति। तेन हि सा क्रियासाध्यत्वात्प्रच्याव्य साधनोपसर्जनभावनुपनीता तत्परामृष्टं देवदत्तमुपलक्षयति; स तु तथाभूतः क्रयान्तरेण संबध्यत इति। नह्येकस्याः प्रवृत्तेस्साधनोपलक्षणमपरक्रियासंबन्धश्चोपपन्ने भवति। 3.52. नन्विदमेवास्याः क्रियान्तरेणान्वितत्वं यदन्यस्यास्साधनमुपलक्षयति। नैवम्, एषा स्वसाधनलक्षणत्वेन प्रवर्तमाना यदधीनोदया तदेवोपलक्षयेत्, नान्यसंबन्धात्। ननु चाऽस्याः अपि देवदत्त एव साधनं स चानयोपलक्षितः, तत्कथं भिन्नवाक्याता ? नैवम्, भवति नाम देनदत्तो लक्षणत्वमस्याः; किंतु न देवदत्ततयोपलक्षयति, अपितु स्वसाधनत्वेन । ततस्स्वसाधक एव देवदत्ते प्रथमतोऽन्यविश्रान्तिः, देवदत्तस्य च तयैव तदाभिसंबन्धोऽप्युपेयः। न हि यौगपद्येन लक्ष्यमाणत्वं प्राधान्यं च प्रतिपद्येत, क्रियान्तरे गुणभावं च विरोधप्रसङ्गात#्। न च भुजिक्रियावाच्छिन्नस्येतरक्रियाभिसंबन्धोऽभिमतः समुञञ्चियमानक्रियाद्वयप्रङ्गात्। यो भुंक्ते सः गृह्यतामित्येकरसा प्रवृत्तिः प्रत्यासत्तेः तन्मात्रभित्रं सत्रं, तस्य तु पुनरित्थंभूत एवार्थ इति न तत्र वाक्यभेदः । एतेन योऽधीते स पचतीत्यपि प्रत्युक्तम्। स स्वपित्येष बुध्यते, स उदेतीत्ययमस्तमेतीत्यत्र तु साधनत्वान्नतरां लक्ष्यलक्षणभावः। हन्तीति पलायत इति अत्रत्विति शब्दो हेतुहेतुमद्भावं द्योतयन्नथ्र्सय स्वातन्त्र्यं करोति। दृष्टं इतिशब्दोऽर्थस्य स्वातन्त्र्यमुपजनयनि "तस्मिन्निति निर्दिष्टे पूर्वस्य" (पा.1.1.66.) इ#ित अत्र हि तस्मिन्नित्यधिकरणस्य कर्तृकर्मसमवायिन्यौ क्रिये प्रत्युपाधित्वेन प्रवर्तमानस्याकांक्षा यत आधेयस्तत्रस्व आत्मवन्यवस्थानाभावादिति शब्देनासत्यवच्छेदे कार्ययोगो न स्यात्। तस्मिन्निति निर्दिष्टे पूर्वस्येत्युक्ते तस्मिन् य आधेयो निर्दिष्टं इति संप्रत्ययस्स्यात्; तस्मात् सप्तम्यर्थनिर्देशे पूर्वस्य कार्यस्य संप्रत्ययार्थमिति उपादीयते एवमिहापीति शब्दो वा न तस्य स्वातन्त्र्यमुपजनयति ; यस्मादयं हन्ति तस्मादयं पलायत इति, एवं वर्षतीत्यादावपि योजनीयम्; अत्र च तिङन्तयोरिति शब्दसामथ्र्याद्धेतुहेतुमद्भावोऽनुमीयते, न पुनश्शब्दसन्निवेशीति। यावÏद्भक्ते ततो व्रजतीत्यादौ तु भिन्नवाक्यतायामपि यावत् ततः पूर्वमित्यादिनिपातसामथ्र्यादवध्यवधिमद्भावो गम्यते; न पुनराख्यातशब्दसन्निवेशीति। सक्तन् पिबेत्यादावपि सक्तन् पिब, धानः खादेति औदनं भुङ्क्त इति विशेषणवाक्यार्था इतिशब्दोपसंहृता इति श्बदसामथ्र्यदेव तत्सामान्याभिधायिना अयमभ्यवहरतीति वाक्यान्तरणोच्यन्ते । पचति चायं पठति चेति वाक्यद्वयमेव ; एवं भिक्षामट, गां चानयेति। 3.53. तदेवं कात्यायनमते नास्त्येवमाख्यातयोस्संबन्धः ; सूत्रकारस्य तु मतेऽस्तेवाख्यातयोः अनेकवाक्यात्वेनाभिसंबन्ध इति । यदयं समानवक्याधिकारे तिङन्तादुत्तरस्य तिङो निघातं शास्ति। अभिज्ञावचने लृडिड्डत्ध्;ति स्मृत्युक्तावतीतकालेऽपि लृटं स्मरति; .यदिति यत्प्रयोगे तान्निषेधति विभाषा साकांक्ष (पा.3.2.114) इत्याकांक्षायां विभाषयाभ्यनुजानाति, "नयद्यनाकांक्ष्ये" (पा.3.4.23) इति निराकांक्षवाक्ये क्त्वाणमुलौ निषिध्य लडड्डत्ध्;ादीनेवानुमन्यते इति का पुनरत्रोपपत्तिः? उच्यते आख्यातपदतुल्यधर्मिणो हि क्त्वान्तस्यानेक्सापि दृष्टस्तिङन्तेन सह संबन्धः। स्न्नात्वा पीत्वा भिक्त्वा व्रजतीति, तथा पूर्वं स्न्नाति भुक्ते पिबति तु व्रजति, इति । तत्र यथैव क्त्वान्तस्य तिभन्तेनैकवाक्यत्वं तथा पूर्वकालक्रियाभिधायिनामाख्यातानां सर्वे,#ामपि क्रियाविशेषणकत्वाद्भवति। उक्तश्च--- यथाऽनेकमपि क्तान्तंतिङन्तस्य विशेषकम्। तथा तिङन्तं तत्राहुः तिङन्तस्य विशेषकम्।।

3.54. किञ्च यथाकथंचिदाश्रियमाणोऽर्थस्सामानाधिकरण्येनावधिभावेन वा विशेषणत्वं न व्यतिक्रामति। तथाहि, व्रडड्डत्ध्; देवदत्तेत्यामन्त्रितस्य विशेषणत्वेनैकवाक्यत्वादामन्त्रितस्य चेति निघातो दृश्यते; कर्तृत्वाद्भविष्यतीति चेत् व्रजति देवदत्तेत्यत्र कथम्?नहि देवदत्तो व#्रजिक्रियायाः कर्ता, न खल्वपि कारकस्य विशेषकं, नापि सुष्ठु पचतीति पदान्तरत्वेन बाह्यविशेषणमुपपद्यते । किंन्तु क्रियां प्रत्याभिमुख्येनावस्थाप्यमानः पञ्चवारान्, पचतीतिवत् बाह्यविशेषणतां लभ्यते। कः पुनर्बाह्यान्तरयोः क्रियाविशेषणयोर्विशेषः? यमस्ति आन्तरं ह#ि क्रियाविशेषणं कर्मत्वं नपुंसकत्वं नपुंसकत्वं च प्रतिलभते ; बाह्यस्य तु स्वलिङ्गता न कर्मत्वानियमः। एवं च कृत्वोक्तम्--- संबोधनपदं यञ्च तत्क्रयाया विशेषकम् । ब्रजानि देवदत्तेति निघातोऽत्र तथासति।। 3.55. ननु च संबोधनपदस्य तिङन्तेनैकवाक्यता युज्यते, संबोधनं ह्याक्षिप्तक्रियापदं वर्तते । देवदत्त अभिमुखो भवेत्याभिमुख्ये हि युज्यते। तत्र देवदत्तेत्येतावत्यर्थस्य परिसमाप्तत्वात् संबोधनपदमेकं वाक्यम्, सोभिमुखीभूतः क्रियान्तरो व्यापारः । अन्येत्वाहुः--- साकांक्षावयवं भेदे परानाकांक्षशब्दकम्। कर्मप्रधानगुणवदेकार्थं वाक्यमुच्यते।। 