शृङ्गारप्रकाशः/चतुर्थः प्रकाशः

विकिस्रोतः तः
Jump to navigation Jump to search

चदुर्थः क्रियाद्यर्थचटतुष्टयप्रकाशः 4.1. तत्र प्रकृत्यादिशब्दप्रत्यय्याः क्रियाकालकारकपुषोपाधिप्रधानोपस्कारार्थप्रातिपदिकार्थवृत्तयर्थपदार्थवाक्यार्थरूपा द्वादश भेदाः । तेषु कारकाणां प्रवृत्तिविशेषः क्रिया ; तां धात्वर्थः इत्यामननत्ति। धातवश्च त्रेधा--अस्त्यर्थाः, भवत्यर्थाः, करोत्यर्थाश्च । तत्र येषां कर्तारि उदासते ते अस्त्यार्थाः ; यथा--अस्ति विद्यते ध्रियते तिष्ठति आस्ते वर्तते इत्यादि। येषां विकुर्वते ते भवत्यर्थाः ; यथा-- भवति संजायते वर्धते ध्रियते तिष्ठति आस्ते वर्तते इत्यादि। येषां प्रयुञ्जते ते करोत्यर्थाः ; यथा--करोति विधत्ते जनयति निर्वर्तयत् साधयति उत्पादयति। तत्र अस्तिकरोतिभवतीनां साम्यावास्थानान्निर्विकारमनाद्यन्तं शब्दब्रह्मेत्याचक्षते । तथैवंधिनेकार्थवाचिनो भवतिनैवोमिति व्यपदिशन्ति। तस्य यदा अस्तिताहेतुरविद्यानिबन्धनोऽविद्यानिबन्धनोऽविपरिणामरूपः प्रथमविकारोऽस्तिरुदयते। तदा अस्तेर्नास्तिप्रतियोगित्वादिस्तित्येकमेवैतदुभयथापि प्रथामयते। यन्नास्ति तद्भवामिति चापेक्षायां, तद्भावतोऽस्य भवति नाम द्वितीयविकारः परिप्लवते। ततो यद्भवति तस्य तस्य चान्यत् भवतो मिथ्याभिनिवेशान्मिथः प्रयोज्यप्रयोजक्तवं संभावयतिसंज्ञकः तृतीयविकारंकरोतिरित्याख्यायते। 4.2. एवं चास्मितापेक्षाभिनिवेशौर्दूरविप्रसृतामविद्यायां एषामपि विशेषविशेषतो दूरीकृता विद्या, विद्यति, जनिपचादयः प्रादुर्भवन्ति। तदाह, कृभ्वस्तयः क्रियासामान्यवचनाः क्रियाविशेषवचनाः पचादय इति । तेऽमी सर्वेऽपि धात्वर्थभेदाः संभेदते मिथस्सङ्यानमतिवर्तन्त#े, न तु कृभ्वस्तिरूपताम्। ननु च धात्वर्थः क्रियाः स च कारकाणां प्रवृत्तिविशेषः, कारकेषु च स्वतन्त्रः कर्ता, कर्तुरीप्सिततमं कर्म, साधकतमं करणं, आधारोऽधिकरणं, कर्मणा यमभिप्रैति स संप्रदानं, ध्रुवमपायेऽपादानं, तेभ्योऽन्यस्तदविवनक्षा वा शेषः, ककर्तुः प्रयोजको हेतुरिति कत्रादिभ्यो व्यतिरिक्तमर्थान्तरं नोपलभ्यते यत् क्रियेति प्रतीयते 4.3. उच्यते अस्ति क्रिया किन्तु कत्र्रा किन्तु कत्र्रादिभ्यः पृथागाख्यातुमशक्यं, अनापन्नसत्वभावात्। अनिर्लुठितदर्भवत् यथा र्भोऽनापन्न,त्वाभवः कललावस्थआयामाशयतः पृथगाख्यातुं न शक्यते, तथा क्रियाऽपि साधनेभ्यस्साध्यावस्थायं । तद्यता--जयोतिः प्रकाशते, ळब्द#ो धवनति इति। खथं तर्हि अस्ति ज्ञायते कारकसन्निधानेऽपि पचतीति प्रख्योपाख्ययोर्भावाभावाभ्यां, इह खलु यत्सन्निदाने यस्य बावाभावौ, तस्य ततोऽन्यनि#ीमित्तापेक्षितत्वं दृष्टं । यथा अग्निघटयोस्सन्न्धाने भवतामभवतां च तत्सन्नियोगापेक्षितत्वं पाकजानां, कत्र्रादि च सन्निधाने च कदाचिद्भवतीत्येतद्भवति, कदाचिन्न पचतीति दृश्यते, तेन मन्यामहे नूनमस्ति शक्तिशक्तिमद्भयोऽन्यश्शक्तिर्धर्मो यद्भा#ावादिमे प्रख्योपाख्ये प्रवर्तते, यदभावाञ्च न प्रवर्तेतेति सिद्धमस्तित्वं#े क्रियायाः, इतश्चास्तिक्रियासाध्यमन्तरेण साधनानुपपन्नः । यञठ्च साध्यं सा क्रिया । तदाह-- संहृत्य कारकैर्य एकोऽर्थो।भिनिर्वत्र्यते सा क्रिया। क्रियानिमित्तं कारकमिति. तथा च क्रियासु स्वेच्छया कारकादीनि यः प्रयुङ्क्ते, न तु तैः प्रयुज्यते स कर्ता, कर्तुः क्रियायाऽन्यया यदाप्यते तत्कर्म, क्रियासिद्धौ साधकतमत्व#ेन यदव्यवहितं व्याप्रियते तत्करणं, कत्र्रा कर्मणा वा व्यवहितः क्रियाधारोऽधिकरणं, क्रियाकार्यत्वेनावधारितं कर्मणा सेयोगं यदनुभवति तत्संप्रदानं, कत्र्रा कर्मणा वा क्रियाजन्.मेव ध्रौव्येन यद्विभागामवगाहते तदपादानम्, श्रूयमाणक्रियापदोपक्रियाकृतः कारकाणामकारकाणां च संबन्धविशेषः । स शेषः कुर्वन्तमेवाज्ञाप्रदानादिना यः क्रियायां नियुङ्क्ते, स तत्प्रयोजको हेतुः कर्ता च भवति। एवं च यथा काष्ठादयो लाक्षादिकमपेक्षमाणा एव मिथस्संवन्धयचोग्यतातामुनुभवन्ति तथा मिथस्संयोगो वियोगश्च न स्यात्। तदुक्तं---यावद्देवदत्त इह भ#ूत्वा पाटलिपुत्रे भवति सा नूनं क्रियेति। अस्तु नाम क्रिया , कारकेभ्यस्तु तस्याः कथं व्यतिरेकः ? न च भवन्तोऽपि क्रियाकारकयोव्र्यतिरेकं न मन्यन्ते । तद्यथा--चोरस्य रुजति, चोरस्यामयति इति। उच्यते व्यतिरिक्तैव कारकेभ्यः क्रिया ; अनेकस्यैकव्यपदेशनिमित्तत्वात#्। इह यद्यस्यानेकव्यपदेशनिमित्तं तत्तेभ्योन्यत्। यथा-- व्यक्तेर्जातिः कारकमित्यपदेतद्वयापदेशनिमित्तं चानेकस्य कत्र्रादेः क्रिया; तस्मात्ततोन्येत्यनुगम्यत्वात् । इह यैर्यदनुगम्यते तत्तेभ्योऽन्यत्, यथा नरेभ्यो राजाभिगम्यतेऽनुगम्यते च । क्रियाकारकैरतस्तत#ोऽनयेयम्, जन्यत्वेनोपलम्भात् । यज्जान्यतया यदुपलभ्यते तत्ततोऽन्यते । यथा पितुः पुत्र उपलभ्यते क्रियाकारकजन्यकत्वेन तस्मात्ततोऽन्या उपलब्धावनुपलब्धेः ; इह यस्योपलब्धौ यस्यानुपलब्धिः तत्ततोऽन्याथा , रूपाद्रसः सूर्यस्य चोपनगतेरुपलब्धिः तस्यास्ततोऽन्यथा । अस्ति चास्यासौ देशान्तरब्राप्तेः; साऽपि दृष्टा तथावापष्यातः परावृत्या दर्शनात् । प्रमाणान्तरग्रह्यत्वात् । इह यद्यस्मात्प्रमाणान्तरेण गृह्यते तत्ततोऽनयत् ; यथा शरीरादात्मा । प्रमाणान्तरग्राह्या च सदागतौ गतिः ; तस्मात्ततोऽन्या । बहुविविक्तत्वेनाभिधानात्, इह यद्वहूभ्यः प्रविविक्तमेकत्वेनाभिधीयते । त्ततेतोऽन्चत् ; यथा तन्तुभ्यः पटः । अभिधीयते बढद्धठ्ठड़14;वाश्रितापि प्रविवेकैकत्वेन क्रिया; यथा-- ह्राह्मणैरास्यत इति तस्मात्ततोऽन्या। अनावृत्तावावृत्तेः, इहयस्मिन्नवर्तमाने यदावर्तते तत्ततोऽन्यत् यथा हस्तिनोक्तेर्जातिः कारकमित्येकत्यापदेशनिमित्तं चैनेकस्य कत्र्रादेः क्रिया ; तस्मात्ततोन्येत्यनुगम्यत्वात् । इह यैर्यदनुगम्यते तत्तेभ्योऽन्यत्, यथा नरेभ्यो राजाभिगम्यतेऽनुगम्यते च । क्रिया कारकैरतस्ततोऽन्येयम्, ज्नयत्वेनोपलम्भात् । यज्जन्यतया यदुपलभ्यते त्तततोऽन्यत् । यथ पितुः पुत्र उपलभ्यते क्रियाकारजन्यत्वेन तस्मात्ततोऽन्या उपलब्धावनुपलब्धेः ; इह यस्योपलब्धौ यस्यानुपलब्धिः तत्ततोऽन्यथा, रूपाद्रसः सूर्यस्य चोपनगतेरुपलब्धः- तस्यास्ततोऽन्यथा । अस्ति चास्यासौदेशान्तरप्रप्तेः; साऽपि दृष्टा तथैवापश्यतः पर#ावृत्य दर्शनात् । प्रमाणान्तरग्राह्यात्वात्। इह यद्यस्मात्प्रमाणान्तरेम गृह्यते तत्ततोऽन्यते ; यथा शरीरादात्मा । प्रमाणान्तरग्राह्या च सदागतौ गतिः ; तस्मात्ततोऽन्या । बहुविविक्तत्वेनाभिधानात्, इह यद्बहुभ्यः प्रविविक्तमेकत्वेनाभिधीयते। तत्ततोऽन्यत् ; यथा तन्तुभ्यः पटः । अभिधीयते बढद्धठ्ठड़14;वाश्रितापि प्रविवेकैकत्वेन क्रिया ; यथा-- ब्राह्मणैरास्यत इति तस्मात्ततोऽन्या । अनावृत्तावावृत्तेः , इहयस्मिन्नानावर्तमाने यदावर्तते तत्ततोऽन्यात् यथा हस्तिनो मशकः । आवर्तते चानावर्तमाने कर्ततरि क्रिया पञ्चकृत्वः पचतीति,तस्मात्ततोऽन्या, इहोभयोरपि संशयनिर्णयनिमित्तत्वात् ; इहोभयोस्संशये यस्य यो निर्णयहेतुश्च पुरुषस्य चलनादिक्रिया, तस्मात्ततोऽन्या । अभिधायाभिधानात्, इह यदिभधायार्थान्तरा विवक्षां अन्तरेण यदभिधीयते ततोऽन्यते, यथा-- गौरश्वः, अभिधीयते च अध्येता अधीते गन्त#ा गच्छतीति कारकमभिधाय क्रिया तस्मात्ततोऽन्या, पर्यायाप्रसिद्धेः । इह येषामेव पर्यायप्रसिद्धिः, तेषामेव च तेभ्यो न भेदः, यथा--निर्वर्तिरिति। 4.4. न च पचन्नधीते पचत्यधीत इति पचनूपचत्योः पर्यायत्वम्। अपि पचन्नधीत इति कर्तुः पचतीति क्रियायाः पर्याययोग्यतेवं ; अतोऽसौ ततोऽन्यः । अभिन्नशब्दाभिथधानेऽपि विशेषाणां लिङ्गवचनभेदात् । इह खलु क्रियाकत्र्रेरभिन्नशब्दाभिधेयत्वेऽपि तद्विशेषणानां लिङ्गवचनभेदो दृश्यते, यथा--शोभनं पचति शोभनं पचतः शोभनं पचन्तीति साचाऽर्थो भेदे भिन्नशब्दोपादान एव दृश्यते। तटः, तटी तटं , पुष्यः तारका नक्षत्रं, रसः अपः जलम्, दाराः कलत्रं भार्या, इत्यादिविशेषणानाम् । न तूदाहृतसदृशेष्विति क्रिया कर्तुरन्याः । शब्दावृत्तिभेदेषुद्वभेदात् । इङ खलु क्रियाकारकयोश्शब्दावृत्तिभेदे बुद्धिभेदो दृश्यते ; अध्येता पठति, पठति, गन्ता, गन्ता गच्छतीति पूर्वयोवर्वीप्सोत्तरयोराभूक्ष्णयम्। यस्य च यतो बुद्धिभेदस्तत्ततो व्यतिरिक्तं यथा--मृदढद्धठ्ठड़14;घधेवनेर्मेघध्वनिः, घटदिभ्यः पटादयः इति क्रियायाः कारकेभ#्यो व्यतिरेकः । सिद्धे चास्मिन्नभेददर्शनं भेदनव्यतिरेकश्चाविवेकत एवेति द्रष्टव्यं दृश्यते च । प्रतीपप्रवाहश्शब्दशरीरस्संस्कारज्ञानसुखदिःखेच्छाद्वेषप्रयत्नरूपादिभिन्नेषु अभिन्नप्रत्ययः प्रवर्तते तेष्वभेदेनैव तदनुकूलो व्यपदेशः । चोरस्य रुजतीत्यत्र तु रूक्स#ाधकस्य क्रतुरभावाल्लकारः कर्तरि वर्तमाना तामेव रुजातीति । अस्यायमर्थः चोरस्य रूगुत्पद्यत इति कृतः पुनरियं कारकक्रिययोर्विशेषः ; तदेकत्र वीप्सा अन्यत्राभीक्ष्णमिति क्रियाया एकत्वेन वीप्सानधिगमात् । बहूनां हि क्रिया गुणद्रव्यैः प्रयोक्तुर्युगपद्य्वाप्तुमिच#्छा वीप्सा, सा त्वेकत्वे क्रियाया नोपपद्यते. इति । ननु च क्रियाया एकत्वं नोपपपद्यते कालत्रयेणात्यन्तविरोधिना युगपदभिसंबन्धव्यपदेशात्। इह खलु क्रियाया सा कस्मिन्नपि काले कालत्रयाभिसंबन्धहेतुव्र्यपदेशो दृश्यते ; पचति देवदत्तः, अपाक्षीद्यज्ञदत्तः, पक्षयति व#िष्णुमित्र इति। 4.5. तञ्चैकत्वे न घटते इत्यनेका क्रिया भेदनिबन्धाना । आतिशयिकतरबादिप्रत्यययोगात् । इह खलु क्रियायाः पचतितरां पचतितमामित्यातिशायनिकप्रत्ययो दृष्टः । स च द्वयोर्बहूनां च प्रकर्षे सिद्ध इत्येनेक्रिया एकेन युगपदनेकाधिकरणस्य निर्धारणात्। इह यदेकैकस्मिन् काले अनेकाधारस्थं पृथक्त्वेनावधार्यते तदनेकं ; यथा--अङ्गिलूषु नखानि निर्धार्यन्ते । निर्धार्यते चानेकाधारकेन युगपद्नोषु गतिरित्यनेका क्रिया । पूर्वकालेऽपि प्रत्ययदर्शनात् । इह द्वयोरेककर्तृकयोः क्रिययोः पूर्वनकाले क्त्वाप्रत्ययो दृश्यते; यथा भुक्त्वा भुङ्क्ते, पक्त्वा पचतीति द्वित्वं चैकत्वं प्रत्यनीकमित्यनेकक्रिया, युगपल्लक्ष्यलक्षश्रणयोगात् । इह क्रियाणामभिन्नकालं लक्ष्यलक्षणयोगो दृश्यते । गवि दुह्यामानायामपि दोग्धि, तयैकत्वेऽनुपपन्नमित्यनेका क्रिया पूर्वकालेऽपि प्रत्ययधर्शनात् । इह द्वयोरेककर्तृकयोः क#्रिययोः पूर्वकाले क्त्वाप्रत्ययो दृश्यते, यथा--भुक्त्वा भिङ्क्ते, पक्त्वा पचति हेतुगर्भफलाभावात् । इह ख्लवहेतुफलयोः प्रसिद्धो भेदः । स च क्रियासु दृश्यते ओदनं, पचति, शाकं पचति, भुञ्चान ओदनं भुङ्क्त इति बेदश्चैकत्वाविधीत्यनेका क्रिया क्रियार्थक्रियोपपदतुम#ुनादिप्रत्ययोत्पत्तेः । इह ये तु क्रियार्था.ययामुपपदे तुमुनादयस्स्मर्यन्ते, ते च भोक्तुं गच्छति, पाकाय व्रजति भोक्ष्यामिति पचतिप्रभृतिषु यथा भिन्नधातुवाच्यत्वेऽपि दृश्यन्ते ; यथा गन्तुं गच्ति, भोजनाय भुङ्क्ते, पक्ष्यामीति पचतीति। 4.6. सचायं तदर्थफलभावेनैकत्व एवोपपद्यत इत्यनेकार्थक्रियाभिहितानभिबितशक्तिप्रादुर्भावान्मित्तत्वात् । इह धात्र्रीं धयति, दात्रेण दाति, दाशाय दाशते, भीमाद्विभेति, आसते आस्ते, शयने शेते, स्थाने तिष्ठति, प्रासादे प्रसीदतीति प्रत्ययविभक्त्योर्दर्शनादभिहितानभिहितशक्तिप्रादुर्भाव उपलभ्यते। सा चानैक्यनिमित्तं क्रियाबेदमन्तरेण न सङ्गच्छत इत्यनेका क्रिया भावाभिधानेऽपि यन्त्रादिभ्यो द्विवचनबहुवचनोपलब्धिः । इह खलु शुद्धेऽपि भावे यन्त्रादिभ्यः पाकौ पाकाः, उष्ट्रासिका आस्यनेत, हतशाय.#िकाश्शय्यन्त इति द्विवचनबहुवचनोपलब्धिः । तञ्च क्रियैकत्वे न युक्तमित्यनेका क्रिया कृदाख्याताभिहितायाः क्रियायाः सर्वसंख्याबहुवचनोपलब्धिः । तञ्च क्रियैकत्वेन युक्तमित्यनैका क्रिया कृदाख्याताभिहितायाः क्रियायाः स्रवसंख्यासामानाधिकरण्यात्। इह कृदभिहिताया आख्याताभिहितायाश्च क्रियाय भिन्नार्थानाभिधायिभिस्संख्याशाब्दैः सामानाधिकरणरण्यं दृश्यते। यथैकः पाकः द्वौ पाकौ बहवः पाकाः ; एका उष्ट्रासिका आस्यते द्वे आस्येते बढद्धठ्ठड़14;न्य आस्यन्ते । तञ्चैकत्वे क्रियाया न सांप्रतमित्यनेका क्रिया इह भवति निम्तृप्रभृतीनामवधृतबेदपरिस्पन्दाश्रयकार्याभिनिवृत्तेः इह यासां क्रियाणामवच्छेदकधात्वर्थोपाधिबेदत्वादनेकत्वं प्रत्यविवादः, तासु ये भेदाश्रया धर्माः प्रसिद्धाः । तद्यथा--भोक्तुमिच्छति , भवति पचति, भवति पक्ष्यति, भवत्यपाक्षीत्, आमन्त्रयै समाजमुत्सवामान्त्रयै इति समानाधातुवाच्यास्वपिदृश्यते ; एषितुमिच्छति, भवेदप#ि भवेत्, स्यादपि स्यात्, निमन्त्रये निमन्त्रणार्थमामन्त्रये आमन्त्रणार्थमिति । तस्माद्भेदाश्रयकार्यसंबन्धाद्भवितव्यम् । अनेकत्वमनेकेन धातुना सर्वत्र भेदेनेत्यनेका क्रिया साध्यसाधनभावात् । इह साध्यसाधनयोः प्रसिद्धो भेदः प्रदृश्यते च । साध्यसाधनता क्रियाणा#ं यथा-- स इमान् पोषानपुषत्, तप्यते कतपस्तापस इति। तञ्चैकत्वे न घटते इत्यनेका क्रिया । तदेतदनेकत्वे क्रियायास्सर्वमसाधानं साधनभेदादेवोपटरितभेदाया एकत्वे वा तदुपपत्तेरभिन्नानामप्युपाश्रयादिभेदात् । भिन्नाकारात् प्रतीतदेशव्यपदेशश्च दृश्यते । यथेन्दोर्जलेषुज्योत्स्नाजालेषु जलधराशासु दिशो व्यवस्थासु पृथकत्वस्यार्थेषु बुद्धेर्विषयेषु विद्युतोऽब्देषु ; यथा च संपन्नो यवो यवेषु शुकत्लस्तुरुष्केषु विनष्टस्सुरादेष्ट्रेषु दर्शनीयोस्तनेन्दसेनेषु अक्षिणी कलिङ्गेषु पटुर्भवान् पटुरासीत् पटुतर एष मार्गे कूपोऽभूत् कूप#ो भविष्यति प्रियो मन्युस्ते प्रियो न वयम्, मैथिली रामस्य दाराः, आः पवित्रं वरणां नगरं शिरूषाः रामः पाञ्चलाः जनपदा इत्यभिन्नस्याऽपि जात्यादेरर्थभेदस्य भेदतो व्यपदेशः, तथा क्रियाया अपि कालयोगादयः साधनभेदाद्भविष्यन्ति ; अनेकाधारसमवेतायाश्च युगा#ृपदेकेन ग्रहणं जातिवहुपपद्यते । 