शृङ्गारप्रकाशः/अष्टमः प्रकाशः
अष्टमः सापेक्षशब्दशब्दशक्तिप्रकाशः
8.1. तत्रोद्भूतसम्बन्धव्यतिरेकाणां पदार्थानामित्तरेतरत्प्रत्याकाङ्क्षा व्यपेक्षा । सा च सन्निहेति योग्ये च भवति । तद्यथा--देवो वर्षतीति वर्षणक्रियाकर्तारमन्तरेणाभवन्ती सन्निहितं योग्यं च देवमपेक्षते । यत्र तु सन्निहितस्य न योग्यता तत्र व्यवहितमपि योग्यमेवापेक्ष्यते । यथा---प्रविषशपिण्डड्डत्ध्;ीमित्यत्र न प्रवेशनक्रियामप्ययोग्यायां पिण्डड्डत्ध्;्यामसम्भवन्ती व्यवहितमपि योग्यं गृहादिकमपेक्षते । पिण्डड्डत्ध्;ीमित्येतदपि कर्मपदं प्रविशेत्यस्मिन्नसम्भवद्योग्यमेव भक्षयेत्यादिक्रियापदमपेक्षत इति । सेयं व्यपेक्षा संक्षेपतः पदार्थाना#ं त्रेधा सम्भवति ---आभिधानिकी, नैयायिकी । नैषधिकी च । तत्र श्रुतिसमारोपवाक्यविकल्पसमुञ्चयातिदेशादिभिरभिधीयमाना आभिधानिकी । ऊहविपर्ययविपरिणमाध्याहारवाक्यविशेव्यवहितक्लपनादिभिरुपल्प्यमाना नैयायिकी । वचनामम्भवविरोधकृतार्थपरिसङ्ख्यावधारणादिभिनिषिध्यमाना नैषध#िकी । तास्वाभिधानिकी तावद्यत्र द्वयोः साधम्र्यार्थमावृत्त्या विभक्तिश्रुतिभेदेन च विशेषणविशेष्यनिर्देशः सा श्रुत्याभिधानिकी । यथा-- अङ्गेनाङ्गां प्रतनु तनुना गाढतप्तेन तप्तं । सास्त्रेणास्त्रद्रवमविरलोत्कष्ठमुकण्ठितेन । उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवतीं सङ्कल्पैस्तैर्विशति विधीना वैरणा रुद्धमार्गः ।। यत्रापि साधम्र्यार्थादेव द्वयोस्तन्त्रेण च विभक्त्यभेदेन च विशेषणविशेष्ययोगः, सा च श्रुत्याभिधानिकी । यथा--- दैवादपत्रमच्छायं फलार्थिभिरसेवितम् ।सानुजं शाखिनमिव दृष्ट्वा रामं रिरोद सा ।। यत्र पदेन वाक्येन वा संज्ञार्थो विधीयते सा समाख्याभिधानिकी । सा पदेन यथा--- असौ शरण्यः शरणागतानामगाधसत्त्वो मगधप्रतिष्ठः । राजा प्रजारञ्जनलब्धवर्णः परन्तपो नाम यथार्थनाम् ।. वाक्येन यथा--- सञ्चं धन्नाधन्ना जातइआ केसवेण गिरिधरणे । गुरुभारपावडेड्डत्ध्;ण विअ अज्जुअअच्छं चिरं दिठ्ठा ।। यत्र व्यपेक्षोत्थापकावाक्यमभिधाय तदुपपादकमभिधीयते, उपपादकं वाभिधाय व्यपेक्षोत्थापकं सा वाक्याभिधीनिकी । तयोराद्या यथा--- साउप्पन्नीगोटी डड्डत्ध्;इनवस्विकवि ....... ति । भुड्ड्डत्ध्;डड्डत्ध्;प्चल्लि इसोमरहजासुननलश्शइकंठि ।। द्वितीया यथा--- वाणिधमोडिड्डत्ध्;अञ्चरुणाखओ दारेएं तु न दिठ्ठ । माएणजहुकेमलडड्डत्ध्;ोल्लाहिअ इवइठ्ठ ।। वैकल्पिकताभिधानप्रभवा विकल्पाभिधीनिकी यथा--- अंबुरुखोञ्चिअसमुद्दुतरेसिलदुहिडड्डत्ध्;ोग्गरुकाणि । तहिमोहिपतयीओकलहिओजेवरिञ्च इते वअणि ।। समुञ्चयकाभिधानप्रभवा समुञ्चयाभिधानिकी । यथा--- हिअ इखुक्कइगोडड्डत्ध्;री गअणे हुडिड्डत्ध्;क्क इमोहु । वासरत्तपवास अछं हसमासं कडुड्डत्ध्;एहु ।। सामान्यविशेषातिदेशप्राप्तधर्माणं यत्राग्रतः पश्चाद्वाभिधानं सातिदेशाभिधानिकी । तत्र सामान्यातिदेशप्राप्तधर्माभिधानमग्रतो यथा--- हिअ इति रिच्छिवहि समुहलच्छइगहिअकडड्डत्ध्;वच्छ । पहिअहएकजिशोरडड्डत्ध्;ीनं चउभट्टअरच्छ ।। एवं पश्चादपि द्रष्ठव्यम् । विशेषातिदेशप्राप्तधर्माभिधानं पश्चाद्याथा--- महिलत्ताणणिव्याहि उअएकलविज्जप्पिआइ । णेहक्क उविअविर हुनम्मे विदट्टणजाइ ।। आदिग्रहणाद्यत्रैकमभिधानः प्रसङ्गेनान्यदप्यभिधत्ते सा प्रसङ्गाभिधानिकी । सापि द्विधा---पदतो वाक्यतश्च । तयोराद्या यथा--- सावसलोणीगोरडड्डत्ध्;ी ..... अहोमडुड्डत्ध्;रइ सोओ । तिक्खअप्पपलोव्वणएविरडुड्डत्ध्;दिकडिड्डत्ध्; अकसाओ ।। अत्र रूपं वर्णन्प्रसङ्गतः षड्रड्डत्ध्;सानभिमतानभिमतत्वं च तेषां निर्दिशति । द्वीतीया यथा--- प्रत्यग्रोन्मेषजिह्मा क्षममनभिमुखी रत्वदीपप्रभाणा मात्मव्यापारगुवीं जनितजललवा जृम्भणैः साङ्गभङ्गौः । नागाङ्कं मोक्तुमिच्छो शयनमुफमाचक्रवालोपधानं निद्राच्छेदाभिताम्रा चिरमवतु हरेद्र्दष्टिराकेकरा वः ।। अत्र मुद्राराक्षसे चाणक्येन कौमुदीमहोत्सवे निषद्धे राक्षसयुक्ते वैतालिकः प्रभाते मङ्गलानि पठन् शरदवतारो वर्तते इति चन्द्रगुप्तस्यागुप्तमावेदयति । 8.2. अथ नैयायिकी । यत्र पूर्वोक्तमेव वाक्यमर्थान्तरे वक्रतरादिभिरूहयित्वा निवेश्यते तामूहनैयायिकीमामनन्ति । तद्यथा---कालिदासः "किं कुन्तलेश्वरः करोतीति" विक्रमादित्येन पृष्ट उक्तवान् । असकलहसितत्वात्क्षालितानीव कान्त्या मुकुलितनयनत्वाद्व्यक्तकर्णोत्पलानि । पिबति मधुसुगन्धीन्याननानि प्रियाणां त्वयि विनिहितभारः कुन्तलानामधीशः ।। इदमेवोहयित्वा विक्रमादत्यः प्रत्युवाच --- पिबतु मधुसुगन्धान्याननानि प्रियाणां मयि विनिहितभारः कुन्तलानामधीशः ।। यत्र पाठक्रमेण संबन्धानुपपत्तावर्थक्रमेण विपर्यस्य पदानि योज्यन्ते सा विपर्ययनैयायिकी । यथा--- स्वयंविशीर्षद्रुमपर्णवृत्तिता परा कहि काष्ठा तपसस्तया पुनः । तदप्यवाकीर्णमतः प्रियंवदां वदन्त्यपर्णामिति तां पुराविदः ।। अत्रातस्तां प्रयिंवदामपर्णां वदन्ति पुराविद इति पर्यायेण पदानि योज्यन्ते, यत्र तुल्यार्थपदप्रयोगे विभक्तिविपारिणामेन विशेषणविशेष्ययोर्योजयन्ते सा विपरिणामनैयायिकी । यथा--- दन्तोज्जवलासु विमलोपलमेखलान्तास्सद्रत्नचित्रकटकासु बृहन्नितम्बाः । अस्मिन् भजन्ति घनकोमलगण्डड्डत्ध्;शैला नार्योऽनुरूपमधिवासमधित्यकासु ।। अत्र सप्तमयन्तीनि प्रथमान्ततानि च विशेषणानि नारीरधित्यकाश्च विभक्तिविपरिणामतो विशेषयन्ति । एतेन वचनविभक्तिपरिणामो लिङ्गविपरिणामश्च व्याख्यातः । तयोराद्यो यथा--- हस्तस्थिताखण्डिड्डत्ध्;तक्रशालिनं द्विजेन्द्रकान्तं श्रितवक्षसं श्रिया । सत्यानुरक्तं नरकस्य जिष्णवो गुणैर्नृपाः शाÐङ्गणमन्वयासिषुः ।। द्वितीया यथा--- रोचिष्णुकाञ्चनचयांशुपिशङ्गिताशा वंशध्वजैर्जलदसंहतिमुल्लिखन्त्यः । भूभर्तुरातनिरन्तरसन्निविष्टाः पादा इवाभिबभुरावलयो रथानाम् ।। यत्राकाङ्क्षानिवृत्तयेऽर्थान्तरमध्याह्रियते, साध्याहारनैयायिकी । यथा--- न दानेन न मानेन न शाठ्येन न सेवया । न शस्त्रेण न शास्त्रेण सर्वथा किमपि स्त्रियः।। अत्र लशीभन्तीत्यादिरध्याहारः । यत्र लिङादेसश्रुतौ विधिर्निषेधो वा सर्ववाक्यानां विधीनिषेधपरत्वे न प्रकल्प्यते सा वाक्यशेषनैयायिकी । यथा--- तदेतत्काकतालीयं तदेदत्वा घुणाक्षरम् । यदनात्मवतामायुर्यञ्चानीतिमतां श्रियः ।। तस्मादात्मवता राज्ये तं निशम्य प्रतिष्ठितम् । पूर्वं प्रधूपितो साज्ञां दृदये। हृदयेग्निरिवोत्थितः ।। अत्राग्नेर्निशमानाक्रियासम्भवात् पूर्वकालत्वायेगे तं निशम्यपि राज्ञां रजतामिति वयुत्पत्तिकालार्थो व्यवहितो व्यवपेश्र्यते। तेनायमर्थः सम्पद्यते । तं राज्ये प्रतिष्ठितं निशम्य राजाभिमान मुद्वहतां हृदयेऽग्निरिनोत्थित इति । एतेन गुणकल्पना नैयायिक्यपि व्याख्याता । यथा--- चेदणिहिएक्कचलणाणहभभिरमरालणि हिणुअवरवआ । कमलवणदिण्णहत्था अणुसिरीभुवणमोअरइ ।। आदिग्रहणादपोद्धारवाक्यभेदादयो गृह्यन्ते । तेषु यत्र वृत्तिच्छन्नस्य सर्ववामादिभिरपोद्धृत्यानुसन्धामं क्रियते सा अपोद्धारनैयायिकी । यथा--- विपत्फ्रतीकारपरेण मङ्गलं निषेव्यते भूतिसमुत्सुकेन वा । जगच्छरण्यस्य निराशिषः सतः किमाभिराशोपहात्मवृत्तिभिः ।। अत्र वृत्तिच्छन्नयोर्विपद्विभूतिपदयोराभिरिति सर्वनाम्नानुसन्धाने जगच्छरण्यस् किं विपदिभिः, निराशिषः किं विभूतिभिरित्यर्थः सङ्गच्छते, एवाक्यात्वेऽप्यपेक्षितानवाप्तौ यत्र वाक्यान्तरमुपकल्प्यते सा वाक्यभेदनैयायिकी । यथा-- तुहअसमं सोहग्गं अमहिलसरिसं च साहसं मज्झ । जाणइ गोलाऊरो तासारत्तद्धत्तरत्तोअ ।। अत्र तवासमं सौभाग्यमस्त्रीजनोचितं च मे साहसं गोदवरीपूरो जानातीत्येतावदेकं वाक्यं नैकः साक्षी प्रमाणनितय्पेक्षायां वर्षारात्रार्धरात्रश्चेति द्वितीयम् । अन्यथा ह्येकवाक्यातायां यथासङ्ख्यमनुदेशस्समानामितिगोदावरूपूरस्त्वत्सौभाग्यं वर्षारात्रर्धरात्रस्तु मत्साहसं जानातीत्ययमर्थः सम्पद्यते । यदि चायमपि न यथासङ्ख्यस्य विषयः कोऽन्यो भविष्यति ? तत्र को दोष इति चेद्विवक्षितार्था सिद्धिः । यथासङ्ख्यापक्षे हि येषु तेवं पल्लवितलताप्रतानापवारीतेषु गोदावरीतट गुहागृहेषु कामपरवशाभिर्वराङ्गनाबिरभिसार्यमाणो विहरसि प#ूर एव, तेषु यदि प्रवेष्टुमीष्टे याति चैहं प्रसुप्ताशेषजनपदे प्रवर्षदम्भोधरान्धकारनिस्सञ्चारे प्रावृण्णिशीथे परिभ्रमन्ती महासाहसानि वर्षारात्रार्दरात्र एव यदि द्रष्टुं शक्नोति, न पुनरन्यस्यैतत्समामथ्र्यमित्ययमर्थः, सङ्गच्छते । न चायमस्या विवक्षितः अपि त्व#ेवं नाम त्वं सुभगे सएवं नाम चाहं साहसिनी यार्धरात्रे वर्षासुपूरर्णां गोदावरीमुल्लङ्घ्यागणितप्राणसंशया त्वामभिसारितवत्यस्मि, तस्मात्कृतज्ञतामनुरुध्यमानेन सौभाग्यातिशययोगाद्बगुवल्लभेनापि त्वयानुरक्तायां मय्यनुक्रोशो न मोक्तव्य इति ।। 8.3. अथ यत्र साधम्र्यादिभिरर्थान्तरेऽनुवृत्तः पदार्थधर्मो वचनेन सा वचननैशेधिकी, सा तु प्रतीयमाननिवृत्तिमित्ताच । तयोराद्या यथा-- मूले कण्टकसन्ततिरुपरि च विकाचीनि सक्तकुसुमानि । एतावतैव शाल्मलिरनुहरति न पङ्कजवनस्य ।। अत्र शल्मलिसादृश्यं कण्टककुसुमसाधम्र्यात्पङ्कजवनेऽनुवृत्तं प्रतीयमानसौगन्ध्यादि गुणभावसूचकेन वचनेन निवत्र्यते । द्वितीया यथा-- कार्यज्ञः प्रष्टव्यो न पुनर्मान्यो मम प्रियो वेति । गुरुरस्त्रासनसेव्यः प्रियानितम्बः कदा मन्त्री ।। अत्र यो यस्य मान्यः प्रियो वा स तस्य मन्त्री सामान्येन मान्यत्वप्रियत्वाभ्यां मान्यप्रियाप्रिया नुवृत्ता प्रष्टव्यता प्रियानितम्बदृष्ठान्तावष्टम्भशोभिनाभिधीयमानकार्यज्ञत्वाभावसूचकेन वचनेन निवृत्र्यते । यत्रासम्भवेन विधेयं निषिध्यते सा असम्भवनैषेधिकी ।सा द्विधा, अप्रस्तार्वनिमित्ता, अनुत्पादिनिमित्ता च । तयोसाद्या यथा-- वेविरसिण्णकरंगुलि परिग्गहकखलिअले हणीमग्गे । सोत्थिञ्चि अणसमप्पइ पिअसहिलेहम्मि किंलिहिमो ।। अत्र स्वस्तीति पदस्यासमाप्तौ सन्देशदानादेस्तदुत्तरकालभानविनोऽप्रस्ताव इति तन्निमित्तत्वेनासम्भवेन लेख्यास्य विधेयत्वं निषिध्यते । द्वितीया यथा-- लइवप्पडड्डत्ध्;वि उदुदुत्थडड्डत्ध्;ाकउ अह्माणइएसि पुत्तमह । च्छ ...... जलदहि उजंमे विजिम आआसि ।। अत्र बध्नोऽप्यनुत्पात्तौ तदुत्तरकालभाविननस्ताक्रोत्पादस्यासम्भवेन तक्रपानस्याविधेयत्वं निषिध्यते । यत्र विरोधिना शब्देधिना शब्देनार्थेन वा कार्यें निवार्यते सा विरोधनैषेधिकी । तयोराद्या यथा--- तेषुच्छिज्जहिपत्तडिड्डत्ध्; जेतहि दिसिहि न एंति । जेहीसदिठ्ठिगोरधीतेदुकरुजीअंन्ति ।। अत्र ते वार्तो प्रष्टव्याः । ये तस्या दिशो नायान्तीति पार्वापरविरोधिना वाक्येन केनचित्प्रथमा न प्राप्नोति यथा नीलशब्दस्तावदयं स्वार्थसामान्यवचनो व्यतिरेकात्प्रातिपदिकार्थस्य प्रथमयैव सम्बध्यते, तथैवोत्पलशब्दोऽपि । यदेव केवलमव्ययतिरेकार्थाभिधीयि पदं पद#ान्तरसन्निधानेऽपि तत्तदेव ततो यमर्थमभिधातुं योग्यमवधृतमस्य रूपं तमेव पदान्तरसन्निधावपि प्रत्याययति । रुपमेदान्नहि रसनमसन्निधो दर्शनस्य मधुरादिव्यञ्जकदर्शनसन्निधौ नीलादिव्यक्तिसामथ्र्यै लभते । किन्तु पदयोः परिच्छिन्नार्थः पुमांस्तयो सन्निधौ प्रयोगसामर्थ्यादर्थयोः परस्परोपश्लोषयोग्यत्वादेकवाक्यरूपावुग्रहाञ्चान्योन्यं प्रधानेपसर्जनभावेन विशेषणविशेष्य एवमपैति । तथा हि । यत्र विशेंषणं विशेष्यं चैकस्मिन्नर्थे संभेदं प्रतिलभते तत्र यश्शब्दः स पूर्वोत्तरपदाधिष्ठानमेनं प्रत्याययति । उत्पलशब्दोऽभिप्रवर्तमानः सर#्वोत्पलावग्रहरुपेण प्रवर्तते । तत्रैव नीलशब्दः प्रवर्तमानो विशिष्टावग्रहरुपेणावच्छिनत्ति । यदि वा नीलमित्येतत्प्रवर्तमानन्यूनाधिकभावमपेक्षमाणमनेनैव धर्मेण सर्वयोग्यं सदुत्पलमिति शब्दान्तरेण विशिष्टायां योग्यतायां नियम्यते । अथवा यथा कृष्णः शुक्लश्चायं मृगः सारङ्गः शाबल इति वा, तथा नीलोत्पल इत्युभयरीप एवार्थात्मा ह्युभयं सन्निवेश्यते । नीलं चोत्पलं चैकं नीलोत्पलमिति तौ यस्मिन्निभयगुणमनुविभागमाप्यमानौ संमीÐच्छताविवार्थौ भवतः तत्तयारेकेमधिकरणं । यदिवा नीलशब्दः प्रवर्तमानो नीलगुणमात्रमुपादाय प्रवर्तते नत्वेनेनोत्पलादय उपात्ता अपि परित्यक्ताः । एवमुत्पलशब्दो विजातियोगमात्रमुपादाय प्रवर्तते । न नीलादींस्त्यजति । नोपादते । तत्र यदैव भिन्नेऽर्थरूप इदमिति सर्वनाम्ना प्रत्यवमृश्यमाने उपश्लिष्येते नीलमुत्पलं चेदं द्रव्यमिति, तदा शब्दभेदाद्भिन्नमेव द्रव्यं विश#ेषणं विशेष्यमधिक.... क्तः पदद्वयसन्निधानायत्तत्वाद्विशेषणविशेष्यभावस्य वाक्यार्थत्वं, न पदार्थता । तदिदमुक्तंयदत्राधिक्यं वाक्यार्थः स इति ... नीलमुत्पलमिति । विशेषणविशेष्ययोरुभयस्य च विशेष्यत्वादुपसर्जनत्वाप्रसिद्धिः यथा ह्युत्पलशब्दो नीलशब्देनाभिसमबन्ध#्यमानो विशेषनचनस्तथा नीलशब्दोऽप्युत्पलशब्देनाभिसम्बध्यमानो विशेषवचनः सम्बध्यते, नैवम्, । एकस्यात्र प्राधान्यं विवक्षितं अपरस्य उत्पलस्यचात्राप्राधान्यं विवक्षितं नीलशब्दस्योपसर्जनत्वमिति । यदा तर्हि नीलस्य प्राधान्येन विवक्षा उत्पलस्य चोपसर्जनत्वेन तदाकर्तव्यं सामानाधिकरण्यं, न ह्यसौ द्वन्द्व उत्पलं च नीलं चेति । नापि षष्ठीसमास उत्पलस्य नीलमिति, अपि तु द्वाविमौ प्रधानशब्दवेकस्मिन्नर्थे युगपदुरुध्येते । न च द्वयोः प्रधानयोरेकस्मिन्नर्थे युगपदुपरोधे प्रयोजनमस्तीति प्रयोगसामाथ्र्याद्गम्यते । नीनमेकमिहप्रधानं तद्विशेषकं चापरम् ।। 