3.56. एवं च ब्रुवतो यथोक्तलक्षणपदसमूहो वाक्यमित्यभिप्रायः, न च देवदत्तेति पदसमूहः। अथाभिमुखो भवेत्याक्षेपादस्य समूहभावः ; तथाऽपि साकांक्षत्वादवाक्यत्वम्। न ह्यभिमुखीबावमात्रमेव कश्चिद्विधत्ते। किं तह्र्यबिमुखीभावं विधाय क्रियान्तरे नियुंक्ते, अपि चाभिमुखो भवेत्यध्याहियमाणयाऽपि क्रियाया संबन्धं मन्यसे व्रजेत्यपात्तयाऽपि न मन्यस इत्यहो माध्यस्थ्यम्। किंचाभिमुखो भवेत्यामपि नियोगः, तत्रानभिनुख्य्स्य नियोक्तुमशक्यत्वात् । अभिमुखीकरणाय क्रियान्तराध्याहारेऽनवस्था, तद्भयाञ्चाभिमुखीकारगर्भनियोगोङ्गीकर्तवव्यः, स च प्रजेत्यादावपि तुल्य एवेत्यलमतिप्रसङगेन । यदि चामन्त्रितस्य तिङन्तेनैकवाक्या न स्यात्, "आमान्त्रितं पूर्वमविद्यमानव" दिति (पा.8.1.72.) सूत्रकारो न ब्रूयात्। तत्रेदमविद्यमानवत्वे प्रयोजनमा। निघातादयो माभूवन्निति निघतादयश्चासमानवाक्यात्वादेव न भविष्यन्ति, किमविद्यमानवद्भावेन । 5.57. न चैदद्वार्तिककारो मन्यते । सोऽपि ह्यविद्यमानवद्भावस्य प्रयोजनाति पठति अविद्यमनवत्वे प्रयोजनमामान्त्रितयुष्मदस्मादादेशतिङनिघाता इति। भवतु नाम सामानाधिकरण्येन वैयधिकरण्येन वा यथाकथंचिदाश्रियमाणानामाख्यातानामाख्यातं प्रति विशेषण्तवमुपलक्षणत्वं हेतुमत्वमवधिभावो वा समुञ्चयोऽप्येवमेवोपपद्यताम् । साध्यसाधनभावस्तु नोपपद्यते, विरूद्धरूपयोपर्थयोरेकरूपेण शब्देनाभिधानात् यथाऽयं दण्डड्डत्ध्;ो हरानेन फलानीत्यात्रायं दण्डड्डत्ध्; इत्यनेन रूपेण दण्डड्डत्ध्;ार्थमन्तर्भीतास्तिक्रियमुपादातुमीष्टे । अनेनेत्ययं च शब्दः करणरूपेणेव वस्तुसामान्यमभिदधत् प्रत्यक्षेणोपादत्ते, न रूपान्तरेण प्रकरणात्तु दण्डेड्डत्ध्; प्रतिपत्तिः। तथेहापि पचति धावतीत्यादिराख्यातसाध्यभूतां क्रियामभिधत्ते, तामेव च सिद्धां साधन्तवमापन्नामनेनैव रूपेण वक्ष्यतीत्यसंभवः। नासंभवस्साद्यत्वेनैव साधनत्वात्, यदेवं हि क्रियायास्साध्यमानात्वमनिदन्तानिर्देश्यं परिनिश्ठितं रूपं तेनैव साधनभावं प्रतिपद्यते ; न रूपान्तरेण तस्याभावाल्लकारोऽपि चैतां साध्यतया भवन्ति कर्तृभावेनाभिधत्ते पचति, भवतीति। 3.58. ननु किमन्यद्भवनं पचतिक्रियायास्साध्यताव्यतिरेकि, किंवा तदतिरिक्तं कर्तृत्वं, येन साध्यसाधनभावोऽवकल्पेत। उच्यते; योऽयमस्याः कारकसंबन्धः, कारकव्यापारविषयता न कारकाणि शशविषाणवत्पराकरोति। शक्यते संपादयितुं तेभ्यस्संपत्तिमनुभवति; तदस्याःकारकसंबन्धलक्षणं साध्यमानत्वमेव रूपं भवनमभिधीयते। पचति क्रियाभवनं निर्वर्तयति कारकेभ्यो निवृतिं्त प्रतिपद्यते । कारकाणि व्यापारवन्ति करोतीत्यर्थः। यत्पुनरस्याविशेषणरूपं यागादिधर्मकं पक्तिरूपं पचत्येकशब्दवाच्यमनन्यसाधारणं, तैनैषा कत्र्री संपद्यते, तदेवमनन्यसाधारणेन कर्त्री संपद्य साध्यत्मना भवति, क्रियारूपत्वेन भवति पचति, भवति, साध्यत्वं लभत इत्यर्थः ; अथवा प्रयोगात्मको योऽधीश्रयणादिव्यापारास्तैरेषा भवनाक्रियारूपतामुपयाति। फलभुतेन विकलित्यातमना भवितृरूपं कर्तृत्वं , तेन भवति पचति इत्ययमर्थः परक्तिराधिश्रयणणणणणाद्यात्मना भवति, अधिश्रयणादयोऽस्याः प्रवृतत्#ा इति यावत् अधिश्रयणादिरूपेण वा भवितृत्वं पक्तिरूपेण भवनक्रियात्वं तेनाऽयमर्थः अदिश्रयणादयः पक्तिरूपतया भवन्ति विक्लितिस्सञ्जातेति यावत्त्त् । अथवा बुध्द्यात्मना भवनरूपत्वमिति ; यदि वा सामान्यात्मना कर्तृत्वं विशेषात्मना भवनरूपेत्युपपद्यते क्रियायां कारकत्वम्। 3.59. ननु चोक्तं न लकारः सिद्धवदभिधानेन विना कर्तृभावेनेमां प्रतिपादयितुमुत्सहते, ततश्च सिद्धत्वेनाभिधाने पुनरपि विरोधः । नैवम्; यदेव पचतिक्रियायास्स्वभावभूतमात्मीयरूपं साध्यतालक्षणं तेनैवं रूपेण सा कर्तृत्वमुपगता लकारेणोच्यते। सिद्धत्वावभासः कुत इ#ित टचेत्, लकारस्तां कर्रृभावेन प3तिपादयुतुं प्रवृत्तस्सिदधत्वेनावगमयति, न तु रुजतीति धात्वर्थ एव रोगलक्षणः, कत्र्रवन्तराश्रयणात् कर्तृभावमुपयाति ; साध्यान्मन एव चास्य कर्तृत्वम्। न च सिद्धताप्राप्तिः कर्तृत्वेन प्रतीयमाना सिद्धतया।वभासते तथा क्रियाऽपि न सिद#्धतया लकारेणाभिधीयते नानारूपाश्शक्तेयो विरुद्धविरुद्धस्वभावा लोकयात्रां कल्पयन्ति। ततोऽस्य सर्वशब्दभावस्य वाचकशब्दः कश्चित्, सिदधात्मिकां शक्तिवृत्तिमवलम्बते कश्चित्, तदेवंसु#िद्धसाध्यताशक्तियुक्तं वस्तु शब्दाभ्यामभिधीयमानं न विरुध्यते। अनेकश्कतियक्तित्व#ात् पचतीतियनेन तदेव साध्यत्वेनावगतं भवतीति लकारस्साध्यत्वेनवाभिधत्ते ; सर्वशक्तिविरहितं वा वस्तु सकलल्पोल्लेखरहितत्वात्। तस्य तु शब्दा एव स्वमहिम्ना नानाविधबुध्युपजननहेतवश्शकिं्त संनिवेशयन्ति ; शक्त्याविष्टमिव व्यवहारगोवरतां नयन्ति । तेन शब्दाभ्यमेव सिद्धसाध्यताशक्तियाधानादखिलविकल्पीकृतात्मकमपि तद्वस्तु सिद्धसाध्यभावेनो पदिश्यते । भवति पचतीत्येकेन शब्देन सन्निवेशितसाध्यताक्तियुक्तमभिहितमितरेण तु तदेव शक्तियान्तरारोपेण प्रकाश्यत इति नास्ति विरोधः। 