4.7. कृदभिहितानां तु शुद्धभावानां आख्यातवद्भिः क्रियाभिः द्रव्यवद्वैध्यम्र्यादयुक्तस्तद्धर्मोपनयः । कृदभिहितो हि भावो द्रव्यवत्प्रकाशमानो लिङ्गसंख्याकर्मादिशक्तीनामाश्रयो भवति ; न त्वाख्यातवाच्याः तस्याः परिनिष्पन्नत्वनेनाश्रयत्वानुपपत्तेः । तथाहि, यथा प#ाको वर्तते, पचतीति शक्तिसंख्यादियोगः कृदन्तेषु दृश्यते, नैव तिङ्नतेषु । नहि भवति, पचति वर्तते, पचति पश्यतीति ; ननु च भवति, पश्यति,मृगो धावति, उत्पश्यामि कर्मणि द्विवचनबहुवचनान्युदाहियन्त इति धावतीनां दृशि कर्मत्वं केवलं त्वप्रातिद्कत्वात् सुपोऽनुत्पत्ति#ः । तन्न ; यथा क्रियायाः क्रियामाणत्वादेव नैसर्गिकं च भवति पचति पक्ष्यति भवत्यपाक्षीदिति च दृश्यते । पचादीनां भवतेः कर्तृत्वं, दृश्यते ; भवति पश्यति कर्मत्वं दृश्यते ; भवति पशयति कर्मत्वं क्रियाविशेषणानां क्रमतयाऽवगम्यते । तदोत्पद्यमानत्वादेव गतौ कर्तृत#्वमनपि नैसर्गिकमेव । मृगो धावतीत्यादौ गम्यमानेतिशब्दोपसंहृतस्य वाक्यार्थस्य कर्मत्वं, न क्रियायाः । तस्मादशङ्कनीयः क्रियासकर्तृशक्तियोगा करणादियोगायोगाभ्यां व्यक्तमेव कृदाख्याताबुधेयभावयोर्मिथोवैधम्र्यमिति । तस्मादनेकार्थविषयया वीप्सयाऽनभिसन्धानात् सिद्धमेकत्वं क्रियायाः । शब्दप्रत्यययोरभेदाञ्च, यत्राभिधानज्ञानयोः अत्यन्तमभेदस्तस्यैकत्वं सिद्धम् ; यथा जतेः प्रत्येकं च व्यक्तिविशेषाणां, अभिन्नौ च देशकालौ भेदे च क्रियायाः शब्दप्रत्ययौ दृश्येत्, यथा च पचति पचन्तीति ; तस्माच्छब्दप्रत्ययहेतुः एका क्रिया । 4.8. ननु च, जलचन्द्रादिदृष्टान्ते भेदव्यवहारे सन्देहः किं साधनमबेदाश्रयाणि क्रियायाः कालत्रययोगादीनि प्रत्ययव्यपदेशानि च भेदकार्याण्युत सेवभेदाश्रयाणीति । अत्रोच्यते क्रियायाः अभेदेऽपि साथधनभेदात् द्विवचनबहुवचनोत्पत्तेस्संदेहो भावयः । इह भेदस्याभेदपूर्वकत्वात् भेदमभ्युपगतवतावश्यमभेदोभ्युपगन्तवयः ; तस्य यस्याः क्रियाया एकत्वमभ्युपगम्यते तस्यास्साधन भेदादृष्टो द्विवनबहुवचनयोगः । यथा--परमाणुं पचतिः, परामाणुं पचन्ति । अनेकत्वाभ्युपगमे च साधनस्याभेदे दृष्टमेकवचनमेव, भिनत्ति कुसूलमिति वचनभेदः । तस्मात्साधनभ#ेदानुविधानाञ्च क्रियायाः, क्रियाभेदानुविधानाञ्च साधनानां साधनाश्रयाणि भेदकार्याणि, क्रियायाः न स्वाश्रयाणीति । 4.9. कथं तर्हि, पच्येते ओदनौ पच्यन्ते ओदना देवदत्तेनेति कर्तृभेदे वचनभेदः ? यस्मिन् साधने लादयोऽभिधीयन्ते ? तद्भेदमनु धीयन्ते क्रियायाः क्रियाभेदं साधनानीत्यशङ्कनीयमेतत् । प्रतीपादिषु भेदाभेदयोरनात्यन्तिकत्वात् ज्ञानाभिधानयोरपि तथात्वेऽस्ति न तैव्र्यभिचारः । इतश्चानेका क्रियाया अभ्यावृत्तिभावात् बहुसंख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुजादचस्स्मर्यन्ते पञ्चकृत्वो भुङ्क्ते,चतुष्पचतीति तञ्चाभेद एवोपपद्यते । न हि देवदत्ते गते, .यज्ञदत्ते चायाते पुनरावृत इति व्यपदेशो दृश्यते च । तत्रैवायात इत्येका क्रियासमुञ्चयाबावातद् । इह भिन्नानां एकविषसंपाते समुञ्चयो दृष्टः ; देवदत्तसेय गौश्चाश्वश्च पुरुषश्च देवदत्तस्य यज्ञदत्तस्य विष्णुमित्रस्य च गौरिति । न च वक्तुरभेदे गुडड्डत्ध्;तिलौदनादिवाक्यबेदात् क्रियाभेदाभ्युपगमेऽपि क्रियासमुञ्चयो दृश्यते । देवदत्तः पठति पचति चेति तस्मादेकक्रियास्तवबावनापत्तौ प्रविवेकः, एकत्वेनाभिधानात् । इह क्रिया सत्वभावं प्रतिपन्ना यदा साधनेभ्यः प्रविविच्यते, न भवति तदा द्विवचनादियोगः ; ब्राह्मणैरास्यत इति तस्मादेका । 4.9. ननु च सत्वभावेऽप्येतदुपलभ्यते यथा गुडड्डत्ध्;तिलौदनानां पाकः, ताम्राः पलाशेषु बभूव रागः, इति तन्न ; तस्याव्यभिचारात् । "यथा नृपाणां प्रणयाग्रदूत्यो विलासचेष्टा विविधा बभूवः ।।" 4.10. वय्भिचारे किन्निमित्तमिति चेत् कृदभिधानमेव ; "कृदभिहितो भावो द्रव्यवत्प्रकाशते । " द्रव्यस्य च सत्यपि नानात्वे संबन्धिभेदादेव भेदावगतौ क्कचिदबेदाभिधानम्। ऊरुमूलचरलेक्षणमघ्गन् यैर्वतंसकुसुमैः प्रियमेताः । चक्रिरे सपदि तानि यथार्थं मन्मथस्य कुमुमायुधनाम ।। यथा च वेदवाक्यं---- "यत्पशुर्मामकृतोरोवा पद्भिराहते । " इति ।। क्कचित्पुनस्तद्विवक्षायां भेदेनैव यथा-- तासां मुखौरासवगन्धगर्भैव्याप्तावन्तरास्सान्द्रकुतूहलानाम् ।। इति ।। 4.11. ब्राह्मणैरास्यत इति स्रवदैकवचनमेवेति विशेषः, साध्यत्वात्। सिद्धस्य हि वस्तुनस्संख्यायौगो युज्यते, न साध्यस्यापरिनिष्पन्नत्वेनाश्रयत्वानुपपत्तेः । साध्याच क्रिया प्राधान्यतयास्माभिरभिधीयते तस्मान्न भेदसंख्ये इत्येका । एकशेषात् इह येषां सरूपशब्दीभिधेयानामनकत्वं दृष्टं , तदभिधानानामेकशोषो दृष्टः । तद्याथा--व्यक्तिपक्षे ब्राह्मणाः पुरुषाः, इति । न च ब्राह्मणैरास्यते, पुरुषैर्गीयत इति क्रियायभिधानानामेकशेषो दृश्यते । स चायमेकशेषो व्यावर्तमानस्त्वव्याप्तमनेकत्वमपि गृहीत्वा व्यवर्तत इति एका क्रिया । 4.12. ननु च कथंमेकशेषाभावः न तिङ्न्तान्येकशेषं प्रयोजन्यतीति का पुनरत्रोपपत्तिः ? क्रियाप्रधानत्वमाख्यातानां, तदेव चिन्त्यते ; इह खलु क्रियाकारकयोः प्रधानोपरसर्जनाभावेन वृत्तिसंसर्गेण चतुष्टयी गतिः । क्रिया वा क्रियाया न्यग्भवनति यथा--पाचकः पचनीयं, पचनीयं, क्रियायां वा कारकं यथा--पुत्रीयति उपश्लोकयति । आख्यातेषु चैषामन्यतोऽपि न प्रकारः ; तत्र हि साध्यक्रियाऽपि प्रकृतातमवती साधनतन्त्रा सव्यापारसाधना अपरिसमाप्ता पचादिभिरुच्यते सिद्धानि च साधनानि तिबादिभिरभिधीयन्त इति न कस्याचित्प्राधान्यं वा प्रवृत्युत प्रकृतिप्रत्ययौ प्रत्ययार्थे सह ब्रीतः प्राधान्येनेति प्रत्ययार्थस्य प्राधान्यं स्यात् । 4.13. एवं च द्विवचनबहुनवचने अपि तन्निबन्धने उपपद्येते ; तन्न, सिद्धं साध्यायोपादीयते । सिद्धानि च साधानानि च तानि परार्थमुपादीयमानानि शेषतां लभन्ते । साध्यं तु परापाकरेषु असमर्थमात्मलसिद्धयेऽर्थान्तरमपेक्षमाणं तद्वैधम्र्यात् प्रधानभावमनुभवति । नन्वेवं ह#्येकशेषाभावो न सिध्यति ; न ह्येकाशेषभावे प्राधान्येन गुणाबावेन वा किञ्चिदाश्रीयते । पचादयो हि क्रियावचनाः, तेषामेक एवानेकसाधनसमवेतानेकत्वेन विवक्षितां क्रियामभिधास्यति । तन्न, यद्यप्येको धातुः यथोक्तां क्रियां ब्रवीति तथा लकारस्यानेककर्मकर्तृविषयत्वात्प्रतिसाधनमुपपत्तावनेकत्वं प्राप्नोति । तदनुरोधाञ्चार्थाः प्रधानानि प्रत्ययेभ्यो व्यावर्तन्त इत्येकशेषारम्भस्स्सयात् । क्रियाप्राधान्येन एकशब्दत्वं, साधनभेदात्तु द्ववचनबहुवचनयोगः । 4.14. अन्ये तु ब्रुवते यद्येकस्याः प्रकृतेस्साधनभेदे भिन्नालङ्काराः प्रसज्येरन्, तथाऽपि यथैकस्थने एकवचनमेव द्वयोर्द्विवचनं बहूनां भविष्यन्तीति । इदमेव हि द्विवचनाबहुवचनयोः द्विवचनबहुवचनत्वं, यत्तदेकशब्दरूपेमेकशेषशब्दवदनेकार्थाभिधाने समर्थमिति व्यख्यायते । इतश्च क्रियाप्रधानमाख्याताः करोतिना प्रश्ने निर्णयार्थत्वात् । किं देवदत्तः करोतीति प्रश्ने पचत्यास्ते इत्युत्तरं भवति, नि त्वासकः पाचक इति । न चायं कर्तृप्रश्नः किं देवदत्त इति, विशेषस्याभ्यन्तररीकृत्वात् भिन्नलिङ्गत्वाञ्च । नापि क्रमप्रश्नः अनुज्ञाने व्यापारेक्रमप्रश्नासंभावात् । पचति पठतीति कर्तृविशेषमन्तरेण प्रतिवचने प्रष्टुः कृतार्थत्वात् पचति पठतीति चाख्यातस्य आख्यातेनायोगात् । यदि साधनं प्रधानं स्यात् यथा पाचकः पचतीति सामानाधिकरण्येन न योगो भवति, यथा पचति पठतीत्यत्रापि स्यात् । न चैतदस्त्यतःक्रियाप्राधानत्वमेवाख्यातानां क्रियाप्रधान्तवाञ्च एकसेषारम्भः, तदनारम्भादेकत्वमेकत्वेन वीप्साभावः, वीप्साभावञ्च गन्ता गन्ता गच्छति गच्छतीति शब्दावृत्तिभेदः बुद्धिबेदाञ्च क्रियायाः कारकेभ्यो व्यतिरेक इति । 4.15. ननु च पचति पचतः पचन्तीति धात्वर्थ एवाऽयं, न क्रिया । तन्न, धात्वर्थस्य प्रत्ययार्थस्यैवावच्छेदकत्वाद्धात्वर्थात्तु क्रियायाः पृथक्त्वं साध्यामानप्रधानव्यपदेश्यतायामेवं संतिष्ठते । यथैव तर्हि कारकभेदेऽप्यभेदः क्रियायास्तथा धात्वर्थभेदेऽप्यभेदे एव#ास्तु, सत्येमेतत् । किंतु वस्तुनः सर्वथैकत्वमनेकत्वं वाचेयमानं भेदाभेदनिबन्धनं लोकव्यवहारं सर्वमतिक्रामति । तस्माद्भेदमभेदं च अभ्युपगच्छता व्यवहारप्रसिध्यर्थमभेदो भेदश्चाभ्युपगन्तवयं स्यचित् किञ्चिन्मुख्यं किञ्चदौपचारिकं सर्वो हि भेदवादी निरुपकारेष्वयश्शलाकपदसंबन्धेष्वन्योन्यव्यावृत्तेषु भेदेषु तदेवेदमितिप्रत्ययस्य अभेदादेकत्वामाश्रित्य लौकिकव्यवहारमनुगच्छति । एकत्ववादी च भेदाधिष्ठानामिव भवतां सर्वो वृतिं्त सर्वें च विशेषशब्दव्यवाहरं धर्मान्तरसंसर्गपूर्वकं लोके व्यवस्थितं मन्यमानो लोकमनुगच्छन् अभिन्नमप#ि भेदैरेव निदर्शयति । तस्माद्भिन्नधात्वर्थवच्छिन्ना भिन्नाऽपि क्रिया भिन्नैवेति एतेनैतदपि सगृतहीतं भवति। व्रजतिपचतेयस्तीति स्वेतत इत्यादौ प्रत्ययार्थधात्वर्थयोरुद्वापावापा भ्यामन्यत्वेनावधारितो धात्वर्थवच्छिन्नः ; परिच्छिन्नकालः कालपरिच्छिन्नो वा उपर्गादिभिरूषस्कृतः प्रत्ययार्तोपकारः कारकैरसंख्यक्तिभिस्संख्योपध्युपकगृतैरुपक्रियामाण उपक्रमप्रभृत्यवमर्शपर्यन्तमन्तः--प्रतिभया साकल्येनोल्लिख्य साध्येत्वेनाध्यवसितः तथ सूपभृतोबहिर्निष्पन्ना प्रप्रान्तक्रमरूपावयववसमुदायात्माऽनपेक्षितान्तरालक्रियान्तरोपनिस्तथ#ाविधावयववो वा पुरुषव्यापारः क्रिया । यथोक्तविशेषणोत्पन्न्धात्वर्थो वा साध्यफलनिष्पत्तिपूर्वक्षणोपलभ्यमानतदवयवो वाऽवयवसमूहोपलभ्यमानैकाकारप्रत्ययनिमित्तजातिविशेषो वा पूर्वावयवोपकृतान्यावयवप्रतीयमानजातिप्रादुर्भावो वा धात्वर्थव्याप्रतियमायणकर्तृकर्मणोस्स्वव्यपदेशनिमित्तसत्तासंबन्धो वा कर्तृकर्मसत्ता वा तद्व्यापाराविष्टाधात्वर्थावयवसामान्यं वा तथैवोपलभ्यमानाधात्वर्थावयवव्यक्तयो वा व्याप्रियमाणेषु स्वपरात्मनोः पूर्वस्वरूपविलक्षणपूपान्तराभिमानो वा तत्रैव च तयोस्तथाविधाभिन्नस्वकारणसत्तासंबन्धो वा बुद्धिसत्तभावेषु प्रत्यस्तमितरूपनेकतबुध्द्यनुस्यूते बुद्धिसामान्यं वा क्रियायशब्देनाभिधीयते । अपिच--- यावतेसिद्धमसिद्धं वा साध्यत्वेन विवक्ष्तम् । आश्रितक्रमरूपत्वा त्तत्क्रियेत्यभिधीयते।। 4.16. स च कैर्यानुमेयत्वात् परोक्ष इत्येके । गच्छतिचत्यादिप्रत्ययेषु प्रत्यक्षेण, देवदत्तादिस्वरूपेऽतिरिक्तक्रियातत्वानुपलब्धेः । य एव देवदत्तात्मा तिष्ठन् प्रत्ययगोचरः चलतीत्यापि संवित्तौ स एव प्रतिभासते । किंतु चलतीति प्रतीतिः संयोगविभागमालम्बते, सेयोगविभागः कदाचिदेवोत्पद्यमानः परिदृश्यमानपदार्थस्वपातिरिक्तं कारणमनुमापयति, यञ्च कारणं स परिस्पन्दप्रयत्नादिरूपः पुरु़षव्यापारोऽतीन्द्रियः क्रियेति । 4.17. तदनुपपन्नमित्यन्ये, चलतीत्यदिप्रत्ययानां प्रत्यक्षत्रयावलम्बनत्वात् । तथा च न चलतीति प्रतीतेस्संयोगविबागागालम्बनमव्याप्त्यादिप्रसङ्गात् । तत्राऽकाशे विहङ्गमो गच्छतीति प्रतीति र्न स्यात्, संयोगविबागयोरग्ररणात् । न च द्वयोर्वियसोस्संयोगविभागौ प्रत्यक्षौ प्रत्यक्षेतरवृत्तित्वात् वायुवनस्पतिसंयोगविभागवत् । अथि विततोलोकवयव्याकाशः तत्संयोगगविभागौ च पक्षणः, प्रत्यक्षौ तन्न, सन्तमसेऽपि खद्योतविद्युतोः क्रियाबुद्धेः । न च तमो नाम वस्तुस्वरूपमस्ति, भूकेपे च कंपते वसुंधरेति च ज्ञानमस्ति । संयोगविबागमस्तीत्यतिव्यप्तिः संयोगविभागोपडड्डत्ध्;नप्रबन्धेऽपि तयोर्वर्तामानयोरेव ग्रहणं तै च गत्त्वाऽपि स्थिते गवादौ स्त इति । तत्रापि गच्छतीतिज्ञानप्रसङ्गः निश्चले च श्येनसमवायापायपरंपरावति वध्यशूले प्रवाजलजौशेषविशेषमालहारिणि सरित्कूले रङ्गतुमसंयोगविफभागश्रेणिमति च बाह्यलिन्दमहीतले चलतीति प्रत्ययः प्राप्नोति । अथा क्रियाजन्यत्वं संयोगविभागजानां तत्रैव चलतीति श्येनादौ प्रत्ययो न निश्क्रिये शूलादाविति तर्हि क्रियावयव्यतिरेकानुविधानात् क्रियालंबन एवाऽयं प्रत्योऽयं, न संयोगवियोगलंबनः । 