8.4. एतावांस्तु सन्देहः किं विशेष्यं ? किं विशेषणमिति । तत्र द्रव्यं विशेष्यं गुणो विशेषणं द्रव्यस्यानायनपेक्षिणः साक्षात्क्रियासूपयोगेन प्राधान्यात् ।। 8.5. ननु गुणस्यापि साक्षात्क्रियासूपयोगो दृश्यते यथा "श्वेतं छागमालभेते"ति, नावम्, । इह श्वेताभावे कृष्णमपि छागमालभते न तु श्वेतां पुष्टपिण्डड्डत्ध्;ीमालभ्य कृती भवति । एवमुपचारप्रवृत्तावपि पुरुषव्याघ्र इत्यादौ यद्यन्तर्भूतोपमानसम्बन्धप्रतीतभेदो व्याघ्रदुशब्दैरुपमेयः पुरुषादिरभिधीयते तदा सामानाधिकरण्योपपत्तौ उपमितं व्याघ्रदुभिः सामान्याप्रयोग इति समासो भवति । एवं प्रपचति साधु पचतीत्यादयो द्रष्टव्याः । कथं पुनः सामानाधिकरण्येन क्रियाविशेषणत्वे साध्वादयोऽसत्त्ववचना भवन्ति । उच्यते, उपसर्गाणामिव क्रियाविशेषणानामप्यत्त्वभूतानामेव क्रियां प्रति गुणभावो भवति, यथा पच्यादिकं विशेषे स्थापयन् असत्त्वार्थः प्रशब्दो विशेषणत्वं लभते, एवं साधुशब्दोऽपि क्रियात्मकभूतं धर्ममुक्तर्षादिकं क्रियास्थमसत्त्वभूतं क्रियानुप्रविष्टमभिदधानः क्रियानुरोधादेवासत्त्वभावमापन्नः क्र#ियाविशेषणत्वं लभते, कथं पुनः प्रपचतीत्यादौ प्रादेरुभय विशेषणत्वे, क्रियाभागेनैव सम्बन्धो भवति ? सति वा कथमुभयविशेषणत्वम् ।। 8.6. उच्यते । यथा मासोजातस्येति मासाख्यः क्रियाकलापः कथं प्रथमकुक्षिवियोगाख्यस्य जन्मनोऽवधिभावेन परिच्छेदको भवति जन्मप्रतिलब्धां वा सत्तां समावृत्त्या परिमिमीते, यथा च कष्टश्रित इत्यत्रोपात्तक्रियाविशेषपरिच्छिन्नः कर्ताऽभ्यन्तरीकृतसाधनसम्बन्धः क्रियायोगे श्रयतिक्रियासंबन्धात्कष्टे कर्मत्वमिति श्रयणक्रियापूर्वं कष्टेन सम्बन्धमनुभवति, यथा च वृकाद्भीत इत्युपात्तक्रियावच्छिन्नः कर्ता भयक्रियासंबन्धाद्वृकस्यापादानत्वमिति भयक्रियाप#ूर्वकं वृकेन संबध्यते, तथेहाप्युपात्तपच्यादिक्रियाविशेषपरिच्छिन्नः कर्ताऽभ्यन्तरीकृतसाध्यसाधनसम्बन्धः क्रियायोगे प्रादीवामुपसर्गत्वमिति क्रियापूर्वकं प्रादीनां सम्बध्यत इति । सर्वेऽपि च समुदायम्बन्धिनोऽवयवस्पर्शेनैव तद्वता समुदायेन सम्बध्यन्ते । तदुक्तम् --- समुदायेन सम्बन्धो येषां गरुकुलादिना । संस्पृश्यावयवांस्ते तु यज्यन्तेतद्वता सह ।। इति ।। व्यपेक्षादिभिरेकार्थपरतयोपात्तानां पदार्थानां मिथोऽभिग्रथनमन्वयः । स त्रिधा--शाक्तो वैभक्तः शक्तिविभक्तिमयश्च । तेषु कर्मादिशक्तिभिर्निर्वृत्तः शाक्तः, सम्बन्धादिविभक्तिभिर्वैभक्तः, उभाभ्यां पुनः शक्तिविभक्तिमयः । तत्राख्यातसुब्विभक्तिभ्यां कर्तृकर्मण#ोरभिधाने शाक्तो यथा--- अध्यासामासुरुत्तुङ्ग हेमपीछानि यान्यमी । तैरूहे केसरिक्रान्तत्रिकूटशिखरोपमा ।। कृदाख्याताभ्यां भिन्नकालस्थकर्तृशक्तिद्वयाभिधाने सुब्विभक्तिभिः कर्मकरणसम्प्रदानाभिधाने च शाक्तो यथा--- अजित्वा सार्णवामुवींमनिष्ट्वा विविधैर्मखैः । अदत्वा चार्थमर्थिभ्यो भवेयं पार्थिवः कथम् ।। आख्यातविभक्त्या हेतुशक्त्यभिधाने सुब्विभक्त्याव कर्मकत्र्रपादानाधिकरणशक्त्यभिधाने यथा-- स सेतुं बन्धयामास प्लवगैर्लवणाम्बुधौ । रसातलादिवोकत्तीर्णं शेषं स्वप्नाय शार्ङिगणः ।। स्वप्नायेति कर्तरि षष्ठी न सम्बन्धे, भावएव चतुर्थी न तादथ्र्ये । आख्यातेन कत्र्रभिधाने तद्धितेन कृते च कर्माभिधाने सुपा कथिताकथितकर्माभिधाने च शाक्तो यथा--- विपक्षमखिलीकृत्य प्रतिष्ठा खलु दुर्लभा । अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते ।। ,म्बन्धविभक्त्या वैभक्तो यथा--- यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमान् लोके यस्यार्था स च पण्डिड्डत्ध्;तः ।। शेषविभक्त्या वैभक्तो यथा-- भूतानां प्राणिनः श्रष्ठाः प्राणिनां बुद्धिजीविनः । बुद्धिमत्सु नराःश्र्ष्ठा नरेषु ब्रह्मवादनः ।। उपपदविभक्त्या वैभक्तो यथा--- नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे । त्रैलोक्यनगरारम्भमूलस्तम्भाय शम्भवे ।। सम्बोधनविभक्त्या च वैभक्तो यथा--- अवनिपनवढिद्धठ्ठड़14;नव्योमतोयान्तरात्मन्नहिमकर हिमांशो विश्व विश्वैकयोने । हर भव शिव शर्व त्र्यम्बकेशान रुद्र त्रिनयन वृषकेतोऽनन्तमीर्ते नमस्ते ।। कारकविभक्तिः सम्बन्धोपपदशेषसम्बोधनविभक्तिभिश्च शाक्तिविभक्तिमयो यथा--- तीर्थेषु सत्सु द्विजसत्तमेभ्यः श्रियं द्विषाविष्टजनानुपात्ताम् । समाधिनामानमजस्त्रमेव कस्य प्रदातुं त्वदृतेऽस्ति शक्तिः ।। यत्र लुप्तास्वपि विभक्तिषु शक्तयोऽवभासन्ते विभक्तयश्च साक्षादुपलभ्यन्ते सोऽपि शक्तिविभक्तिमयः । यथा-- वित्रस्तशत्रुः स्पृहयालुलोकः प्रपन्नसामन्त उदूढसत्वः । प्रतिष्ठितः कार्यसमाधिसत्रे जितावनिः कोऽत्र भवानिवान्यः ।। यत्रैकतः शक्तिरन्यतो विभक्तिस्सोऽपि शक्तिविभक्तिमयो यथा--- निरीक्ष्य संरम्भनिरस्तधैर्यं राधेमाराधितजामदग्न्यम् । असंस्तुतेषु प्रसभं भयेषु जायेत मृत्योरपि पक्षपातः ।। अत्र यदि जनिक्रियातो निरीक्षणक्रियायाः पूर्वत्वं तदा कर्तृभेदान्नास्ति क्त्वाप्रत्ययः । अभिधाव्यापारस्तु विघयते षष्ठ्यभितस्य कर्तुः पक्षपातक्रिययैव सम्बन्धः, न निरीक्षणाक्रियया । कर्तृकर्मणोः कृतीति षष्ठ्या न लोकाव्ययनिष्ठाखलर्थतृनामिति प्रतिषेधात् । स च विभक्तिपरिणामाध्याहारविपर्ययवाक्यभेदव्यवबितकल्पनादगुणकल्पनाभिरुपपद्यते । तत्र राधेयं निरीक्ष्य मृत्यरपि भयेषु पक्षपाती भवतीति विभक्तिविपरिणामः राधेयं निरीक्ष्य स्वसामथ्र्यं विमृशतो मृत्योरपि भयेषु पक्षपाती भवतीति विभक्तिविपरिणामः राधेयं निरीक्ष्य सावसामथ्र्यं विमृशतो मृत्योरपि भयेषु पक्षापातो जायेतेति वाक्यभेदः । राधेयं नीरीक्ष्य मारयतीति मृत्योरपि भयेषु पक्षापातो जायेतेति व्युतरत्तिकालाक्षिताया वावहितायाः क्रियायाः व्यवहारकालेऽप्याश्रयणात् व्यवहितकल्पना । निरीक्ष्येव निरीक्ष्येति पक्षपातनस्याचेतनस्यापि चेतनगुणाध्यारोपेण गुणकल्पाना । यदाहमुख्याभावे सति प्रयोजने निमित्ते च सत्युपतारः प्रवर्तते, दृष्टश्च#ाचेतनेऽपि प्रेमादौ चेतनादिक्रियोपचारो यथा---- प्रेम पश्यति भयान्यपदेऽपि । अवस्था वस्तूनि प्रथयति सङ्कोचयति च ।। अथ किमाभिहितानां पदार्थानामन्वय उतान्वितानामभिधानम् । उच्यते अस्त्यत्र मतभेदः, तत्रैके वर्णयन्ति, अन्वितानामभिधामभिहितानां चान्वयः । केचिद्ब्रुवते, नान्वितानामभिधानं, न चाभिहितानामन्वय इति ।। 8.7. तत्राभिधानवादिन एवमाहुः । व्युत्पत्तिबलेन हि शब्दोऽर्थमवबोधयति वृद्धव्यहारात् व्युत्पत्तिश्च वृद्धाश्च वाक्येनैव व्यवहरन्ति न पदेन, यञ्चार्थप्रकरणादिगम्यपदार्थान्तरसहकृतं पदं प्रयुञ्जते तदपि वाक्यमेव --- यजप्येकं पदं दृष्टं टरितार्थक्रियं क्कचित् । वाक्यं तदपि मन्यन्ते सम्बोधनपदादिवत् । यञ्च कोऽयमिति प्रश्ने गौरश्व इति वोच्यते । तत्र लभ्यत इत्यादिः प्रश्नोक्तैव क्रियेष्यते ।। वाक्यं चैकार्थपरं पद समूहसंहत्यार्थमभिदधाति स तानि पदान्युच्यन्ते समूहश्चैवमेकार्थः स्यात्, एवं च संहत्यार्थमभिदध्युः पदानि । यद्येकैकं पदमभिन्न एवार्थे व्याप्रियते तत्र यथा त्रयोऽपि ग्रावाण उखां धारयन्ति, चत्वारोऽप्युद्यन्तारः शिबिकामुद्यच्छन्ति, सर#्वाण्यपि कारकाणि पाकं साधयन्ति, तथा पदान्यपि सर्वाणि वाक्यार्थमन्ववगमयन्ति, वाक्यार्थषश्च क्रियाकारकसंसर्गरूपः । तत्र कारकाणां क्रियासम्बन्धोन्मुखतया क्रियाणां च कारकविरहासहुष्णुत्वेनान्वितानामेव स्वशब्दैरभिधानं भवति । एवं च सति वाक्यार्थस्य साक्षादेव शाब्दत्वमुपपद्यते नत्वभिहितान्वयपक्षवत्पारम्पर्येणेति । तदभिहितान्वयवादिनो न मृष्यन्ते, तेह्येवमाहुः, अनवगतपदार्थकस्य वाक्यार्थसम्प्रत्ययदर्शनात्पदार्थप्रतिपत्तिपूर्विकैव वाक्यार्थप्रतिपात्तिः, तां प्रतिपतिं्त पदार्थप्रतिपत्तिश्चैवमवकल्पते । यदि तावानेव सोऽर्थः पदेनाभीधीयते पदार्थान्तरान्विते तु तस्मिन्नभिधीयमाने कदम्बकरूपार्थप्रतिपत्तेः पदार्थप्रविभागो न प्रकल्पेत । अस्य पदस्य जातिरर्थोऽस्य द्रव्यस्य गुणोऽस्य क्रियेति आवापोद्वापाभ्यां तदवधारणमिति चेत् नैवम्, तत्रापि कदम्बकरूपार्थप्रतीतेरनपायात् ।। 8.8. किञ्च प्रतियोगिनामनन्ततयान्वयस्यानन्त्यात्तदन्वयानन्त्येनान्विताभिधायिन्याः सम्बन्धग्रहणमशक्यमिति दुरवगमः पदार्थयोः सम्बन्धग्रहः, तदनपेक्षत्वे प्रथमश्रुतादपि तदर्थप्रतिपत्तिः प्राप्नोति । गामानयेति वाक्यादश्वबन्धननियोगः प्रतीयेत, वृद्धव्यवहारेपु च वाक्यादपि भवन्ती व्युत्पत्तिः पदपर्यन्तैव भवति । इतरथाहि प्रतिवाक्यं व्यत्पत्तिरपेक्ष्येत सा चानन्त्याद्दुरुपपादेति शाब्दव्यवहारोच्छेदः स्यात् । दृश्यते चाभिनवकविश्लोकात् वाक्यार्थप्रतीतिः ; सा च पदपदार्थयोरेव व्युत्पत्तावुपपद्यते , न वाक्यार्थयोरितिनास्त्यन्विताभिधानाम् ।। 8.9. अपिचान्वयस्यान्वितविशेषणत्वात्तदभिधानमन्तरेणान्वितोऽभिधातुं न शक्यत इत्यन्वयाभिधानमङ्गीकरणीयम् । न च तदेकया शक्त्या शक्यतेऽभिधातुमिति शक्त्यन्तरकल्पनाप्रसङ्गः ।। 8.10. अपिच गामानयेत्यत्र यदा गोशब्देनानयत्वर्थविशिष्टः स्वार्थोऽभिधीयते तदा गवार्थस्याप्राधान्यम्, यदाच आनयतिना गवार्थविशिष्टः स्वार्थः तदा तदर्थस्येत्येतस्मिन्वाक्ये प्रधानद्वयोपनिपाताद्वाक्यभेदापत्तिः ।। 8.11. अपि च प्रकृतिप्रत्यययोरन्योन्यान्वितस्वार्थाभिधानलब्धपदभावयोः पदार्थान्तरान्वितार्थवाचकत्वमिति द्विरभिधानं स्यात् ।। 8.12. किञ्च पदेनान्वितः स्वार्थोऽभिधीयमानः किमभिहितेन पदार्थान्तरणान्वितोऽभिधीयते उतानभिहितेन । अभिहितेन चेदेकस्मादेन पदात्तदर्थोपरञ्जकद्वितीयपदार्थावगतेः पदान्तरोञ्चारणवैयथ्र्यम् । एवंचैकमेव पदमखिलपदाभिधेयार्थवादि सम्पन्नमिति तेनैव व्यवहारः स्यात् । न चासौ सम्पद्यते । गौरिति ह्युक्ते सर्वगुणक्रियावगमान्निज्ञायते किमुपादीयतामिति, नियतगुणाक्र्यानुरक्तस्वार्थप्रतिपादेन तु न हेतुरस्ति । पदान्तरसन्निधानं नियमहेतरिति चेत् तदपि जपमन्त्रादिपदवत्स्वरूपमात्रेण सन्निधानान्न विशिष्यते । अथाभिहितेन तदपि तर्हि पदमन्विताभिधायितया पदान्तरोत्थमर्थाभिधानमपेक्षते ततश्चेतरेतराश्चयमनवस्थाचक्रकं वा प्राप्नोति ।। 