3.60. यदि वा न पदस्य पदरूपादेवाधिकार्थता किं तर्हि वाक्यरूपात्? तद्यथा--पुरुष इति पदकाले पुरुषो व्यतिरिक्त उच्यते। यदा तु राज्ञः पुरुषः इति विशेषसन्निधौ प्रयुज्यते तदा विशिष्टस्य पुरुषांर्थस्य गतिर्न पुरुषस्येति वाक्यकालेऽधिकस्य धर्मस्य प्रदुर्भावः तथा पचतीति नैकस्मादेव पदरूपात्कर्तृत्वम्। यदा भवतीति पदान्तरसन्निधिस्तदापरत्वे साधनमदृष्टवाक्यकाले पुरुषस्यैव व्यतिरेक उपजायत इति। यथाऽपि व्यपदेशिवद्भावेनाभिन्नस्यापि धातोरवयव प्रथमैकाज्व्यपदेश इयायेत्यादौ प्रवुर्तन्ते , तथा बुद्धिभेदकल्पनया आख्यातवाच्यस्यार्थस्य भेदेऽपि क्रियाकारकादिव्यपदेशः प्रवर्तन्ते । ततश्च पचतीत्यत्रापि कदाचिदपरा तदतिरेकिणी भवनक्रिया कश्चिदपरो वा कर्ता विरोधहेतुरस्ति । अपि तु सैव व्यपदेशिवद्भावेन भवनाक्रियारूपता पुतृत्वं च दर्शयन्ती चकास्ति । एतेन पश्य मृगो धावतीत्यादावपि सिद्धसाध्यत्वयोरपि चैकस्यप्यर्थस्य विषयभेदेन द्विधर्मत्वं न विरुध्यते । यथा राज्ञः पुरुषस्य पुरुष इति पुरुषश्शेषी भवति, शे,श्चेति राजानं विशेषोऽवचलितास्स्वार्थश्शेशतामापद्यते । एवं च धावतीति मृगे कर्तरि साध्यभावं प्राधान्येनाजहत् सरणं दृशावङ्गत्वं साधनत्वं चोपैतीति न कश्चिद्विरोधः । अथावाऽयमर्थः ; साधनमिदमयं साध्य इति रूपं सिद्दमात्रमेतत्, यथा पदे अयं प्रकृत्यर्थोऽयं प्रत्ययार्थ इत्य्क एवासावर्थः । अविशिष्टो विशिष्टो वा वाक्यविशेषयोर्गृहीतव्यः, यथा -- मुण्डड्डत्ध्;यति, कुटयति, मूत्रयति, चर्चयतीति। तत्र मुण्डड्डत्ध्;यति माणवकं मुण्डिड्डत्ध्;ः केशच्छेदनवचनः । तस्य तु व्युतपत्तिः मुण्डंड्डत्ध्; करोतीति सामान्यप्रवृत्तिविशेषं मुण्डड्डत्ध्;शब्दोऽवस्थापयति । करोति विशेषो यस्मिन् णिज्युत्पद्यते, न करोतिमात्रम् । अन्ये पुनः केशच्छेदनादिवचनान्मुण्डड्डत्ध्;ादीनध्यवस्यान्ति यथोक्तम् । अथवा मुण्डड्डत्ध्;ादयो धातवः । मुण्डड्डत्ध्;यतीति चैतस्मिन्नर्थे कुटयतीति कुडड्डत्ध्;शब्देन हि करोति, विशेषो व लक्ष्यते ; किंतु छिदाद#िविशेषमवलक्ष्यमाणोद्देशविभागं कूटिरेवोपादेत्ते । एवं मूत्रं करोतीति मूत्रयति, चर्चां करोतीति चर्चयति । मूत्रेम चर्चया वा करोतौ विशेंष्यमाणे क्षरणं परिभाषणं वा विशेषेणोपादीयते । स एव च कदाचित् क्षरणविशेषः परिभाषणाविशेषो वा नष्टोद्देशविभागः उपादीयते, यथा म#ूत्रस्त्रवणे मूत्रयति, चर्चपरिभाषणे चर्चयतीति । 3.61. एवं पश्य मृगो धावतीति इदमत्र साधनपदमिदमत्र साध्यपदमिति उत्प्रेक्षैषा । इदं त्वथेतत्वं नात्र सरणं न दर्शनं न मृगः । किं तर्हि मृगकर्तृको दृशिकर्मसरणविशेषोऽयं तत्रैकार्थत्वादेकमेवेदं वाक्यमित्यस्ति द्वयोस्तिङन्तयोरेकास्मिन् वाक्ये । ततश्च पचति करोतीत्यादावपि पाकं करोतीतिवत् साध्यसाधनभावेन संबन्धोऽस्त्येवेति न कश्चिद्विरोधः । अन्ये पुर्नन मन्यन्ते कस्यचिदपि बाह्यस्य वसत्वात्मनोऽसंभवात्। भावभूतवस्तुशृन्यमेवेदं जगत्, ततो बुद्धीनामेव तथाभूतव्यवहारोपजनननिबन्धन्तवम् । बुद्धय एव हि सिद्धसाधअयतारूपमुपदर्शयन्त्यः शब्दात्प्रवर्तन्ति । ततश्च स्नमहिमोल्लसितनानाविधबिद्धिसमुपनीतभेदनकाल्पनिकाकारपरिगतोऽयं मायेन्द्रजालसदृशो व्यवहारः प्रवर्तत इति न कश्चिदपरं वस्तु यस्य सिद्धस्य साध्यलक्षणविरोधापत्तिः । तथाहि ; बुद्धिमाकारभेदवतीमेके क्रियां मन्यन्ते । ते हि स्वमात्राभिरपर्यवसितविषयनिर्भासाभिः अन्तस्तत्वादिभिरिव बहिरर्थनिबन्धनामर्थक्रियां साधयन्ति । न तदर्थं दर्शनाभिनिवेशावस्माकं आराद्दनीयस्मुत्सारयन्ति प्रत्ययव्यक्तयो हि पराकृतवाक्यार्थसंसस्पर्शाबाह्यार्थवत् तीसु तास्वर्थक्रियासु यथासामथ्र्यमुपजायमानाः प्रतीताशङ#्काविषयपरिगमनाद्यवस्थासु तदा सामथ्र्यक्रिया सामथ्र्य किमर्थमन्यपदार्थरूपमभ्युपेयत इत्यत्र चूर्णाविरोधं दर्शयति । इदं किलोक्तं भाष्येकृदभिहितो भावः क्रियाय समवायं गच्छति, पाको वर्तत इति; तिङभिहितस्तु न गच्छति। 