4.18. किञ्च नित्यपरोक्षायां क्रियायमिदमपि न ज्ञायते ? किं शूलकूलमहीतलक्रियाजन्यत्वं संयोगविबागानां, किं वाऽन्येन जलतुरगाक्रियाजन्यत्वमित्यतिव्याप्तिः संयोगविभागालंबनत्वे च संयोज्यते वियुज्यत इति च प्रतीतिभ्यां न चलतीति यथाविषयं प्रत्ययोत्पादानिज्र्ञानेजलस्य आलम्बनता श्यात् । चलतीति च वर्तमानाभासः प्रत्ययस्संयोगविभागानुमेयत्वेन संभवति। तथाहि--संयोगान्तरं कर्मेति । न च सेयोगे वर्तमानां क्रियामनुमापयति, विभागो विकास्यात्वादात्मनः प्राक्लालीन इव कारणं गमयति। कारणस्य हि सत्वं प्राक्लालीनमेव कार्योपयोगि न त#ुतल्याकालं, तदानीं, तस्य सिद्धात्वात् । अतः कार्यात्कारणभूतां क्रियामनुमिमानो भूतचामेवानुमिर्मीते न वर्तमानाम् । तस्मात्संयोगविभागाभ्यां क्रियानुमाने वर्तमानाबासष्टलतीति प्रत्ययो न संभवतीत्यसंभवः । न च नित्यापरोक्षाक्रियानुमानमपि शक्यं कार्यं कारणपूर्वकम#िति संबन्धग्रहणानुपपत्तेः । न हि द्रव्यमिश्रं कारणं ; अपि तु क्रियानुमाने क्रियाविशेष्टं क्रियायाश्च परोक्षत्वान्ना तदानीमिष्टव्यकारणग्रहणमनुघटमिति घटादावपि दुर्घटाव्याप्तिप्रतीतिः ; तस्मान्न कार्यानुमेया क्रिया । अपितु उत्क्षेपणादिबेदवतः परिस्पन्दरूपस्य कर्मणः प्रत्यक्षेणोपलम्भात् प्रतयक्षैवेति । एतेन पचतीति प्रतीतिरपि प्रत्यक्षक्रियालंबनैवेति व्याख्यातम् । तत्र हि पचत्यादिक्रियाबढद्धठ्ठड़14;व्यः प्रतीयन्ते ; देवदत्तश्चलति, चुल्ली ज्वलति, स्थाली उर्वायते, वयस्यः कथयति पिधानमपिधत्तेः तण्डुड्डत्ध्;लानि विक्लिद्यन्ति , दर्व्यपविध्यति, ओदनस्सिध्यति, इति । 4.19. ननु च पाको नाम धात्वर्थः परिदृश्यमानेदेवदत्तादिव्यापारव्यतिरिक्त एषितव्यः, तदन्तरेण फलनिवृत्तेपरभावात् ; तदभावे च किमधिकृत्य कारकाणि संसृज्य्रन् । अत्रोच्यते, यं तमेकं पाकं नाम धात्वर्थः चलनादिभ्योऽतिरिक्तं क्रियेति मन्यसे, स किं वस्तुधर्मः ? तत्क#ार्ये वा, तत्र वस्तुधर्मत्वे रूपज्जातिवद्वाभ्युपगम्यमाने यावद्वस्तु स्रवकालं वा फलनिष्पत्तिप्रसङ्गः । तत्कार्यत्वे सति स किं सकलकारकनिष्पाद्यः, एकैककारकनिर्वत्यौ वा । तत्राद्यपक्षे एकैकं भवेत् कारकमक्रियं एकाकनिष्क्रियत्वे तु सकलल्येऽपि कार्यत्वाद्व्याप#ारावन्तरककल्पनायामनवस्था । पक्षान्तरे तु क्रियामिव फलमपि निष्क्रियाण्येव कारकाणि कुर्युरिति किं क्रियया । ननु करोतीति कारकं सत्यं ककरोति फलमनिक्रियम् । ननु करोतीति यढद्धठ्ठड़14;व्रूषे सेयमुक्तैव क्रिया । चैत्रः कटं करोतीति चैत्रस्यैव कटस्यैव करोतेरप्यर्थो वाच्य एव । उच्यते परुस्पन्द एव भौतिको व्यपाराः, करोत्यर्थः । न हि वयं परिदृश्यमानं परिस्पन्दात्मकं व्यापारमपढद्धठ्ठड़14;वुमहे । प्रतिकारकं विचित्रस्य चलनादेव्र्यापारस्य प्रत्योक्षेणोपलम्भात् । अतीन्द्रियस्तु तदत्रिक्तः करोत्यर्थो नास्तीति ब्रूमहे । क्रियातीन्द्रियत्वे हितद्योगकृतं कारकत्वमधिगच्छन्तः फलार्थिमस्तदुपाददीरन् । 4.20. तावदेव विनिश्चित्य तदुपादीयतेऽर्थिभिः । तदेवोपाददानैश्च फलमप्यतिगम्यते ।। कारकतेवं च पक्षेऽस्मिन्नास्ति किञ्चदतीन्द्रियम्। कारकत्वं स्वरूपस्य सहकार्यादिसन्निधिः ।। निव्र्यापारस्य नन्वस्य को गिणस्सहकारिभिः । व्यापारयोगिनोऽप्यस्य को गुणस्सहकारिभिः ।। बिधव्यापार एवैष सवै संभूय साध्यते । किं फलेनापारद्धं तद्धि संभूय साध्यताम् ।। तस्मात्तकारकचक्रेण चलता जन्यते फलम् । न पुनश्चलवनादन्यो व्यापार उपलभ्यते ।। चलन्तो देवदत्ताद्यास्तदनन्तरमोदनम् । एतावद्दृश्यते तत्र न त्वन्या काचन क्रिया ।। क्रियानिमित्तसंसर्गवादिनोऽपि द्वयी गतिः । सत्यां क्रियायां संसर्गस्संसर्गे सति वा क्रिया ।। अत्राऽपि पक्षे पूर्वस्मिन् संसर्गः क्कोपयुज्यते । तथा सति फलं सिध्येत्काष्ठादेः केवलादपि ।। संसर्गात्तु क्रिया सिद्धा पुरेकैकमक्रियाम्। तथा च सति नैधांसि ज्वसेयुः पुठरान्विताः ।। ज्वलन्त्येदांसि न पुनः पचन्ति पिठरान्विताः । पिठरे सत्यपीमानि ज्वलन्तीत्येव मे मतिः ।। तस्मात्क्रियान्तराभावात्काष्ठाम्बिपिठरादयः । संसृज्यन्तां फलायैव किमदृष्चटेन कर्मणा ।। 4.21. ननु च फलं सिद्धं साध्यं वा ; किञ्चातः सिद्धं चेत् कारकान्तराण्यपि सिद्धानीति संसर्गाभावः । अथ साध्यं सैव काकरकव्यापाराव्यतिरिक्ता क्रियेति । तन्न्, फलस्य क्रियात्वानुपपत्तेः । ओदनो हि फलं, न चासौ क्रियाणां विप्रतिपत्तिः ; पाकस्त र्हि कः ? पचेर्वाच्यः, शून्यतैव युक्ता उच्यते--समुदितदेवदत्तदिकारकनिकरपरिस्पन्द एव विशिष्टफलावच्छिन्नः पाकः । स एव च पचेरर्थः ; देवदत्तादिक्रिया हि चलनज्वलनादिरूपाः पृथक्तथैवावभासन्ते, समुदितासु सत्याः फलन्तरावच्छेदाद्रूपावन्तरेण पाकादीनामपस्फुरन्ति, व्यपदिश्यन्ते, समुदितासु सत्यः फलान्तरावच्छेदाद्रूपरान्तरेण पाकादीनामपस्फुरन्ति, व्यपदिश्यन्ते च ; तथा देवदत्तः पचतीतिवत् काष्ठानि पचन्ति, स्थाली पचतीत्यपि व्यपदेशो भवति । ननु च यथा स्थाली पचति काष्ठनि पचन्तीति दृश्यते । नैवम् ; ओदनः पचति तण्डुड्डत्ध्;लाः पचन्तीति सत्यमेतत् । कारणं त#ु वाच्यं किं तदिति चेत् पचेरकर्मकत्वक्रियात्वमेव । 4.22. नन्वोदनस्य तण्डिड्डत्ध्;लानां वा कर्तृत्वं न तूभयोस्संभवति । नैवं, तण्डिड्डत्ध्;लानोदनं, पचतीत्यपि व्यपदिश्यते ; न चकर्मणस्स्वतन्त्रता यिक्ता, तदभावाञ्च न कर्तृत्वनिबन्धनः पचतिव्यपदेशः स्वातन्त्रे वा कथं कर्मकर्तुः कर्मवत् न कर्तृप्रत्ययभावात् । 4.23. नन्वेवं, सति ओदन्तण्डिड्डत्ध्;लानां निवृत्तिविकारयोरस्वातन्त्र्यात्सिध्यति ओदनोऽपि क्लिद्यन्ति तण्डुड्डत्ध्;ला इत्यापि न स्यात् । तन्न, निवृत्यादिषु तत्पूर्वमनुभूय स्वतन्त्रतां कत्र्रन्तरणां व्यवहारे कर्म संपद्यते पुनः । भवति नाम, तण्डुड्डत्ध्;लानां सिद्धानां कथञ्चिदेतत्, ओदनस्य तु साध्यस्य नापपद्यते ? नैवं, भवत्य्रर्थे सर्वस्य कर्तृत्वात् भवत्यर्थश्च सिध्यतीति न दोषः । यद्योदनो न पक्तव्यः पक्तव्यो यदि नोदनः ।। यथा-- शाटकश्चेन्न वातव्यो वातव्यश्चेन्न शाटकः ।। अत्रोच्यते । अन्तस्थत्वं बहिस्थत्वं निष्पत्तौ द्वयमिष्यते । अन्तस्थत्वं पुरस्कृत्य बहिस्थत्वं प्रकाशते ।। द्वयी सत्त पादार्थानां बाह्याचाम्यन्तरीति च । आन्तरी व्यवहारार्था बाह्यात्वर्थक्रियां प्रति।।. 4.24. अन्यथा ह्यङ्कुरो जायत इत्यपि न स्यात् । अत इदमुक्तम् ; उपक्रमप्रत्यभृत्यपवर्गपर्यन्तमन्तः-- प्रतिभया साकल्येनोल्लिख्य साध्यत्वेनेनाध्यवसतिः पुरुषवयापारः क्रियेति । न च पुरुषव्यापारस्य क्रियात्वं, रथो गच्छति, कूलं पततीत्यादिप्रयोगाबावः उपचारो वा । पुरुषशब्देनेह प्रथममध्यमोत्तमलादेशं त्रिकाभिधेययोः कर्तृकर्मणोरभिधानात् । न चैवमेतद्व्यापारायोरेव क्रियात्वं फलाभिधायित्वेन कारकोपलक्षणत्वात् । यथा च भागाः पचतेश्चलन्जवलनादयः । चलनज्वलनादीनां ज्ञेया भागास्तथाऽपरे ।। 4.25. तथाहि । देवदत्तश्चलतीत्यत्र किं प्रतीयते ? युगीमादत्ते, उदमनासिञ्चिति , तण्डिड्डत्ध्;लानावपतीति । एव #ंकाकरकान्तरव्यापारेष्वपि द्रष्टव्यंम ; न तु देवदत्तादेर्र्भौतिको व्यापारः आत्मव्यापारपूर्वको भवितुमर्हति । नैतदेवम्, नह्यात्मनो व्यापारः किञ्चिदस्ति इच्छाद#्वेषपूर्वकप्रयत्नवशादेव स भौतिकव्यापारकारणतां प्रतिपद्यते । चलतीतिप्रतितिवत् पचतीति प्रतितिरपि प्रत्यक्षक्रियालंबनैवेति अत्रानुमेयक्रियावादिनस्समादधते । 4.26. अस्तु नाम देवदत्तादिकारकनिकरपरिस्पन्दसमुदायः क्रिया । किन्तु पचतीतियादावधिश्रयणावचनविचटनादीनां किमायुष्मान् क्रियात्वं मन्यते, किमर्थं स्रवाण्येवेति ? ओमिति ब्रूमः । पृच्छामि चायुष्मन्तं किमदिश्रयणादयः क्रियाव्यपदेशमेकशो वा लभेरन् । न तावदेकशः, क्रमरूपाभावात् ; एतञ्च तत्क्रियायाः क्रियात्वं, यदुत साधनैस्साध्यमानता क्रमरूपोपादानञ्च । न चैकस्य क्रमस्संभवति, अवश्याभिधेयश्चैतदुपात्तक्रमस्साध्ययाऽभिधीयमानपदार्थः क्रियेति । अन्यथा हि पाकादीनां उपसंहृतक्र्माणामपि क्रियात्वप्रसङ्गः । ते हि पर्यवसिताः स्वरूपतयोपसंहृतक्रमा एव स्वशब्दैरूपादीयन्ते, न साध्याबावेन । पाकं करोतीत्यादौ हि साधनविशेषनिबन्धनाविभक्तिरुपलभ्यते , द्वितीयानिवृत्तिरूपं च साधनमुपपद्यते । नन्वेवं, अस्ति विद्यते तिष्ठान्त्यादीनामपि न क्रियात्वं प्रसजेत्, यावता नोहापि क्रम उपलभ्यते । नैवम्, अत्रापि क्रमस्य प्रतीयमानत्वात् । तथाहि--- कालानिपाति यद्रूपं तदस्तीत्यपदिश्यते । परितस्तु परिच्छिन्ना बाव इत्येव कथ्यते ।। 4.27. एवं विद्यते तिष्ठातीत्यत्रापि द्रष्टव्यम् ; कालाधिकारे चैतद्धिशेषतो वर्णयिष्यमाः । नापि गणशः क्रमजन्मताधिश्रयणादीनामुतपन्नमत्र, प्रध्वंसित्वादयौगपदे समूहानुपपत्तेः । तदबावे च कथमिव भिन्नेषु भिन्नशब्दो वर्ततां पचतीति । उच्यते, क्रमोपजातावयववपरिच्छेदप्राप्तसंस्कारान्तं हि यदा सकलं क्रियाकलापत्तेः कलयति, तदा प्रत्ययः परिवर्तिसमुदाय एककार्यत्वादाहितभेदः पचतीत्यदिशब्दव्यपदेशनिंमित्तं भवति। तथाहि. ओदनादिकार्यक्रियाकलापस्तिरोधाय भेदमभेदेन व्यपदिश्यते । पचतीति फलस्य च सकलाक्रियावयवसाध्यत्वात् साधनभावेनापि स एवऽपेक्ष्यते । तदनन्तर्गतास्त्नधिश्रयणादयः प्रत्यकं फलमभिनिर्वर्तयितुमपर्याप्ताः पर्याप्तस्य समुदायस्य रूपसंपादननार्थत्वात्समुदायं प्रति गुणभूता विज्ञायन्ते । तदाह--- गुणभूतैपवयैस्समूबक्रमजन्मनाम् । बुद्ध्या प्रकल्पितो कभेदः क्रियेति व्यपदिस्यते ।। 4.28. यद्येवं पचतीति व्यपदेशो नोपपद्यते धातूपादानातीता न चानागता तदा वर्तमानकालविहितः प्रत्ययः प्रयुज्यते । न चाऽस्य क्रियाप्रतानस्येयं व्यवस्था संभवति, अधिश्रयणादीनां पूर्वापरीभावनियमात् ; न चैकः क्रियाभागः पचतिशब्दननिबवन्धनः शब्दशक्तिस्वभावात् । न हिय#ुपात्तक्रियावयवार्थप्रत्यायकश्शब्दो यथाभूतमर्थं प्रत्ययायति ; ततः कथमेकस्य वर्तमानकालतां प्रत्ययोऽनुरुध्येत ? नैतदस्ति, शब्दशक्तियो भिन्नरूपामभिन्नमर्थव्यक्तिमुपात्ताभेदात् दर्शयन्ति, यतः पूर्वापरीभूतावयसमुदायानुरूपाः बुद्धिर्यथावगृहीतं समुदायाकारमवयवेष#ु प्रत्ययस्येति तेऽवयवाः प्रत्ययेन समारोपसमुदायानुरूपाः पचतिशब्दवाच्यास्सन्तः स्वरूपसन्नधानात्तं वर्तमानादिव्यपदेसमनुभूय प्रत्ययविसेषोत्पत्तिनिमित्तं भवन्ति । तथा हि, अभिसमीहितफलः क्रियायं फलोपजननसाधनभूतायां वर्तमानः पुमान् समुदायमेवाधाय चेतसि तास्ववयवक#्रियासु प्रवर्तते । ततो ह्यस्य समुदायाभिसन्धिसमुत्थापिताः क्रियाभागाः समुदायसंपादनार्थत्वात् समुदायरूपेणाध्यवसीयन्ते । तथाऽथध्यवसितक्रियारूपैस्तु तस्य क्रिया क्षणस्य सन्निधानाद्वर्तमानकालविहितः प्रत्ययः प्रयुज्यते पचतीति । अत्र चोत्पन्नमात्रप्रयुक्तत्वात् स्रवे क्रियावयवा वर्तमाना न संभवन्तीति स्फुटमेवावसीयते ; किन्तु प्रत्येकं समुदायिषु समुदायाध्यासेन प्रयुज्यते पचतीति । अधिश्रयणाद्यवयवाक्रयामुदायवचनेशषु पचादिषु यस्मिन्नवयवेऽध्यारोप्य समुदायोऽधिश्रयणादिः विक्लित्यन्तः प्रत्याय्यते, तत्कालप्रत्ययोऽन#ुवर्तते । तत्र यदा वर्तमानावयवे समुदायाध्यासस्तदा पचतीति भवति। यदा तु भूतभविष्ययोस्समूहोरोपणे तदाऽपाक्षात् पक्ष्यतीति । तदुक्तम्---- समूहस्स तथाभूतः प्रतिभेदं समूहिषु । समाप्यते ततो भेदे कालबेदस्य संभवः ।। 4.29. समुदायस्य च समुदायिषु प्रत्येकपरिसमाप्तौ निदर्शनं, ग्रामो दग्धः, पटो दग्धः, इति । यदि ह्येस्मिन्नंशे समुदायो न स्यात् , पाणिमात्रस्याङ्गुलिमात्रक्य वा चण्डड्डत्ध्;ालत्वविरहात् चण्डड्डत्ध्;ालपाण्डड्डत्ध्;ङ्गुलिस्पर्शेनैवोच्येत चण्डड्डत्ध्;ालस्पृष्ट इति । न चाङ्गविकारेणाङ्घिनो विकृतिर्लक्ष्यते, अक्ष्णा काण इति । तदुक्तम् ; अवयवे हि स्पृष्टे समुदायोऽपि स्पृष्टो भवति ; अवयवे हि कृतं लिङ्गं समुदायस्यापि विशेषकं भवति ; यश्च समुदायः सोऽवयवान्न व्यभिचरति । तस्य विशेषकं यथा-- गोस्सक्थनि कण्ठेऽपि कृतं लिङ्गं गोरेव विशेषकं न गोमण्डड्डत्ध्;लस्येति । तदेवमुक्ते किमुक्तं भवति उपात्तक्रमाधिश्रयणादिविक्लित्यन्तानामवयवानां समुदायः पचतिक्रियेति ? तर्हि, चिरं जीवतु भवान् भवनैव प्रतिज्ञाता नैव क्रिया प्रत्यक्षेति । तस्मादिपात्तक्रियां क्रियावयवास्तदस्य क्रियासङ्घातस्य रेचिदवयवा निवृताः, केचिदनिवृत्ताः, कश्चिदेव प्रत्युपस्थितः । उपस्थितविषयाः चक्षिपरादयः, ततोऽथ क्रियाकलापादयः प्रत्यक्षयितुं चक्षुरादिभिरभिसंबन्धात् न व्यतीतानामतरूपस्यासतः क्रियावयवस्य सदासदानुपातिना ककारणग्रामेण संबन्धो, न वाऽनधिगतेन्द्रियसंबन्धस्य पदार्थस्य दर्शनपरिच्छेद्यता संभवति । तदुक्तं--- क्रमात्सदसतां तेषामात्मनो न समूहिताः । सद्वस्तविशयैर्यान्ति संबन्धं चक्षुरादिभिः ।। 4.30. दर्शनाभिमानः कथमिति चेत्, यथा गौरश्व इत्येवमनादिषु पदेषु गकारादयो वर्णभागाः क्रमरूपाननुविधायिनो व्यक्तावुपजने वा प्राप्तयौगद्यासङ्गातरूपेण न पार्यान्तेऽवधारयितुं, इन्द्रियायत्तया बुध्द्या तस्याः प्रत्युपस्थिताक्षरावसायशक्तेः पूर्वोत्तरभागयोरसंस्पर#्शात् । समभिहितावयवपरिच्छेदप्रापितातिशयास्तु बुद्धयः स्वानुरूपं संस्कारपरंपरामन्ते समालोचितविशेषवर्णभागामुपजनयन्ति तस्यामुत्कीर्णबुद्धिमिव तत्पदं समुदायात्मना निरूप्यते । तदाह--- यथा गौरिति सङ्घातस्सर्वोनेन्दियगोचरः । भागशस्तूपलब्धस्य बोद्धौ रूपं निरूप्यते ।। 