8.13. अथ द्वितीयमनन्विकमेव स्वार्थमभिधत्ते प्रथमेन किमपराद्धम् । एवं च सर्वपदे स्वार्थमात्राभिधानादभिहितान्वय एव भवति ।। 8.14. किञ्चाङ्गुल्यग्रे हस्तियूथशतमिति नास्त्यन्वयो योग्यत्वाभावात्, अन्विताभिदानवादिनां त्वन्वितस्याभिधानात्तत्राप्यन्वयः प्राप्नोति ।। 8.15. अपि चान्विताभिधानवादिनां पुरुषक्यदेवमयं पुरुषो वेदेति भवति प्रत्ययो नैवमर्थे प्रति सिद्धान्तः । तेह्येवमाहुः । वाक्यात्कार्यभूतात्प्रत्ययितस्य वक्तुस्तदर्थविषयं पूर्वविज्ञानं कारणभूतमनुमीयते तस्य च ज्ञानस्य ज्ञेयाव्यभिचारित्वात् ज्ञेयभूतार्थनिश्चय इति न वाचकशक्त्यार्थावगमः । एवं च वाचकशक्तिरेव नावधार्यते कुतोऽन्विताभिधानमिति तस्मादभिहितानां पदार्थनामन्वय इति युक्तम् । पदानि हि स्वमर्थमभिधाय निवृत्तव्यापाराणि ।। 8.16. अथेदानीं पदार्था अवगता वाक्यार्थे गमयन्तीति । अत्रान्विताभिधानपक्षे कदम्बकरूपार्थप्रतिपत्तेः प्रतियोगिनां चानन्ततया सम्बन्धग्रहणस्याशक्या दुरवगमः पदार्थप्रतिभाग इति, तदिदं व्युत्पत्त्यनभिज्ञस्य चोद्यम् । नह्येवं व्युत्पत्तिः । गोशब्दस्य शुक्लान्व#ितोऽर्थ इति, स हि व्यभिचरति कृष्णान्वितस्यापि तदर्थस्योपलम्भात्, नापि सर्वान्वितः, आनन्त्येन दुरवगमत्वात्, किन्वाकांक्षितन्निहितयोगार्थान्तरानुक्तोऽस्यार्थ इति, एतां व्युत्पतिं्त वाक्यान्येव पदावापोद्वापविरचनावैचित्र्यभाञ्जि सञ्जनयन्ति । यतः --- ओप्यन्ते चोद्ध्रियन्ते च स्वार्थाः स्वान्वयशालिनः । अन्विते स्वे च सामथ्र्यं पदानां तेन गम्यते ।। तत्र च ---- यद्यदाकांक्षितं योग्यं सन्निधानं प्रपद्यते । तदन्वितः पदेनार्थः स्वकीयः प्रतिपाद्यते ।। पदार्थपर्यन्तापि च भवन्ती व्युत्पत्तिरीदृशी दृश्यते न शुद्धपदार्थविषया । तथाहि---- नियतं साधनं साध्ये क्रियानियसाधना । ससन्निधानमात्रेण नियमः सम्प्रकाशते ।। गुणभावेन साखाङ्क्षां तत्र नाम प्रवर्तते । साध्यत्वेन निमित्तानि क्रियापदमपेक्षते ।। एवं च सन्निहितयोग्याकांक्षितोपरक्ते स्वार्थे क्कचिद्गृहीतसम्बन्धः सर्वत्र गृहीतो भवतीति नानन्त्यव्यभिचाराभ्यां सम्बन्धाग्रहणम् । न च कदम्बकार्थप्रतीतेः पदार्थताप्रविभागः । तदुक्तम्--- आकाङ्क्षासन्निधिप्राप्तयोग्यार्थान्तरसङ्गतान् । स्वार्थवाहुः पदानीति व्युत्पत्तिः संश्रिता यदा ।। आनन्त्यव्यभिचाराभ्यां तदा दोषो न कश्चन । कदम्बकार्थरूपायाः प्रतीतेश्च न सम्भवः ।। इति । ततश्च पदपदार्थयोस्सम्बन्धग्रहणोपपत्तौ न प्रथमश्रुतापि पदार्थप्रतीतिर्न गामानयेति वाक्यादेश्च बन्धननियोगः, न प्रतिवाक्यं व्युत्पत्त्यपेक्षा, न चाभिनवकविश्लोकवाक्यार्थप्रतीतिर्भवतीति । यदपि चान्विताभिधाने शक्तिद्वयकल्पनागौरवमाशाङ्कितं तदपि नास्ति । अन्वयवत्ता ह्यन्वितता । तदभिधानेनान्वितोऽभिहितः स्यात् । न हि दण्डड्डत्ध्;ीत्यत्र दण्डड्डत्ध्;ो नाभिधीयत इति सम्भवति परं विशेषः तत्र प्रकृत्या विशेषणाभिधानं इह तेनैवान्यतस्तदलाभाते । अतोऽन्विताभिधानाशक्त्यौवान्वयोऽप्यभिधीयत इति नास्ति शक्तिद्वयकल्पनागौरवम् । तदुक्तम् ---- व्यतिषक्तार्थबुद्ध्या हि व्यतिषङ्गे झ्र्ङ्गोट निशम्यते । अपरं तु न संसर्गप्रतीतेरस्ति कारणम्।। प्रतिपत्त्यान्वयं यस्मात्प्रतीयादन्वितः पुमान् । व्यकिं्त जातिमिवार्थोऽसाविति संपरिकीत्र्यते ।। योऽपि प्रधानद्वयशङ्कया वाक्यभेदलक्षणो दोषः सोऽपि नोपपद्यते । यतोऽन्वितः सम्बन्ध उच्यते तत्र कश्चित्प्रधानतया सम्बन्धः कश्चिद्गुणतया, यश्च यथा सम्बन्धः स तथैवोच्यत इति नैकस्मिन्वाक्ये प्रधानद्वयप्रसङ्गद्वाक्यभेदलक्षणदूषणोत्पत्तिः । तदुक्तम् --- प्रधानगुणभावेन लब्धान्योन्यसमन्वयात् । पदार्थावेव वाक्यार्थं सङ्गिरन्ते विपश्चितः ।। प्रतिपत्तर्गुणानां तु प्रधानैकप्रयोजना । तत्प्रतीत्येक्रकार्यत्वाद्वाक्य ..... कर्ममुच्यते ।। यञ्ज प्रकृतिप्रत्ययोः पदस्य चाभिधाने द्विरभिधानमुक्तं तदपि नव सम्यक् प्रकृत्यान्वितस्यार्थो विधीयते, प्रत्ययश्च प्रकृत्यर्थान्वितं पदार्थान्वितं च स्वार्थं ब्रवीति, प्रत्ययार्थस्य प्रकृत्यर्थान्वितस्य पदापेक्षित्वादिति कुतो द्विरभिधानम् । नत्वेवं पदस्य#ान्विताभिधीयित्वं न स्यात् , प्रत्ययस्यैव प्रकृतिसहितस्य पदत्वात् ।। किञ्चायमभिहितान्वयवादिनोऽपि तुल्यो दोषः । ततश्च--- यश्चोभयोः समो दोषः परिहारोऽपि वा समः । नैकः पर्यनुयोक्तव्यस्तादृश्यर्थविचारणे ।। प्रकृकतिप्रत्ययौ ब्रूतः प्रत्ययार्थं सहेति च । यदाहुः सूरयस्तेन प्रत्ययं झ्र्तदन्तंट पदमिष्यते ।। यञ्चानभिहितपदार्थान्तरान्विस्वार्थाभिधानपक्षे पदान्तरोञ्चारणैवयथ्र्यमित्यादि, अभिधानपक्षे पुनरितरेतराश्रयादिदूषणमुक्तं तदुभयपक्षानभ्युपगमेनैव निरस्तम् । यतो नास्माकमयं पक्षः, प्रथमश्रुतान्येव पदानि स्वार्थानन्योन्यमन्वितानभिदधति । अपि तु यस्य यावन्तोऽर्थाः सम्भवन्ति तच्छ्रवणे तावन्तः स्मृतावुपस्थाप्यन्ते, ततश्चाकाङ्क्षासन्निधियोग्यतादिसम्पादितनियतमिथस्समन्वयाः पदैरेव स्मृत्युपारुढैरभिधीयन्ते । तथाहि---यस्तावद्गुहिचसम्बन्धो यस्य च सम्बन्धदग्रहणसंकारो नोतेपन्नः प्रध्वस्तो वा स वाक्यार्थप्रतिपत्तौ नाधिक#्रियते, यस्त्वनवभ्रष्टसम्बन्ध ग्रहणसंस्कारः सपदं पदं श्रुत्वा नूनं तावदिदं स्मरति इदमिदमस्यार्थस्याकाङ्क्षितसन्निहितपरिजनविधित्सितः प्रियाप्रवृत्तिप्रश्नो निषिध्यते । द्वितीया यथा--- पिअसंगम किं वहि द्दडिड्डत्ध्;पि अहोपरोक्खहोक्केव । मइवेन्निविन्नासि आणिद्दणएव न तेव ।। अत्र समस्तप्राणहृद्भेदसाधारण्येन प्रवृत्तो निद्रार्थस्तद्विरोधिभ्यां प्रियसङ्गमवियोगाभ्यां निषिध्यते, यत्रार्थित्वाप्रवृत्तमन्येनैव तत्कार्यसिद्धौ निषिध्यते साकृतार्थत्वनैषेधिकी । यथा--- किं तस्स पारएणं किमग्गिणा र्कि वगब्भप्परएण । जस्सउरम्मि णिसम्मइ उह्माअं तत्थणी जाआ ।। अत्र प्रावारविलासाग्निगर्भगृहकाणि हैमनशीतार्तिनिवृत्तये प्रवृत्ति#ानि तदर्थकारिणोपारुढ्यौवनोपगूढप्रियाकुचोष्ममणा निवत्र्यन्ते । यत्र परिसङ्ख्यातेनार्थेन शेषं निषिध्यते सा परिसङ्ख्यानैषेधिकी । यथा--- वेवावल्लचि उदेद्धमुहे सज्जिअतिइतकंडड्डत्ध्; । कअकण्णाप्पलिंपचसरतहकामहो कोअंडड्डत्ध्; ।। अत्र जगाज्जिगीषया चक्रीकृतकामकोदण्डड्डत्ध्;ानुकारिणि मुखे विबुद्धेऽपि लोचनोत्पलद्वयस्यैव प्रकाशमानत्वात्कुसुमसायकस्य द्वावेव बाणौ न त्रयो न पञ्चेति सज्जिततिलके त्रय एव न द्वौ न पञ्चेति कृतकर्णोत्पले पञ्चैव न द्वौ न त्रय इति परिसङ्ख्यातेनार्थेन शेषं निषिध्यते। यत्रैकावधारणेनान्यत्पराक्रियते सा नियमनैषेधिकी । यथा-- तेञ्चिअजीआतेञ्चे अमग्गणासा अजस्सधनुइठ्ठी । दिट्टिअकुवलअविलोअणा णसो जअइ कंदप्पो ।। अत्र ज्यामार्गणधनुर्यष्टीनामन्यत्र भेदेनोपलम्भात्कन्दर्पविषयेपि तद्भेदोऽनुवृत्तः कुवलयविलोचनादृष्टेस्तेनतेन संस्थानेन तत्तत्कार्यकरणात्सैव सर्वात्मिकेत्यवधारणं निवत्र्यते, एतेन नियमसदृशफलो विनिग्रहोऽपि व्याख्यातः । यथा--- भवतु समदना रतये तिलकवती चारुचम्पक च्छाया । घनचन्दनधवलकुचा कान्ता तव विद्विषा मटवी ।। आदिग्रहणादसम्भवनियमो विशेषे प्रत्यक्षश्रुतिरित्यादयो गृह्यन्ते, तयोरसम्भवनियमो यथा---- हारो थणाणसवणा ण कुण्डड्डत्ध्;लामेहला णिअंबस्स । अच्छोणअणो विभवे विमण्डड्डत्ध्;णं कज्जलसलाआ ।। विशेषप्रत्यक्षश्रुतिर्यथा---- इयं गेहे लक्ष्मीरिय ममृतवर्तिर्नयनयो रसावस्याः स्पर्शो वपुषि बहुलश्चन्दनरसः । अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकरसः किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ।। 8.17. येयमुद्भतसम्बन्धव्यतिरेकेण पतपदार्थानामितरेतरं प्रत्याकांक्षासन्निधियोग्यतापेक्षिणी व्यपेक्षेत्यपुच्यते । का पुनरियमाकांक्षा नाम ? प्रतिपत्तुर्जिज्ञासा । सा कथं पदार्थानामुपपद्यते ? कारणे कार्योपचारात् । तथाहि--अभिधानपर्यवसानमभिधेयपर्यवसानं च जिज्ञासोत्पत्तिकारणं, तञ्चोपचारेणाकाङ्क्षेति व्यपदिशान्ति । तत्राभिधानपक्षे द्वारमित्येकपदप्रयोगेऽभिधानमेव न पर्यवस्याति । नह्यनुञ्चरिते योग्यप्रतियोगिनि सन्निधायिनि पदे संव्रियतामपाव्रियतामित्यादावन्विताभिधानं भवति । वृद्धव्यवहारे चान्वितार्थान्येव पदानि प्रतीयन्ते, बालो हि व्यत्पद्यमानः प्रयोज्यवृद्धस्य शब्दश्रवणसमन्तरभाविनीं विशिष्टचेष्टानुमितां शब्दकारणिकां प्रतीतिमन्वितार्थविषयामवगच्छन्निन्वित एवार्थे पदानामभिधानसामथ्र्यमवधारयति । विश्वजिता यजेतेत्यादौ पुनर#ेकपदप्रयोगाल्लब्धेऽन्विताभिधानेऽभिधेयमेव न पर्यवस्यति अत्रानुष्ठेयतयावगतस्य वाक्याभिधेयस्यार्थस्यानुष्ठातारमन्तरेणानुपपत्तेस्तदुपपत्तये युक्तौवानुष्ठातृजिज्ञासा तस्यां च सत्यामपरिपूर्णत्वावगमाल्लोकवदध्या हारे कर्तव्ये योग्यत्वास्वर्गकाम एवानुष्ठाताध्याह्रियते । अभिहितान्वयवादिपक्षेऽपि पदार्थन्तरमन्तरेणान्वयासामथ्र्यात्तदुपपत्तये युक्तैव प्रतियोगिजिज्ञासा, तस्यां च सत्यामपरिपूर्णवाक्यपरिपूरवकयान्विताभिधानवदेव प्रकरणादिवशेन योग्याध्याहारः क्रियते ।। 8.18. नन्वेवं सति यत्र पदत्रयं प्रयुज्यते गामान्य शुक्लामिति लोके तत्राभिधानाभिधेयापर्यवसानयोरमम्भवान्नाकाङ्क्षास्तीति कथमन्विताभिधानम् ? वाक्यस्य गामानयेत्यैतावतैव परिपूर्णत्वात् । सत्यम्, पदानुञ्चारणमेवमेतत् । उञ्चरिते सत्येतस्मिन्नस्याप्यानयतिसन्न#िधानात्तदेकवक्यायत्वावगमादानयत्यन्वितस्यार्थाभिधायित्वावधारणादाकाङ्क्षां च विना तदसम्भवादानयतेराकाङ्क्षा परिकल्प्यते । उक्तं च भाष्यकृता--भवति च सा रक्तं प्रत्याकाङ्क्षेति । तेन तत्रान्विताभिधानसिद्ध्यर्थमेवाकाङ्क्षा, यदि परमयं विशेषः, द्वारमित्यादौ तस्य#ैव पदस्यान्विताभिधानाकाङ्क्षा, गामानय शुक्लामिति तु पदान्तरस्येति । उक्तं च (श्लो) "अन्वितस्याभिधानार्थमुक्तार्थघटनाय वा । प्रतियोगिषु जिज्ञासा या साऽऽकाङ्क्षेति गीयते ।" इति । सा चेयमाकाङ्क्षा विभागे सति भवन्ती व्युत्पत्तावुप लक्षणमाश्रीयते । किम#िति पुनः सन्निधियोग्यतैव नाश्रीयते ? निराकाङक्षेणान्विताभिधानादर्शनात् अयमेति पुत्रोराज्ञः पुरुषोऽयमपसार्यतामिति पुत्रसम्बन्धनिराकङ्क्षो राजा न पुरुषेणान्वीयते । कस्मात्पुनरुभयोः पुत्रपुरुषयोः सन्निधियोग्यत्वाविशेषेऽपि पुत्रेणैव राज्ञः सम्बन्धो न पुर#ुषेण ? उच्यते, न्यायसापेक्षत्वाद्वाक्यार्थप्रतिपत्तेः, नित्यसापेक्षेणैव राजा संबध्यते तेन सम्बन्धनिराकाङ्क्षा न पुरुषेण सम्बन्धमनुभवतीति आकाङ्क्षाऽपि व्युत्पत्तावुपलक्षणमाश्रीयते । परिपूर्णेन योग्यस्य समीपस्याप्यनन्वयः व्युत्पतौ तेन शब्दनामाकाङ्क्षाऽप्युपलक्षणं, सा चेयमाकाङ्क्षा प्रतियोगिषु न सर्वेषु सहसैव युगपदुपजायते, अपि तु कारणोपनिपातात्क्रमेण । तथाहि--क्रियया कर्तारमन्तरेणा सम्भवात्तदवगतौ कर्ता प्रथममपेक्ष्यते, स च निष्फले व्यापारे न प्रवर्तत इति कर्मापेक्षते । व्यापारश्च करणमन्तरेणाशक्यः साधयितुमिति करणापेक्षा । एवमधिकरणादयः क्रियाकारकविशेषणादय श्चापेक्षणीया इति कारणोपनिपातः स्यात् । क्रियादिषु यथा--- जिज्ञासा जायते बोद्धुः सम्बन्धिषु तथा तथा । यद्यदाकाङ्क्षितं योग्यं सन्निधिं प्रतिपद्यते । तदन्वितः पदेन्विर्थः स्वकीयः प्रतिपाद्यते ।। ।। अथ सन्निधिः ।। योग्यस्याकाङ्क्षितस्य यदानन्तर्ये, स सन्निधिः । स द्विधा--अभिधानविषयः अभिधेयविषयश्च । तत्रोञ्चारणनिमित्तोऽभिधानविषयः. अविनाभावनिमित्तोऽभिधेयविषयः । तयोराद्यो यथा-- लीलास्मितेन शुचिना मृदुनोदितेन व्यालोकितेन लुघुना गुरुणा गतेन । व्याजृम्भितेन जघनेन च दर्शितेन सा हन्ति तेन गलितं मम जीवितेन ।। अत्र लीलास्मितादिभिः शुच्यदीनि विशेषणानि यथासान्निध्यमपि सम्बध्यते । द्वितीयो यथा-- मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा । वाहिनीजलभरः कुलिशं वा स्वस्ति तेऽस्तु लतया सह वृक्ष ।। अत्र दहत्वित्यादिका क्रिया तदविनाभावनिमित्तकात्सान्निध्यादध्याहृतानलादिभिः सम्बध्यते ।। 