3.62. न हि भवति पचति पठतीति आत्राऽयं समाधिः ; यथा क्रियोपन्यस्ता तथाभूता समवायं न गच्छति, विशेषयोस्समवायो नास्ति, सामान्ययोरस्त्येव । अस्ति स मे रोचते, असि त्वमीशिषे, नास्ति रमे, भवति पचति करोतीति । तज्ञैतच्छक्यते वक्तुम्। यत्रान्या च क्रिया भवति यत्र त#ु खलु सैव सा क्रिया तत्र कथं ? यथा--भवेदपि भवेत्, स्यादपि स्यादिति । अस्ति च लोके एवंभूतः प्र3योगः । अपि भवेदेतद्देवदत्तस्यापि स दिवस्स्याद्यत्रेदं भवेदिति देवदत्तस्य च लोके एवंभूतः प्रयोगः । अपि भवेदेतद्देवदत्तस्यापि स दिवस्स्याद्यत्रेदं भवेदिति देवदत्तस्य च वर्तमानकालां सत्तामविनाशं प्रार्थयमान एतत्प्रयुङ्क्ते ; अपि भवेदेतत् भवेद्देवदत्त इति । अत्राप्यनत्वमस्ति कुतस्साधनभेदात्कालभेदाञ्च हि कस्यात्र भवतेर्भवतस्साधनस्साधवस्सार्वकालश्च प्रत्ययः । अपि भवेदित्यत्र यो भवति तत्र देवदत्तसत्ता न प्रकृत्यर्थः। किं तर्हि प्रत्ययार्थः प्रार्थनैव लिङिति स्रवकालत्वं कालविशेषस्यानाश्रितत्वात् । अपरस्य बाह्यसाधनं वर्तमानकालस्य प्रत्ययो भवति। तस्य बाह्यं साधनं द्रव्यं देवदत्तेन इत्य्रर्थः, देवदत्तसत्ता तु प्रकृत्यर्थः । किं तर्हि प्रत्ययार्थः प्रार्थनैव लिङिति सर्वकालत्वं कालविशेषस्यानाङितत्वात् । अपरस्या बाह्यसाधनं वर्तमानकालस्य प्रत्ययो भवति। तस्य बाह्यं साधनं द्रव्यं देवदत्त इत्य्रथः, देवदत्तसत्ता तु प्रकृत्यर्थः, वर्तमानसत्तातु देवदत्ततचस्य प्राथ्र्यत इत्यनुपात्तकालविशेषः । शास्त्रे लिङ् स्वरूपादेव वर्तमानकालेऽवतिष्ठते, तथा तव्यादयो भविष्यन्ति, कर्तव्यः कट इति । स्वभावाञ्चार्थानां व्यवस्थेति भाष्ये कालाधिकारः प्रत्यख्याताः । एवं स्यादपि स्यादित्यत्रापि स्वाभाविकं नानात्वं साधनकालभेदेन प्रतिपद्यत इति। 3.63. नन्वस्त्यादयोऽपि निपाताः, ते चाख्यातस्वरूपत्वात् कारकाणि विशिंषंतः कालं पुरुषं संख्यां न व्यभिचरिष्यन्ति ; भवतु गच्छाम्यबमिति पुरुषव्यभिचारः । भवतु तयैव मणडूड्डत्ध्;काः पच्यन्तामिति संख्याव्यभिचारः । भवतु नाम द्रक्ष्यसीति कालपुरुषव्यभिचारः । भवतु भविष्यन्ति जीवतो धानानीति कालसंख्याव्यभिचारः । अस्त्यगमाम घोषादिति कालपुरुषसंख्याव्यभिचारः । लोके चैवंभूता वाचोयुक्तिरस्ति प्रयुङक्ते हि लोकः । अस्ति गच्छामो वयमिति एवमादिः तत्रास्तीत्येकवचनमुपलभ्यते । तेन मन्यामहे गमेरेवैकत्वाश्रयस्य कर्तृत्वं, न वयमिति बहुत्वाश्रयस्य । तदेवं सामान्यक्रियया विशेषक्रियाणां कर्तृत्वेनाभिसंबन्धात् अस्त्यनयोस्साध्यसाधनभावः । विशेशक्रियायामपि क्कचित्कर्मत्वेन संवन्घो दृश्यते ; पश्य धावति, पश्याम उदाह्रियन्ते, मन्ये यास्यसि स्मरसि वत्स्यामः न मर्षयामि यजयिष्यति आशंसे युक्तोऽधीयेति। करणादिभावश्च तिङन्तानां न विद्यते, पचति पठतीति ; अत्र तु विद्यत एव संबन्धः, सर्वनाम्ना परामर्शात्। न चेह वाक्यभेदः सर्वथैव तदनुपलब्धेः । तत्र हि खलु वाक्यभेद उपेयते ; तत्रासौ परामृश्यमानोऽन्धा बुद्धिरुल्लिखति। न चेहोल्लेखवान् वाक्यभेदो बुद्धावुपलभ्यते ; तस्मादेकवाक्यत्वमेव । अत एवाभिजानासि देवदत्त यत्काश्मीरेषु वत्स्यामः, तत्रौदनं भोक्ष्यामहे इति "विभाषासाकांक्षे" (पा.3.2.114) इति सर्वनाम्ना परामर्शात्साकांक्षत्वोपपतेः । तत्रेत्यनेनानुसंधीयमानत्वाल्लटो लङस्छ विकल्पः प्रवर्तते । स स्वपित्येष बुध्यते, सोऽस्तमयतेऽयमुदेतीत्यत्र तु परस्परं वा आख्यातयोर्लक्ष्यलक्षणभावः । सह वा सर्वैरेव कालविशेषाद#िकं लक्ष्यत इत्येकपरत्वादेकवाक्यतैव । यथा-- कुमुदानि प्रबुधयन्ते शतपत्राणि शेरते। शकटं गाहते व्योम मातृमण्डड्डत्ध्;लमुज्झति ।। 3.64. हन्तीति पलायत इत्यादौ त्ववस्थित एव हेतुहेतुमद्भाव इति न द्योत्यते ; नन्वपूर्वं क्रियते पचति पठतीत्यत्रापि प्रसङ्गात् । एते तावदवध्यवधिमद्भावो यावदादौ समुञ्चादौ चादयश्च व्याख्याताः । तदेवं लूत्रकारस्य भाष्यकारस्य च दर्शने अस्तिक्रियायाः क्रियान्तरेण संबन्धः । वार्तिककासस्तु युष्मदस्मादादेशनिघाताद्यर्थमाख्यातं साव्ययकरकविशषणं वाक्यमेकतिङवाक्यमिति अन्यदेव लौकिकात्पारिभाशषिकंवाक्यलक्षणमारभते । न च तेन लौकिको व्यवहारस्सिध्यतीत्युपेक्ष्यते । तदुक्तुम्--- निघातादिव्यवस्थार्थां शास्त्रे यत्पारिभाषिकम् । साकांक्षावयवं तेन न सर्वं तुल्यलक्षणम्।। 3.65. एतेन भिन्नाभिन्नप्रवृक्ति#ृकानेवाक्योपकल्पितैकवाक्यस्थानामपि क्रियाणां परस्परमतभिसंबन्धो व्याख्यातः । स भिन्नप्रवृक्तृकत्वे यथा-- कुशलं तस्या जीवति कुशलं पृच्छामि जीवतीत्युक्तम्। पुनरपि तदेव कथयसि मृतां नु कथयामि याश्वसिति।। अभिन्नवक्तुत्वे यथा-- अस्वचछे सलिलात्मनि प्रतिफलेद्देवे त्रियामापतौ । पीयूषाकृति पर्यवस्यति किल ज्योत्स्न्नोति तत्वान्तरम्।। तिग्मं धाम चिरं चकास्ति दिवि तत्तत्रास्ति दिव्यः पुमान्। यं विज्ञातवतां त्रुटन्ति निखिला भूयो भवग्रन्थयः।। 