4.41. काल्पनिकस्तु युगपद्न्रहणाभिमानः प्रत्यक्षभ्रमनिबन्धनम्। यथाऽलातस्य विद्धविश्वशते । देशे नैरन्तर्या न परिवृत्तिरूपमपि रामेणावधारयन्नयनावसितकालभेदो युगपत्सकलदेशव्यापि परिच्छिन्नध्यवस्यति, चंक्रमिति यथा क्रमवन्तः क्रियाबागाः क्रमेणैवावसिता लघुतरं परिवर्तित्वातदनवधृतकालभेदैर्युगपदेवाध्यनसीयन्ते ; यथाऽध्यवसायं च दर्शनाभिमानमुत्रादयन्तः प्रत्यक्षव्यवहारं वर्तयति । यदुक्तम्--- इन्द्रियैरन्यथाप्राप्तौ भेदांशोपनिपातिभिः । अलातचक्रवद्रूपं क्रियाणां परिवर्तितम् ।। 4.42. अप्रत्यक्षैव तु क्रिया । यदाह महाभाष्यकारः -- क्रियाणामेवमत्यन्तापरिदृष्टा अशक्या निदर्शयितुं, यथा गर्भो निर्लुठितस्यासावनुमानगाम्यति । ननु प्रत्यक्षप्रवृत्तौ संबन्धग्रहणाभावात् कथं क्रियाविषेयेऽनुमानं वर्तते ? नैष दोषः, धातुवाच्यस्य समूहस्य युगपदसन्निधानात्प्रत्यक्षत्वम् । एकाकस्य तु लक्षणस्य प्रत्यक्षत्वे बुद्ध्या सङ्कय्य पटचतीति प्रयुज्यते, यदाप्येकस्मिन् क्षणे पचतीति प्रयोगस्तदा तत्र समूहारोपणम् । यदाह--- पूर्वोत्तरैर्यदा भागैस्समवस्थापितक्रमः । एकस्सोप्यसदध्यासादाख्यातैरभिधीयते ।। यश्चापकर्षपर्यन्तमनुप्राप्तः प्रतीयते । तत्रैकस्मिन् क्रियाशब्दः केवलेन प्रयुज्यते ।। 4.43. न त्वेवमिन्द्रियैरभिसंबन्धात् सरूपसन्निधानाय वर्तमानाव्यपतदेशाञ्च कथमप्रत्यक्षत्वे क्रियायाम् ? उच्यते, नेह वस्तवर्थो नुरूप्यते, अपितु शब्दार्थः । तत्र चन्वव्यतिरेकाभ्यां यः कप्रकृत्य्रथोऽवस्थाप्यते, या क्रियावचनस्य धातुसंज्ञा, नासौ शक्या साक्षादुपलब्धुम् । थत्र हि आचार्याणां मदभेदः ; एके मन्यन्ते--अधिश्रणादीमनां समुदायो बुद्ध्या निगृहीतः, एकत्वेन स पचतीत्यादीनां वाच्य इति । न च समुदायं पचतीति प्रयुञ्जानः प्रत्येकमधिश्रयणाजिषु प्रत्यस्यति, प्रत्ययाश्च न समुदाय इत्येवं रूपं प्रत्यस्यन्ति । नाप्ययं चायं चेति संबन्धिनो बुद्ध्याव्गृढद्धठ्ठड़14;णाति । किं तह्र्याश्रितक्रमनिरूपमिव प्रत्येकमवयवेषु प्रत्यस्य पचतीति प्रयुङक्ते, तदा तस्यैव समीहितं भवति, अधिश्रयणाद्यनुपूर्वा फलमोदजनादि निर्वर्तयितव्यमिति । यथा प्रथमख्रियास,#ंभागे पचिरित्येवाध्यवस्याति नाधिश्रयणमिति । इथरथा ह्येवं प्रयोगस्तस्याधिश्रयतीति यदाचाधिश्रयणे निर्वृत्तेनागते वा भूतभविष्यत्कालाभिधायिनं शब्दं प्रयुङ्क्ते, तदा समुदायरूपप्रत्यासेनैव तमवयवबुद्ध्या निगृह्य प्रयुङ्क्ते अपाक्षीते पक्ष्यतीति । न त्वधिश्रयणरूपेण, अन्यथा ह्येवं प्रयोगस्स्यात् अध्याशिष्यतीति । एवामापनेपि च घटने वा समूहिनि समुदायरूपाप्राप्त्या धातुत्वादेव व्यपदेशात् । पचत्यपाक्षीत् पक्ष्यतीति, एवं भूताश्चार्थात्माऽधिकृतस्साधनतन्त्रसाध्यावस्थः शब्देन प्रक्रान्तोऽशक्य उपलब्धुं ; यथा--गौरिति गकारौकारविसर्जनीया एवोपलभ्यन्ते । समुदायस्तु ब#ुद्धिनिग्र्राह्य एव ; तथा पचतीत्यादिष्वेवाधिश्रयतीत्यवयवादिषु अवय एव हस्तप्रसरणस्थालीविन्यासादयोऽशब्दवाच्य प्रत्यक्षा एव। यावदपकर्षपर्यन्ताप्राप्ता क्रियेति सापि नाप्रत्यस्ते क्रमरूपे समुदाये आख्यातशब्देवनाभिधीयते । अपकर्षपर्यन्ता चेत्क्रमरूपेण नाऽवगृढद्धठ्ठड़14;णादीति अवाचक एवाख्यातशब्दाः यथा--श्लोकशब्दं प्रयुञ्जनो भाद्यं पदं पदरूपेणावगृढद्धठ्ठड़14;णाति न तदा श्लोकस्समुञ्चार्यत इति प्रयुङ्क्ते । यदा त्वाश्रितोत्तरप्रबन्धमवगृढद्धठ्ठड़14;णाति तदा श्लोकशब्दं प्रयुङ्क्ते । एवं कृत्वा निरुक्तेत्युक्तं पूर्वापरीभूतं भावमाख्यायते नाचष्टा इति । अन्येषां दर्शनं यद्विचटनं तण्डुड्डत्ध्;लावयवानां तण्डिड्डत्ध्;लावयवेभ्यो विभागाः ; यदनन्तरं मा भवादयो निष्पद्यन्ते । तद्यदाऽधिश्रयादिषु प्रत्यस्तरूपं भवति तादऽख्यानेनाभिधीयते । तत्र यदजुपलभ्यतेऽधिश्रयणं तदशब्दवाच्यं ; कारकनिराकांक्षं यच्छब्देनाभिधीयते तदनिष्पन्नं ; साधनतन्त्रमप्रत्यक्षं निषेपन्नानिष्पन्नयोश्चैकान्त्यात्मायत्तौ पचत्यादिशबदप्रयोगः । स चायमेवंरूपोऽर्थात्मा गुणाक्रियाणां पौर्वापर्यात्मनां पूर्वो न परश्च पूर्वापरीभूते व्यपदिश्यते । अन्ये तु विचटनमेवाधिश्रयणादिरूपं पर्रतिपन्नाः , न रूपशूवन्याधिश्रयणादीन् प्रत्यस्तविचटनरूपामनाहुश्च कः पुनः पचेः प्रधानार्थः य#ोऽसौ ?? तण्डुड्डत्ध्;लानां विक्लित्तिः ? 4.44. अथावा यदभिसंधिपूर्वकं प्रषणमध्येषणं वा सर्वः पच्यर्थ इति सर्वस्मिन्नपि दर्शने यथा--भूताख्यताशब्दो न क्रिया प्रक्रम्यते । तथाभूतायास्सिद्धमप्रत्यक्षमिति फलेनैव सम्धिगमो युक्तं कथमिति चेत्, इह सर्वेषु साधनेषु सन्निहितेषु कदाचित्पचतीत्येतद्भनति, कदाच#िन्न भवति, यस्मिन्निमित्ते सन्निहिते पचतीत्येतद्भवति । सा नूनं क्रियायां देवदत्त इह भूत्वा पाटलिपुत्रे भवति । सा नूनं क्रियेति द्वितीयहेतुमत्या सोऽप्यर्थ इति चेन्नैवम् ; इह कस्यचिदेषा बुद्धिः स्यात् ; असत्येवाऽस्मिन्निमित्ते पचत्यादिबुद्धयः प्रवर्तन्ते, यथा मृगतृष्णिकादिशष्विति तदनेन निर्वर्तयति । मृगतृष्णिकादिभ्यो हि तृप्तिमलापकर्षण धर्मापनोदनादि न फलं निवर्तते ; असर्वगतया हि देवदत्तपाचलिपुत्रयोर्गमनक्रियान्तरनैरन्तर्येणावस्थानरूपं फलमिपलभ्यते । 4.45. अथवा एतदयं प्रतिपद्येत , शक्तिकृताः पचत्यादयो विशेषाः सत्प्रत्याश्च स्युः, न क्रयाकृता इति । तदनेन निर्वर्तयति, यावां देवदत्त इह भूत्वा पाटलिपत्रे भवति सा नूनं क्रियेति । यदि ह्येते शक्तिकृतास्स्युः शक्त्यानन्तरमेव पाचलिपुत्रेण प्राप्तिस्सयात् । नच भवति तसमात् शक्तिकृते नान्येन धर्मेण,, यस्य फलं देशान्तरप्राप्तिरिति । क्रियामन्ये तु मन्यन्ते क्कचिदप्यनपाश्रिताम् । सा नावार्थावबालसत्वे प्रवृत्तिरनपायिनी ।। सामान्याभूता धात्वर्थैस्सा पुनः प्रविभज्यते । ततो व्यापाररूपेण साध्ये प्रयवतिष्ठते ।। प्रकृतिस्साधनानां सा प्रथमान्तमकारकम् । शक्तिरेकाधिकरणे स्त्रोतोवदपकर्षति ।। अपूर्वं कासशकिं्तवा क्रियायाः कालमेव वा । तमेकं लक्षणं केचिदाहुः कथञ्चन ।। 4.46. सा तु यथा अस्ति भवति ककरोतीत्यादिक्रियावच्छेदे भेदाभिन्नाऽपि भिन्नेव प्रकाशते, तथा क्रमरूपोपरादानान्नित्यमेव कालसंबन्धोभूतभूतभविष्यदादिव्यपदेशमासादयति । कः पुनरयं कालो नाम ? क्रियैव क्रियान्तरावधृतपरिमाणव्यवच्छिन्ना वा क्रियापरिच्छिन्नहेतुः कालः,कथं पुनः क्रियायैव क्रियापरिच्छित्तिः ? श्रयताम् । इह तु क्रियाः काश्चित्क्रियान्तरैः कैश्चिद्वुद्ध्यैव परिमीयन्ते । यथा--अर्कादीनां गतयः यथा च गोदोहादयः, तथाऽस्मादादिव्यापाराः । यथा-- पुरुषायुषादयस्तत्रावधृतपरिमाणाबिरितराः परिच्छिद्यन्ते ; यथा--दिवसं गच्छति, वर्षशतं जीव, ओदनपारकमास्ते, गोदोहं स्वपिति । तत्र परिच्छेदकालवयवहारं वर्तयन्ति ; यथा -- सवितुरुदयादिरस्तमयपर्यन्तः क्रियाप्रबन्धो दिवसः, स एवस्तमयादिः पुनरुदयावसानो निशा, सर्वाककर्षाणां सकृत्परिवृत्तिरहोरात्रः, कलाबिरिन्दोराप्यायनं परिक्षयो वा पक्षः, चन्द्रस्य सकलंनक्षत्रातिक्रमोमासः, सूर्याचन्द्रमसोर्गतिविभागादेकाहोररात्रक्षय ऋतुः, रवेर्दक्षिणत उत्तरते वा गमनमयनं, वृहस्पतेरेकृरात्र्यतिक्रमस्संवत्सर इति । तेन चोक्तानुक्तं क्रिया कालोऽवाच्छिद्यते । यथा--दिवा दिवः, दिवसो निशाचाहोरात्रः, पञ्चदशाहोर#ात्रः पक्षः, पक्षद्वयं मासः, मासद्वयमृतुः, ऋतुत्रयमयनं, अयनद्वयं संवत्सरः, पञ्च संवत्सारा युगम् । युगानि द्वादशा कलपः, कल्पशतानि द्वादश महाकल्पः, महाकल्पष्टिश्चतुर्युगं, चतुर्युगानि द्विसप्ततिर्मन्वन्तरम्, मन्वन्चराणि चतुर्दश ब्रह्मदिवसः, तावत्येव तन्निश#ा प्रलयः, तन्मानेन वर्षशतान्ते ब्रह्मणोऽपवर्गो महाप्रलयः । यथा वा सूर्यस्य भगणभोगो वर्षे, राशिभोगो मासः, मासातिं्रशांशो दिनं, दिनष्ट्यंषा कला, कलाषष्ट्यंशा विकला, विकलाषष्ट्यंशः तत्परेति । तत्र यथा--रजतान्यधिकरणगौरवमवधृतपरिमाणद्रव्यान्तरसंबन्धसमुत्कीर्णपरेखस्तुलादण्डड्डत्ध्;ः । रेखासु सूत्रावस्थानफलशः कर्षशोभा परिच्छिनत्ति । तथा कालदिनादीन्वयवस्थानवशेन भागशः कालान्तरं परिच्छिनत्ति । परिमाणां परिमिमीते क्रियानियमैः काकलावच्छेदनियमः यथा--परिमाणो स्ववष्टुब्धप्रदेशो क्मलक्षणः, पश्यमसंपातो निंषः, इत्यत्क्षेणे इयन्न#िमेषो वा नाडिड्डत्ध्;का, द्विनाडिड्डत्ध्;को मुहुर्तः, पादोनचतुर्मुहूर्तो यामः, यामाष्टकमहोरात्रः इति । बुद्ध्यनवच्छेदेन वा कालपरिच्छेदः, यथा--अर्कस्य उदायाविदूरता प्रत्यूषः, पुरुशभ्रूप्रदेशता दीर्घता पूर्वढद्धठ्ठड़14;णः, तपमा मध्याढद्धठ्ठड़14;नः, परावृत्या दर्शनमपरढद्धठ्ठड़14;णः, अस्तमयासन्नताभिसन्ध#ि#ः सन्ध्येति । रोत्रेः प्रारम्भो निशामुखं, निशामुखाद्रात्रेस्तुर्यंशः, अर्धरात्रमुभयतो निशाष्टमो निशीथः, निशीथात्तावन्मात्रमपररात्रः, परतो निशावसेषः प्रभैतमिति क्रियाविशेषैः कालविशेषावगमः । तथाहि-- शयाने शेरते रात्रै दिवा जाग्रति जाग्रति । जगत्प्रदीपे पद्मानि कलत्राणीव भर्तरि ।। रतान्तकालकान्तस्त्रीदृग्विलासैकसाक्षिणी । निशा नीलोत्पलानीकेनिमीलति निमीलते ।। चञ्च्वग्रचिम्बिताताम्रचूतांकुरकगदम्बकैः । कथ्यते कोकिलैरेव मधुर्मधुरकूजितैः ।। दिवाकरकारालतपातनिर्दग्धवीरूधः । मार्गास्समल्लिकामोदा भाविग्रीष्मस्य शंसनिः ।। शिखण्डिड्डत्ध्;मण्डड्डत्ध्;लारब्धचण्डड्डत्ध्;वडड्डत्ध्;वडड्डत्ध्;म्बरैः । प्रावृडड्डत्ध्;ाख्ययते मेधमेदुरैर्मेदिनूधरैः ।। मैलिकाकारनिस्तारि तारानिकरचित्रितम् । शरत्पिशुनतां याति यामुनाम्भोनिभं नभः ।। आयामियामिनोभोगसफलाभोगविभ्रमाः । हेमन्तमभिनन्दन्ति सोष्माणस्तरूणीस्तनाः ।। आस्कन्दवदलत्कुन्दकलिकोत्करदन्तुराः । वदन्ति शिशिरं वातास्तुषारकणकर्कशाः ।। 4.47. वाल्ययैवनरैमारयौवनादयो मौग्ध्यमाध्यप्रागल्भायश्च क्रियाविसेषव्यङ्याः कालविशेषाः एव । वयो हि देहितां वत्सरादिभिः कालभेदः ; वयोनिमित्ताश्च तेषां मैग्ध्यादय इति । उच्यते --- उत्ताललकभञ्चनानि कबरीभारेषु शिक्षारसो । दन्तानां परिकर्म नीविनहनं भ्रूलस्ययोग्याग्रहः ।। तिर्यग्लोचनवल्गितानि वचसां छेतोक्तिसङ्गक्रान्तयः . स्त्रीणां म्लायति शैशवे प्रतिकलं कोऽप्येष केलिक्रमः ।। 4.48. व्यसनोत्सव नित्यनैमित्तिकक्षणप्रकीर्णचन्दोयचन्द्रस्तमयप्रभृतयश्च कालव्यपदेशभाजो गोदोहादिद्वेदितव्याः । अपिच, परावरचिक्षिप्रक्रमोत्क्रमविभागवान् । कालक्रियाविसेषाभिव्यङ्ग्यारीतिः प्रतीयताम् । तथाहि ; उत्पत्त्यादिक्रियाणां प्रथमत्वे परः तथेयं बाला ज्येष्ठा च वैपरीत्ये पुरपरः यथैषा प्रगल्भा कनिष्ठा च । साधनानां मनेदसापातित्वे चिरः यथा--वत्स्यति कालः, भोक्ष्यते तालफलं, तदन्यथात्वे क्षिप्रः यत #ो भिन्नश्च वंशकारी, शिरागतश्च प्रमाणं, क्रियाणां अपौर्वापर्यै युगपत्, यथा दिवसाग्रतो निशा, निशाग्रतो दिवस इति। सेयं वस्तुनश्शाक्तिः पाकगप्रभावा स्वाभाविकी क्रियैव, क्रियापरिच्छेदहेतुः कालः ; क्रियाश्च ता भविष्यन्ति वर्तमानाः अव्यक्ताश्च । तत्र व्यतिपतितसाधनभूता यथाऽपाक्षीदिति, अनागताऽसन्निहितसाधना च भविष्यति यथा पक्ष्यीति, अवाप्ता अप्र्चयुतस्वरूपा वर्तमाना यथ#ा पचीतीति, अनिर्धारिताविशेषा अव्यक्त यथा पचेदयमिति, तन्निबन्धनश्च लोके, अद्यशअवः, परश्वः, परेद्युः, अन्येद्युः, उभयेह्युः, इदानीं, एतर्हि, एषमः?, परुत्, पारारि, शश्वत्, स्वः, भूः, सद्यः, पुरा, ह, स्म, यावत्, तदा, यदा, अन्यादा, एकदा, सदेति व्यवहारः लुङादीनां भूतादिषु स्मरणमिति । 