8.19. ननु च सन्निधिवदाकाङ्क्षाप्यविनाभावनिमित्ता किमिति नेष्यते, यद्धि येन विना न भवति नियोगतस्तेन तदाकाङ्क्ष्यते । क्रिया हि कारकाविनाभाविनी तं प्रतीत्य कारकं जिज्ञासते । एवं कारकमपि बुध्वा क्रियामिति, तदयुक्तम् । जिज्ञासाविरामानुपपत्तेः, यथा ह्यविनाभावेन कारकजिज्ञासाप्युपपद्यते अतः प्रयोजनाभावात् कारकातिरिक्तमन्यन्न जिज्ञास्यते, तर्हि क्रियामात्रावगमेऽपि यत्र कारकज्ञानेन प्रयोजनं नास्ति तत्र जिज्ञासा न स्यात् । अनुष्ठेयतया हि क्रियायामवगतायां कारकेपादानमन्तरेण तदनुष्ठानानुपपत्तेः । कारकज्ञानात् प्रयोजनवद्वर्तमानापदेशादौ त्वननुष्ठेयतया नास्ति कारकज्ञानेन प्रयोजनम् ।। 8.20. अथ च तत्रापि वाक्यमपरिपूर्णे मन्यन्ते साकाङ्क्षार्थाभिधायितया चापरिपूर्णता । अत एव च तत्राध्याहारमपि कुर्वन्ति, तत्रापि चानुष्ठेयावगतिस्तत्रापि निश्शेषकारकजिज्ञासा स्यात् । तथा च देवदत्त गामानयेति करणानुपादानादपरिपूर्णता स्यात् ।। 8.21. अथैककारकज्ञानेनापि तावदनुष्ठानोपपत्तेर्न कारकान्तरजिज्ञासा देवदत्त गामभ्यज दण्डेड्डत्ध्;नेति प्रयुक्तेऽपि दण्डड्डत्ध्;शब्दे तदाकाङ्क्षा न स्यात् । ततश्चानाकाङ्क्षितत्वात्तस्य तदन्वयो वाक्यार्थो न स्यात् ।। 8.22. अथ दण्डड्डत्ध्;पदोञ्चारणात्तत्राकाङ्क्षा परिकल्प्यते ; अन्यथा दण्डड्डत्ध्;पदस्यानन्वये तत्पदोञ्चारणमनर्थकं स्यादिति । एवमरुणयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणातीत्यन्वयप्रसङ्गः । न हि वेदपदोञ्चारमेनानर्थकेन भवितव्यमिति किञ्चन प्रमाणमस्ति । न च तत्राकाङ्क्षोदये किञ्चित्कारणान्तरमस्तीति सोमं क्रीणातीत्यतोऽधिकस्यानन्वयिता स्यात् । अतो नाकाङ्क्षायामविनाभावो निमित्तत्वेनाश्रीयत इति । आकाङ्क्षावञ्च सन्निधावपि सन्निधापकक्रमेणैव क्रमो वेदितव्यः । तदनुसारेण चान्विताभिधानमपि तथैवेति ।। सन्निधिश्शब्दजन्मैव व्युत्पत्तौ नोपलक्षणम् । अध्याहृतेनाप्यर्थेन लोके सम्बन्धदर्शनात् ।। सहसैव न सर्वेषां सन्निधिः प्रतियोगिनाम् । सन्निधापकसामग्रीक्रमेण क्रमवानसौ ।। यथायथा सन्निधानं जायते प्रतियोगिनाम् । तथातथा क्रमेणैव शब्दैरन्वितबोधनम् ।। ।। यो ग्य ता ।। 8.23. अथ का योग्यता ? यदेतत्सम्बन्धार्हत्वं नाम । तद्धिधा---मुख्यार्थद्वारकं जघन्यार्थद्वारकं च । कः पुमर्मुख्यार्थः जघन्यार्थ इति ? श्रवमसमनन्तरं साक्षादेव शब्दाद्यत्रार्थः प्रतीयते स मुखमिव प्रथमं भवतीति मुख्यः । यस्तु गुणसम्बन्धादिव्यवधानेन शब्द#ादवगम्यते स जघनमिव पश्चाज्जायत इति जघन्यः । तयोर्मुख्यास्त्रिधा -- जात्यादिमुख्यः, आकृत्यादिमुख्यः, भ्रान्त्यादिमुख्याश्च । तेषु जातिगुणक्रियाभिधायिभिः शब्दैर्योऽभिधीयते स जात्यादिमुख्यः । गौः पदा न पदा न स्प्रष्टव्या, शुक्लां गामभयाज, पाचकमानय यज्ञदत्त#ं भोजयेति । सएवाऽऽलेख्यप्रतिमाप्रतिमाप्रतिबिम्बादिविषयः आकृत्यादुमुख्याः । यथा--भवनभित्तौ कामं चित्रिताः गावः क्रियन्तां, विष्णुं प्चामृतेन स्नपय, अप्सु चन्द्रमसं पश्येति । विपर्ययाध्यासविवर्तविपरिणामादिविषयो भ्रान्त्यादिमुख्यः । कोयंकोयमनाकाशे शशी, स एष बालाबाहुमूले बालचन्द्रमाः, तदेतदलातचक्रं विस्फुरति, तदिदमिन्द्रायुधं विलोक्यत इति । जघन्योऽपि त्रिधा--गौण उपचरितो लाक्षणिकश्च । ययोद्र्रव्यवाचिभिस्सामानाधिकरण्यप्रयोगे विशेषणविशेष्यभावः प्रतीयते स गौणः । यथा--- गौर्बाहीकः, सिंहो माणवकः, तृणं लक्ष्मी#ः, गोष्पदं समुद्र इति । समानाधिकरणशब्दप्रयोगे योऽन्यविशेषणत्वेन प्रसिद्धः कुतश्चिन्निमित्तादन्यविशेषणत्वं लभते स उपचरितः । यथा---शुक्लं यशः, मधुरं वाक्यम्, सुरभि शीलं सुभगः स्वभाव इति । यस्तु शब्दौपात्तेनार्थेन क्रिया... समर्थेनाविनाभावात् सहचरणादि ...लाक्षणिको यथा यष्टीः प्रवेशय, छत्रिणो गच्छन्ति, मञ्चाः क्रोशन्ति, गङ्गायां घोषः प्रतिवसतीति ।। 8.24. नन्वेवं सति जात्यादिशब्दार्थाः सर्वे लाक्षणिका भवेयुः, तेऽपि कहि स्वरूपेण क्रियां साधयितुमपर्याप्तौर्जात्यादिभिरविनाभृतव्यक्तिरुपतयोपलक्ष्यन्ते । नैवम्, जात्यादिप्रवृत्तिनिमित्तानां क्रियासिद्धिषु गङ्गातीरद्यर्थानामपि समन्वयो दृश्यते । नैवम् ; गौरालभ्यतां प्रोक्ष्यतां विशस्यतामुत्यादौ अनपेक्षितव्यक्तीनां गोत्वादिजातीनामपि । एतनारुणया क्रीणाति, अभिक्रामं जुहोतीत्यादौ गुणक्रिययोद्र्रन्यव्यधानेनापि क्रियासमन्वये द्रव्याणामलाक्षणिकत्वमेवेत्यभिहितं भवति ।। 8.25. ननु च जातिगुणक्रियापाकेन जीवतीति नैवम् । अत्र जात्यादिनां विशेष्यते न द्रव्यरूपत्वात् । तदुक्तम् --- वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते । द्रव्यमित्युच्यते सोऽर्थो भेद्यत्वेन विवक्षितः ।। 8.26. कृतभिहितश्च भावो द्रव्यवत्प्रकाशत इति । एवं च मुख्यवृत्तीनां जघन्यवृत्तीनां च शब्दानां प्रयोगे योऽर्थो यत्र सम्बन्धित्वेन उपलम्भात् । यद्येवं यजेत स्वर्गकाम इत्यादौ स्वर्गयागयोः सम्बन्धित्वेनानुपलम्भात्कथं योग्यत्वेनावधारणम्, अनवधारितयोग्यतयोश्च कथमन्विताभिधानम् ? उच्यते --- सामान्येनैव योग्यत्वं लोके यदवधारितम् । यदन्विताभिधानस्य व्युत्पत्तावुपलक्षणम् ।। साध्यासाधनयोर्लो ................... ।। 8.27. सामान्यत्मकसामथ्र्याख्यासम्बन्धो मुख्यता व्यपेक्षेत्युच्यते । व्यपेक्षावतां पदार्थानां मिथः सम्बन्धिरूपता सामथ्र्यम् । तत्र्त्रिधा---भेदः, संसर्गः, उभयं च । तत्र राज्ञो भृत्य इत्यादौ यदा तावदेतदवधृतं परायत्तार्थवृत्तिरयं भृत्यशब्दो न ,स्वतन्त्रार्थवृत्तिरिति, तदा सामान्येन स्वमिसंसर्गस्यावधृतत्वात् स्वामि... यति स्वयं स्वाम्यन्तरव्यवच्छेदो भेद इत्युच्यते । यदातु राजपुरुष इत्यादावनवगतपरायत्तभावस्य पुरुषस्य स्वामिसम्बन्धद्योतनाय राजशब्दः प्रयुज्यते तदा विशेषसंसर्गस्य शब्दोपादानत्वादनवकाशो विशेषान#्तरसम्पातः तदा ह्यशब्दा स्वाम्यन्तरनिवृत्तिरर्थादवसीयते । यदात्वर्थावगतसामथ्र्ययोः प्रतिपत्तिनिबन्धयोरभेदापेक्षायां समाप्तावेव भेदसंसर्गेण सामथ्र्यं भवति । यदा नीलं च दतुत्पलं च नीलोत्पलमिति । यत्र तु न समबन्धयोग्यता न तत्र सामथ्र्यं यथा--क्लिद्यते वस्त्रं नीलमुत्पलमालिकर्णे, नेह कश्चित्परुषः, व्यघ्रः सरति, पल्लीं पश्य, सखे कष्टं दूरं गच्छ त्वं, यूपाय दारू शोभनं शैलान्निवर्तस्व, व्याघ्राद्भयं देवदत्तस्य, यज्ञदत्तस्य भार्या, राज्ञः पुरुषः, ब्राह्मणस्य सक्तत्वं, अक्षेषु शौण्डड्डत्ध्;ः, पिबति पानागारे, अयं दण्डड्डत्ध्;ः हराऽनेन फलानि, अनतरा त्वां च मां च कमण्डड्डत्ध्;लुः, अन्तरेण तक्षशिलां पाटलिपुत्रं च स्त्रिध्नस्य प्राकार, ओदनं पच तव भविष्वतीति । अत्र प्रथमेष्वञ्चिभिन्नवाक्यत्वात् तिङ्ङतिङ इति निघातो न भवति । कः पुवरयं सम्बन्धो नाम ? अहानिव्र्यपेक्षा व्यतिषङ्ग इति । तथा हि--- सम्पूर्वो बध्वनातिरह ...... गर्गैः सम्बन्धोऽस्ति नोवत्सैः सम्बन्धः इति । तथा व्यतिषङ्गे वर्तते, योऽयसा रज्ज्वा वा कीलादौ व्यतिशतौ व्यतिषक्तो भवति स सम्बन्ध इत्युच्यते, तत्र यदा सम्बन्धस्याहानिरर्थः तदा ऊरीकरोति कारिकाकरोति शुक्लीकरोति पटपटाकरोति चकसाञ्चकार, विदाङ्कुर्वन्तु लुनीहिलुनीहीत्येवायं लुनाति भ्राष्ट्रमट मठमट खमादयः प्रयोगाः भवन्ति । न ह्येते कदाचिदप्यन्योन्यं जहतीति । यदा सम्बन्धशब्दस्य व्यपेक्षा अर्थः तदा गुरुकुलं देवदत्तस्य, सूर्यमपि न पश्यन्ति असूर्यमपश्या राजदाराः, किञ्चिदपि न कुर्वाण#ः, अकिञ्चित्कुर्वाणः, शङ्कुलया कृतः खण्डड्डत्ध्;ः शङ्कुलाखण्डड्डत्ध्;ः, दध्नोपसिक्तओदनो दध्नोदनः, अश्रेणयः श्रेणयः कृताः श्रेणीकृताः, कण्ठे कालोऽस्य कण्ठेकालः, केशेषु च गृहीत्वा प्रवृत्तं युद्धं कोशाकेशीत्यादयः प्रयोगा भवन्ति । एतैः समासावस्थायामपि देवदत्तादीनपेक्षन्ते । यदा तु सम्बन्धशब्दस्य व्यतिषङ्गोऽर्थस्तदोपकुम्भं, नीलोत्पलं, गौगर्भिणी, पूर्वकायः, सप्तर्षयः, प्लक्षन्यग्रोधौ, कष्टश्रितः, काकः कृष्णः, इति च मिथो विशेषणविशेष्यभावेन व्यतिषज्यन्ते । यत्र हि पूर्वोत्तरपदयोः सङ्गतार्थता तत्सामथ्र्ये सम्बन्धः । स विशेषणविशेष्यभाव इत्याख्यायते, तत्र चैकस्य प्राधान्यमन्यस्योपसर्जनत्वं । न हि प्रधानयोरुपसर्जनयोरेव वा सम्बन्धः कल्पते प्रधानस्यापर्थत्वादुपसर्जनस्य परार्थत्वात् सम्बन्धोपलक्षितपदद्वयं परस्परं प्रधानोपसर्जनभावेन विशेषणविशेष्यभावामासादयति । स च प्रधानोपसर्जनभाव#ः कदाचिच्छब्दनिबन्धनः कदाचिदशब्दोपादानः सामथ्र्यनावसीयते । शब्दनिबन्धनो यदा वैयधिकरण्यं उपसर्जनशब्दा हि प्रधानोपकाराय परिणतं स्वार्थमाचक्षाणाः सम्बन्धिनमभिदधानाः प्रथमयैव संस्क्रीयन्ते अशब्दोपादानो यदा सामानाधिकरण्यं अपरार्थतया हि प्रातिपदकस्याव्यतिरेकेवृथाविर्भवति शब्दैस्तदुभयोद्र्रव्यशब्दतायामुपपद्यते, सा च गुणदीनां मतुब्लोपादिना भवति । सोऽयं विभक्तिबेदतः सामथ्र्यतश्च प्रधानोपसर्जनभावो द्विप्रकारः कल्प्यमानो मुख्यवृत्त्या उपचारवृत्त्या च । सम्बन्धविभक्त्या यथा--राज्ञः पुरुषः यूपाय दारु, कारकविभक्त्य#ा तु श्रियमाणक्रियोऽश्रूयमाणक्रियश्च । श्रूयमाणक्रियो यथा---कष्टश्रितः, व्याघ्रद्भयम् । अश्रुयमाणक्रियो यथा--शुङ्कुलयाखण्डड्डत्ध्;ः, अक्षेषुशौण्डड्डत्ध्;ः । मुख्यावृत्त्या यथा--नूलमुत्पलं, वीरपुरुषः । उपचारवृत्त्या यथा--पुरुषो व्याघ्रः, सिंहो माणवकः । विशेषणविशेष्ययोरुपसर्जनप्रधानभावः सामानाधिकरण्ये विभक्त्यभेदादशक्यः शब्दतोऽवधारयितुं, सम्बन्धसामथ्र्यात्तु प्रतीयते । न हि सम्बन्धः प्रधानयोरेव वा सम्भवति ।। 8.28. ननु च नीलमुत्पलमित्येकैकपदप्रयोगादनवच्छिन्नानुपहिताश्रयमाधाराधेयसामान्यं पदद्वयात्तु परस्परोपहितव्यवच्छेदं प्रतीयते, तत एव योग्यतादि सम्प्रति योग्यान्वितस्य वाचकमिति ।एवं च स्मरता स्मृतमेव अन्वितमपि स्वरीपमन्वयवादिनोऽपि नायं नियमः श्रूयमाण एव पूर्ववर्णजनितसंस्कारसहितोऽन्त्यो वर्णः प्रत्यायक इति । बालिशाधीतात् प्रागनवधृतार्थादपरिज्ञाने संस्कृतस्य पश्चात्सृतादपि भेदार्थावगमदर्शनात्, तेन स्मृत्यारूढस्यागमकत्वमदोषः, श्रूयमाणेन हि पदेन प्रत#ियोगिसापेक्षत्वादन्विताभिधानस्य प्राक्सहकारि विरहादर्थोऽभिहितः पश्चादभिधीयत इति किमनुपपन्नम् । तथा चाह---- पदजातं श्रुतं सर्वं स्मारितानन्वितार्थकम् । न्यायसम्पादितव्यक्ति पश्चादन्वितबोधकम् ।। स्मृतिसन्निहितैरेवमर्थैरन्वितमात्मनः । अर्थमाह पदं सर्वमिति नान्योन्यसंक्षयम् ।। 8.29. कथं पुनरन्विताभिधायिना पदेन स्वरूपमात्रं स्मारयितुं शक्यते ? उच्यते--अन्वितस्याप्यभिधानस्वरूपमात्रस्य विद्यमानत्वान्नायं नियमः, यावद्गृहीतं तावत्स्नाकर्तव्यं, अपित्वगृहीतं तु न स्मर्यत इति ।। 8.30. ननु च शब्दस्य स्वरूपाभिधानशक्त्यबावादप्रामाण्ये कथं शब्दश्रवणात्वस्वरूपस्मरणं भवति ? उच्यते, न हि यत्प्रमाणं तत्समृतिकरणं, किन्तु प्रमाणमेव तत् । यस्य तु येन सह काचित्प्रत्यासत्तिः प्रतीतपूर्वा स तत्र संस्कारोद्वोधद्वारेण शक्नोत्येव स्मृतिमाधात#ुम् । अस्ति च स्वरूपस्यापि तदभिधेयान्तर्गात्या शब्देन सह प्रत्यासत्तिरिति शक्नोति तत्रापि स्वरूपप्रतीतिं जनयितुं । यथा निर्विकल्पकदशाप्रतीतमर्थस्वरूपमात्रमभिधेयमपि शब्दं स्मारयति तथा शब्दोऽप्यर्थमिति न किञ्चिदनुपपन्नम् । तथा चाहुः --- अन्वितस्याभिदानेऽपि स्वरूपं विद्यते सदा । तेन स्वरूपमा6#ेऽपि शब्दो जनयति स्मृतिम् ।। यथार्थेंन प्रमाणेन स्वपदं स्मार्यते क्कचिति । पदेनाप्यप्रमाणेन तथार्थः स्मारयिष्यते ।। 