3.66. प्रबन्धाङ्गमवान्तरवाक्यं प्रकरणम् । तन्त्रिधा--प्रस्तुतं, कल्पितं, आकास्मिकञ्च । तेषु प्रस्तुतं द्विधा--अङ्गं वर्णकञ्च तयोरङ्गं यथ-- अथजिनाषाढधरः प्रगल्बवाग्ज्वलन्निव ब्रह्ममयेन तेजसा । विवेश कश्चिज्जटिलस्तपोवनं शरीरबन्धः प्रथमाश्रमो यथा।। इत्यत आरभ्य, इतो गमिष्याम्यथवेति वादिनी श्रमालसा च स्तनभिन्नवल्कला। स्वरूपमास्थाय च तां कृतस्मितस्समाललम्बे वृषराजकेतनः।। इति यावत्। अत्रहि-- तमातिथेयीबहुमानपूर्वया सपर्यया प्रत्युदियया पार्वती । भवन्ति साम्येऽपि निविष्टचेतसां निविष्टतसां वपुर्विशेषेष्वतिगौवाःक्रियाः।। इत्यादेः प्रकरणान्तस्य कथाशरीरत्वमवगम्यते । वर्णको यथा-- असंभृतं मण्डड्डत्ध्;नमङ्गयष्टेरनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साऽथ वयः प्रपेदे।। इत्यत आरभ्य, सर्वोपमाद्रव्यसमुञ्चयेन यथाप्रदेशं विनिवेशितेन। सानिर्मिता विश्वसृजा प्रयत्नादेकस्थसौन्दर्यदिद्दक्षयेव।। इति यावत्। अत्रहि-- उन्मीलितं तूलिकयेव चित्रं सूर्यांशुभिर्भिन्नमिवारविन्दम्। बभूव तस्याश्चतुश्रशोभि वपुर्विभक्तं नवयौवनेन।। इत्यादेः प्रकरणार्थस्य पार्वतीरूपयौवनलावण्यवर्णनाद्यवगम्यते । कल्पितं द्विधा--साभासं निराभासं च । तयो स्साभासं यथा-- अभूदभूमिः प्रतिपक्षजन्मनां भियान्तनूजस्तपनद्युतिर्दितेः। यमिन्द्रशब्दार्थनिषूदनं हरे हिरण्यपूर्वं कशिपुं प्रचक्षते।। इत्यत आरभ्य, यथोपपत्तिच्छलवापरोपरामवाप्य शैलूष इवैष भूमिकाम्। तुरोहितात्मा शिसुपालसंज्ञया प्रतीयते संप्रति सोऽप्यसःपरैः।। इति यावत् ।अत्रबि-- विनोदमिच्छन्नथ दर्पजन्मनो रणेन कण्ड्ड्डत्ध्;वास्न्निदशैस्समं पुनः। सरावणो नाम निकामभूषणं बभूव रक्षः क्षतरक्षणं दिवः।। इत्यादिप्रकरणार्थः कल्पितोऽपि पुराणेषूपलम्भासंभवाञ्च तथात्वेनावभासते । निराबासं यथा-- ततः किराताधिपतेरलध्वीमाजिक्रियां वीक्ष्य विवृद्धमन्युः। स तर्कयामास विविक्ततर्कश्चिरं विचिन्वन्निव कारणानि।। इत्यत आरभ्य, इयं च दुर्वारमहारथानामाक्षिप्य कीर्तिं महातां बलानाम्। शक्तिर्ममावस्यति हीनयुद्धे सौरीव तारापतिदाम्नि दीप्तिः।। इति यावत्।। अत्रहि, मदस्त्रुतिस्यामितगण्डड्डत्ध्;सेखाः क्रामन्तिविक्रान्तनराधिरूढाः। सहिष्णवो नेह युधामभिज्ञा नागा नगोच्छ्रायमिवोत्क्षिपन्तः।। इत्यादिः प्रकरणार्थः तापसकिरातयुद्धवर्णनायामनाभासमानः काव्यकुशलेन कविना पोदृद्वारेणोपकथ्यते । आकस्मिकं द्विधा--सबूजं विर्वीजं च । तयोस्सबूजं यथा-- अथोपरिष्टात् भ्रमरैभ्र्रमद्भिः प्राक्सूचितान्तःसलिलप्रवेशः। निर्धौतदानामलगण्डड्डत्ध्;भित्तिर्वन्यस्सरित्तो गज उन्ममज्ज।। इत्यत आरभ्य, इथं तयोरध्वनि दैवयोगादासेदुषोस्सख्यमचिन्त्यहेतु। एको ययौ चैत्ररथप्रदेशान्सौराज्यरम्यानपरो विदर्भान्।। इति यावत्। अत्रहि-- गान्धर्वमस्त्रं तदतः प्रतीच्छप्रयोगसंहारविभक्तमन्त्रम्। प्रस्वापनं नाम यतः प्रहर्तुर्नचारिहिंसा विजयश्च हस्ते।। इति बीजम्। यस्याग्रतः, प्रियंवदान्प्रप्तमथ प्रियार्हः प्रायुङ्क्त राजस्वधिराजसूनुः। गान्धर्वमस्त्रं कुसुमास्त्रकान्तः प्रस्वापनं स्वप्ननिवृत्तसौल्यः।। इति फलमुपलभ्यते । निर्बीजं यथा-- सन्ध्याभ्रकपिशस्तत्र विराधो नाम राक्षसः। अतिष्ठन्मार्गमावृत्य रामस्येन्दोरिव ग्रहः ।। इत्याभ्य, तं विनिष्पिष्य काकुत्स्थौ पुरा दूषयति स्थलीम्। गन्धेनाशुचिना चेति वसुधायां निचख्नतुः।। इति यावत्। अत्रहि-- स जहार तयोर्मध्ये मैथिलीं लोकशोषणः। नभोनभस्ययोर्वृÏष्ट अवग्रह इवान्तरे।। इत्यादेः प्रकरणार्थस्याग्रतः फलानुपलम्भादाकस्मिकस्यापि निर्बीजत्वमवगम्यते। 3.67. तदिदमर्थतस्त्रिधा । प्रकरणमभिहितम् । एत शब्दतोऽपि त्रिधैवाभिधीयते--एकवाक्यमनेकवाक्यमेकानेकवाक्यं च । तत्रेकवाक्यं द्विधा--सानुबन्धं निरनुबन्धं च । तयोस्सानुबन्धं यथा-- स मारुतुसमानीतमहौषधिहृतव्यथः । लङ्कास्त्रीणां पुनश्चक्रे विलापाचार्यकं शरैः।। इति निरनुबन्धं यथा-- ते हिमालयमामन्त्र्य पुनः प्रप्य च शूलिनम्। सिद्धं चास्मै निवेद्यार्थं तद्धिसृष्याः खमुद्ययुः।। अनेकवाक्यं द्विधा--आद्युपसंहृतमन्तोपलंहृतं च । तयोराद्युपसंहृतं यथा-- तस्मिन्क्षणे पौरवविलासिनीनामीशानसंदर्शनलालसानाम्। प्रासादमालीसु बभूवुरित्थं त्यक्त्वान्यकार्याणि विचेष्टितानि।। इत्यत आरभ्य, तासां मुखै रासवगन्धगर्भै व्र्याप्तवन्तरास्सान्द्रकुतूहसानाम्। विलोलनेत्रभ्रमरैर्गवाक्षश्रा स्सहस्त्रपत्राभरयणा इवासन्।। अन्तोपसंहृतं यथा-- स्थाने तपो दुश्चरमेतदर्थमपर्णया पेलवयाभितप्तम्। या दास्यमप्यस्य लभेत नारी सा स्यात्कृतार्था किमुताङ्कशय्याम्।। इत्यारभ्य, इत्यौषधिप्रस्थविलासिनीनां श्रृण्वन् कथाः श्रोत्रसुखास्त्रिनेत्रः। केयूरचूर्णीकृतलाजमूषिट र्हिमालयस्यालयमाससाद।। इति यावत्। एकानेकवाक्यं द्विधा--सर्वमनामयोजितं विभक्तियोजितं च । तयोस्सर्ववनामयोजितं यथा-- अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः। इत्यरभ्य, यज्ञाढद्धठ्ठड़14;गयोनित्वमवेक्ष्य यस्य सारं धरित्रीधरणक्षमं च । प्रजीपतिः कल्पितयज्ञभागश्शैलाधिपत्यं स्वमन्वातिष्ठत्।। इति यावत्। विभक्तियोजितं यता-- निर्वनाणभियिष्ठमथाऽस्य वीर्यं मन्धक्षयन्तीव वपुर्गुणेन। अनुप्रयाता वनदेवताब्यामदृश्यत स्थावरराजकन्या।। इत्यत आरभ्य, सुगन्धिनिश्वासविवृद्धतृष्णं बिम्बाधरासन्नचरं देविरेफम्। प्रचिक्षणं संभ्रमलोलदृष्टि लीलारविन्देन निवारयन्ती।। इति यावत्। एतोनैतव्यतिरेकोऽपि व्याख्यातः । यथा-- अहपे .... तिववगासअलज अब्कमणवष्ढि अमहासि हरं णिव्ठवि अदख्खिणदिसं सेसदि सामुह पहावि अख्खसुवलं ।। इत्यत आरब्य, तुब्ग अढोब्झरमुहले जन्स अकसणिगंडड्डत्ध्; से। लब्धं तीणणपव्तो तिसवगुण सिडिड्डत्ध्;लब्तणं अनुराओ।। इत्याश्वासकपरिसमाप्तिर्यावदिति। 