4.49. अन्ये पुनः क्रियान्यतिरिक्तमनुदायास्तमभिन्नमनवावच्छिन्नदेशं च द्रव्यं पृथग्विधानेकशक्तिशतसहस्त्रपाकायतनं जगत्प्रत्तिनियमकारणं क्रियापरिच्छेदहेतुमदृष्टाद्यपेक्षं कालामाचक्षते ; स च क्रियापरिच्छेद्यः किलेति । केचिदाहूश्च--नित्यो व्यापि संप्रति भूतविष#्यत्क्रियासमावोशात् । आकाशक्लप एको द्रव्यात्मा भिद्यते कालः ; तञ्चासमीचीनमेवेति ब्रूमः । क्रिया हि साध्यत्वात् साधनमेवापेक्षते । न च क्रियाविश्ष्टस्यापि द्रवयात्मनः कालकारकेण संबन्धो घटते, द्वयोरपि सिद्धत्वात् । तस्माद्द्रव्यपूपे क्रियरूपे वा क्रियामेव व#िशेषयति । स च तद्विशिष्टा कारकविशेषमुपतिष्ठते । यदाह-- गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते । प्रधानस्योपकारित्वे तथा भूयसि वर्तते ।। कलाभिः पृथगर्थाभिः प्रविभक्तं स्वभावतः । केचिद्बूनुसंधानलक्षणतत्वं प्रचक्षते ।। सत्तालक्षणमन्ये तु क्षणरूपं तथाऽपरे । देवतावस्तुशक्त्यात्मस्वरूपमपरे विदुः ।। तमस्य लोकयन्त्रस्य सूत्रधारं प्रचक्षते । प्रतिबन्धाभ्यनुज्ञाभ्यां वृत्तिर्या तस्य शाश्वती ।। तया विभज्यमानोऽसौ लभते क्रमरूपताम् । तृणराजस्य या वृद्धिस्तवाचिसारस्य वा दधत् ।। चिरक्षिप्रादिभेदे च कालकत्वं विकल्पते । व्यतिक्मेऽपि मात्राणां न तस्यास्ति व्यतिक्रमः ।। नियन्तृगतिभेदेन मार्गभेदोऽस्ति कश्चन । दूरान्तिकव्यवस्थावनमध्वादिकरणं यथा ।। चिरक्षिप्रव्यवस्थानं कालाधिकरणं तथा । क्रियोपाधिस्स या भूतभविष्यद्वर्तमानता ।। परावरविभागार्थं सा शक्तिः प्रतिपाद्यते । भूतानां चैव यद्रूपं रूपं यद्भाविनामपि ।। सुदुर्दर्श इवादर्शे काल एवोपलभ्यते । क्रियाभेद्यथैकÏस्मस्तक्षाद्याख्या प्रवर्तते ।। क्रियाभेदात्तथैकस्मिन् नृत्वाख्याचोपजायचते । विसेष्टमपि धत्तं तमुपादायावकल्पते ।। कालः कालविदामेकः कालादिप्रविभक्तये । तृणपर्णलतादीनि यथा स्त्रोतोऽवकर्षति ।। प्रवर्तयति कालोऽपि मात्रा मात्रावतां यथा । प्रारम्भावेशनिष्ठासु स्थितिविप्रतिपत्तिषु ।। साम्योत्कर्षेषु निमित्तं काल इष्यते । संसर्गिणां तु ये भेदा विशेषास्तस्य ते मता #ः ।। संभिन्नस्तैव्यवस्थानां कालो भेदाय कल्पते । प्रतिव्यवस्थं कालस्य व्यापारो न व्यवस्थितः ।। कालो वा विश्वरूपात्मा व्यापारा इति कथ्यते । क्रियावच्छेदहेतुं वा क्रियावच्छेद्यमेव वा ।। कालात्मानमनाश्रित्य व्यवहर्तुं न शक्यते । तस्य व्यक्तस्वरूपस्य व्यवहारे क्रियाकृताः ।। भूतादयो महाभेदा यान् लोको नातिवर्तते ।। 4.50. के पुनस्ते यान् भूत उपाधौ लुङादिविषयानुदहरिष्यामः । तदेतत् द्रव्यात्मनः क्रियात्मनो वा क्रियापरिच्छेदिनः कालस्य स्वरूपमभिहितम् । अथापरमपरिमेयात्मनो देवतादिरूपस्य स्वशक्तिनिमित्तविशअवप्रवृत्तिपरिच्छेद्यस्य तस्य परिच्छेदिनो वा क्रियाहेतिशक्तयायतनभूतद#्रव्यरूपपरिणतं निवृत्तं वा, न समस्तनिवृत्तसंग्रहानुग्रहादिनित्यवनैमित्तिकादिरूपं, स्वरूपमस्ति । तत्पुरस्तात् प्रतिपादितं ; अग्रतश्च विशेषतः प्रतिपादयिष्यत इति नेह प्रतन्यते, संबन्धावच्छेदार्थं तु लेशतो अभिधीयत इति । तत्प्रभेदाद्द्रव्यरूपोऽपि कालश्चतिर्ध#ा--नित्यो, नैमित्तिकः, स्वाभाविको, वैपरामर्शिक इति । तेषु नित्यश्शश्वतिको वैकल्पिकः नैयोगिकश्च त्रिधा । नैमित्तिकोऽपि औद्योगिकः औपयोगिकः प्रायोगिकश्चेति त्रिविधः । एवं स्वाभाविकोऽपि आगन्तुकः नैसर्गिकः सामसर्गिक इति त्रिधा । वैपरामर्शिकोऽपि सङ्कीर्णः प#्रकीर्णो विप्रकूर्ण इति त्रिधैव । तेषु क्षणनिमेषनाडिड्डत्ध्;कामुडूड्डत्ध्;र्तप्रहराहोरात्रस्वपश्शाश्वतिक, अयं हि शश्वत्प्रवर्तमानो नावधिविशेषमपेक्षते । यथा -- क्षणे निमेषे नाडड्डत्ध्;्यां वा मुहूर्ते प्रहरेऽढिद्धठ्ठड़14;न वा । गते त्वमेष्यसीत्युक्ते रुरोध पथिकं प्रिया ।। 4.51. दिनारात्रिपक्षमासत्र्वयनरूपो वैकल्पिकः । अयं हि सूर्योदयादिविश्ष्टमधिमपेक्षमाणो विकल्पाय प्रभवति । यथा--- दिनानि रात्रयः पक्षमासावृतुरथायनम् । जरा वै यद्यदङ्गानां तत्तत्प्रेम्णो रसायनम् ।। 4.52. संवत्सरयुगकल्पमन्वन्तरप्रलयमहाप्रलयरूपो नैयोगिकः । अयं हि वृहस्पतितारायणमुरमथनब्रह्मणां राज्यादिवृत्तिविशेष्टमेवावधिमपेक्षमाणाः प्राणिनो विशिष्टासु प्रवृत्तिषु नियुङ्क्ते । यथा---- संवत्सरैर्युगैः कल्पैर्मनुभिः प्रलयैः क्षयैः । हीयते हि जगत्सर्वमेकः कामो न हीयते ।। 4.53. तेऽमी शाश्वतिकवैकल्पिकनैयोगिकास्त्रयोऽपि कालभेदा नित्या उच्यन्ते, नित्यरूपेणैवानिवारितप्रवृत्तित्वात् । प्रातःप्रत्यूषपाढद्धठ्ठड़14;णमध्याढद्धठ्ठड़14;नसन्ध्यारूप औद्योगिकः । अयं ह्युपेक्षितहविर्भागपौर्वापर्यावधिः प्राणिनां प्रबोधोत्थानस्ननभोजनप्रसाधनविहारादेरुद्योगस#्य निमित्तं भवति । यथा--- प्रातः प्रत्यूषयोरस्नाति भुङ्क्ते सन्ध्यापराढद्धठ्ठड़14;णयोः । प्राढद्धठ्ठड़14;णमध्याढद्धठ्ठड़14;नयोर्यूनां शते मनसि मन्मथः ।। 4.54. अयं ह्यपेक्षितपरात्रिविभागपौर्वापर्यावधिः कामिनां दूतीसंप्रेषणप्रेक्षानिद्रासुखमधुपानाभिसरणादेरुपभोगस्य निमित्तं भवति । यथा ---- निशामुखे प्रदोषे च निशीथापररात्रयोः । इन्दोः प्रकाशे नाशे वा सुप्तः कामो विबुध्यते ।। 4.55. शरद्धेमन्तशिशिरवसन्तग्रीष्मरूपः प्रायोगिकः । अयं ह्यपेक्षितसंवत्सरविषुपौर्वापर्यावाधिं प्राणिनां कामकृतचित्तेवैकृतानां प्रयोगनिमित्तं भवति । यथा--- शरद्धेमन्तयोरन्यदन्यद्वर्षावसन्तयोः । हिमर्तुग्रिष्मयोरन्यत्कामावस्था प्रवर्तते ।। 4.56. तेऽमी त्रयोऽप्यौद्योगिकौपयोगिकप्रायोगिकाः कालभेदाः नैमित्तिकाः, नित्यत्वेप्येशामुद्योगादेर्निमित्तात्वात् । मदप्रमादाभ्युदयोत्सवव्यसनपरिहाराभिरूप आगन्तुकः । स हि विशिष्टक्रियोपनिपातादिकमवधिमपेक्षमाणः प्राणिनां मदप्रमदादिरूपेणैवागच्छति । यथा --- मदप्रमदहर्षेषु व्यसनेषूत्सवेषु च । परिहासेषु च प्रायः कामस्सामान्यमर्हति ।। 4.57. बाल्यकौमारयौवमनमैग्ध्यमाध्यस्थ्यप्रागल्भ्यादिरूपो नैसर्हिकः । अयं हि वयोभागादिकं विशिष्टमेवावधिमपेक्षमाणः प्राणिनां निसर्गत एव भवति । यथा --- गौगाध्यप्रागल्भ्यमाघ्यस्थ्यबोल्यकौमारयौवनैः । आतिष्ठति पदैष्षड्ड्डित्ध्;भः त्रिजातिः कामषट्पदः ।। 4.58. परापरयौगपद्यचिरक्षिप्ररूपस्सांसर्गिकः । अयं हि प्रवृत्तिसाधनानां पूर्वापरत्वे सहेकत्वे मन्दशीघ्रसमपातित्वे च क्रियास्वपेक्षामाणो मिथः स्सर्गाय प्रभवति । यथा---- कमेण युगपत्पूर्वमग्रतो द्राक् चिरेण वा । समासजन्त्यश्चेतांसि न ज्ञायन्ते स्वरार्तयः ।। 4.59. तेऽमी आगन्तुकनैसर्गिकसांसर्गिकास्त्रयोऽपि कालभेदाः स्वाभाविका उच्यन्ते ; स्वभावतः प्रवर्तमानत्वात् । देश्यक्रीडड्डत्ध्;ाकलिकेलिद्युतव्रतगोष्ठीविप्रेक्षादिरूपस्सङ्कीर्णः । स हि विशिष्टं तं तमवधिमपेक्षमाणस्संभूय प्रवर्तितस्सङ्कीर्ण एवं भवति । यथा --- व्रतेषु गोष्ठीप्रक्षासु केलिद्युतेषु केलिषु । देश्यक्रीडड्डत्ध्;ासु चानङ्गः पुनङ्गेन युज्यते ।। 4.60. विविक्तं दीर्घिकोद्यानसौधक्रीडड्डत्ध्;ादिदर्शनरूपः प्रकीर्णः । स ह्येकस्य वा परिमितपरिवारस्य वा विशिष्टावधिक एव प्रकीर्णकन्यायेन यदाकदाचिदुत्पद्यते । यथा --- विविक्तदीर्घाकोद्यानसौधाक्रीडड्डत्ध्;ादिदर्शने । लतावेश्मोपवेषे च कामः कमेन युज्यते ।। 4.61. अष्टमीचन्द्रकेन्द्रोत्सवयक्षरात्रिकुन्दचतुर्थीसुवसन्तकमदनत्रयोदश्यादिरूपो विप्रकीर्णकः । स हि विशिष्टमष्टम्यादिकालमेवावधिमपेक्षमाणः कामिभिर्निर्वत्र्यते । समस्तेष्वपि देशेषु विप्रकीणं इव दृश्यते इति । यथा --- अष्टमीचन्द्रके कुन्दचतिथ्र्यां सुवसन्तके । हरस्मरार्चा शक्रार्चा यक्षरात्रिषु वर्धते ।। स एव कालः कार्त्स्न्येन द्विरूप इव दर्शितः । क्रियापदैकवाच्यो यः क्रियायास्साधनं च यः ।। 4.62. किं पुनस्साधनं स्वपराश्रितक्रियाभिनिर्वृत्तिहेतुश्शक्तिमदद्रव्यं, यद्द्रव्यं कारकमित्याचक्षते । कारकशब्दशअचायमव्युत्पवन्नः क्रियानिमित्तवचनो लोकतस्सिद्धः करोतीति वा कारकशब्देन शक्तिमद्रव्यमुच्यते । तथाहि ---- निष्पन्न्मात्रे कर्तृत्वं सर्वत्रैवास्ति कारके । व्यापारभेदापेक्षायां करणादित्वसंभवः ।। पुत्रस्य जन्मनि यथा पुत्रोः कर्तृत्वमुच्यते । अयमस्मादियं त्वस्मदिति भेदाविवक्षया ।। शक्तिमात्रा समूहस्य विश्वस्यानेकधर्मिणः । सर्वथा सर्वदाभावात्क्कचिÏत्कचिद्विवक्ष्यते ।। सर्वत्र सहजा शक्तिर्यावद्रव्यमवस्थिता । क्रियाककालेत्वभिव्यक्तिराश्रयः परकारिणी ।। साङ्गसंयोगिनः पाशादन्यानां वारणा यथा । व्यज्येन्ते विजिगीषूणां द्रव्याणां शक्तयस्तथा ।। तैक्ष्णगौरवकाठिण्यसंस्थानैः स्वैरसिर्यदा । भेद्यं प्रतिव्याप्रियते शक्तिमारुह्यते तदा ।। स्वाश्रये समवेतानां तद्वदेवाश्रयान्तरे । क्रियाणामभिनिष्पत्तेर्निमित्तं शक्तिरिष्यते ।। तत्वे वा व्यति रेके वा व्यतिरिक्तैव सोच्यते । शब्दप्रमाणको लोकस्स शास्त्रेणानुगम्यतं ।। 4.63. तत्र शक्तिमतो द्रव्यस्य कारकाख्यायामवान्तरव्यापारनिबन्धनाः षडुड्डत्ध्;पाख्या भवन्ति, कर्ता, कर्म करणं संप्रदानामपादानमधिकरणं चेति । तेषु स्वतन्त्रः, कर्ता, किं पुनस्तस्य स्वातन्त्र्यं, यत् करणादीनि प्रयुङ्क्ते, न तैः प्रयुज्यते । तानि न्यक्करोति, न तैर्न्यक्क्रियते ; न तैर्निर्वत्र्यते, तानि तानि निर्वर्तयत्, तानि प्रतिनिधत्ते न तैः प्रतिनिधीयते । तेभ्यस्सः प्रथममात्मानं लभते, न तानि । तस्मात् स तैर्विनाऽपि दृश्यते, न तानि तेनेति । तदाह--- प्रागन्यतश्शक्तिलाभान्न्यग्भावापादनादपि । तदधीनप्रवृत्तित्वात्प्रवृत्तानां निवर्तना ।। अदृष्टत्वात्प्रतिनिधेः प्रविवेके च दरशनात् । आरादभ्युपकारित्वे प्राधान्यं कर्तुरुतच्यते ।। 4.64. कथं तर्हि न्यक्कृतेषु करणादिषु कारकत्वं स्वव्यापारे प्रधानव्यापारे च #्सवातन्त्र्यात् । गुणक्रियाणां कर्तारः कत्र्रा न्यक्कृतशक्तियः । कारणत्वादिभिर्जाताः क्रियाभेदानुवादिभिः ।। व्यस्तायामपि संपूर्णैस्स्वव्यापारैस्समन्वितः । स्वातन्त्र्यमुत्तरं लब्ध्वा प्रधाने यान्ति कर्तृताम् ।। यथा राज्ञो नियुक्तेषु यीद्धृत्वं योद्धृषु स्थितम् । तेषु वृत्तौ तु लभते राजा जयपराजयौ ।। तथा कत्र्रा नियुक्तेषु सर्वेष्वेकार्थकारिषु । कर्तृत्वं करणादित्वैरुत्तरं न विरुद्ते ।। 4.65. कत्र्रादीनां च षण्णामपि प्रत्येकं त्रिप्रकारत्वादष्टादषप्रभेदा भवन्ति । तत्र कत्र्रा स्वतन्त्रः, हितुः, कर्मकर्ता च, कर्म निर्वत्र्यं विकार्यं प्राप्यं च , करणं बाह्यमाभ्यन्तरं बाह्याभ्यन्तरं च, संप्रदानं ददातिकर्माप्यं कर्ममात्राप्यं च, अपादानं निर्दिष्टविषयमनिर्दिष्टविषयमुपात्तविषयमपेक्षितक्रियं च, अधिकरणं वैषयिकमौपश्लोषिकं नैमित्तिकं चेति । तञ्च कर्तृभदेषु स्वतन्त्रः समर्थाऽसमर्थस्समर्थासमर्थः, संबन्धोऽसंबन्धस्संबन्धासंबन्धश्च । तेषु समर्थो यथा --- व्रजति, पचति, अस्ति, श्वेतते । असमर्थो यथआ--जायते, विरमति, नश्यति, विकरोति । समर्थासमर्थो यथा---चैत्रस्य रुजति, चैत्रस्यामयति, चोरं ज्वरयति, चोरं संतापयति। संबन्दो यथा --प्रियं दृष्ट्वा सुखं भवति, रिपुं दृष्ट्वा दुःखमुत्पद्यते, रम्यं श्रित्वा दिदृक्षा जायते, रहः प्राप्य रतिर्निर्वर्तते । असंबन्धोयथा--- मैरौ दौग्धरि धरित्रीमद्रयो दुदुहुः, पञ्चभिर्हलैः क्षेत्रं ग्रामणमीः कर्षति, शैसैर्वाल्मीकिरम्भोधिं बन्धयति, उज्जयिन्याः, प्रस्थितो माहिष्मत्यां सूर्यमुद्गमयति । संबन्धोसंबन्धो यथा --- भवति पचति, भवति पक्ष्यति, भवत्यपाक्षीत्, भवेदपि भवते, स्यादपि स#्यात् । हेतुः कर्मप्रयोजकः कर्तृप्रयोजकः हतुप्रयोजकः अहेतुप्रयोजकः, हेत्वाहेतुप्रयोजकश्च । तेषु कर्म प्रयोजको यथा--गां दोग्धि पयः, पौरवं गां याचते, गर्गाञ्छतं दण्डड्डत्ध्;ति, काशान् कटं करोति । कर्तृप्रयोजको यथा--यज्ञदत्तः पाचयति, माठरः पाठयति, भिक्षा वासवति, कारीषोऽग्निः आध्यापयति । कर्मकर्तृप्रयोजको यथा--आरोहयति हस्तिनं हास्तिपकः, आरोहयत #ेहस्तिनं हास्तिपकः,आरोहयते हस्ति, निषादयति क्रमेळकमौष्ट्रिकः, श्रपयति यावागूं यज्ञदत्तः, साधयति ओदनं सूपकार इति । कथं पुनः, श्रायति, सिध्यति ? कत्र्रोर्यवाग्वोः कर्मकर्तृत्वं घटते । श्रातिसिध्यती अकर्मकौ कर्मकर्तडड्डत्ध्;विषयस्य पचेरर्थे प्रवर्तते । एतौ पुनः प्राकृतं वाच्यार्थमाहत#ुरिति । हेतुप्रयोजको यथा---अवीवदत् प्रवीणो वीणां परिवादकेन, अपीपठत् कठो माणवकं माठरेण, अजिघ्रपत् प्रियः कुसुमं कान्तया, अदूदुहत् गां वलल्वो गोपालकेन । कथं पुनः दुहिकर्ता कर्तृप्रयोजकस्य हेतुत्वं दुहेरन्तर्भूतणिजर्थत्वात् वक्ष्यते हि ---- अन्तर्भूतणिजर्थानां दुहादीनां णिजन्तवत् । सिद्धं पूर्वेण कर्मत्वं णिजन्तनियमस्ताथा ।। इति । अहेतुप्रयोजको यथा, संपर्मयति, अतिहस्तमयति, अभिषेणयति, उपश्लोकयति। हेत्वहेतिप्रयोजको यथा, पुत्र उपाध्यायमध्यापयति, कन्या नदौ न वर्तयति, याज्ययाजकौ याजयति, कन्यावरौ विवाहयति । 