8.31. नन्वेवं यथा स्मृतिवन्निहितत्वामाश्रित्यान्विताभिधानं पदैः क्रियते तथा स्मरमस्य प्रत्यासात्तिनिबन्धन्तवादनेकेषां च स्मरणिनां प्रत्यासत्तिसम्भवात्तेषु स्मृतिसन्निहितेष्वगृह्यमाणविशेषत्वादुखायां पचतीति नोखापचत्यर्थान्वितैव केवलाभिधीयेत, सा हि कलायनिर्वापादन्वितापि प्रतिपन्नेति स्मरणात्तदन्वित्युखाभिधीयेत । तथा पचत्यर्थोऽपीष्टकादिकर्मकोऽवगत इति तत्स्मरणान्नोदनान्वितोऽभिधीयेतेति । तन्न शब्दैः स्मरितानामन्वयबोधकत्वाद्वृद्धव्यवहारेऽपि तथा दर्शनाद्य एव हि शब्देन स्मारितोऽर्थस्तेनैवान्विताभिधानमितिकलायनिर्वापाद्यन्विताप्यभिधीयत इति ।। 8.32. कुञ्चान्वितार्थाभिधान एवेदं प्रतिनियतार्थान्वयित्वमुपपद्यते । यत्पदान्तराभिधेयतया स्मार्यते तदन्वितस्यैव वृद्धव्यवहारे वाच्यत्वदर्शनात्, यत्रापि चाध्याहारस्तत्रापि सन्निधापितांशेन विशेषान्विताभिधानलाभ इति लोक एव ज्ञानमिति न कश्चिद्दोषः । अपि च ज्ञानं तावदनेनायमर्थोऽन्वितो वाच्य इति यत्र यद्यनेनाप्यन्विताभिधानं स्यात् वाक्यभेदो भवेत्, न चासावेकवाक्यत्वसम्भवे न्याय्यः । तदुक्तम्--- सम्भवत्येकवाक्यत्वे वाक्यभेदश्च नेष्यते ।। इति । 8.33. य्चोक्तमन्विताभिधानपक्षेऽन्वितस्यैव पदार्थस्याभिधानादङ्गुल्यग्रादिवाक्येष्वष्यन्वयः प्राप्नोति । तत्र स्मृतानामर्यर्थानामयोग्यत्वेनान्वयाभावादनभिधानमेव, पदार्थप्रतिपत्तिस्तु स्मृत्यैवोपपद्यत इति । यत्पुनः पुंवचसामर्थे प्रामाण्याभ्युपगमात्पदानां वाचकत्वशक्तिरेव नावधार्यते। कुतोऽन्विताभिधानमित्येतदेव ताद्वक्तव्यं ; न वयं पुरुषवाक्यानामर्थे प्रामाण्यमभ्युपगच्छामः । येषामपि चाभ्युपगमस्तेषामपि न दोषः, यतः पदमन्विताभिधायकत्वेन व्यित्पन्नं व्यभिचाराशङ्क्या लोके न तन्निश्चायकं पश्चादाप्तत्वालोचनयानुमितेऽर्थेऽनुवादकं तदिति प्रामाण्यमेव नासादयति ।। 8.34. ननु च वाचकत्वमपि जहाति ; पश्य बालो हि व्युत्पद्यमानः प्रयोज्यवृद्धव्यवहारस्य शब्दश्रवणानन्तरभाविनीं विशिष्टचेष्टानुमितां क्रियामन्वितशब्दकरणिकां तावदवगच्छति स तथाव्युत्पन्नः कदाचिदनन्वितार्थपदरचनामुपलभते । तत्रोपलभमानस्य तस्यैष विमर्शै जायते, सम्भाव्यमानानन्वितार्थपदवचनमिदं वाक्यं कथं वृद्धस्यार्थनिश्चयः प्राकृतवद्धृद्धस्यापि हि पुरुषायत्तवाक्येनान्वितार्थपदरचनाशङ्कायामयमेव सम्भवन्निति तस्यैवं विचिकित्सायां पुनरेष निश्चयो जायते ।कृतमनेनायं वक्ता इत्थमवधारितोऽन्वितार्थान्येव पदानि प्रयुङ्क्ते। तथाविधपदप्रयोगश्च नास्यानुपलब्धेऽन्वय उपपद्यत इत्येवमन्वयोपलम्भमनुमायानेनान्वयो निश्चितः, निश्चितेवान्वये वाक्यमेतदनुवादभूतमध्येति । एवं चेदनुवादकतया तस्यार्थस्य तद्वाक्यं वाचकमेवेति वाचकशक्तिज्ञानपूर्वकं नानर्थमिति मन्यते । यदि परं मया प्रागनुमापुरस्सरोऽर्थनिश्चियोऽस्येति नावगतं, यापि चेयमस्यानिश्चितेऽन्वये विशिष्टवक्तुज्र्ञानानुमा, साऽपि पदानां स्वरसतः सामान्यावगमादेव नोपपद्यते, क#िन्तु विशेषावगमात् । न च शक्तेरन्यः पदानां विशेषोऽवकल्पते । अतो मयेवानेनाप्यमीषां पदानां वाचकशक्तिरवधारिता । तेन विशिष्टान्वयवाचकपदप्रयोगात्तद्विषयं वक्तुः पूर्वं विज्ञानमनुमितवानिति ।। 8.35. नन्वनन्तप्रतियोग्यन्वितस्वाबोधनविषया अनन्ता एव शब्दस्य शक्तयः परिकल्पयितव्याः स्युः । अभिहिततान्वयवादेत्वेकस्मिन्नर्थे शब्दस्यैकैकैव शक्तिरिति तन्न । एकयानाकाङ्क्षितसन्निहिततत्तत्पदगतस्वार्थाभिधानशक्त्या प्रतियोगिभेदेन चक्षुरादीनामिव कार्यभेदोपपत#्तेः । यथैकयैव दर्शनशक्त्या चक्षुः घटादिप्रतियोगिसहायभेदान्नानाज्ञानानि जनयति, तथा शब्दोऽपि प्रतियोगिभेदादिति मन्तव्यम् । पदै रेवान्वितस्वार्थमात्रोपक्षीणशक्तिभिः । पदार्था बोधिता बुद्धौ वाक्यार्थेऽपि तथासति ।। इति । एवं चैतदप्युपपद्यते संहत्यार्थमभिधति पदानि एकार्थपरः पदसमूहो वाक्यमिति सङ्घातार्थपारतन्त्र्यात्पदानां स्वार्थाभिधानं न सम्भवति । न च सङ्घातकार्यमकुर्वन्ति क्कचिदपि पदानि दृश्यन्ते, न ह्येषां सङ्घातकार्ये स्वाकार्ये च पृथक्प्रयोगो विद्यते, सर्वथासङ्घातकार्य एव प्रयोगान्नैवं संहतानां सङ्घातकार्यवत्स्वाकार्यस्याप्युपलम्भात्, यथा शकटाङ्गानामयमं शोऽनेन कुतोऽयमनेनेति । न च शकटाङ्गान्यपि पृथक्प्रयुज्यमानानि स्वकार्यं कुर्वन्ति दृश्यन्ते । किं पुनः पदानां स्वाकर्यं स्वार्थप्रतिपत्तिः ? किं वा सङ्घातकार्यं यासौ वाक्यार्थप्रतिपत्तिः ? तञ्च पदनामेकैकस्य कृत्स्नफलपर्यन्तवायपारकारित्वात् । तथा ह्येकैकस्मिन् सति कृत्स्नफलपर्यन्तो व्यापारो निवर्तते एकैकेन विना निवर्तत इति एवं कृत्स्नकारिभवित किमत्र पदान्तरेणक्रियत इति चेत् सर्वकारकेष्वपि तुल्योऽयमनुयोगः । तत्र यथा संहत्य कुर्वन्ति कारणादीनि कार्याण्युच्यन्ते तथा संहत्याप्यभिदधति पदान्यधभिधायकान्युच्यन्ते ।। 8.36. नन्वाकाङ्क्षासन्निधियोग्यताभिश्चेदन्वयोपपत्तिरभिहितान्वय एवास्तु किमन्विताभिधानेन ? पदेषु ह्यनन्वितमपि स्वमर्थमभिधायोपरतव्यापाकेष्वाकाङ्क्षादिभिः पदार्थानामन्वयप्रतीतिर्भविष्यतीति । उच्यते, कस्येयमाकाङ्क्षा शब्दस्यार्थप्रमातुर्वा ? शब्दार्थयोस्तावदचेतनत्वान्नाकांक्षा, प्रमातुस्त्वयं तत्र वाचो युक्तिः, शब्दः, शब्दान्तरमाकाङ्क्षात्यर्थोऽर्थोन्तरं स्वतन्त्रस्याऽऽकांक्षा न प्रमाणं, पुरुषेच्छाया वस्तुस्थितेरयुज्यमान्तवाच्छब्दप्रमाणपृष्ठभावित्वं, नत्वर्थेषु पुरुषस्याकाङ्क्षा भवन्ती, भवत्यर्थाना#ं संसर्गहेतुरित्येवं शब्दस्यैवायमिषोरिव दीर्घदीर्घो व्यापाराः उपरतव्यापारे तु शब्दे पुरुषस्याकाङ्क्षामात्रं व सम्बन्धाकारणं अशाब्दत्वप्रसङ्गात्साक्षाञ्च शाब्दत्वसम्भवे व्यधानाश्रयणस्यायुक्तत्वात्, अतो नान्यदन्विताभिधानात् संसर्गप्रतीतेस्साधनमस्ति । न खल्वानयगांशुक्लामित्यादि वाक्येषु संसर्गपदं प्रयुज्यते यतः संसर्गप्रत्ययः स्यात् । प्रयुज्यमानमपि दशदाडिड्डत्ध्;मादिवाक्यवदनन्वितार्थमेव स्यात् । तस्मात्पदानामन्विताभिधानमेव न्याय्यमिति ।। 8.37. अभिहितान्वयवादिनः पुनरित्थमाचक्षते । स्वंस्वमर्थमभिधाय निवृत्तव्यापाराणि पदानि भवन्ति । अथेदानीं पदार्था अवगताः आकाङ्क्षासन्निधियोग्यताभिरन्वयमुपयन्तो वाक्यार्थमवगमयन्ति ।। 8.38. नन्वेवमशाब्दः स्यात्, पारम्पर्येणापि प्रतिपादयतां पदानां वाक्यार्थे सामथ्र्यस्याविघातात् । तदुद्देशेन प्रयुक्तानां पदार्थप्रतिपादनमवान्तरव्यापारो भविष्यति । न चावान्तरव्यापरस्य कारकन्तरेष्वपि व्यवधायकत्वमिष्यते । तदाह ।। न विमुञ्चन्ति सामथ्र्यं वाक्यार्थेऽपि पदानि नः । तन्मात्रावसितेष्वेषु पदार्थेंभ्यः स गम्यते ।। वाक्यार्थमात्र एतेषां प्रयुक्ते नान्तरीकम् । पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम् ।। इति । तत्र च क्रियापदानि क्रियामात्रमभिदधति, कारकपदानि तु कारकमात्रम्, न वा मिथस्संसर्गं न ह्येकपदोञ्चारणकाले पदान्तरार्थप्रतीतिरस्ति । नचाप्रतीयमानेनापि संसर्गप्रतीतिरस्ति । ननु च वृद्धव्यवहारात्पदानां अर्थावधारणम् । वृद्धाश्च वाक्येनैव व्यवहरन्ति । न पदेन, वाकयेवान्वितानामेव पदार्तनामुपलम्भात्, कथमुच्यते क्रियामात्रं पदेभ्योऽवगम्यत इति ? उच्यते, सत्यं वाक्येभ्य एव पदानां व्युत्पत्तिः, सा तु किमेकघटनाकारकसंहतवाक्यार्थनिष्ठा, किं वा पदार्थपर्यन्तेति चन्तनीयम् ? पूर्वस्मिन् पक्षे प्रतिवाक्यं व्युत्पात्तिरपेक्षणीया । सा चानन्त्यव्यभिचापादिभिर्बहुमप्रमादा । पदार्थपर्यन्तायां च व्युत्पत्तौ नूनं निर्धारणीयमियानस्य पदास्यार्थ इति ।अन्वितार्थाभिधानवादिनोऽपि नियतः ..... विकरणीयः पदार्थनियमानपेक्षणे हि गामानयेति विवक्षुरश्वपदमपि निमित्ततयोपाददीत । न हि तस्यानपेक्षितपदपदार्थप्रविभागो वैयाकरणवद्वाक्यार्थप्रत्यय उदेति । तस्माद्यानानावापोद्वापपर्यालोचनया पदस्यार्थो निर्धार्यते तावानेव तस्यार्थ इति । 8.39. नन्वासाङ्क्षितयोग्यसन्निहितार्थोपरक्तस्तस्यार्थो भवतु सर्वदा संहत्य व्याप्रियमाणत्वात् । नैवम् ; सर्वदा संहत्य व्याप्रियामाणस्यास्तु तावान्, यावत्यभिधीत्री तस्य शक्तिः । कीयती च तस्याभिधीत्री शक्तिः यावन्तमर्थमाकाङ्क्षितैर्योग्यौः सन्निहितैश्चसंयुज्यमानं वियुज्यमानं च न मुञ्चति क्रियामात्रं कारकमात्रं च । अतस्तावत्येवाभिधात्री शक्तिरन्वव्यतिरेकाभ्यां तस्य निर्धार्यते । तदुक्तं, "अव्यभिचाराद्धि तन्मात्रमेव तदर्थो नाधिकं व्यभिचारात्" इति । नन्वत्र शक्तित्रयकल्पनागौरवलक्षणो दोषः प्राप्नोति । पदार्थानां हि शब्दन्यता प्रमाणजृष्टेति शब्दाभिधेयानां तेषां तदवबोधकत्वशक्तिः कल्पनीया । तस्याश्चोत्पत्तौ शब्दसंस्पर्श एव हेतुरित्याश्रयणीयम् । शब्दो हि विशिष्टार्थप्रतिपरतया लोके प्रयुज्यमानो दृष्टः, न चासौ साक्षाद्वाक्यार्थप्रतिपादने समर्थ इति पदार्थनव#ान्तरव्यापारीकरोति । ते च यद्यन्यान्वयबोधनसमर्थास्तदा तेषामवान्तरव्यापारता स्यान्नान्यथा । पदार्थानामपि विशिष्टार्थावबोधपरशब्दसंस्पर्शास्तदा शक्तिराविर्भनतीति शब्दस्यापि पदार्थगतशक्त्याधानशक्तिरनुमन्तव्येति । त्यादेतदेवं, यदि मानान्तरावसेयानां पदार्थनामन#्योन्यान्वयावगमसामथ्र्ये नावधार्यते । अवधार्यते च श्वैत्यस्यानवधारिताश्रयविशेषस्याप्रत्यक्षोपलब्धस्याश्वस्य चाप्रतिपन्नगुणविशेषस्य हेषाशब्दानुमितस्य श्वेतोऽश्वो धावतीत्यन्वयः । तदाह--- पश्यतः श्वैतिमं रूपं हेषाशब्दं च श्रृण्वतः । पदनिक्षेपशब्दं च श्वोतोश्वो धावतीति धीः ।। 8.40. दृष्टावाक्यविनिर्मुक्तेति । अरुपमित्यव्यक्तरूपम् । तेन गुणविशेषो न प्रत्यक्षेणावसीयत इति उक्तं भवति । अत्रेदं पर्यनुयुज्यते किं येन पुरुषेण श्वैत्यसमानाश्रयौ हेषाध्वनिपदनिक्षेपशब्दाववगतौ तदपादनध्यवसायस्तस्यापीति । किमतः ? यदि तावदप्रत्याकलितहेष#ाध्वनिपादविहारनिर्घोषापादानस्येत्युच्यते तदा प्रतीतिविरोधः स ह्येवं प्रतिपद्यते भवितव्यमस्मिन् देशे नूनमश्वेन भाव्यं केनचिद्धावतेति । 8.41. अथाश्वसम्बान्धिनमेव खुरपुटटङ्काररवमभ्यासपाटववशादिवैति तदासावश्ववर्तिनीं वेगवतीं गतिमनुमिनोति न पुनः केवलामेवावगम्य तस्मिन् प्रतिबुद्यते, योऽप्यस्मिन् देशे नास्त्यन्योऽश्व इति निश्चित्य पारिशेष्यादपादानानध्यवसायेऽपि हेषाध्वनेः श्वैत्यसमानाधिकरणमश्वत्वं अन्तर्गृहदर्शनमिव बहिर्भावावगतावर्थापत्तिः । योऽश्वेतः स एवाश्व इति प्रमाणम् । यस्तु श्वेततेवसमानाधिकरमहेषाध्वनिखुरपुटटङ्काररवावध्यस्यति तस्याश्वत्वे वेगवति च गमने श्वेतद्रव्यवर्तिन्येकानुमानं तत्सम्बन्धावगतार्थानां न क्कचिदनुमानार्थापत्तिव्यतिरेकेणान्वयबोधकत्वं प्रतीतम् । 8.42. अपि च यदि पदार्थावगतिमात्रादेवान्वयावगमस्तदा कस्मिन् प्रमाणोऽस्यान्तर्भाव इति वाच्यम् ? न तावच्छब्दे शब्दाभावात् पदार्थाभिधानावान्तरव्यापारेण हि यच्छब्दादन्वयज्ञानं न तच्छाब्दमित्यभिहितान्वयवादिनां सिद्धान्त इति कथं शब्दे अन्तर्भवः ? प्रमाणान्तराभ्युपगमे तु शब्दस्योच्छेदः शाब्दस्य पदार्थाविषयतया प्रमापितस्यैव प्रामाण्यप्रसङ्गात् । तस्माच्छब्दानभिहितानां पदार्थवामन्यत्रादृष्टं वाक्यार्थावबोधनसामथ्र्यमपि परिकल्पयितव्यम् । तदाधानशक्तिश्च शब्दानामपीते कल्पनालाघवाच्छब्दानामेवान्वितस्वार्थबोधनशक्तिमात्रं कल्पयितुं न्याय्यम् । 8.43. अथोच्यते, आकाङ्क्षासन्निधियोग्यतावन्तः पदार्था एव वाक्यार्थीभवन्ति, न पुनर्वाक्यार्थमवबोधयन्तीति । तदतिमन्दम् ; वाक्यार्थवगतेः कारणाभावप्रसङ्गात् । अनपायत्वे हि पदानामन्वयप्रतीतौ पदार्था अपि चेन्न कारणं अकारणीवान्वयप्रतीतिरापद्येत । 