3.68. ननु वर्णसमूहः पदं, पदसूहो वाक्यं, वाक्यसूहः प्रकरणमित्यचक्षते । तत्कथमुच्यते एकवाक्यं प्रकरणमान्तरवाक्यं प्रकरणमति ? उच्यते, एव प्रष्टव्याः उञ्चरिचप्रध्वं सिनामनर्थकानां च वर्णांनां समूहस्य पदत्वमर्थवत्तया वर्णयन्ति । वयं त्वेकार्थपरः पदसमूहो वाक्यमितयेव प्रतिजानीमहे ।तत्र पदैरपि वाक्यमारभ्यते, वाक्यैरपि च प्रकरणमारभ्यते । पदैरपि च प्रकरणैः प्रबन्धं आरभ्यते। वाक्यैः पदैरपि च तैश्च वाक्येष्वापि वाक्यानि भवन्ति। यथा-- कन्यारन्तमयोनिजन्म भवतामास्ते वयं चार्थिनो । रत्नं यत्क्कचिदस्ति तत्परणमत्यसामासु शक्रादापि। । कन्यायाश्च परार्थतैव हि मता तस्याः प्रदानादहं । बन्धुर्वे भविती पुलस्त्यपुलहप्रष्ठाश्च संबन्धिनः।। 3.69. प्रकरणेश्वपि प्रकरणानि यथा--इन्दुमतीस्वयंवरे मगधेश्वरादिराजवर्णनादीनि । प्रवन्धेष्वपि प्रबन्धा यथा--उत्तरचरितादौ गर्भनाटकादीनि । यदि वाक्यमेव पदसमूहः, कथमाह महावारक्येपनिषदाचार्यो दण्डड्डत्ध्;ी, तैश्वरीरं च वाक्यानामलङ्कारश्च दर्शितः। शरीरं तावदिष्टर्थव्यवाच्छिन्ना पदावली ।। इति। विधिनिषेतधझावगतिहेतुर्महावाक्यं प्रबन्धः । तित्र्त्रिधा-- पद्यं गद्यं च मिश्रं च । तेषु च्छन्दोगतं पद्यं, धन्दस्तु त्रिधा--अक्षरच्छन्दोमात्राच्छन्दोगणच्छन्दश्चेति। तान्यपि प्रत्येकं त्रिधा-समार्ध-समाविषमभेदात्। तत्राक्षरच्छन्दस्समं यथा-- आशुश्शिशानो वृषभो न इघ्मो घनाघनः क्षोभणश्चर्षणीनाम्। सक्रन्दनोऽनिमिष एक वीरश्शतॅ सेना अजयत्साकमिन्द्रः।। अर्धसमं यथा-- नवोनवो भवति जायमानोऽढद्धठ्ठड़14;नां केतुरूषसामेत्यग्रे। भागं देवेभ्यो विदधात्वयायन् प्रचन्द्रमास्तिरिति दार्घमायुः।। विषमं यथा-- न नूनमस्ति नोश्चः कस्तद्वेदयदद्भुतम्। अन्यस्य चित्तमभिसंवरेण्यमुतार्धतं विनश्यति।। पूर्वोक्तोदाहरणत्रयमपि वैदिकविषयमेव। मात्राच्छन्दस्समं यथा-- वा ओनवुव्नबुपजिमु नविदव्खिणुवहइवणेनकब्बुनपाधमपादमझहइ। कोइलमोरमारालव्हकोलनवाहरइ माएनजाणं इमाहहे केव विरहिणी मरइ।। अर्धसमं यथा-- दिणहदिवव्ठहो इति स उप्पिव्जइउ सुरेवो । अवरणेह मिहइ घरूमादालव्च हि दूरे।। विषमं यथा-- जइविव्गव्डड्डत्ध्;हीजइ विवब्डुड्डत्ध्;रव्हु पहुदुव्गमुतरु अरहीजइ विगहणेसूरु। विणदीसइ इतो इसु पुरिसु वसदि जहीते धुवव्ठहरहव अव्ठदि।। गणच्छन्दस्समं यथा-- रजोजुषे जन्मनि स्तववृत्तये स्थितौ प्रजानां प्रलये तमस्स्पृशते। अजाह सर्गस्थितिनाशहेतवे त्रयीमयाय त्रिगुणात्मने नमः।। अर्धसं यथा-- वपुषा परमेण भूधराणामथ संभाव्य पराक्रमं बिभेदे । अजाय विलोकयाञ्चकार स्थिरदंष्ट्राङ्कमुखं नरेन्द्रसूनुः।। विषमं यथा-- अथ वासवस्य वचनेन सुचिरवानस्त्रिलोचनम्। क्लान्तिरहितम्भिराधयुतुं विधिवत्तपांसि विदधे धनञ्जयः।। 3.70. तदेतत्र्त्रिविधामपि महाकाव्येतिहासश्रुत्यादिषु च द्दश्येते। अच्छन्ददः पदसमतानो गद्यम्। तत्र्त्रिधा-- वृत्तगन्धि चूर्णमुत्कलिकाप्रायं च । तेषु पद्यगन्धवद्धृत्तगन्धि ; कत्र्त्रिधा--समा (र्ध) समविषमभेदात् । तेषु समागणच्छन्दोगन्धि यथा-- पता .... ....... वासिष्विति।। अर्धसमगणच्छन्दोगन्धि यथा-- क्रममारचय्य च महेन्द्रशासनात् स्वयमुत्पपातेति।। 1 एवं मात्राक्षरच्छन्दोपि द्रष्टव्यः। । न विषमगणच्छन्दोगन्धेरूदाहरणमत्र। अनाविद्धललितपदं चर्णम्; तत्र्त्रिधा-- गुरुबहुलं, लघुबहुलं, मिश्रंचेति। तत्र गुरुबहुलं यथा-- त्रैलोक्यैकप्रदीपस्य भगवतस्सरश्मेरर्चिश्शिखास्नावनिष्ट्यूतोऽञ्चराशिर्वि शार्वर स्तोमस्त्यायते। लघुबहुलं यथा-- व्यपगघनपटलड्ड्डत्ध्;लनिधझिसदृशवपुरम्बरतलं विलोक्यते। मिश्रं यथा-- महाभागसुश्लिष्टचगुणतया रमणीय एष सन्निवेशः । कुतूहलिनू च नो भर्तृदारिका वर्तते, यतस्तस्यामभिनवो विचित्रः कुसुमेषुव्यापार इति। अललिताविद्धं वाक्यमुत्कलिकाप्रायम्। तदपि त्रिदा-- ललिताविद्धपदाक्यङेदात्। तत्र ललितं यथा-- अयं ललाटतटघटिविकटतीनाशतोरणो त्रिशूलायमानभूषणभ्रुकुटिः क्रुद्धो भीमसेन इत एवाभिवर्तते। अविद्धपदं यथा-- 3.71. एसो खु वज्जनिग्घाददारूणचपेडड्डत्ध्;ामोडिड्डत्ध्; पाडिड्डत्ध्;दाने अणरतुरगमज गलिग्गारभपरिदलगिहागंभूर गांगिरोलं लिगब्लूरम संदस्सदंभपडिड्डत्ध्;खाभो अहेसवि अ णण्ठा णण्ठविदा अव्णडड्डत्ध्;णणिहा ओदुं सदीलो कअंत लीलाइदं करेगइ। 