4.66. कर्मकर्ता विकर्मकर्ता प्रयोज्यकर्ता कर्मप्रयोज्यकर्ता प्रकृतिकर्ता विकारकर्ता प्रकृतिविकारकर्ता च । तषु विकर्मकर्ता यथा--अवकिरते हस्ती, ग्रथते माला, प्रस्नुते गौः, चिकीर्षते कटः । प्रयोज्यकर्ता यथा--- पाचयति देवदत्तेन, पाठयति विष्णुमित्रेण, भारयतिभारं वाहकेन, कारयति कटं वरुटेन । कर्मप्रयोज्यकर्ता यथा--आरोहयते निषादं करेषुः, लावयते पामरं केदारः, दर्शयते राजा भृत्यैः, अभिवादयते गुरुर्देवदत्तेन । प्रकृतिकर्ता यथा--- काष्ठानि भस्मवन्ति, मबद्भूतश्चन्द्रमाः, त्वद्भवन्ति जातयः, मद्भवन्ति दायादाः । विकारकर्ता यथा-- मूत्राय संपद्यते यावागुः, अभ्युषाय कल्पते यवः, घटाय कपालौ भवतः, सुवर्णपिण्डंड्डत्ध्; कुण्डड्डत्ध्;ले भवतिः । प्रकृतिविकारकर्ता यथा--सङ्धीभवन्ति ब्राह्मणाः, वर्गीभवन्ति गावः, वत्सो वृषस्संपद्यते, बाला प्रगल्भा भवति, । स एषोऽष्टादशप्रकारोऽपि अभिहितानभिहितप्रयुदज्यमानाप्रयुज्यमानफ्रसिद्धप्रकृकतापेक्षितैपचारिकप्रकल्पितानुस्यूतसामान्यादिभेदादनेकधा कर्तृभेदस्संभवति । तत्राभिहितो यथा--भवता कृतं, तेन सुप्यते । प्रयुज्यमानो यथा--त्वं पचसि, अहं पचामि । अप्रयुज्यमानो यथा--पचसि, पचामि । प्रसिद्धो यथा--वर्षति, हेषते । प्रकृतो यथा--भ्रेमुः ववल्गुः । अपेक्षितो यथा--- इत्याचक्षते, यमयुङ्क्त । उपचरितो यथा--धनुर्विध्यति, मञ्चाः क्रोशन्ति । प्रकल्पितो यथा---आत्मनोऽपि नात्मानो जायन्ते, आत्मैवनात्मानं जानाति । विकल्पितो यथा---अहमन्यो वा गच्छति, अन्योऽहं वा गच्छामि । अनुस्य#ूतो यथा---स च त्वं च पचथः, त्वं चाहं पचावः । सामान्यो यथा--पचति, पठति, चेति । एते च भेदाः कर्मादिष्वपि यथासंभवमूहनीया इति । विभक्ताः, तत् क्रियाप्यं कर्म, यदाह--कर्तुरीसिप्सिततमं कर्मेति । तत्तु त्रिविधं, निर्वत्ये विकार्थं प्राप्यमिति । तत्र यदविद्यमानम#ुत्पाद्यते विद्यमानं जन्मादिना प्रकाश्यते तन्निर्वत्र्यं, यदमिनिर्वृत्तमेव प्रकृत्युच्छेदेन गुणान्तराधानेन वा विकारमापद्यते तद्विकार्यं, यस्य क्रियाकृतानां विशेषणां सर्वथानुपलब्धिस्तत्प्राप्यम् । तदुपक्तम्---- यदसज्जयते सद्वा जन्मना यतप्रकाशते । तन्निर्वत्र्यं वुकार्थं तु कर्म द्धैधा व्यवस्थितम् ।। प्रकृत्युच्छेदसंभूतं किञ्चित्काष्ठादिभस्मवत् । किञ्चिदगुणान्तरापत्त्या सुवर्णादि विकारवत् ।। क्रियाकृता विशेषाणां सिद्धिर्यत्र न गम्यते । दर्शनादुनुमानाद्वा तत्प्राप्यमिति कथ्यते ।। 4.67. तत्र निर्वत्र्येति विकार्यप्राप्यधर्मस्स्वथधर्मश्च विकार्ये प्राप्यधर्मस्स्वधर्मश्च प्राप्ये तु स्वधर्म एव । कः पुनरसौ---- आभासोऽवगमो व्यक्तिस्सोढत्वनमिति कर्मणः । विशेषाः प्राप्यमाणस्य क्रियासिद्धौ व्यवस्थिताः ।। विर्वत्र्यविकार्ययोस्तु निवृत्तिकार्यावेव । यथोच्यते ---- निर्वत्र्यादिषु तत्पूर्वमनुभूय स्वतन्त्रताम् । कत्र्रन्तराणां व्यापारे कर्म संपद्यते पुनः ।। 4.68. तत्र निर्वत्र्यं उत्पाद्यं प्रकाश्यमुपसर्जनं विशेषणं व्यवहितमप्राप्यं च । तेषु यदस्तुत्पाद्यते तदुत्पाद्यं ; यथा--संयोगं विधत्ते, सुखमुत्पादयति, विभागं कुर्वते, दुःखं जनयति । विद्यमानमेव यदावरणापायादाविर्भवति तत्प्रकाश्यम् ; यथा शबंद जनयति, पुत्रं सूयते, तैलं कुरुतं, पयो दोग्धि । अप्रधानभूतमुपसर्जनं यथा--कटं कर्तुमारभते, ग्रामो वासयुतुमिष्यते, पक्कौदनो भुज्यते, पक्तुमोदनश्चन्त्तयते । स्वानुरक्तप्रत्ययजनकं विशेषणं यथा--भूष्ममुदारं कटं करोति, महान्तमव्यक्तं शब्दमुञ्चरयति, दीर्घायुषं गुणिनमात्मजं प्रसूते, चित्रमच्छपटं वयति । क्रियान्तरेण व्यवधानवद्धवहितं यथा--मासमास्ते, गोदोहं पचति, क्रोषमधीते, कुरून् गच्छ स्वपिति । कालाध्वभावदेशानामन्तर्भूतः क्रियान्तरैः । सर्वैरकर्मकैर्योगे कर्मतत्वमुपजायते ।। 4.69. सकर्मिकाऽपि क्रिया द्रव्यादिकर्मण्येव निविशते । कालादिकर्मणि यथा--मासमोदनं पचति, क्रोशमनुवाकमधीते । आधारत्वमिव प्राप्तास्ते पुनद्र्रव्यकर्मसु । कालादयो भिन्नकक्ष्या यान्ति कर्मत्वमुत्तरम् ।। 4.70. क्रियाविशेषणमप्राप्यं यथा---सुखमभिधत्ते, दुःखं निवर्तयति, मन्दं गच्छति, शीघ्रमायाति । कथं पुनरुपसर्जनादीनाम् विर्वत्र्यमानता ? यथा निर्वत्र्यमानस्य---यथाह्यसौ कटं निर्वर्तयति, एवं तद्गतभूष्मोदारादिकमपीति । एवं शब्देऽपि पक्कोदनो भुज्यत इति । अइत्रतु पाकेनौदनो निर्वत्र्यते ; केवलं साऽस्य शक्तिः ; प्रधानभुजिक्रियाविषयकर्मशक्तिसन्निधौ पक्त्युपसर्जनीभूताख्यानेन प्रधानशक्यभिधानेऽभिधानेऽभिहितवत् प्रकाषते । पुक्तुमोदनश्चिन्त्यत इत्यत्र पच्यर्थत्वात् चिन्तायाः यद्यपि पाकस्य वास्तवमप्रधानत्वं, तथाऽप्य#ाख्यातप्रत्ययेन प्राधान्यश्चिन्ताभिधानात् पचिक्रियोपसर्जनं भवति । अतस्तद्विषया कर्मशक्तिः प्रधानशक्त्यभिधानेऽभिहितद्भवति । एतेन कटः कर्थुमारभ्यते , ग्रामो गन्तुमिष्यते इत्यपि व्याख्यातम् । 4.71. ननु गमेग्र्रामः, इषेरुभे कर्मणी, तत्कस्यात्रोपसर्जनता ? नैवं, इषेरूभेकर्मणी इति यदुच्यते तत्सामथ्र्यप्रदर्शनपरमवगन्तव्यम् । इष्यते ग्रामं, किं कर्तुं, गन्तुं ग्रामो ग्राममिति वा ; व न पुनरिषेः युगपदुभे कर्मणी संभवतः ।एवमभिहितेऽपि कटादिवदेव मासादीन#ामासनादिभिरभिनिर्वत्र्यमानता प्रतीयते । तथा हि---पक्तारो भवन्ति इह स्थितोऽयं मासं निर्वर्तयतीति । एवं पचन् गोदोहमधीयानः क्रोशं, स्वपन् गन्तव्यं कुर्वन्ति क्रमकालमिति गन्तव्यानामेव कुरुक्रोशादीनां कर्मत्वम् । यदाह---- कालाभावाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम् ।। इति । 4.72. अप्राप्यं यत्कियाविशेषणत्वात्, क्रियावदेव निर्वत्र्यमानं तत्क्रियायाः कथमिति चेत् पुरुषव्यापारसामान्याश्रयणात् ; अप्राप्यत्वं पुनस्तस्य धात्वर्थभिप्रायेण । नह्यसौ धात्वर्थेन प्राप्यते ; अपितु पुरुषव्यापारेण । धात्वर्थस्य तु तत्र करणत्वम् । विश्वदजिता यजेतेत्यादौ धात्वर्थनामधेयेभ्यो विश्वजिदादिभ्याः करणविभक्तिदर्शनादग्निष्टोमयाजीत्यादिसिद्ध्यर्थं करणे यजेति च सूत्रारम्भात् । अग्निष्टोदयो हि स्वर्गादिफलभावनायां करणम् । कार्यमविनाश्यं विनाश्यमीप्सितमनीप्सितमास्थितं कर्तृकर्म च । तत्राविनाश्यं यथा---स#ुवर्णं कुण्डड्डत्ध्;लीकरोति, काण्डंड्डत्ध्; लुनाति, कान्तां सादयति, प्रियं सादयति । विनाश्यं यथा--कुरूलं भिनत्ति, काष्ठं दहति, धानाः पिबति, उदपेषं पिनष्टि । ईप्सितं यथा---स्त्रियं गच्छति, पयः पिबति । अनीप्लसितं यथा---चोरान् पश्यति, धनं त्यजति, विषं भक्षयति, अहिं लङ्घयति । कः पुनरेषां विकारः ? प्रकृतेरन्यथात्वं ; न हि चोरादयो दर्शनादिविषया भवन्ति । आस्थितं तथा---पन्थानं गच्छति, नदीं तरति, पर्वतमारोहयति, गर्तमुत्तरति । कः पुनरन्यतोऽस्य भेदः । उच्यते---- त्यागरूपं प्रहातव्ये प्रप्ये संदर्शनादिके । आस्थितं कर्म यत्तत्र द्दैरूपं भजते क्रिया ।। 4.73. कर्तृकर्म यथा---लूयते केदारस्स्वयमेव, पच्यत ओदनस्स्वमेव, भिद्यते कुसूलस्स्वयमेवेति । प्राप्यमपि प्राप्यं प्रयोज्यं परिहार्यमभिहितमनभिहिचमतथितं च । तत्र प्राप्यं यथा--आदित्यं पश्यति, हिमवन्तं शृणोति, वेदमधीते, चर्चाः पारयति । प्रयोज्यं यथा--माणवकं गमयति, शिष्यं बोदयति, ब्राह्मणमासादयति, पतिं्त शाययति । ननु च ? कार्यमेत्त ; तन्न, प्रयोजकः व्यापारमात्र्सयाविवनक्षितत्वात् विकार्यश्चैषांस्वक्रियानिबन्धन इति । अपरिहार्यं यथा---विभागं जनयन् संयोगनुच्छनत्ति, कटं कुर्वन् काशानाहरति, ग्रामं गच्छन् वृक्षमूलानुपसर्पति, आमिक्षां भक्षयन् वाजिनमाप्नोति । अभिहितं यथा-- उष्ट्रासिका आस्यन्ते, हतशायिकाश्शय्यन्ते, रैपोषं पुष्यति, उदपेषं पिनष्टि । अनभिहितं यथा--पश्य मृगो धावति, स्मरसि देवदत्त काश्मीरेषु वत्स्यामः, न मर्षयामि यत्तत्र भवान् वृषलं याजयेत् । भावरूपं तु यत्कर्म तदिहाभिहितं विदुः । क्रियारूपं तु मन्यन्ते कर्मानभिहितं बुधाः ।। अथाकथितं, तद्यथा--गां दोग्धि पयः, पौरवं गां याचते,व्रजं गामवरूणद्धि, माणवकं पन्थानं पृच्छति, पौरवं गां भुक्षते, वृक्षमपचिनुते फलानि, माणवकं धर्मं ब्रुते, माणवकं धर्ममनुशास्ति, शतानीकं जयति, गर्गाञ्छतं दण्डड्डत्ध्;यति, उपसरमश्वं पुष्णाति, अम्बुनिथधिममृतं मथ्नाति, शाखां ग्रामं कर्षति, अजां ग्रामं नयति, एधात् ग्रामं हरति, भारं ग्रामं वहति, एवं नगरं हरति भारं, समाहर्तारमयुतं गृढद्धठ्ठड़14;णाति, काशान् कटं करोति । किं पुनरिहाकथितं ? पयः प्रभृति ; केनाकथितं ? लकृत्यक्तस्त्रलर्थादिभिरिति । न हि पयः प्रभृतयो लादिभिः कथ्यन्ते ; अपितु गवादयो यथा--दुह्यते गौः पयः, सुदुहा गौः पय इति । यत्तु तैराख्यायते तदीप्सिततमं प्रधानकर्म प्रागेव क्रियासंबन्धात् । तदुक्तं--यस्माच्छब्दस्य दुहे भवति गवा पूर्वमेव संबन्धः गोदुहिना पयसस्तु प्राक्तस्माल्लादयस्तस्मिन्नेवं सारादिष्वप आनयनादिभ्यः प्रागेव नयत्यादिसंबन्धात् लादिभिरभिधाने तद्धितोत्पत्तिरवगन्तव्या । तञ्चाख्यानतः कथिमुच्यते, तद्धिपरीतमकथितमिति । द्रुहियाचिकथिप्रच्छिभिक्षिचियामित्यादि---- चिदण्डिड्डत्ध्;मुखिमस्जीनां गत्यर्थानामकीर्तिते । नीवृप्पहिवृहादीनामुपसंख्यानमिष्यते ।। अस्यार्थः द्रुह्यादीनां य उपयोगः प्रपूरणादिस्तस्य यन्निमित्तं पयः प्रभृति यञ्च ब्रुविशास्योः क्रियाधर्मदिकं समवायेन संबध्यते तदपादानादिसंज्ञानामविधाने द्वितीयावातच्यं प्रधानं कर्मकथितं उच्यते । जिप्रभृतीनां चाप्रधानकर्मणस्तत्रैवोपसंख्यानमिति, अन्ये तूपयुज्यत इत्युपयोगः पयःप्रभृतिः ; तस्य यन्निमित्तं गवादि ब्रुविशासिगुणेन च प्रधानेन धर्मादिकर्मणा माणवकादि यत्संबध्यते तदकथितमित्याचक्षते । तत्पक्षे लादिवाच्यानां गवादीनां प्राधान्यं व्याहन्येत । अकथितसंज्ञा च नानार्था स्यात् । लादयश्च तेषामपि ते प्रधानकर्मण#्येव यथा---अजा नीयते ग्राममिति । यथोक्तं---- प्रधानकर्मणाख्येये लादीनाहुर्द्विकर्मणाम् । अप्रधाने दुहादीनां ण्यन्ते कर्तुश्चा कर्मणः ।। 4.74. तान्मिथो विरुद्धार्थत्वादेषामेवाविमृश्यवादितामापादयति । कथं समान एव योगक्षेमे गवादीनामप्राधान्यं, अजादीनां च प्राधान्यं, कथं वा प्रधानं गवादि लादिभिरजादिवदेवाभिधीयते ? किञ्च--- अन्तर्भूतणिजर्थानां दुहादीनां णिजन्तवत् । सिद्धं पूर्वेण कर्मत्वं णिजन्तनियमस्तथा ।। 4.75. अस्मिन् पक्षे गवादीनां व्यक्तमेव प्रयोज्यत्वात् प्रक्सूत्रेणैव प्रधानकर्मत्वं । तथा च गां देग्धि पयः इत्यत्र गां पयः क्षारयतीत्यर्थः । यतो दुहिः प्रपूरणार्थः, पूरणामाप्यायनं, प्रपूरणं तु विरेचनं प्रेरणस्थानादाविवार्थवैपरीत्याधानात् । यस्तु णिजन्ताद#ीनामपि गतिबुद्धीत्यादिना कर्मसंज्ञारम्भः, स पाचयति देवदत्तेनेत्यादौ प्रयोज्यस्य कर्तुः कर्मसंज्ञां निवर्तयन्नियमार्थो भविष्यतीति विभक्तं कर्म करणमुच्यते । तत्र क्रियां प्रत्युपात्तन्यापारेषु कर्मादिषु यद्व्यापारानंतरं क्रियासिद्धिविवक्षा तत्कारकं साधकतमं करणमिति । यदाह---- क्रियायाः परिनिष्पत्तिः यद्व्यपारादनन्तरम् । यदा विवक्ष्यते तस्य करणत्वं तदा स्मृतम् ।। 4.76. तदपि त्रेधा बाह्यामाभ्यन्तरं बाह्याभ्यन्तरं च । तेषु बाह्यं कर्तृरूपं कत्र्राश्रितं कर्मरूपं कर्माश्रितं क्रियाश्रितमनाश्रितं चेति । तत्र क्रतृरूपं यथा--एधैः पचति, सेनया जयति, अश्वेन गच्छति, नावा तरति । कत्र्राश्रितं यथा---अक्षैर्दीव्यति, दात्रेण ल#ुनाति, धनुषा विध्यति, परशुना छिनत्ति । कर्मरूपं यथा---पथा गच्छति, अन्तिकेन याति, पयसा भुङ्क्ते, यवाग्वा जिहोति,कर्माश्रितं यथा---पयसा ओदनं भुङ्क्ते, पथा ग्रामं गच्छति, द्विद्रोणेन धान्यं क्रीणाति, पञ्चकेन पशून बन्धाति । क्रियाश्रितं यथा---मासेनाधीते, क्र#ोशेनाधीते, विश्वजिता यजते, विधिना विदधाति । अनाश्रितं यथा---स्तोकेन मुक्तः,त कृच्छ्रेण लब्धः, आलोकेन याति, दीपिकया याति । 4.77. आभ्यन्तरमपि--आन्तरमवान्तरमाभ्यन्तरमनन्तरं समनन्तरं प्रत्यनन्तरं बाह्याभ्यन्तरमिति । तत्रान्तरं यथा--आत्मना बुध्यते, स्वमुपक्रमते, स्वतः प्रकाशते, अन्योन्यतो जानाति । अवान्तरं यथा--जात्या दिर्जनः, प्रकृत्या अभिरूपः, निसर्गेणर्यः, स्वभानेन सुभगः । आभ#्यान्तरं यथा--अहङ्कारेण कत्थते, सत्वेन सहते, रजासाऽनुरज्यते, तमसा मुह्यति । अनन्तरं यथा--मनसा मोदते, अन्तरानाचरति, प्रतिभया पश्यति, संस्कारेण स्मरति । समनन्तरं यथा-- प्रयत्नेनारभते, बुध्द्या जानाति, सुकेन शेते, दुःकेन पठति । प्रत्यनन्तरं यथा--धर्मेण वर्धते, अधर्मेण पतति, अविद्यया मृत्युं तरति, विद्ययाऽमृतं प्राप्नोति । बाह्याभ्यान्तरमपि बहिर्मुखमन्तर्मुखं निर्मुखं बहिरुद्रेकमन्तरुद्रेकं निरुद्रेकं च । तषु बहिर्मुखं यथा--विद्ययाऽमृतं प्राप्नोति । बाब्याभ्यान्तरं यथा--- चक्षुषा पश्यति, वाचा वदति, इङ्गितेन कथयति, आकारेण ज्ञापयति । अन्तर्मुखं यथा---घ्राणेन जिघ्रति, जिब्वाया स्वादयति,स्पर्शेण बुध्यते, श्रोत्रेण शृणोति । निर्मिखं यथा---निश्शङ्क्तत्वेन यातः, निर्भयत्वेन यातः, निष्किञ्चनत्वेन मुक्तम्, निरायुधत्वेन हतः । बहुरुद्रेकं यथा---पद्भ्यां गच्छति, पाणिभयां स्पृशति, संज्ञया गमयति, पौंस्त्रेन प्रीणाति । अन्तरुद्रेकं यथा---बलेन वर्षति, कौशलेन पञ्चयति, अभियोगेनाधीते, अभ्यासेन धारयति । निरुद्रेकं यथा---प्रायेण याज्ञिकः, गोत्रण गाग्र्यः, अभिजनेन सौह्यः, शाखया च्छन्दोगः, इति । निष्किञ्चनत्वस्तोकादीनां सदभावा सत्वरूपत्वादसाधकत्वमिति चेत् तन्न । यथैव सन्निधौ तस्य तथैवासन्निधावपि । भावस्य करणत्वेन क्रियासिद्धिः प्रतीयते ।।। स्तोकत्वास्याभिनिर्वृत्तेरनिर्वृत्तेश्च तस्य वा । प्रसिदिं्ध करणत्वस्य स्तोककादीनां प्रचक्षते ।। न च करणस्य वास्तवं रूपमस्ति विवक्षानिबन्धत्वात् । तदुक्तम्--- वस्तुतस्तदनिर्देश्यं नहि तद्वस्तुनि स्थितम् । स्थाल्या पच्यत एषाऽपि विवक्षा दृश्यते यतः ।। 