8.44. स्यान्मतं ; क्रियापदेन कारकपदेन वा साकाङ्क्षेऽर्थो पूर्वाभिहिते यदेव पदान्तरेण योग्यं प्रतियोगिपदार्थान्तरं सन्निधाप्यते, तदेव तत्र सम्बन्धित्वेनावतिष्ठत इति। सत्यमेवम् ; अवगतिस्तु तत्सम्बन्धास्य किं निबन्धनेति वाच्यम् । अथ पूर्वपदार्थे साकाङ्क्षे यत्पदार्थन्तरमु#्चरति तत्सम्बन्धितयैव स्वार्थमुपनयति प्रत्याययत् । यथा प्रकृत्यर्थे पूर्वप्रतीते प्रत्यय उञ्चार्यमाणः स्वार्थे तद्विशिष्टमेवाभिधत्ते तथा पदार्थन्तरमपीति । तदुक्तं --- प्रकृतिप्रत्ययौ प#्रत्ययार्थे सहब्रूत इति । प्रकृतिः स्वार्थे प्रत्ययार्थे विशेषणत्वेनोपनयन्ती प्रत्ययेन सह तदर्थमाहेत्यर्थः । तथाचोक्तम् --- नित्यं विशेष्ट एवार्थो प्रत्ययो यत्प्रयुज्यते । तत्पूर्वतरविज्ञातुः प्रकृत्यर्थविशेषणात् ।। इति । अङ्गीकृतं तर्हि द्वितीयस्यान्विताभिधानं प्रथमस्य तथापि नास्तीति चेन्न, वाक्ये पदानां प्रयोगक्रमनियमाभावात् । यदेव कदाचित्प्रथमं तदेव कदाचिद्द्वितीयमिति सर्वपदानामन्विताभिधानमापतितम् । किञ्च प्रत्ययश्चेदन्विताभिधीयी तदा तदविशेषात् पदानामन्विताभिधायिता क#िमिति नाभ्युपेयते, किमर्धवैशसेन ? 8.45. अत्राभिधीयते ; लाक्षणिका एव सर्वे वाक्यार्थाः, ततश्च न पदार्थानामन्वयबोधने शक्तिगौरवम् । अनन्वितावस्थो हि पदेनार्थोऽभिहितोऽन्वितावस्थां स्वसम्बन्धिनीं लक्षयति । अवस्थावस्थावतोर्हि संबन्धादस्थावत्यवगते भवत्यवस्था बुद्धिस्था सर्वत्र संबन्धिनि द#ृष्टे सम्बन्धान्तरे बुद्धिर्भवतीति सिद्धमव । तेन नास्तिपदार्थानामन्वितबोधने शक्तिकल्पनेति । तदाह--- वाक्यर्थो लक्ष्यमाणो हि सर्वत्रैवेति लक्ष्यते । इति । कथं पुनरियं लक्षणा ? वाच्यस्यार्थस्य वाक्यर्तो सम्बन्धानुपपत्तितः । तत्सम्बन्धवशाप्राप्तस्यान्वयो लक्षणोच्यते ।। तद्यथा--- गङागायां घोषः प्रतिवसतीत्यादिश्रौतस्य गङ्गार्थस्य वाक्यान्वयासम्भवात्तत्परित्यज्य त्तसम्बन्धवतः सन्निधेः कूलस्य वाक्यन्वितताध्यसीयते । अत एव चाहुः -- अनुपपत्त्या सम्बन्धेन च लक्षणा भवति । इह च गामानयेत्यादौ श्रोतस्यान्वयायोग्यत्वं, नाप्यन्वितास्थास्यान्यनसम्बन्धार्हता । अन्वितस्यान्वयान्तराभावात् । 8.46. आपे च सर्ववाक्यार्थानां लाक्षणिकत्वे मिख्यस्यैव पित्यागापत्तिः । अथ माभूदेषा लक्षणा । किन्तु क्रियावगतकारकान्वयिनीचाऽऽत्मनो दशामवगमयत्यविनाभावित्वादित्युच्यते । शाब्दत्वं तावदित्थमपहस्तितं भवत्यनयाऽवगम्यस्य । किन्तु सामान्यतोदृष्टानुमानगोचरता।#़भ्युपगता भवति । तथा च विशेषावगतिरनुपपन्नमूलाऽऽपद्येत । 8.47.अथ विशेषान्वयं विना व्यवहारानवकल्पनादनर्थकं शब्दोञ्चारममिति तदाश्रयणम् । एवमपि प्रेक्षापूर्वकारिणां सार्थकमात्र ... गुणां वचना ..... देत्वानर्थक्येन भवितव्यमिति प्रमाणभावान्न शक्यते विशेषान्वयो वक्तुम् । न च लोकेप्यनार्थक्यमापद्यत इत्येवता कारणेन#ोपायान्विनापि विशेषाध्यवसानं युक्तम् । न हि दग्धुकामस्यैदनोपादानमनर्थकमिति जलस्य दाहकशाक्तिराविर्भवतीति काममानर्थक्यम् । न पुनः सामान्यतो दृष्टस्य विशेषान्वयिता । 8.48. अथाकाङ्क्षितसन्निहितयोग्यान्वयपरता वृद्धव्यहारेण पदानामवगतेति । तदन्वयावगमः । तन्न, वृद्धाव्यवहार एव कथं तत्परता पदानामुपायाभावे विर्वहत्विति चिन्ता ; सा हि पदानां पदार्थानां वा शक्तिकल्पनां विनानुपपन्नेति मन्यामहे । सा च पदानामेवोचिता । यदाह --- प्राथम्यादिभिधातृत्वात्तात्पर्यावगमादपि । पदानामेव सा शक्तिः कपरमित्यगम्यताम् ।। प्रथमभावीनि हि पदान्यतिलङ्घिषु पदार्थेषु वाक्यार्थावबोधनशक्तिरहितानि, तेन तेषामभिधानशक्तिस्संम्प्रतिपन्नैवेति तस्या एवान्वयपर्यन्तता कल्पयितुं सुकरा । पदार्थानां तु बोधनशक्तिरेव,. तेन धर्मिकल्पनातो धर्मकल्पना लघीयसीति अन्विकाभिधानशक्तिः पदानामेव कल्पयितुमुचिता । 8.49. किञ्च पदान्यभिधायकानीष्यन्ते । तत्र यदि स्वरूपमात्रविषयामेव बुद्धिमादध्युरभिधायकता हीयते, तस्या बुद्धैः सम्बन्धग्रहणसमुपजातसंस्कारोऽवश्यं हि सम्बन्धस्मरमसिद्ध्यर्थं सम्बन्धिभूतार्थसाधारणसंस्कारोऽङ्गीकरणीयः । तस्मात्सम्बन्धग्रहणसमयानधिगतानन्वितार्थप्रतिपादनाभ्युपगम एव शब्दानामभिधायकतेति तामङ्गीकुर्वता पदानामन्विताभिधायिताऽऽश्रयणीया । यस्तु, पदमभ्यधिकाभावात्स्माकरान्न विशिष्यते । भावनावचनस्तावत्तां स्मारयति लोकवत् ।। इत्यार्थवचने दर्शनात् । अभिधानशक्तिवत्स्मारकतामेव पदानामभिधायकतां मन्यते । नापि तावत्पदानां वाक्यार्थपरताभ्युपगन्तव्या, अन्यथा वाक्यर्थास्याशाब्दत्वप्रसङ्गाते । एवं चेत्पदानामेव साक्षाद्वाक्यार्थबोधने शक्तिरस्तु । किं परम्पाराश्रयणेन ? एवं च पदपदार्थोषु पदानां स्मारकत्वातिरिक्तं येऽभिधाकत्वामाहुस्तेषां शक्तित्रयकल्पना । एका तावत्पदानामभिधानशक्तिः बोधशक्त्यादाशक्तिः पदार्तनामन्वयज्ञापनशक्तिरिति स्मारकत्ववादिनां हित्वा शक्तिद्वयकल्पाना । अन्विताभिधाने पुरनेकैव शक्तिरिति शक्तिकल्पनालाघवादन्विताभिधायीन्येव पदानीति न्याय्यं, न पुरभिहितानामन्वय इति । 8.50. अत्रोच्यते ; यत्तावत्पदार्थानामन्वयबोधकत्वे शक्तित्रयकल्पनागौरवमित्युक्तं तत् न सम्यक् प्रमाणान्तरावगतानां पदार्थनामन्वयबोधकत्वदर्शनात् दृशयते । पश्यतः श्वैतिमं रूपं हेषाशब्दं च श्रृण्वतः । खुरनिक्षेपशब्दं च श्वेतोऽश्वो धावतीति धीः ।। न चैतद्वाच्यं ; अर्थापत्त्यनुमानयोरयं व्यापारः, तद्विषयायाः प्रतीतेरिह विवक्षितत्वात् । यत्र ह्याकाङ्क्षादित्रयोपेताः पदार्था एवान्योन्यमन्वयं गमयन्ति, न तत्रार्थापत्त्याद्यनुमानयोव्र्यापारः । यथा-- सुरभि चन्दनं, स्वादु सहकारमिति । न चात्र विशिष्टप्रतिपत्तौ प्रत्यक्षमेव व्याप्रियते ; चक्षिरादीनां रूपादिनैयत्येन परस्परविषयेणाज्ञातत्वात् । तथा हि-- न गन्धाद्युपलब्धौचक्षुः व्याप्रियते । नापि रूपाद्युपलब्धौ ध्राणमिति । अस्ति च सुरभिचन्दनमित्यादौ विशिष्टार्थप्रतिपत्तिः । एवं श्वेतोऽश्वो धावतीत्यत्रापि द्रष्टव्यम् । 8.51. यञ्चात्रोक्तं -- कस्मिन् प्रमाणोऽस्यान्तर्भाव इति तेन न कÏस्मश्चित्प्रमाणेऽन्तर्भावः । किन्तु प्रमाणफलमेतत् । यदि वा पदार्थएवात्र प्रमाणम्, तेषां च शब्द एवान्तर्भावान्न सप्तमप्रमाणात्तिः । पदार्था हि शब्दात्प्रमाणान्तरतो वा प्रतिपन्ना आकाङ्क्ष#ासन्निधियोग्यताभिः क्रियाकारकादिरूपेण चेत्प्रतीयमानाः संसर्गबुदिं्ध जनयन्ति । शाब्दमेवैतद्भवति । 8.52. यत्पुनराकङ्क्षासन्निधियोग्यतावन्तः पदार्था एव वाक्यार्थीभवन्तीत्युपन्यस्य दूषितं, तत्र न वयमेवं ब्रूमः पदार्था एव वाक्यार्थीभवन्तीति । किन्तर्हि गमयन्ति । य्च प्रत्ययदृष्टान्तेन द्वितीयपदस्यान्विताभिधायित्वेऽर्धवैशसमुक्तं तदपि नास्ति प्रकृतिप्रत्ययोरपि पदनदेवान्वयव्यतिरेकावधारितव्यतिरिक्तशक्तिकयोरभिहितान्वयस्यैवोपपत्तेः । पाकं हि पचिरेवाह कर्तारं प्रत्ययोऽप्यकः । पाकयुक्तः पुनः कर्ता वाच्यो नैकस्य कस्यचित् ।। प्रकृतिप्रत्ययौ बूतः प्रत्ययार्थं सहेति च । भेदेनैवाभिधानेऽपि प्राधान्यादेवमुच्यते ।। लाक्षणिकावाक्यार्थविषये तु मृषैवोपलब्धाः स्मः । नहि गामानयेत्यादौ लक्षणास्माभिरिष्यते । गङ्गायं घोष इत्यादौ न चैषा प्रतिषिध्यते, तेन न मुख्यलाक्षणिकावाक्यार्थप्रविभागानुपपत्तिः । 8.53. यदपि क्रियाऽवगता कारकान्वयिनीमात्मनो दशामवगमयत्यविनाभावित्वादित्यस्मिन् पक्षे विशेषानवधारणमशाब्दत्वं च दोष इत्युक्तं तदप्यनुमतमेव । न ह्यविनाभावतो विशिष्टा वाक्यार्थप्रतीतिरिति मन्यामहे, अपित्वाकाङ्क्षासन्निधियोग्यताबलेन । आकाङ्क्षादिसद्भावे च श#ाब्दात्वं भवत्येवेत्याभिहितं पुरस्तात् । 8.54. यञ्च प्राथम्यादिभिः पदानामेवान्वयबोधनशक्तिरस्त्विति वादितन्नत्रभिधानशक्तिः पदानामिष्यत एव । अन्ययपर्यन्तता तु तस्या नेष्यते, वाक्यार्थप्रतीतेरन्यथाप्युपपद्यमानत्वात् । वाक्यार्थे हि तात्पर्यशक्तिः पदानां व्यप्रियते, नाभिधीत्री । तञ्च प्रथमदशां विवञ्चता भवतान्विताभिधानमभ्युपगतम् । त्च न युक्तम् । सर्वत्राभिधात्र्याः शक्तेरविशेषेण प्रवृत्तौ पदार्थनैयत्यानवधारणे पदान्तरोञ्चारवैयथ्र्यादिदोषप्रसङ्गाते । पदान्तरानुञ्चारणे त्रयेणान्वितमर्थमभिदधाति गोशब्दः । स नाभिधीयते तत्संसर्गश्चाभिधीयत इति प्रतिषिद#्धम् । तदभिधाने तु तद्वित्संबन्धाभिधानमित्येकमेव गोपदं सर्वार्थं स्यात् । तस्मन्न सर्वत्राभिधात्री शक्तिः शब्दस्योपपद्यत इति नान्वितभिधानम् । 8.55. एतेन यदुक्तं पदार्थानां बोधनशक्तिरेव कल्प्या, पदानां तु क्लृप्तानामेवान्वयपर्यन्ततेति धर्मिकल्पनातो धर्मकल्पना लबीयसीति अन्विताभिधानमेव युक्तमिति, तदपि निरस्तं भवति । यञ्चोकं सम्बन्धस्मरणावगतसम्बन्धिप्रतिपत्तिसिद्धान्वितार्थगोचरैवाभिधानशाक्तिरस्त#्विति ; तदप्यनुपपन्नम् । सम्बन्धस्मपरणसव्यपेक्षस्य पदस्याभिधायकत्वात् । न चान्विते सम्बन्धस्मरणं भवति । प्रतियोगिनामानन्त्येन सम्बन्धस्य ग्रहीतुमशक्यत्वात् । तस्मान्निष्कृष्टपदार्थमात्रविशयत्वमेवाभ्युपगमनीयम् । 8.56. यत्त्वधिगतविषयत्वं दूषणमुक्तं तदष्यत एव । अत एव न पदं पदार्थे प्रमाणं ; अधिगतविषयत्वात् । अनधिगतार्थगन्तृ हि प्रमाणं भवति । न च पदस्य स्वर्थे स्मारकत्वमेव । यदाह--- पदमभ्यधिकाभावात्स्मरकं न विशिष्यते । नतु स्मारकमेव भवति । तस्मात्पदानामभिहितान्वय एव न्याय्य इति । 8.57. उभयवादिनस्त्वेवमामवन्ति, सामान्यतोऽन्वितभिधानं विशेषतोऽभिहितान्वय इति । गोशब्दो हि स्वार्थमनवगतविशेषगुणक्रियासामान्यान्वितमभिधत्ते । तदेतत्सामान्येनान्विताभिधानम् । शुक्लादिगुणविशेषस्तु पदान्तरादवगम्यते । सोऽयं विशेषंणाभिहितान्वय इति । 8.58. अपि च क्रियाकारकसंसर्गरूपो वाक्यार्थः क्रियासम्बन्धमन्तरेण कारकत्वानुकपपत्तेः । विशेषेषु चानन्तयव्यभिचारादिदोषात्क्रियासामान्यान्वित एव । कारके कारकपदानां सम्बन्धाग्रहणं, संबन्धानुसारेण चाभिधानात् । सामान्येऽन्विताबिधानमेव घटते । व्यवहारकाले च क्रियाविशेषान्वितानामेव कारकाणामुपसम्भात् । क्रियाणामपि च कारकविशेषान्वितानां प्रतीतेः शब्दव्यापारस्य सामान्यान्वयाभिधानेनैव परिसमाप्तेर्विशेषेष्वबिहितान्वय एव युज्यते । एवं च पदान्तरोञ्चारणमपि न व्यर्थ भवति, अपेक्षितक्रियाकारकविशेषसमर्पकत्वेनार्थवत्त्व#ात् । 8.59. यद्यपि चात्र क्रियाकारकमात्रान्वयाभिधाने क्रियाकारकमात्रसम्बन्धित्वं क्रियाकारकसामान्याभिप्रायम् । तथाहि ; स्वार्थमात्रोपादायिनः सर्वभेदान्प्रति योग्यता ; तदेवानुगुण्यमात्रं सामान्यं, न हि तथान्यथा सर्वथा वेति सामान्यमवस्थितरूपं किञ्चिदस्त#ि, सर्व एव ते विशेष एव । तस्यास्तु सामान्यावस्थायां भेदस्य कस्यचिदनिरूपणादत्यागाञ्च या सर्वभेदोपग्रहयोग्यतया परिप्लवमानार्थकल्पना तां सम्बन्धो विषयान्तरादवाच्छद्य विशिष्टे विशिष्टे विषये नियमयति । तदुक्तम्---- सर्वभेदानुगुण्यं तु सामान्यमपरे विदुः । तदर्थान्तरसंसर्गाद्भजते बेदरूपताम् ।। भेदानाकाङ्क्षातस्तस्य सा पारिप्लवमानता । अवच्छिनत्ति सम्बन्धं तां विशेषे निवेशयन् ।। अत एव च नानेकवाक्यार्थप्रतीतिः । सर्वेषां कारकाणां कर्मादिभावेन व्यवस्थितानामेव क्रियासम्बन्धात् । न च प्रथमाश्रितादप्ययर्थप्रतीतिः, विद्यमानस्याप्यन्वयस्य सम्बन्धग्रहणमन्तरेणानुपलब्धेः । न चैकपदोञ्चारमकाले सकलवाक्यार्थप्रतीतिः, तदानीं विशेषसमर्पकपदप्रयोगायोगात् । 