3.72. यस्य च मदकलकरिकुम्भपीठपाटनामाटरतो लग्रस्थूलमुक्ताफलेन दृढमुष्टिनिपूडड्डत्ध्;नान्निष्ठ्यूतधाराडड्डत्ध्;लबिन्दुदन्तुरेणेव कृपाणेन कृष्यमाणा सुभटोरः कवाटपुटिकवचसहम्त्रान्धकारमध्यवर्तिनी करिकरटटगलिमदजलासारदुर्दिनास्वभिसारिकेव समरनिशासु समीपमसकृदाजगाम राजलक्ष्मीः । तदेतत्र्त्रविधमपि आख्यायुकासु कथासु मधुमल्लिकादिषु दृश्यन्ते। 3.73. गद्यपद्यव्यायोगो मिश्रम्। तत्र्त्रिविधमपि आख्यायुकासु कथासु मद्यप्रधानं, गद्यप्रदावनं, तुल्यरूपं चेति। पद्यप्रधानं त्रिदा, सजातीयेन विजातीयेनोभाभ्यां च । तत्र सजातीयेनेतिहासुभाषितकोशादौ, विजातीयेन प्रस्थानसेतुबन्धनविवरणादौ, उभाभ्यांभारतीयदशरूपकलक्षणादावस्य प्रयोगो दृश्यते। 3.74. गद्यप्रधानमपि तद्वदेव त्रिधा--तत्र सजातीयेन पञ्चतन्त्र चकेट ... दौ. । (अग्न मू#ीलमातृकाकोशे ग्रन्थपातः ।) विजातीयेन कात्यायनीय पाणिनाय प्राकृतलक्षणादौ, उभाभ्यां मयूरशुकमार्जारिकादावस्य प्रयोगो दृश्यते। 3.75. तुल्यरूपमपि त्र्दैव--सजातीयाभ्यां विजातीयाभ्यां सजातीयविजातीयाभ्यां चेति। तत्र सजातीयाभ्यां चम्पू .. मीक्षास...कादौ ।(अत्र मूलमातृकाकोशे ग्रन्थपातः।), विजातीयाभ्यमपि मारसम्बगोविन्दाख्यानाकादौ सजातीयविजातीयाभ्यां नाटकनाटिकादि विदग्धमुखमण्डड्डत्ध्;नादावस्य प#्रयोगो दृश्यते। प्रकृत्यादिविभागेन सैष द्वादशधा स्थितः। अर्थावासायप्रसवनिमित्तं शब्द उच्यते।। 3.76. ननु च वर्णसमूहश्शब्द इति वक्तव्ये किमर्थमुच्यते प्रकृत्यादयश्शब्दा इति? यदाह कः पुनस्शब्द इति गकारैकारविवर्जनीया इति भगावानुपवर्पः। नैषं, अर्थमर्थावसायप्रसवनिमित्तं शब्दः इष्यते। अथ गौरिति न प्रसवादिनिमित्तेषु जातिक्रियागुँद्रव्यादीनां कः शब्दः, येनोञ्चारितेन अर्थः प्रतीयते, तर्हि वर्णा एव शब्दः। उञ्चरितेषु हि गकारौकारविसर्जनीयेषु गौरिति सास्नादिमानर्थः प्रतीयते, सत्यमेतत्। किन्तु वर्णः प्रत्ययनिमित्तमेकैकाशो वा स्युः, समुदिता वा। नुत्पत्तेः, उत्पन्नस्य च क्षणादूध्र्वमनवस्थानात् : अभिव्यक्तिपक्षेक्रमेणैवाभिव्यक्तेः , अभिव्यक्त्यनन्तरमेव च वायुभिस्तिरोधानात् कथं समुदायः एकस्मृत्युपारूढानां च वर्णानां वाचकतवे क्रमस्मरणे न्यमिनिमित्तभावात् । उक्तक्रमेण च स्मरणदर्शनात् सरोरस इति प्रतीयतेरविशेषः प्राप्नोति। वक्तुभेदे चार्थप्रत्ययप्रसङ्गः । अतो न वर्ण#ाश्शब्दः, कुन्तु वर्णसमूहाभिव्यङ्ग्यस्फोटलक्षणोक्तार्थात्मा शब्द इति । स एव स्फुटत्यस्मादर्थ इत्यर्थावसायप्रसवनिमित्तमिष्यते। कथं तर्हि शब्दं कुरु, मा शब्दं कार्षीः, शब्दकार्ययं माणवकं इति ध्वनिं कुर्वन्नुच्यते? अभिव्यञ्जकाभिव्यङ्ग्ययोरबेदोपचारात्। नन्वभ#िव्यञ्चकत्वात्। किं पुनर्वर्णास्सर्वथैव नार्थवन्तः? पृथक्त्वेन तावन्नार्थवन्तः, न हि फ्रतिवर्णमर्था उपलद्यन्ते। 3.77. ननु च धातुप्रातिपदिकप्रत्ययनिपातेषूपलभ्यन्ते--धातुषु इण् - एति, ऋ - इयर्तीति; प्रातिपदिकेषु अ श्शार्ङी, उ ब्रह्मेति; प्रत्ययेषु भ्रमे धूः भूः, प्राग्दीव्यतोऽण् कापटव इति; निपातेषु अ अवेहि, उ उपस्करोति । नैते वर्णाः, अपितु शब्दाभिव्यक्तिरेतव एकवर्ण#ा एकध्वनिहेतवश्शब्दवाच्याः, न तूपचारतोऽपि वर्णसमूहश्शब्दः। नैवम्, अर्थाभिव्याक्तिहेतुश्शब्दः, शब्दाभिव्याक्तिहेतुध्र्वनिः। स तु कश्चिदेकवर्णः, कश्चिदनेकवर्णः, एकस्मिन्नेव वा समूहारोपणं सामथ्र्यातिळयात् यथैकापूपीति । यदि ह्येकस्मिन्नपूपे समूहो नारोप्यतेस समूहाभावादेकापूप इत्येव स्याते, न त्वेकापूपीति। कथं पुनरेकस्मिन् समूहारोपणं ? व्यपदेशिवद्भावात् । अन्यथा अनुपाय अरेत्यादौ प्रथमत्वेकाच्त्वयोरभावात् द्विवचनाभावः । यद्येवमन्येऽपि वर्णास्समूहारोपणेनैव ध्वनयो भवितुमर्हन्ति? नार्हन्ति, कुतः, शब्दशक्तिस्वाभाव्यात्। यथा समानामीहमानानामधीवानानां च केचिदर्थैर्युज्यन्ते, तथा धातुप्रातिपदिकप्रत्ययनुपाता एवैकवर्णास्समूहारोपणेनैवार्थवत्त्वानानां ध्वनिव्यपदेशं लभ्यन्ते, न पुनरन्येः। स्वाभाविकं चैतत्। 3.78. न च स्वभावाः पर्यनुयोगमर्हन्ति; इतस्तह्र्यार्थवन्तो वर्णाः। वर्णव्यत्यये वर्णविपर्यये वर्णापाये वर्मोपजने वर्णविकारे वाऽर्थान्तरं गम्यते। वर्णव्यस्यये कूपः, सूपः, यूपः, इति। वर्णविपर्यये कमलं, लमकः, मलकः, इति। वर्णापाये शमकः मशकः, इति। वर्णोपजने अक्षः, प्लक्षः, पक्षः, इति। वर्णविकारे नीरं, नीलं, नीडड्डत्ध्;मिति । तत्र कूप इति ककारेण कश्चिदर्थो गम्यते, सूप इति सकारव्यत्ययेऽर्थान्तरं, यूप इति तु सकारस्य ककारस्य वा यकारस्य व्यत्यये कूपात् सूपाञ्चार्थान्तरमिति । तेन मन्यामहे यः कूपे कूपार्थस्स ककारस्य, यस्स#ूपे सूपार्थस्स सकारस्य, यो यूपे यूपार्थस्स यकारस्येति। यदि तु समुदायस्यायमर्थो भवते, कूपादिसमुदायस्य .