4.78. न च भवति एधाः पचन्ति धनुर्विध्यति चक्षुः पश्यति मनो जानाति करणमुक्तं, संप्रदानमुच्यते, तन्त्रिविधं--ददातिकर्माप्यं कर्ममात्राप्यं क्रियाप्यं चेति । तत्र संप्रदानमिति महत्याः संज्ञायाः करणात् । सम्यगस्मै प्रदीयते तद्गवादिना ददातिकर्मणा प्राप्यमुपाध्यायकं संप्रदानसंज्ञं भवति ; तत् स्वस्वत्वनिवृत्तौ परस्वत्वापत्तौ उभययोगे स्वोपरयोगे उभयोपयोगे चेति षोढा विप्रथते । स्वत्वनिवृत्तौ यथा--शिष्याय विद्यां प्रयच्छति, वराय कन्यां विश्राणयति, आप्तायोपदेशं ददाति, गुरुभ्य आत्मानं निवेदयति । परस्वत्वापत्तौ यथा---रिपुभ्यो भयं ददाति, शत्रवे प्रहारं प्रयच्छति, वादिने उत्तंर ददाति, देवतायै वाचं वितरति, प्रियतमाय शरीरं ददाति । वाताय चक्षुर्ददाति, पृष्ठामातपाय स्पर्शयति, गीताय कर्णं ददाति, श्रुताय चेतो वितरति । परोपयोगे यथा---पुत्रायाशिषं प्रयच्छति, छात्राय चपोटां ददाति, भीतायाभयं प्रयच्छति, आर्तायौषधं ददाति । उभयोपयचोगे यथा--नापिताय क्षुरं प्रयच्छति, मैत्रावरूणाय दण्डंड्डत्ध्; ददाति, प्रियतमायाधरं प्रयच्छति, प्रियायाङ्कपालीं ददाति । "कर्मणा यमभिप्रैति स संप्रदानम्" इति परिभाषया लक्ष्यमाणं कर्ममात्राप्यं ; तदपि षोढा, प्रे#ैरकमनुमन्तृनिराकर्तृ अनिराकर्तृ प्रस्यर्पकं अप्रतिग्राहकमिति । तेषु प्रेरकं यथा--याचकायान्नं ददाति, वृद्धिमुत्तमर्णाय प्रयच्छति, द्वास्र्थायोपचारं कल्रयति, दायातदाय भागं निर्दिशति । अनुमन्तृ यथा---गामुपाध्यायाय निवेदयति, सेवकाय ग्रामं निर्दिशति, पतिंवरायै वरं द्रशयति, दास्यै वस्त्रमतिसृजति । निराकर्तृ यथा---देवाय पुष्पं क्षिपति, कुबोराय बलिमुपहरति, रुद्राय पशुमालभते, सोमायाध्र्यं ददाति । अनिराकृतं यथा---उन्मत्तयौषधं निर्दिशति, वादिने दूषणं ददाति, टङ्काय दण्डंड्डत्ध्; कोरति, शाक्यायामिषं प्रषयति । प्रत्यर्पकं यथा--सादिनेषश्वं निर्दिशति, सन्निधात्रे कोशमर्पयति, समाहत्र्रे राष्ट्रं निवेदयति, अमात्याय मुद्रामुपनयति । अप्रतिग्राहकं यथा---देवेभ्य उषितान्नं ददाति, पितृभ्यो भुक्तशेषं प्रयच्छति, अन्धाय रूपं दर्शयति, बधिराय शास्त्रमुपदिशति । कर्मग्रहणेन क्रियाया अपि सङ्ग्रहात् क्रियया यदाप्यते तदपि संप्रदानं क्रियाव्याप्यमिति च भवति ; कर्मणोऽस्मात् को विशेष इति चेदीप्सिततमं नाम । तदापि षोढा-शेषः कर्मशेषः कर्म व्यवहितःकर्म हेतुः निमित्तहेतुरितिच । यदाह--- हेतुत्वे कर्मसंज्ञायां शेषत्वे वाऽपि कारकम् । रुच्यर्थादिषु शास्त्रेण संप्रदानाख्यामुच्यते ।। 4.79. तत्र शेषो यथा--देवदत्ताय रोचते, देवदत्ताय स्वदते, देवदत्ताय तिष्ठते,देवदत्ताय नमते । कर्मशेष यथा--देवदत्ताय गां प्रतिशृणोति, देवदत्ताय सन्तं धारयति, देवदत्ताय दैवमीक्षते । कर्म यथा--देवदत्ताय राध्यति, पुष्पाय स्पृहयति, ग्रामाय गच्छति, देवेभ्यो नमति । व्यवहितकर्म यथा---छात्रस्य श्लाघते, चैत्राय शपते, होत्रे प्रतिगृढद्धठ्ठड़14;णाति, पोत्रे अनुगृढद्धठ्ठड़14;णाति । हेतुर्यथा--देवदत्ताय क्रुध्यति, देवदत्ताय द्रुह्यति, देवदत्तायेष्र्यति , देवदत्तायासूयति । निमित्तहेतुर्यथा--एधेभ्यो व्रजति, श्राद्धाय निगदते, युद्धाय सन्नह्यति, पत्ये शेते इति । एतेन "रुच्यर्थानां प्रीयमाणः श्लाघन्हुङस्थाशापां ज्ञीप्समानः, धारेरुत्तमर्णः, स्पृहेरीप्सितः, क्रुधद्रुहेतष्र्यासूयार्थानां यं प्रति कोपः, राधीक्ष्योर्यस्य विप्रक्षः, प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता, अनुप्रतिगृणश्च, गत्यर्थकर्मण#ि द्वितीयाचतुथ्र्यौ चेष्टायामनध्वनि. क्रियार्थापपदस्य कर्मणि स्थानिनः" इत्यादिवचनं "कर्मणा यमभिप्रैति स संप्रदानं" मित्याद्ययोग्सयैव प्रपञ्चार्थमित्युक्तंभवतीत्यवसितं संप्रदानम् । अपादानमुटच्यते, "ध्रुवमपायेऽपादानम्"कायसंसर्गपूर्वके बुद्धिसंसर्गपूर्वके वा अपाये यद्ध्रुवमवधिभूतं विवक्षितं तस्यापादानमिति संज्ञा । यथोच्यत ---- अपाये यदुदासूनं तद्रूपं यदि वा चलम् । ध्रुवमेव तदावेशात्तदपादानमुच्यते ।। तदपि त्रिविधं निर्दिष्टविषयमुपात्तविषयमपेक्षिताक्रियं चेति । तदुक्तम्---निर्दिष्टविषयं किञ्चिदुपात्तविषयं तथा । अपेक्षितक्रियं चेति त्रिधापादानमुच्यते ।। 4.80. तेषु यत्रोपात्तक्रियोपरादानेनापायः प्रतीयते, तन्निर्दिष्टविषयं । तत् षोढा--उज्झितमनुज्झितनीप्सितं जिहासितं परिणतं निवृत्तमिति । तत्रोज्झितं यथा--ग्रामादागच्छति, वृक्षात्पर्ण पतति, मेषादेषोऽपसर्गति, धावतोऽश्वात्पातितः । अनुज्झितं यथा--शृङ्गाच्छरोजायते, हिमवतो गङ्गा प्रभवति, वटात्प्ररोहो लंबते, अग्नेर्धूम उञ्चरति । ईप्सितं यथा--यवेभ्यो गां निषेधति, माषेभ्यो महिषान् रुणाद्धि, कूपादन्धं वारयति, अग्नेर्माणकमपसारयति । जिहासितं यथा--अरण्यान्निष्क्रामति, गर्तात्तरति, पर्वतादवरोहति, आकाशात्पतति । परिणतं यथा--गोमयाद्वृश्चिको जायते, गोलोमविलोमेभ्यो दूर्वै भवन्ति, सुवर्णात्कुण्डड्डत्ध्;लमुत्पद्यते, काशौः कटो भवति । निवृत्तं यथा--प्रभावाद्धीयते, प्रज्ञायाः प्रभ्रश्यते, न्यायादपैति, स्वरूपात् प्रच्यवते । कथं प्रभावानां ध्रौव्यमिति चेत् शब्दव्यापारतोपायाभिनिवेशः ; औदासीन्याद्यत्रोपात्तक्रियासमामथ्र्यादवगम्यमानक्रायापदेनापायप्रतीतिस्तदुपात्तविषयं । तदपि षोढा--सिद्धरूपं साध्यरूपं प्राप्यरूपमप्राप्यरूपं परिह्रतव्यं निहर्तव्यमिति । तेषु सिद्धरूपं यथा--कुलात्पतति, कुसूलात्पचति, कांस्यपात्रयो भुङ्क्ते, ब्राह्मणव्छंसति, उपाध्यायादधीते । साध्यरूपं यथा--अध्ययनात्पराजयते, धर्मात्प्रमाद्यति, अधर्माज्जुगुप्सते, अकृत्याद्विरमति । प्राप्तरूपं यथा--आसनात्प्रेक्षते, प्रासादादवलोकयति, बलाहकाद्विद्योतते, यौवनतो विकुरुते । प्राप्यरूपं यथा--द्य्वङ्गान्नं भोक्ष्यते, आमृत्योः श्रियमाका#ंक्षेत्, क्रोशाल्लक्षं विध्यति, आपाटलिपुत्रात् वृष्टो देवः । परिहर्तव्यं यथआ--चोरेभ्यो बिभेति, दुर्जनेभ्य उद्विजते, उपाध्यायाद्वन्तर्धत्ते, सहाध्यायिभ्यो निलीयते । निहर्तव्यं यथा--चोरेभ्यो गुह्यं त्रायते, रोगेभ्य आतुरं रक्षति, काकेभ्यो दध्यवति, असत्यादात#्मानं पाति । यत्रार्थाप्रकरणादिभ्यो गम्यमानात् क्रियापदादपादाय बुद्धिस्ततदपेक्षितक्रियं ; तदपि षोढा । सामान्यक्रियापेक्षं विशेषक्रियापेक्षं सत्वभूतापेक्षमसत्वभूतापेक्षं नियतरूपापायमनियतरूपापायं चेति । तेषु सामान्यक्रियापेक्षं यथा--दानवेभ्यो देवा बुद्धिमन#्तः, सुरेभ्योऽसुरा वोद्धारः, सुह्या ब्रह्मोत्तरेभ्य आढ्यतराआः, पाटलिपुत्रेभ्यः सुकुमारतराः । विशेषक्रियापेक्षं यथा--पोहणाद्रत्नम्, पयोवारिधरात्, कुतो भवान् पटलिपुत्रात् । स्तवभीतापेक्षं यथा--अन्यो देवदत्तात् इतरो देवदत्तात पृथक् देवदत्तात् नाना देवदत्तात् । अस्तवभूतापेक्षं यथा--ऋते देवदत्तात् । विना देवदत्तात्, आराद्देवदत्तात्, दूरोद्देवदत्तात् । नियतरूपापायं यथा--कौमिद्या .क्षरात्रुः, पक्षे कार्तिक्या आग्रहायणी मासे, गवोथुमतः सांकाश्यश्चतुर्षु योजनेषु, पाटलिपुत्राद्राजगृहं सप्तयोजनानि । अनियतरूपं यथा-- प्राग्ग्रामात्, दक्षिणा ग्रामात्, तत उपरुष्टात् । 4.81. अन्ये तु ध्रुवमपायेऽपादानमिति निर्दिष्टविषयं ; "भूत्रार्थानां भयहेतुः पराजेरसोढः, अन्तर्धौ येनादर्शनमिच्छति, आख्यातोपयोगे, जनिकर्तुः प्रकृतिः, भुवः प्रभवः, ल्यब्लोपे कर्मणः उपसंख्यानां, सप्तमीपञ्चम्यौ कारकमध्ये, " इत्यादियोगोक्तमुपात्तविषयम् । "पञ#्चमी विभक्ते, अनायरादिरतर्ते. दिक्शब्दाञ्चूत्तरपदाजाहि युक्ते, प्रतिः, प्रतिनिधिप्रतिदानयोः, प्रतिविधिप्रतिदाने च यस्मात्, इत्यादिकं त्ववधिभावनादपेक्ष्तक्रियामिति त्रिधाऽपादानं मन्यन्ते । आहुश्च--- निर्धारणे विभक्ते यो भीत्रादीनां च यो (व)विधिः । उत्पातापेक्षितापायस्स्ध्रुवः प्रतिपद्यते ।। " 4.82. उक्तामपदनम् ; अधिकरणमुच्यते, "आधारोऽधिकरणम्"; कर्तुः कर्मणो वा क्रियाश्रय्सय क्रियां प्रति य आधारस्तदधिकरणम् । तदुक्तं --- कर्तृकर्मव्यवहितामसाक्षाद्धारयत् क्रियाम् । उपकुर्वत् क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम् ।। 4.83. तत्र्त्रेधा - वैषयिकमौपश्लेषिकं नैमित्तिकं चेति । तत्र्त्रिविधमपि अनेकप्रकारं विनोतीति विषयो जातिगुणक्रियादीमनामाश्रयः, विषय एव वैषयिकमिति ; विनयादिभ्यष्ठक् । तत् षोढा--जातिवैषयिकं गुणवैषयिकं क्रियावैषयिकं द्रव्यवैषयिकं संज्ञावैषयिकमिति । तेषु जातिवैषयिकं यथा---दिवि देवाः, भूवि मनुष्याः, जले मत्स्याः, पाताले पन्नगाः । गुणवैषयिकं यथा--आयुक्तः कटकरणे कुशलः कटकरणे साधुः मातरि निपुणः पिरति प्रवीणः । क्रियावैषयिकं यथा--प्राच्यमादित्य उदेति, दक्षिणस्यामगस्त्यो दृश्यते, आकाशे शकुनाः पतन्ति, शब्दादिषु श्र#ोत्रदयोऽभिनिविशन्ते । द्रव्यवैषयिकं यथा--गोषु स्वामी, गोषु दायादः, अधिब्रह्मदत्ते पाञ्चालाः, अधिपाञ्चालेषु ब्रह्मदत्तः। संज्ञावैषयिकं यथा--ब्रह्मणि पितामहः, विष्णौ पुरुषोत्तमः, रुद्रे महेश्वरः, इन्द्रे शक्रः । सङ्केतवैषयिकं यथा--तर्जनीमध्ये उदात्तः, कनिष्ठिकामध्येऽनुदात्तः, अनमिकामध्ये स्वरितः, मध्यमामध्ये प्रचय इति। उपश्लोषोवष्टम्भः । तस्मै प्रभवत्यौपश्लेषिकम् । तदपि षोढा--एकदेशिकमभिव्यापकं सामीप्यकमौपश्लेषिकमौपशल्यकमौपचारिकं चेति । तेष्वेकतदेशिकं यथा--गृहे तिष्ठति, स्थाल्यां पचति, पर्यङ्के शेते, शाखयां लम्बते । अभिव्यापकं यथा--तिसेषु तैलम्, शेलेषु रागः, गवि गोत्वं, तन्तुष पटः । सामीप्यकं यथा--गुरौ वसित, तीर्थे वसित, गङ्गायां घोषः, कूपे गर्गकुलम् । औपश्लेषिकं यथा--द्व्यहे भोक्ता, कार्तिक्या आग्रहायणी मासे, इहस्थोऽयमविश्वसः, क्रोशे लक्ष्यं विध्यति,प#ाटलिपुत्राद्राजगृहं सप्तसु योजनेषु । औपशल्यकं यथा--उपखार्यां द्रोणः,उपनिष्के कार्षापणं, उपव्यामे वितस्तिः, उपशते पंचाशत् औपचारिकं यथा--यो यस्य प्रियस्स तस्य हृदये वसित, यो यस्य द्वेष्यस्स तस्याक्ष्णोः प्रतिवसति, समे समग्रो मुष्टिमध्ये तिष्ठति, अङ्गुल्यग्रे हस्तियूथशतमास्त इति । 4.84. निमित्तमेव नैमित्तिकं ; तदपि षोढैव---देशनौमित्तकं कालनैमित्तकं भावनैमित्तिकं वस्तुनैमित्तकं कर्मनैमित्तिकं कर्मयोगनैमित्ति कमिति । तेषु देशनैमित्तिकं यथा--गेहे मोदने, अरण्ये विभेति, जले श्वभ्रे पतति । कालनैमित्तिकं यथा-- काषाः पुष्यन्ति मेधान्ते मधौ माद्यन्ति कोकिलाः । पुष्ये पायसमश्नीयान्मघासु पललोदनम् ।। 4.85. भावनैमित्तिकं यथा---दर्शने प्रसीदति । वराहे विष्#ीदति, अर्थलामे हृष्यति । अरिविनाशे तुष्यति । वस्तुनैमित्तिकं यथा--आतपे क्लाभ्यति , छायायामाश्वसिति, दोषोषूद्धिजते, गुणेषु रज्यत इति । क्रमनैमित्तिकं यथा--इÏष्ट यज्ञे परिगणिती याज्ञिक्ये, आम्नाती छन्दसि, अधीती व्यकरणे । क्रमयोगनैमित्तिकं यथा--- चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्चरम् #्। वालेषु चमरूं हन्ति सीम्नि पुष्कलको हतः ।। 4.86. ननु च निमित्तहेतोः कारकत्वत् कारकस्य च प्रयोजकपरन्त्रत्वनादिह कथं कारकतन्मिति । उच्यते द्विविधः ककारकहेतुः, प्रवृत्तप्रेरकः अप्रवृत्तप्रेरकश्च । तत्राद्यो णिज्विषयः, इतरस्तु विध्याद्यात्मको निमित्तात्मकश्च । तयोश्च प्रथमो लिङलोट्तव्यादिवाच्यः । तदुक्तम्--- द्रव्यमात्रस्य तु प्रषप्रच्छादेः लोड्ड्डित्ध्;वधीयते । सक्रियस्य प्रयोगस्तु यदा स विषयो णिचः ।। निमित्तात्मकस्तु क्रियाश्लयत्वात् सप्तिमीवाच्यो नैमित्तिकमधिकरणमिति विभक्तमधिकरणम् । ननु च उपखार्यो द्रोणः, अधिपाञ्चालेषु ब्रह्मदत्त इत्यादौ यद्यिधिकरणंमेव सप्तमी अधिकरणं किं ? उच्यते "यस्मादधिकं.यस्य चेश्वरवचनं तत्र सप्तमी " इति । उच्यते क्रमप्रवचनीययुक#्ते द्वितीया मा बाधिष्ट इति । ननु च "उपपदाविभक्तेः कारकविभाक्तिर्बलीयसी"ति द्वितीया न भविष्यति । यथआ---गोस्वामी व्रजति देवानां नसस्करोतीति । नैवम् ; नेयमुपपदविभक्तिः, अपित्वन्तर्भतक्रियान्तरसंबन्धा क्रमविभक्तिः । तद्यथा--शाकल्यस्य संहितामनु प्रावर्षति, स#ंहितामनुनिगम्येत्यर्थः । किं तर्हि किंमर्थं विधायते कारकन्तरेऽपि यथा स्यात् ते उपार्जनं योद्धार इत्यापादानेऽपि पञ्चमी बाधते । अत एव पञ्चम्यपाङ्परीत्यपादानेऽप्यरभ्यति इति । एतेनाधीती व्याकरणे, एधेभ्यो व्रजतीत्यादयः कारकविभक्तिविषये, गोषु स्वामी, प्राग्ग्रामादित्यादियः संबन्धिविभक्तिविषये कारकविभाक्तिसामावेषात् प्रकाशिता भवनति । 