8.60. यद्येवं सामान्येनान्विताभिधानमेवास्तु, किं विशेषेणाभिहितान्वयेन । वृद्धव्यवहारप्रसिद्धसम्बन्धो हि शब्दोऽर्थस्य वाचकः । अन्वयव्यतिरेकाभ्यां च सम्बनधावधारणम् । न च विशेषान्वयविषयौ तौ सम्भवतः । क्रियापदं हि कारकतामामान्यव्यभिचारिण्या क्रियया सहान्वयव्यतिरेकौ भजते, विशेषान्वये विशेषान्तरव्यभिचारात् । एवं कारकपदमपि । तन्न ; विशेषान्वयेऽपि आकाङ्क्षासन्निधियोग्यत्वोपाधिवशेन सम्बनअधग्रहणं सुकरमिति तदभिधायितैव युक्ता पदानाम् । यदि चासौ नेष्यते तदा वाक्यार्थप्रतीतिरेव नोपपद्यते, वाक्यार्थस्य विशेषान्वयरूपत्वात् । 8.61. ननु च सामान्यान्वयोऽभिहितो विशेषस्य सामान्यस्यैव प्रत्येतुमशक्तत्वात् । नैवम् । यथा जातिव्र्यक्तिमाक्षिपन्त्यपि न प्रतिनियतं विशेषमाक्षिपति, तथात्रापि नियतविशेषाभावान्नियतविशेषात्मकवाक्यार्थप्रतीतिरूपपन्ना । 8.62. ननु विशेषणामात्राक्षेऽपि य आकाङ्क्षितः सन्निहितो योग्यश्च विसेषः पदान्तरेण समप्र्यते स एव गृह्यत इति । तदतिक्रमे प्रमाणाभावात् । एतदपि न सम्यक् । सामान्यान्विताभिधानवादीनो हि मते पदानि तावत्तन्मात्रपर्यवसितशक्तीनि ; पदार्थानामपिचान्वयबोधनशक्तिर्नाङ्गीक्रियते । न च सामान्याक्षेपोऽपि नियतविशेषमास्कन्दति । तेनाकाङ्क्षिते योग्ये च विशेषपदान्तरेण सन्निधापिते तदन्वयबोधकर्रमाणाभावादवन्वयो न प्रतीयते । अत आकाङ्क्षासन्निधियोग्यत्वान्नयनुपयोगीन्येव । 8.63. विशेषान्विताभिधानवादिनस्तु मते सम्बन्धग्रहणं प्रत्युपाधित्वेनानुप्रविष्टानि वाक्यार्थप्रतिपत्तावुपयुज्यन्ते । पदात्पदार्थः पदार्थान्तरसम्बन्धो बोद्धव्य इत्यस्यां व्युत्पत्तावुपाधित्वेन योग्यतवादिकर्मानुप्रविशद्विशेषान्विताभिधानवादिनः पक्षमपाकरोति, न सामान्याभिधानवादिन इति । किञ्च क्रियाकारकस्वभावालोचनयापि कारकमात्रेणान्वयसिद्धेर्वृथा सामान्यमात्रान्वयाभिधायकता शब्दस्याङ्गीक्रियते । तस्मात्तदुक्त एव न्यायः श्रेयान्, सामान्योनान्विताभिधानं, विशेषेणाभिहितान्वय इति । युक्तं चैतत्पदस्य प्रकृतिप्रत्ययात्मकत्वात् । पदे हि पचतीत्यादौ प#्रकृत्यर्थः प्रत्यार्थश्च सामान्यविशेषावगमरूपमन्योन्यान्वितं प्रतीयते । तत्र पचीत्येषा प्रकृतिः सिद्धसाध्यत्वादिधर्मविनिर्मुक्तं प्रत्ययार्थमात्रान्वययोग्यं पाकसामान्यमात्रमभिधदधाति । अतिप्रत्ययस्तु पौर्वापर्यनियमान्न प्रकृतिवत्स्वान्त्रः सामान्यमात्रे ध#ियमादधाति । अपि तु प्रकृतार्थापेक्षायाचक्षाणः स्वार्थं विशेषमेव समर्पयतीति । अनुभववादिनः पुनरित्थं समर्थयन्ते नान्विताभिधानं किन्तर्हि समुदितैः पदैरेको वाक्यार्थः प्रत्याय्यते । स च गुणभूतेतरपदार्थसंसृष्टः कश्चित्पदार्थ एवेति । 8.64. ननु किमयमन्विताभिधानपक्षः पुनरुत्थापयितुमिष्टः । मैवम् ; नेदमन्विताभिधानम् । किं तर्हि संहत्यकारता पदानाम् ? उच्यते, संहत्यकारताप्यस्ति । न चान्विताभिधानम् । अन्वितमर्थे पदानि संहत्य संपादयन्ति । न त्वन्वितमभिदधति । किमिदानीं कुर्वन्ति वाक्यार्थं पदानि, घटमिव मृदादीनि ? एतदीपे नास्ति, ज्ञापकत्वात्तेषाम् । का तर्हीयं वाचो युक्तिः ? संहत्यकारीणी पदानि, न चान्वितमभिदधतीति इमानि पदान्यन्वितं प्रत्याययन्ति,नाभिदधतीति नाभिधात्री शक्तिरन्वितविषया, किन्त्वन्वयव्यतिरेकावगतनिष्कृष्टस्वार्थविशयैव । तात्पर्यशक्तिस्तु तेषामन्वितावगमपर्यन्ता सह व्यापारात् व्यापारस्य तदीयनिराकांक्षप्रत्ययोत्पादनपर्यन्तत्वात् । तथाहि--- अन्यथैव प्रनर्तन्ते प्रत्यक्षान्युद्भवाद्धियः । अर्थं पूर्वमपूर्वं वा दर्शयन्त्यः पुरः स्थितम् ।। अन्यथैव मितश्शब्दी विषयेषु विजृम्भते । प्रतिपत्तुरनाकाङ्क्षप्रत्ययोत्पादनावधिः ।। अत एव पदं लोके केवलं न प्रयुच्यते । न हि तेन निराकाङ्क्षा श्रोतुरीधीयेत मतिः ।। 8.65. नन्विभिधानव्यतिरिक्तः कोऽन्यः शब्दस्य कृत्स्नफलपर्यन्तप्रत्यायनात्मा व्यापारः । अस्ति कश्चिद्यः सर्वैरेव संसर्गवादिभिरप्रत्याख्येयः । न हि संसर्गोऽभिधीयते । प्रतयते च वाक्यत् । ननु संसृष्टाभिधाने सति संसर्गः प्रतीयते, नान्यथा । नैतदेवम्, संहत्य#ाकारित्वादेव संसर्गावगमसिद्धेः । न हि संसर्गकारणं न स्स्पृष्टं च कार्यं क्कचितद्दृश्यते । 8.66. अपि च प्रकृतिप्रत्ययौ हि परस्परसापेक्षमर्थाभिधायिनौ । न च प्रकृत्या प्रत्यायार्थोऽभिधीयते, नियोग्य धातुवाच्यत्वात् । न च प्रत्ययेन प्रकृत्यर्थोऽभिधीयते, यज्यादेर्लिङाद्यर्थानुपपत्तेः । न च तौ पृथक्स्वकार्यं रुरुतः । एवं पदान्यपि परस्परापेक्षीणि संहत्य कार्यं करिष्यन्ति । न च परस्परस्यार्थमभिधास्यन्ति वाक्यान्यपि प्रकरमपतितान्येनमेव । तदुक्तम्--- प्रकृतिप्रत्ययौ यद्धदपेक्षेते परस्परम् । पदं पदान्तरं तद्वद्वाक्यं वाक्यान्तरं तथा ।। इति । अयमेव च पक्षः श्रेयान् । संहत्यकारित्वं पदार्थानां सङ्कीर्णानाञ्च । निरपेक्षप्रयोगे या सकला कल्पना भवेत् । तदन्वितभिधाने तु पदान्तमनर्थकम् ।। संहत्यकारिपक्षे तु दोषो नैकोपि युज्यते । तेनायमुपगन्तव्यो मार्गो विगतकण्टकः ।। अभिधीत्री मता शक्तिः पदानां स्वार्थानिष्ठता । तेषां तात्पर्यशक्तिस्तु संसर्गावगमावधिः ।। तेनान्विताभिधानं हि नास्माभिरिह मृष्यते । अन्वितप्रतिपत्तिस्तु बाढमभ्युपगम्यते ।। संहत्यकारित्वाञ्चा पदानां न स्वार्थ एव तात्पर्यार्थमुञ्चारणं, अपितु प्रधानकार्यमेव कर्तुम् । तदुक्तम् --- वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् । पाके ज्वालेन काष्ठानां पदार्थप्रतिपादनम् ।। तस्मान्नान्विताभिधानं नाप्यभिहितानामन्वयः । किन्ति यथोपन्यास्तपक्ष एव श्रेयानिति । 8.67. तदेवमाकाङ्क्षासन्निधियोग्यतावन्तः पदार्थश्चतुष्प्रकारमन्वयमनुभवन्तो वाक्यार्थीभवन्ति । ननु चायोग्यतायामप्यन्वयो दृश्यते, भवति पश्य मृगो धावतीति । नहि साध्यैकस्वभावायाः साध्यत्वं साधनन्वं च युज्यत इति । नैवम् ; साध्यत्वेनैव साधनत्वात् । क्रियाभ#्युपपत्तिरूपेण भवनस्वभावा साध्यस्वभावेनैव क्रमरूपा । यदेव चास्या अनिदन्तानिर्देश्यमपरिनिष्ठितं भवनं साध्यैकरूपं तेनैवैषात्र साध्यबावं च प्रतिपद्यत इति सिद्धातावभासः कुत इति चेत् ? कर्तर्युत्पन्नो लकारस्तां सिद्धत्वेनावभासयति । यथा चोरस्य रुजतीति । धात्वर्थ एव रोगलक्षणः, कत्र्रन्तराश्रवणात् साध्यरूपेणैव कर्तृभावमनुभवत्सिद्धतयावभासते । 8.68. यदि वा पदस्य न पदरपमेवाधिकार्थता किन्तर्हि वाक्यरूपात् ? तद्यथा---पुरुष #िति पदकाले पुरुषो व्यतिरिक्ता उच्यते । यदा तु राज्ञः पुरुष इति विशेषणसन्निधियोग्यस्तदाषस्य व्यतिरेको भवति, पुरुषविशेषोऽयं राजपुरुष इति। एवं पचतीति नैतस्मात्पदरूपादेवाधिकार्थत्वम् । यदा तु भवतीति पदान्तरसन्निधिः तदा वाक्यकाले पुरुषस्येव व्यतिरेक उपजायत इति । यदि वा न कदाचिदपरा तदतिरेकिणी भवनक्रिया, कश्चिदपरो वा कर्ता विरोधहेतुरस्ति । अपितु सैव व्यपदेशिवद्भावन्यायेन क्रियारूपतां भवितृत्वं च दर्शयन्ती चकास्ति । 8.69. अपि चैकस्याप्यर्थस्य विषयभेदेन द्विधर्मत्वं दृश्यते. यथा---राज्ञः पुरुषस्य पुत्र इति पुरुषः, शेषी च भवति शेषश्चेति राजानं प्रतिशेषी । अविचलितस्वार्थपुत्रार्थान्तरं विचलितस्वार्थः शेषत्वमापद्यते । एवं भवति पचतीत्यत्र भवतोऽकर्तृत्वं साध्यत्वं च भव#िष्यति । पश्य मृगो धावतीत्यत्र च मृगो कर्तरि साध्यभावं प्राधान्यं चाजहत्सरणं दृशावङ्गत्वं साधनत्वं च गमिष्यतीति । 8.70. अतवायमर्थः साधनमयं साध्यमिति पुसिद्धमात्रमेतत् । यथा पदे अयं प्रकृत्यर्थोऽयं प्रत्ययार्थ इति एक एवासावर्थो विशेष्टो वा खण्डड्डत्ध्; एव प्रतीयते । यथा मुण्डड्डत्ध्;यति चर्चयतीति । अत्र मुण्डड्डत्ध्;यति माणवकमिति मिण्डिड्डत्ध्;ः केशच्छेदनवचनः । अस्य तु व्युत्पत्तिः मुण्डंड्डत्ध्; करोतीत#ि । करोतिं सामान्यप्रवृत्तं विशेषे मुण्डड्डत्ध्;शब्दोऽवस्थापयति । करोतिविशेषोऽयं यस्मिण्णिजित्पद्यते न करोतिमात्रम् । एवं चर्चां करोति चर्चयतीति । अतः केचिन्मुण्डिड्डत्ध्;चर्चादींश्चिरादिषु पठन्ति मिण्डड्डत्ध्;केशखण्डड्डत्ध्;नेषु मुण्डड्डत्ध्;यति चर्चयतीति । एवं पश्य मृगो धावतीति । इदमत्र साधनपदमिदं साध्यमित्युत्प्रेक्षैषा । इदं त्वर्थसतत्वम्। नात्र सरणं, न दर्शनं, न मृगः । किन्तर्हि मृगकर्तृको दृशिकर्मा सरणविशेषोऽयं खण्डड्डत्ध्;ो वाक्यार्थं इति । 8.71. एतेन पुत्रमिच्छति पुत्रीयतीत्यीदयोऽपि व्याख्याताः । व्यपेक्षावतां समर्थानामन्वितार्थानां च पदार्थानां तिलतण्डुड्डत्ध्;लवत् क्षीरनीरवत् पांससूकवञ्च यदविभागरूपेण भवनं स एकार्थीभावः । लक्षणं चैतत्समस्तं व्यस्तं च । तेन सापेक्षासमर्थसमासदीनामुपसङ्ग्रहः । क#ः पुरनस्य व्यपेक्षातो भेदः ? उच्यते, व्यपेक्षायां सङ्ख्याविशेषे व्यक्ताभिधानमुपसर्जनविशेषणं चयोगः क्रमानियमो व्यवधानं यथेष्टमन्यमेकवद्भावः एकशेषः । अनेकविधानामैक्यमेकविधानं चानैक्यमिति । तद्याथा व्यपेक्षायां सङ्ख्यविशेषः राज्ञः पुरुषः, राज्ञो पुरुषः, र#ाज्ञां वा पुरुषः । एकार्थीभावे तु तदभावो राजपुरुषः । व्यपेक्षायां व्यक्तिभिधानं राज्ञः पुरुषः ; एकार्थीभावे तु राजपुरुष इत्यत्र लोण्मध्यमपुरुषैकवचनं विभक्तिलोपोवेति नाभिधानव्यक्तिः व्यपेक्षायामुपसर्जनस्य विशेषणं, ऋद्धस्य राज्ञः पुरुषः । एकार्थीभावे तदभ#ावः, राजपुरुषः । व्यपेक्षायां च योगः, राज्ञः पुरुषो ब्राह्मणस्य च । एकार्थीभावे तु राजपुरुषः, व्यपेक्षायां क्रमानियमो राज्ञः पुरुषः पुरुषः राज्ञः । एकार्थीभावे तु राजपुरुषोयमित्येव । व्यपेक्षायां यथेष्टमन्यरेणाभिसम्बन्धः, राज्ञः पुरुषो भार्या वेति । एकार#्थीभावे तु नियमतः पुरुषेणैव सम्बन्धो न भार्यया । व्यपेक्षायां शब्दान्तरप्रयोगो दध्नोपसिक्तं परिग्लानोऽध्ययनाय । एकार्थीभावे तु नैवम्, दध्योदनं पर्यध्ययन इति । एकार्थीभाने ऐकपद्यं यथा---आत्माना तृतीयः कण्ठे काल इति । ऐकशब्धं यथा---पितरौ भ्रातराविति । ऐकस#्वर्यं यथा--चित्रगुः, ब्राह्मणकम्बल इति । एकविभक्तित्वं यथा---नीलोत्पलं, राजपुरिष इति । एकवद्भावो यथा--गवाश्वं, प्लक्षन्यग्रोध इति । एकशेषो यथा---अक्षा वृक्षा इति ।अनेकविधानामैक्यं यथा-- पुत्रमिच्छत्यात्मनः पुत्रीयति, मुण्डंड्डत्ध्; करोति मुण्डड्डत्ध्;यतीति । एकविधानामन#ैक्यं यथा---कंसवधमाचष्टे कंसं घातयति, पुष्यचन्द्रयोगं जानाति पुष्येण चन्द्रं योजयतीति । व्यपेक्षायां तु नैवमिति । 8.72. सोऽयमेकार्थीभावो व्यपेक्षावैलक्षण्येन विप्रथमानस्समानस्समासतद्धिताख्यादिषु त्रिषु त्रिधा विख्यायते, वाक्यतुल्यार्थः वाक्याधिकार्थः वाक्यान्यार्थ इति । वाक्यतुल्यार्थो यथा---वीरः पुरुषो वीरपुरुषः, कष्टं श्रितः कष्टश्रित इति । वाक्याधिकार्थो यथा---गुडेड्डत्ध्;न मिश्रा धानाः गुडड्डत्ध्;धानाः, शङ्कुलयाकृतः खण्डड्डत्ध्;ः शङ्कुलखण्डड्डत्ध्; इति । वाक्यान्यार्थो यथा--- कुशं लातीति कुशलः, प्रकृष्टो प्रवीणः । 