यूपादिषु भूयतस्त्वाद्भा#ूयिष्ठः कूपार्थस्सूपे स्यात्; सूपार्थश्च कूपे, कूपार्थश्च यूपे, यूपार्थश्च कूपे, सूपार्थश्च यूपे, यूपार्थश्च सूप इति ; एवं वुर्णन#िपर्ययेऽपि क्रमोत्क्रमयोस्समुदायाविशेषात्, कमलः, मलकः, लमकः, इति प्रत्ययाविशेषः प्राप्नोति। न हि तत्र तेभ्यो दशान्तयभ्यो वा तटपरिच्छेदे पलाशतः खदिरतो वा नाऽवधारणे समुदायस्य भेदो भवति, वर्णापायेऽप्येकाद्यवयवविरहे समुदायस्यानन्यत्वात्, मशकः, शकक इति प्रत्ययविशेषो न स्यात्। 3.79. न हि सूनोद्भेदे केशोद्गमे वा युवतिव्यक्तेरन्यतायुक्तिमती ; एवं वर्णविकारेऽपि नीरं नीलं नीडड्डत्ध्;मिति नार्थान्तरप्रतीति र्जायेत। न ह्यवलिते वलिवति रञ्जतकेशपाशे वा विष्णुमित्रादेः स्वरूपान्यत्वं भवति। वर्णव्यत्ययविपर्ययापायोपजनविकारेषु चार्थान्तरदर्षनान्मन्यामहे अर्थवन्तो वर्णा इति। वर्णार्थवत्वे हि वर्णव्यत्ययविपर्ययापायोपजनविकाराः कारणमर्थान्तरोपलब्धेर्जायन्ते। 3.80. अत्रापि ब्रूमः य एतेत्वया वर्णानार्थवत्तायां हेतव उपन्यस्ता वर्णव्यत्ययादयः तेषु कूकपस्सूपो यूप इति सङ्घातान्तराण्येवैते अर्थान्तरे च वर्तन्ते। यदि हि वर्णव्यत्ययादिकृतर्थान्तरगमनं स्यात् भूयिष्ठः कूपर्थस्सूपे स्याते ककारमात्रस्यैव व्यत्ययात्। सूपार्थश्च कूप इति समानं पूर्वेण। यतस्तु न किंचित् कूपादीनां सूपादिष्वतोऽन्वयावान्मन्यामहे सङ्घातान्तराण्येवैतावन्यर्थन्तेरेषु वर्तनते इति , एतेन वर्णविपर्ययादयोऽपि व्याख्यताः। तान्यपि हि अर्थान्तरवर्तीनि सङ्घातान्तराण्येवेति । इदं खल्वपि भवता वर्णानामर्थवत्तां ब्रुवता साधीयोऽनर्थकत्वं द्योतितम्। यो हि मन्यते यः कूपे कूपार्थः स ककारस्योपशब्दस्तस्यानर्थकत्वं स्यात्। 3.81. ननु च समुदायस्यार्थवत्वे समुदायस्यैकदेशस्य विनाशे समुदायस्य कारयमाभावे कार्याभावः इति विनाशो वाऽभ्युपेयते ; छिन्नकर्णपुच्छश्वन्यायादपि विनाशो वा किञ्चातः ; विनाशपक्षे समुदायाभावादर्थाभानप्रसङ्गः। पक्षान्तरेऽपि स एवार्थो न त्वर्थान्तरम्; ततश्च कथं श्लोकः शोकः, लोकः, ओकः, कः, इत्यर्थान्तरप्रतीतिः उक्तमत्र । समुदायान्तरण्येवैतान्यर्थान्तरेषु वर्तन्ते । भवेदेतत् यत्रार्थान्तरं गम्यते। यत्र तु स एव सोऽर्थस्तत्र कथं, यथा-- उदकं, दकं, कं, इति । इमान्यपि सङ्घातान्तराण्येवैकार्थवृत्तीनि ; यथा--कुन्दुः,कोष्ठः, कुसूलः, इति क्रमात्तस्य चार्थवत्तां ब्रुवता त्वयैव दकारोकाराण्येरानर्थक्यमुक्तं भवति। कश्चैवमाह--वर्णव्यत्ययविपर्ययापायोपजनविकारेष्वर्थान्तरर्शनमेव ; यतः श्यामा, रामा, वामा, इति वर्णव्यत्ययो नार्थव्यत्ययः। तर्कः, सिकता, सिंह इति वर्णविपर्ययो नार्थविपर्यययः। सन्ति, स्यन्ति, घ्नन्तीति वर्णापायो नार्थापायः। आस्थात्, अवोचत्, सञ्चस्कारेति वर्णोपजनो नार्थोपजनः। घातायति, क्षणोति, रोपयतीति वर्णविकारो नार्थविकारः। तेन मन्यामहे वर्णव्यत्ययादिष्वष्यनर्थान्तरगमानादनर्थका एव वर्णा इति। इतस्तह्र्यर्थवन्तो वर्णाः ; यदेषां सङ्घता अर्थवन्तः। योषां ह्यवयवा अर्थवन्तस्त एव समुदायादर्थवन्तः, तद्यथा-- एकश्चक्षिषमान् पश्यति, तत्समुदायश्शतमपि पश्यति। एकतिलस्तैलं प्रसूते, त्तसमुदायः खारीशतमपि प्रसूते। येषां पुनरवयवाः नार्थवन्तस्तत्समुदाया अपि नार्थवन्तः । तद्यथा--एकोऽन्धो न पश्यति, शतमप्यन्धानां न पश्यति । एका सिकता तैलं न प्रसूते, तत्समुदायः खारिशतमपि न प्रसूत इति। नैवम्, अतदर्थेनाप्यवयवेनावयविनोऽर्थसद्भावो दृश्यते। यथा-- एकस्तण्डुड्डत्ध्;लः क्षत्प्रतिघातेऽसमर्थः, तत्समुदायश्च वर्धितकं समर्थमिति । नैवं भवति। तत्र प्रत्योकमपि कियतेयप्यर्थमात्रा इमे पुनर्वर्णा अत्यन्तायैवानर्थकाः यथा-- तर्हि यरथाङ्गानि विहितानि तानि प्रत्येकं व्रजिक्रियाऽसमर्थानि, तत्समुदायस्च रथस्समर्थ इति। 3.82. एवमेषां वर्णानां समुदायाश्शब्दाभिव्यक्तिहेतवोऽर्थवन्तः अवयवास्त्वनर्थका इति। अतः स्थितमेतत् प्रकृतिप्रत्ययादिवर्णजनितध्वनिसमूबोऽभिव्यङ्ग्यस्फोटलक्षणो।र्थात्माऽर्थावसायप्रसवनिमित्तं शब्दः। तद्विशेषाश्च प्रकृत्यादिस्फोटः पदस्फोटो वाक्यस्फोट इति। --- योभूदित्यादिकश्शब्दो भवतीत्यादिकश्च यः। भूरस्तीत्यादिको यश्च स स्फोडड्डत्ध्;टं नातिवर्तते।। प्रतिपाद्यो निवत्र्यश्च प्रतिपादक एव च । त्रिधा स्फोटस्सफूटत्यमादतोऽर्थास्ते घटादयः।। उक्तः क्रमात् द्वादशभेदभिन्नश्शब्दप्रपञ्चोऽयमनादिसिद्धः। अथार्थमत्र्याऽस्य विवर्तमाद्यं तावत्प्रकारं प्रतिपादयामः।। इति महाराजाधिराज श्रीभोजदेवविचिते शृङ्गारप्रकाशे प्रकृत्यादिशब्दप्रकाशो नामा तृतीयाः प्रकाशः।।