4.87. ननु च शक्तिस्साधनं तद्वशेन द्रव्यस्य क्रियासु योगित्वात् । किञ्च द्रव्यमपि साधनं क्लपयित्वा साधनभेदादपुनाराश्रयितन्याश्शक्तयः संन्यास्ता एव सत्यभेदास्साधनमिति कल्पितम् । न च तासामधिकरणद्रनव्यमेतावति द्रव्यानपेक्षसाधनत्वं ; द्रव्यस्यापि स्वर्मणायत्तजन्मस्तदपेक्षया तुल्यादोषत्वात् । शक्तीनामेव च साधनत्वे प्रत्ययाभिहितासु शक्तिषु द्रव्यवचनानामनुप्रयोगो युज्यते । वर्धते देवदत्तः परिगतमर्थतत्वं इति द्रव्ये तु साधने तस्याभिहित्तवादनिप्रयोगो न प्राप्वनोति । शक्तीनामेव च कारकमध्ये लभ्यते। द्रव्यस्य देवदत्तादेरेकत्वान्मध्ये द्वहगादिकालो न सेभवति । शक्तीनामेव च साधनत्वे प्रासादे आस्त इति धञादिविषयमधिकरणमभिहितं, न त्वासिविष्यमित्यनभिहितविषयलक्षणा सप्तमी लभ्यते । द्रव्ये स्तयभिहितत्वात् इति सक्तीनामेव साधनत्वे योऽयमेकद्रव्याधिककणः साधनबेदः,श्रृयते, स उपपन्न#ो भवति । वेगेन पतितो रुग्णात् स्फुरतो ध्वमनिरुदित इति । द्रव्ये तस्यैकत्वान्न् संभवति । क्रियभेदनिबन्धनो भविष्तीती चेति कर्मादिनियमो बाध्येत ; प्रतीतिभेदश्च न स्यात्, तत्र क्रियाया अर्थान्तरत्वात् । 4.88. न ह्यन्यस्य बेदः, अन्यस्माद्भिद्ते । अपिच द्रव्यस्यैकत्वे कुतः क्रियाबेदकरणबेदः कार्यस्याबेदात् । शक्तिनामेव च साधनत्वे प्रातिपदिकाद्विभक्तयो युज्यन्त #े। द्रव्यस्य तु प्रातिपदिकनाभिहितत्वात् अनर्थका नोत्पद्येरन् वचनात् स्वार्थिका इति चेत् कर्मादिनियमो बाध्येत, प्रातीतिभेदश्च न स्यात् । वृक्षं वृक्षेणेति अस्ति चासावभिन्नेऽपि प्रातिपदिकार्थे तस्मादर्थान्तरं प्रातीपदिकार्थाद्विभक्त्यर्थःआः कारकमिति । नैवम्, शक्तिमद्द्रव्यं कारकं क्रियानिष्पत्तावुपात्तव्यापातत्वात् । न चाशक्तान्न क्रियानिष्पत्तिरित्य#ेतावती शक्त्यपक्षा तस्य साधनत्वं विहन्ति ; शक्तेरपि द्रव्यपेक्षत्वे तुल्यदोषत्वात् । न चान्यापेक्षा कारकाणां कारकत्वं विरुणाद्धि, कार्यत एवान्वयव्यतिरेकाभ्यां कारकत्वावगतेः । कार्यं हि कस्यचित् संभवेऽप्यनव #ाप्कसत्कारः पुनरवाप्रुवन् सत्तान्तरस्य भाव एव परिगृहीतातिशयान्तर,स्य् कारणतां कुसूलादौ बीजसमवधानेऽप्यलब्धोपलब्धेरङ्कुरस्य क्षित्यादिसहकारिग्रामबीजस्य समवधानसंदृशमानमूर्तेरन्वयकार्यं न प्रतीत्यते । अपि तु तदेव बीजं समवहितक्षित्यादिसहकारकारिप्रत्ययमस्य जनकमितरथेति गम्यते । द्रव्यस्यैकत्वात् साधनभेदः,कथमिति चेत् एकद्रव्याधिकरणाश्शक्तयो भिन्ननरूपाः स्वरूपभेदेनाश्रयबेदमुपदधन्त्योऽभेदमधिकरणस्य दर्शयन्ति । एखस्यापि देवदत्तादेः शिल्पभेदात्तक्षायस्कारादिसमाख्या अर्थबेदव्यवस्थां चरतीति । तत्तूक्तम् ; द्रव्ये साधने प्रत्ययाभिहितत्वात्तदिनुप्रयोगो न स्यात् । तत्र सामान्यमभिहितं, विशेषो न प्रयोक्ष्यते न वक्तव्यं साधने विधीयमानः प्रत्ययः कथं साधनं सामान्यमभिदधीत ? सामान्यस्य विशेषाश्रयत्वात् विशेषे एव वा प्रत्ययैनैकरूपत्वादमनुप्रयोगापेक्षिणाऽभिधीयते गोशब्देनैव प्रकरणाद्यपेक्षिणा गवादिरर्थ इति । 4.89. ननु चान्यापेक्षया विशेषमभिदधतः प्रत्ययस्य कथमभिधानशक्तेर्नोपरेधः ? यथा गनार्दि अभिदधतो गोशब्दस्य शक्तावपरि चेतत्समानं साधनशक्तीनां विशेषे शब्दस्याभिधानशक्तिप्रतिधात इति । नैवं, शक्तार्विशेष एवोच्यते धातोः क्रियाविषेषवचनादेव प्रत्ययोत्पत्तेः । स च क#ार्यविशेषाश्रयभेदाभ्यामवधार्यते । तत्र कार्यभेदो धातुनैवाभिहितः ; आश्रयभेदः पुनरप्रतीतः पदान्तरेणैवोच्यते । चैत्रो मैत्र इति तथाप्यन्यापेक्षा तुल्यैव । न चाश्रिताश्रययोस्सामानाधिकरकण्यं अतश्चैत्रो वर्धयतीति वन स्यात् , अपि तु चैत्रो वर्धत इति । अपि तु धातुः क्रियाविसेषवचन एवेति कुत एतद्वर्धते यावदनेन वर्धयितव्यं ; इदं कर्म कुर्याः, नागरकवृत्तं वर्तते, सामान्येनैषा न पुष्यति, इत्यादौ सामान्यस्य विशेषः प्रतीयते । यत्तु देवदत्तैदेर्दिव्यस्यैकतवन्मध्ये द्वय्हादिः कालो न संभवतीत्युच्यते, तदपि न सम्यक् ; आश्र#ितोपाधिनिमित्तस्य भेदस्योपपत्तेः । तथाहि ; वक्तारो भवन्ति, पटुर्भवान्, पटुरासीतं, पटुतरश्श्रेष्ठः, अद्यान्य एवासि सं#ेपन्न इति तदेवं सामथ्र्यभेदादाहिताविभागमधिकरणं भागशोऽवच्छिद्य साधनभेदः प्रकल्प्यमानो मध्यमप्युपकल्पयति । 4.90. न च शक्तिपक्षेऽपि साक्षान्मध्यसंभवः पूर्वशकतिकाले परस्याः पराकाले तु पूर्वस्याभावात् । अथावा द्वय्हे भोक्तेत्यवधिसप्कतमी द्व्यहादेभोक्तेत्वयवधिरेव पञचमी स चान्त्यभोजनेवच्छिद्येत । यदि तु मध्यसिद्धये द्रव्यभेदश्शक्तिबेदष्च क्लप्यते ताद कर्तृभेदात्भुक्त्वेति क्तवाप्रत्ययः समानकर्तृरकयोः पूर्वकाल इति न स्यात् #्। उपचिताभेदाश्रयस्स इति चेन्मध्यं न सिध्यति । अथैक्तवात् भुक्तिक्रियायां कारकैकत्वकालबेदाश्रयश्च कारकभेदः सत्त्वो व्रजतीति न स्यात्, स्न्नानसृप्रज्ययाश्च भेदात् तन्निम्त्योः कर्तृशक्त्योरपि भ#ेदे समानकर्तृकत्वाभावात् । ननु चात्रापि द्रव्यमाश्रितशक्तिबेदसंपादितनानात्वं साधनं तस्याप्येष दोषः । अपि च भिन्नधारवर्तितया सामथ्र्ययोरभेदामाधेयशक्तिवादिना शक्यते वक्तुं समानः, कत्र्रेति । यसय तु शक्तिभेदोपनीतस्यदाधारस्य भेदस्तस्य निबन्धनमुचरितमप्येकत्वं न विद्येत , अपेक्षणीयश्चाधारभेदाक्रियाभेदस्य पौर्वापर्यवतः अपेक्षितत्वात् । अत्रोच्यते द्रव्यस्यैकत्वेन शक्त्योरेकत्वमुच्यते । शक्तिनानात्वेन च द्रव्यस्यचापि नानात्वं ककरष्यते ; द्रव्यस्य तु पारमार्थिकमप्येकत्वं न मृष्यत इत्यहो कामचारः । अपितु शक्तौ साधने पशौ कर्तरि हस्तिकवाटयोः कत्र्रोरिति कथं शक्तिराख्या धारावच्छिन्ना प्रतिपाद्यते, प्रतिपाद्यनां सामानाधिकरण्यं पृच्छामि पशौ द्रव्ये यः कर्तेति चेत् उपमानात् कर्तुरिति न प्राप्नोति ।4.91. अथ शक्तिभेदोपकरणाः कत्र्रादिश्रुतयः तदपि कारणं कार्ययोगितयाऽवगमत#ि । शुक्लादयः रूपविशेषाश्रयमिति सामानाधिकरण्योपपत्तेः । जितं तर्हि भवता, सिद्धश्शक्#ितसाधनभेदः कत्र्रादिश्रुतिभिराश्रयस्य शक्तिमतोभिधानात् । किञ्च शक्तिकारकपक्षे कम.....कर्मणो द्वित्वे बहुत्वे विभक्तिवचनादिति न स्यात् । न हि गुणस्य संख्यासंबन्धो दृश्यते ; पञ्च कर्माणि, चतुरो कर्मणो भावास्त्रयस्संयोगा द्वे सामान्ये एकस्समवाय इति । न चायमुपचारः प्रत्ययाविशेषात् ; एवं शक्तयोऽपि कार्यभेदाभिन्नस्सङ्ख्याभेदमनुभविष्यन्ति । सत्यमस्ति शक्तीनां भेदः, न तु तत्रापि ते वचनबेदं, यस्मादादित्यं पश्यति स्तौतीति दर्शनादिक्रियाभेदात् भिन्नास्वपि शक्तुषु न बहुवचनं दृश्यते । न पर्यायोक्तौ शक्तयः क्रियाभिरभिसंबध्यन्त इति चेन्न । प्रत्येकासमाप्ता अपि क्रियाभेदास्समास्याभिधानेषु वचनभेदं प्रयुञ्जते । यथा पञ्च शरानस्यति, सव्यापसव्याभ्यां विध्यति, द्वयोः पर्यङ्कयोश्शेते इति । नच पर्यायेणैव दर्शनादयस्स्युः यौगपद्येनापि भावात् । तस्मात्सामथ्र्यधारनिबन्धनो वचनभेदो न शक्त्याश्रय इति । अत एव स्वातन्त्र्या विभक्तयाऽपि शक्तिर्नाभिधीयते । यदि हि स्वतन्त्रां शकिं्त विभक्तिरभिदध्यात् तदा द्गतामेव संख्यां विभक्तिरभिदधीत ; समानशब्दोपादान#ात् न चैतदस्ति । तस्माद्यस्य संख्यां विभक्तिरुपादत्ते तदेव शक्तिमत्कारकमिति । 4.92. यत्तु शक्तामेव विभक्त्यर्थे वर्तमानमव्ययं समस्यते इत्युच्यते तच्छक्तिमत्यपि कारके अव्ययानामपि सत्ववचनात्तन्मात्राभिधानमिति कथं सत्वभूतं द्रव्.यमसत्वार्थेनाव्ययेनाभिधीयेत ? यस्तु प्रासाद आस्त इत्यनभिहितलक्षणा सप्तमी न लक्ष्यत, इति तत्र यथा--घञादिविषये शक्तिमद्द्रव्यमभिहतं, न त्वासिविषयशक्तिमदिति तत्र न च केन सप्तमी वार्यते ? यदि च घञादयः शक्तिमभिधीरन् तदा शक्तेरसिशब्दाभिबहितायाः शक्त्यन्तरायोगादास्तां सप्तमी द्वितीयादयोऽपि नोत्पद्येरन् । कथं चैवमाह अधिकरणादिवचनानि प्रसादादयः । ते हि संज्ञाशब्दा वृक्षादिवदेव केषुचिदर्थविशेषेषु रूढाः केवलममीषां धर्मनियमा वा यथाकथाञ्चिदुत्पतिं्त एतेन च वेगेन पततः इत्यादौ ये यमेकद्रव्याधिकरणा साधनभेदश्रुतिः सापि प्रतिविहितैव भवति । 4.93. न चैतावता कारके प्रातिपदिकादयो नोत्पद्यरन् । द्रव्यं हि विभक्तिलिङ्गशक्तिसंख्यालिङ्गवञ्च विभक्तिवचनसंस्कारो लभ्यत इत्यतः स्थितमेतच्छक्तिमद्द्रव्यं कारमिति । आख्यातप्रत्ययाभिधेयं कारविशेषः पुरुषः । स त्रिधा---प्रथमो मध्यम उत्तमश्च । तत्र परस्मैपदात्मनेपदयोः प्रथमत्रिकाभिधेयः प्रथमः, मध्यमत्रिकाभिधेयो मध्यमः, अन्तयत्रिकाभिधेय उत्तमः । तत्र च --- प्रत्युक्तापरभावश्चेदुपाधिः कर्तृकर्मणोः । तयोः श्रुतिविशेषेण वाचकौ मध्यममोत्तमौ ।। तदाह--युष्मदि मध्यमः, अस्मद्युत्तमः, शेषे प्रथम इति । तत्र कर्तरि पुरुषप्रयोगो यथा--- अथाऽऽह वणीं विदितो महेश्वरस्ततदर्थिनी त्वं पुर एव वर्तसे । अमङ्गलाभ्यासरतिं विचिन्त्य तावाभ्यनुज्ञां न तु कर्तुमुत्सहे ।। कर्मणि यथा--- यदि त्वं मन्यसे तेन त्वया स यदि तोष्यते । तत्किमास्था न कोपेन दूति दद्यामहे वयम् ।। 4.94. अथैषां क्कचित् प्रथम एव यथा---युवाभ्यामास्यते, अस्माभिर्गण्यते इति । क्कचिन्मध्यम एव यथा--क्रियासमभिहारत्रयाभ्यां स समुञ्चयेषु लुनीहि लुनीहीत्येवायं लुनाति, अलावीत् लविष्यति वा, अधीष्वाधीष्वेत्येवमधीयाते, अध्यैषातां अधीष्येते वा, राष्ट्रमट, मठमट खद#ूरमटेत्येवावामटावः, अटिष्व अटिष्यामो वा, छन्दोऽधीष्व व्याकरणमधीत्व, निरिक्तमधीष्वेत्येव यमधीमहे, अध्यगीष्महि अध्येष्याहे वा, सक्तूने पिब, धानाः खादत, ओदनं भङ्क्ष्व इत्येवं यूयमब्यवहरत अभ्यवाबाष्र्ट अभ्यवहरिष्यथ वा । क्कचिदुत्तम एव यथा--प्रहासे मन्यन्ते, एहि मन्यन्ते, रथेन यास्यसि, दुहि यास्यति, यातस्ते पिता, एहि मन्ये ओदनं भोक्ष्यते, न हि भाक्ष्यसे, भुक्तस्सोतिथिभिरिति । मन्यतेस्तु उत्तमविषयेऽपि मध्यम एव एव ; तत्राद्यत्रायमर्थः, एहि मन्यसे ओदनं भोश्यथ, इति । युगपद्वतचने पुनः पुरुषाणां परो भवति । यथा--स च त्वं च पचथः, त्वं चाहं च पचावः, स च त्वं चाहं च पचाम इति । युगपद्वचनता चैकशेषस्य द्वन्द्वः समानार्थत्वाञ्च अर्थविषयैव गृह्यते ; न चार्थविषया । तेन --- अहं वा कुम्भकर्णो वा त्वं वा राक्षसपुङ्गवं । इन्द्रजिद्वा निकुम्भो वा वहेयुर्भारभीदृशम् । शेषे प्रथम एव भवति, त्वमहमन्यो वा गच्छत्विति ।। एवं तर्हि चार्थे युगपद्वचनतायामबावात् वहेयुरिति बहुवचनं न प्राप्नोति । नैवम् ; वार्थेषु क्कचिद्युगपद्वचनता दृश्यते । यथा--द्वौ वा त्रयो वा द्वित्रा इति आह च महाभाष्यकारः, द्वौ प्रयुक्ते त्रयो वति गम्यते, त्रयो वेत्युक्ते द्वौ वेति गम्यते । सौषा पञ्चाधिष्ठानवाक् । तत्र युक्तं बहुवचनं सामान्याश्रयो वा बहुवचनम् ; यथा ना---कित भवतः पुत्राः, कति ते भार्या इति बहुत्वं संपद्यते यस्मिन्नतस्मिन्युष्मदाश्रया । प्रवृत्तिः पुरुषास्यास्ति प्रकृते स्सा विधीयते ।। 4.95. यथा अत्वन्तं संपद्यते त्वद्भावति, अयूयं यूयं संपद्यन्ते युष्माद्भवन्तीति, उपलक्षणं चैतत् । प्रकृतिविकृत्याश्रयपुरुणसंप्रधारणायं प्रकृत्याश्रय एव पुरुषो भवति, न विकृत्याश्रय इति । तेन अनहमहं संपद्यते मद्भवति, अवयं वयं संपद्यन्ते अस्मद्भावन्ति, असस्स संपद्यते तद्भवति, अनहमहं संपद्यते मद्भवसीत्याद्यपि सिद्धं भवति । का पुनरत्रोपपत्तिः ? अभूततद्भावे प्रकृतिविकृत्योः कर्तृत्वविवक्षायां कामचारः । तथाहि ; क्कचिद्विक-तेः कर्तृत्वं विवक्ष्यते । यथा--मूत्राय संपद्यते यावागुः, यथा च सुवर्णपिण्डड्डत्ध्;ः पुनरपरया आकृत्या संपृक्तः खदिराङ्गारसवर्णे कुण्डड्डत्ध्;ले भवति इति । तथाहि ; क्लृपि संपद्यमाने या चतुर्थी सा विकारतः । सुवर्णपिण्डेड्डत्ध्; प्रकृतौ वचनं कुण्डड्डत्ध्;लाश्रयम् । क्कचित्तु प्रकृतेः ; यथा--सङ्घीभवन्ति ब्राह्मणः, महद्भीतश्चन्द्रमा इति । अत्र यदि प्रकृतेः पर्तृत्वं न विवश्यतेतदा विकृतेस्सङ्घस्यैवकर्तृत्वाद्भवन्तीति बहुवचनं न प्राप्नोति । महद्भतः इत्यत्र च महच्छब्दस्य च मुख्यार्थात्वादान्महतस्समानाधिकरणजातीययोरित्यात्वं स्यात् । प्रकृतिर्हि काचिदुपचरितबिकाररूपा, यथा इन्द्रस्थूणा उपेन्द्रा ग्राव इति । काचित्परिणामिनी यथा--दुग्धं दधि पूर्वस्या अस्वास्थायाः प्रच्युतस्योत्तरामवस्थां प्राप्तस्य पूर्वोत्तरयोरवस्थयोराश्रितयोस्सव्यापारवत्वात् पूर्वस्यावस्थायां कर्तृत्वविवक्षायाः सङ्घमहदादेर्विकारशब्दस्य प्रकृत्युपग्राहिणो गौणत्वं विज्ञायते । तदुक्तं ---- महत्त्वं सङ्घभावं च प्रकृतिः प्रतिपद्यते । भेदेनापेक्षिता सा तु गौणत्वस्य प्रसाधिका ।। इति । यद्येवम्, अतिमहती महती संपन्ना महद्भूता ब्राह्मणीति पुवद्भावो न प्राप्नोति, अर्थाश्रयः एतदेवं भवति । शब्दाश्रयश्च पुवद्भावः ; यथा गो तो णित्, औतोंशसोरिति बाह्यीके । वर्तमानस्य गोशब्दस्य गोस्तिष्ठति गामानयेति वृद्धिरात्वं च भवति । तेऽमी क्रिया च कालश्च कारकं पुरुषस्तथा । उक्ताः पदार्थश्चत्वारस्स्वैस्स्वैर्भेदैस्स्मन्विताः ।। द्रव्यात्मा चापि कालो यः प्सङ्गात्सोऽपि कीर्तितः । स हि प्रायः ब्रबन्धेषु तत्र तत्रोपयुज्यते ।। क्रियायां कालोन्तर्भवति पुरुषः कारकपदे । प्रधाने सोपाधिद्वयमपि तेदतन्निविशते । प्रधानं तं प्राहुर्यमभिदधते घञ्प्रभृतयः । सहोपस्कारर्थैर्निवसति स तु प्रातिपदिके ।। इति महाराजधिराज श्रीभोजदेवविरचिते शृङ्गारप्रकाशे क्रियाद्यर्थचतुष्टयप्रकाशो नाम चतुर्थः प्रकाशः ।।