8.73. अथायं त्रिप्रकारोऽप्यनेकधा भिद्यते । तद्यथा--नित्यसमासः, नित्यासमासः, असमर्थसमासः, अलुक्समासः, सापेक्षसमासः, निरपेक्षसमासः, पूर्वपदप्रधानः, उत्तरपदप्रधानः, उभयपदप्रधानः, अनयपदप्रधानः, अन्यथोपसर्जनः, तिङ्समासः, प्रातिपदिकसमासः, उपपदसमासः, प्रादिसमासः, नञ्समासः, एकदेशिसमासः, सामानयसमासः, विशेषसमासः, समानाधिकरणः, भिन्नधिकरणः, उपमानसमासः, उपमेयसमास इति । तेषु नित्यसमासो यथा----लोबितशालिः, गौरखरः, उद्दालपुष्पभञ्जिका, दन्तलेखक इति । नित्यासमासो यथा----अकिञ्चित्कुर्वाणः, अमाषं हरमाण-, अगाधमुत्सृप्ताः, छात्राणां पञ्चम् इति । असमर्थसमासो यथा----असूर्यंपश्या राजदाराः, अपुनर्गेयाः श्लोकाः, अश्राद्धभोजी ब्राह्मणः, अलवणभोजी भिक्षुरिति । अलुक्समासो यथा----स्तोकान्मुक्तः, आत्मना तृतीयः, पश्यतो हरः, कण्ठे काल इति । सापेक्षसमासो यथा---- यज्ञदत्तस्य भ्रातृभार्या, विष्णुमित्रस्य गुरुकुलम्, चूतस्य फलरसः, प्रियायाः स्तस्पर्श इति । निरपेक्षसमासो यथा---- वर्षशतमायुरस्य शतायुः, शाकप्रधानः पार्थिवः शाकपार्थिवः, अश्वयुक्तो रथोऽश्वरथः, अश्रेणयः श्रेणयः कृताः श्रेणीकृता इति । पूर्वपदप्रधानो यथा---- उपकुम्भम्, निर्मक्षिकम्, बहिग्र्रामम्, पारोगङ्गमिति । उत्तरपदप्रधानो यथा---- आरूढवानरो वृक्षः, ऊढरथोऽनङ्वान्, तित्रगुर्देवदत्तः, मत्तमातङ्गं वनमिति । अन्यथाप्रधानो यथा---- उन्मत्तगङ्गं प्चकपालः, द्वित्राः, कृष्णशार इति । अन्यथोपसर्जनो यथा---- शाकप्रति, प्राप्तजीविकः, गोगर्भिणी, अग्निस्तोक इति । तिङ्समासो यथा---- अस्तिक्षीरा, एहिवाणिजा, अश्नीतपिबता, सवादतमोदतेति । प्रातिपदिकसमासो यथा---- दधसेक्, चर्मक्रीति । उपपदसमासो यथा---- कुम्भकारः, पङ्कजम्, उष्ट्रक्रोशी, सहयुद्ध्वेति । प्रादिसमासो यथा---- निष्कौशाम्बिः, उत्पश्यः, दुरासदः, सुप्रबोध इति । नञ्समासो यथा---- अब्राह्मणः, अनेकः, अभार्यः, अपचसीति । एकदेशिसमासो यथा---- चन्द्र इव मुखमस्याश्चन्द्रमुखी, मृगीव चपला मृगचपला, शस्त्रीव श्यामा शस्त्रश्यामा, अनन्येन सदृशी अनन्यसदृशी । उपमेयसमासो यथा---- व्यघ्र इव पुरुषः पुरुषव्यघ्रः, करीव कलभः करिकलभः, शार्दूल इव राजा राजशार्दूलः, चन्द्र इव मुखं मुखचन्द्र इति । 8.74. किं पुनरुपमानं किंवोपमेयं किं यदेवोपमानं तदेवापमेयं, आहोस्विदन्यदुपमानमन्यदुपमेयम् ? किञ्चातः यदि यदेवोपमानं, तदेवोपमेयम्, उपमार्थो न घटते । न हि भवति गौरिव गौः, अन्यदुपमानमन्यदुपमेयं तथाप्युपमार्थो न धटते । नहि भवति गौरिवाश्वा इति, एवं तर्हियत्र किञ्चित्सामान्यं कश्चिञ्च विशेषः तत्रोपमानोपमेये भवतः । किं वक्तव्यमेतत् । नहि कथमप्यनुक्तं गम्यते ? मानं हि नामानिज्र्ञातज्ञानार्थमुपादीयते । यथा प्रस्थादिमानमनिज्र्ञातस्य धान्यादेर्मेयस्यात्यन्तावच्छेदायोपादीयते तत्समीपेऽयं नात्यन्ताय मिमीते तद#ुपमानं ; यथा गौरिव गवयः । गौरस्य निज्र्ञातः तर्हि यस्य गवयो निज्र्ञातः स्यात् गौरनिज्र्ञातः कर्तव्यः, तेन गवय इव गौरिति । बाढं कर्तव्यं, यथा भेदसादृस्याध्यासितमूर्तयः पदार्थाः परस्परमनिमेनोपमानोपमेयभावमधिगच्छन्ति । यथा चन्द्र इव मुखं कामिन्यां. मुखमिवचन्द्रो यामिन्यां, यत्र पुनर्भेदसादृश्याध्यासितमूर्तित्वं न, तत्रोपमानोपमेयभावोऽपि न । यथा गौरिव गौः, गौरिवाश्व इति । 8.75. ननु य एते भेदसादृश्याध्यासिताः पदार्थस्ते नान्तरेण देशकालक्रियादिसम्पादितं विरोधं भवितुमर्हन्तीति सामानाधिकरण्यानुपपत्तिः । नैवम् ; यद्यप्युपमानमुपमेयं च परमार्थतो भिन्नं तथाप्युपमानशब्दा गौणीं वृत्तिमाश्रित्योपमेये वर्तमानास्तयोर्भेदं तिरोदधति । 8.76. तथा हि ; यदा व्याघ्रादयः शौर्याद्यतिशयनिबन्धनमुपमानोपमेयसम्बन्धमनुभूय ततः उपमानोपमेयसम्बन्धाद्यारोपिता भेदा उपमेये वर्तन्ते व्याघ्रसदृशोऽयं व्याघ्र इति, तदा पुरुषादिश्रितिभिरभिन्नाधिकरणाः समस्यन्त इति किं पुनरुपमानोपमेयप्रतिपत्तिनिबन्धनेभ्य एव शब्देभ्यः सादृश्यप्रतिपत्तिः ? उत तेभ्यश्चान्येब्यश्चेति । 8.77. किञ्चातो यदि तेभ्य एव पुरुषं व्याघ्रं च वीक्षस्वेत्यत्रापि स्यात् । इव प्रयोगवैयथ्र्यं च । अथ द्वितीयः पक्षः पुरुषो व्याघ्र इवेत्येव स्यात्, न पुरुषव्यघ्र इति । यथेच्छसि तथास्तु । 8.78. अस्तु तावत्प्रथमः पक्षः । ननु चोक्तं पुरुषं व्याघ्रं च वीक्षस्वेत्यत्रापि सादृश्यप्रतिपत्तिः स्यात् । इह हि पुरुषव्याघ्रयोर्वीक्षमक्रियासमवेशमात्रं विवक्षितम् । न सादृशम् । ननु विवक्षातोऽपि सादृश्यप्रतिपत्ताविवादशब्दोपादानमनर्थकम् । यत्र मुख्यवृत्तिव्यतिक्रमेण गौणीं वृत्तिमाश्रित्योपमानशब्दा उपमेयविशेषेषु प्रयुज्यन्ते तत्रैव इवादिशब्दविकलाः सादृश्यं गमयन्ति । यथा कश्चदव्याघ्रं पुरुषं व्याघ्र इत्याह, तेन मन्यामहे व्याघ्रसदृशोऽयं पुरुष इति । ततश्च व्याघ्रधर्माणां शौर्यबलवत्वादीनां वायघ्रशब्दात्पुरुषे प्रतिपत्तिर्भविष्यति । यदा पुनरुपमानोपमेयशब्दामुख्यार्थप्रतिपत्तये विवक्षितोपमानोपमेयभावेषु वाक्येषु स्वरूपाभेदादशक्ताः सादृश्यमवगमयुतुं, तदाऽपेक्षन्ते द्वितीयमिवादिशब्दप्रयोगमिति किं पुनरिहोदाहरणं शस्त्रीव श्यामा शस्त्रीश्यामेति । 8.79. ननु च चात्र श्यामाशब्दोपात्तस्य धर्मस्योपमानोपमेयोस्तुल्यतावद्योतनायेवशब्दः प्रयुज्यते । व्याघ्र इव पुरुष इत्यत्र तु सामान्यप्रयोगाभावात् कस्य पुरुषव्याघ्रयोस्साधारण्यमिवशब्देनावद्योत्यत इति ? उच्यते, शब्दः क्क्चिदभिधावृत्तया अर्थं बोधयति । यथा गुण्डड्डत्ध्;ाशब्दो गुडड्डत्ध्;द्रव्यं, क्कचिद्गमकवृत्त्या, यथा गुडड्डत्ध्;द्रव्याविनाबाविमाधुर्यं । एवमिह व्याघ्रशब्देन व्याघ्राविनाभाविशैर्यदिकं गमितं तस्य व्याघ्रपुरुषयोस्सादृश्यसिद्ध्यर्थमुभयाधिकरणतावद्योतनमिवेन क्रियत इति । एतेन शस्त्रीश्यमामेत्यपि व्याख्यातम् । अत्राप्यन#ुपात्तमपि देवदत्तेति गम्यते । क्क पुनरयं श्यामाशब्दो वर्तते शस्त्र्यामित्याह । केन तर्हीदानीं देवत्ततो गम्यते ? समासेन । यदाह--- उपमानानि सामान्यवचनैः समस्यन्ते सामानत्वं च साधारण्ये सति स्यात् । तत्तु देवदत्तमन्तरेण नोपपद्यत इति । यद्येवं शस्त्रीश्यामो देवदत्त इति न सिद्धाति । उपसर्जनस्येति हस्वत्वं भविष्यति यदि तर्हि उपसर्जनान्येवेजातीयकान्यपि भवन्ति। तत्तिरिकल्माषीकुम्भकपाललोहिनीत्यनुपसर्जनलक्षमईकारो न प्राप्नोति । एवं तर्हि शस्त्र्यामेव शस्त्रीशब्दो वर्तते । श्यामाशब्दस्तु देवदत्तायाम् । एवमपि ग#ुणो निर्दिष्टो भवति । बहवश्च शस्त्र्यां गुणाः सूक्ष्मा श्लाक्ष्णा तीक्ष्णा पृथुः श्यामेति । अनिर्दिश्यमानस्यापि गुणस्य भवति लोके सम्प्रत्ययः । तद्यथा---चन्द्रमुखी देवदत्तेति । बहवश्चन्द्रे गुणाः, या चासौ प्रियदर्शनता सा गम्यते । यथा च व्याघ्रोऽयं पुरुषइति बहुष्वपि व्याघ्रगुणेषु शौर्यं बलवत्ता वा प्रतीयत इति । एवमपि समानाधिकरणेनेति वर्तते । व्यधिकरणत्वात्समासो न प्राप्नोति । किं हि वचनान्न भवति । यद्यपि तावद्वचनात्समासः स्यात् । मृगीव चपला मृगचपलेति समानाधिकरणलक्षणः पुंवद्भावो न प्राप्नोति । एवं तर्हितस्यामेवोभयं वर्तते । एतञ्चात्र युक्तं यत्तस्यामेवोभयं वर्तते, इतरथा हि बढद्धठ्ठड़14;वपेक्ष्यं स्यात् । यदा तावदेवं विग्रहः क्रियते तदा शस्त्रीश्यामा, एवं देवदत्तेति तदा श्यामेति शस्त्रापेक्ष्यं स्यात् । यदा शस्त्रीश्यमा चासौ श्यामा च शस्त्रीश्यामेति तदा न किञ्चिदपेक्ष्यते, सामानाधिकरण्यं च भवति । 8.80. नन्वेवं सति शस्त्रीशब्दस्य देवदत्तायां प्रवृत्तिनिमित्तमनिर्दिहं भवति प्रतीयमानं भविष्यतीति चेत् किं तदिति पृच्छामि । यदि श्यामत्वमेव ? श्यामेति शब्दस्योक्तार्थत्वादप्रयोगः प्राप्नोति । नहि गुणवृत्त्या प्रतिपादितेषु गुणेषु तदभिधानाय गुणवचनः प्रयुज्यते, न हि भवति पुरुषोऽयं व्याध्रशूर इति । 8.81. अथानभिहितं तैक्ष्ण्यादिकमुपादाय शस्त्रीशब्दो देवदत्तायां वर्तते तर्हि तीक्ष्णश्यमगुणवचनयोः खञ्जकूणवत्समासे उपमानानि सामान्यवचनैरिति विरुध्यते, श्यामशस्त्रीति प्रयोगः प्राप्नोति । 8.82. ननु पक्षत्रयेऽपि देषदर्शानात् पक्षान्तराभावाञ्च किन्नु भवितव्यमेवोपमानसमासेन भवितव्यम् । किन्तु पूर्वोतत्रपक्षौ व्युदस्य मध्यमे पक्षे शस्त्रीव श्यामा देवदत्तेत्यवैयधिकरण्येऽपि वचनसामथ्र्यात् । 8.83. ननूक्तं तत्र मृगचपलेति समानाधिकरणलक्षणः पुंवद्भोवो न प्राप्नोति । नैवम् । नेह पूर्वपदं शस्त्रीत्वेन विवक्षितमपि तु मृगत्वजातिमात्रेण यथा मृगक्षीरं कुक्कुटाण्डड्डत्ध्;मिति । उपमानसमासे गुणवचनस्य विशेषभावत्वात् सामान्यवचनत्वाप्रसिद्धिः । यतः श्यामाशब्दोऽय#ं सादृश्यसिद्धये शस्त्रीशब्देनाभिसम्बध्यमानो विशेषवचनः सम्बध्यते । तेनैवं श्यामत्वस्य उभयत्र भावात्तद्वाचकत्वाञ्च शब्दसामान्यवचनत्वप्रसिद्धेः । न चावश्यं स एव सामान्यवचनः । यो बहूनां सामान्यमाह, दव्योरपि यः सामान्यमाह, सोऽपि सामान्यवचनः । 8.84. अथवा सामान्यवतनैरित्येतेन स्रवश्च शब्दोऽन्येनाभिसम्बध्यमानो विशेषवचनः सम्पद्यते । तत एवं विज्ञास्यामः प्रागभिसम्बन्धाद्यः सामान्यवचन इति । 8.85. नन्वेवं सत्युपमितं व्याघ्रादिभिरित्यत्र सामान्याप्रयोगग्रहणमतिरिच्यते । व्याघ्रादयोऽपि भेदोपनिबन्धनस्येवादेः प्रयोगे यदोपमान एव वर्तन्ते तदा सामान्यप्रयोगमपेक्षन्ते पुरुषोऽयं व्याघ्र इव शूरः सिंह इव बलिवानिति । अभेदोपक्रमे चाभिधाने सम्बन्धनिमित्तस्योपमानशब्दैरेव अनतर्भावितत्वादप्रयोगः सामान्यशब्दस्येति । अप्रयोगेऽपि च सामान्यधर्मावसायश#्चन्द्रमुखवद्भविष्यति । तदुक्तं, सिंहो व्याघ्र इति पूजायां, स्वा काका इति कुत्सायामिति ; नैवम्, यद्यन्तर्भीतोपमानकुत्सार्थे सम्बन्धप्रतिपदो व्याघ्रदिशब्दैरूपमेयं पुरुषादिपूजार्थं वाबिधीयते । तथापि तन्निमित्तस्यानेकत्वानियमाय निमित्ततृतीयान्तशौर्यादिपदप#्रयोगे न विरिध्यते । पुरुषोऽयं व्याघ्रः शौर्येणेति भिन्ने हि वस्तुन्यभेदोपचारः सारूप्यमात्रं गमयेन्न तस्यात्मातिशयं ; यथा हि सुमनायते दुर्मनायते अभिमनायत इति सुदुरभीनां भवत्यर्थविशेषणपक्षे प्रत्ययेनोपात्तार्थानामपि प्रत्ययस्य रूपाभेदादनवसीयमानविभागमुपसर्गारिथमवच्छेत्तुं प्रयोगः । कथं पुरुषव्याघ्रादौ तस्याः पूजाया निमित्तभेदसम्भवे नियमाय सदृशभागोपनिपाती शब्दः प्रयुज्यत इति । एवमयमेकार्थीभावस्तद्धिताख्यातयोरपि अनन्तप्रकारएव एव द्रष्टव्यः । तत्र तद्धिते सामान्येन त्रिधा, सम्बन्धविषयः, कारकविषयः, स्वार्थविषयश्च । तेषु सम्बन्धो द्विधा, प्रधानमप्रधानं च । प्रधानं यथा--- गावोऽस्य सन्ति, सलातुरोऽस्याभिजनः सालातुरीय इति । अप्रधानं यथा--विषेण वध्यो विषयः शत्रुः, पदमस्मिन् दृश्यं पद्यः कर्दम इति । अप्रधानं यथा--व्याकरणं वेत्ति अधीते वा वैयकरणः, अक्षैर्दीव्यत्याक्षिक इति । स्वार्थो द्विधा--मुख्य उपचरितश्च । मुख्यो यथा--यव एव यावकः, मणिरेव माणिक इति । उपचरितो यथा--- रुशाग्रीया बुद्धिः, काकातालीयमिव काकतालीयो न्याय इति । आख्यातेऽपि त्रिधा, कारकेण, सम्बन्धिना, प्रादिभिश्च । कारकेण यथा ---अभृशो भृशो भवति भृशायते., शब्दं करोति शब्दायते, हस्तिना अतिक्रामति अतिहस्तयति, कष्टय कर्मणे क्रामति कष्टायते, पाशान्विमोचयति विपाशयति, प्रासाद इवाचरति प्रासादीयतीति । सम्बन्धिना यथा----व्याकरणस्य सूत्रं करोति व्याकरणं सूत्रयति, कंसस्य वधमाचष्टे कंसं धातयति, आरात्रेर्विवासमास#्ते रातिं्र विवासयति, पुष्येण चन्द्रस्य योगं जानाति पुष्येण चन्द्रं योजयति, माहष्मत्यां सूर्योद्गमं प्राप्नोति माहष्मत्यां सूर्यमुद्गमयति, कालस्य गमनमुपविष्टः प्रतिपालयति कालं गमयतीति । 8.86. प्रादयः पुनः षोढा ---- वाचकाः, द्योतकाः, सहाभिधायकाः, विशेषकाः, निर्थकाश्चेति । ते च क्रियायैन सम्बध्यमानाः क्रियाप्रधानत्वादाख्यातस्य तद्व्यपदेशभाजो भवन्ति । तत्रोपसर्गाणां वाचकत्वं यथा--- प्रादयोः गताद्यर्थे प्रथमया, प्राचार्यः, प्रान्तेवासीति। अत्यदयः क्रान्ताद्यर्थे द्वितीयाया, अतिखट्वः, अतमाल इति । अवादयः क्रुष्टाद्यर्थे तृतीयया, अवकोकिलम्, अवमयूरमिति । पर्यादयो ग्लानाद्यर्थे चतुथ्र्या, पर्यध्ययनवः, परिप्रवचन इति । निरादयः क्रान्ताद्यर्थे पञ्चम्या, निर्वाराणसी, निष्कौशाम्बिरिति । एवं प्रपतितः पर्णः प्रपर्णः, प्राचीनपलाशः, सङ्गता आपोऽस्मिन्निति समापम्, सङ्गतमक्षेण समक्षमिति । 8.87. धातुलीस्यैवार्थविशेषस्य प्रकाशक्तत्वं द्योकत्वम् । द्योत्यश्च तदन्यः । तत्सदृशस्तद्विरुद्धस्तभावस्तदुत्कर्षस्तदपतकर्ष इति षडड्डत्ध्;र्था भवन्तीति । तेषु तदन्यो यथा---पतीक्षते, उपक्रमत इति । तत्सदृशो यथा ---संवदति, अनुकरोति । तद्विरूद्धो यथा -- प्रतिष्ठते, उन्मज्जतीति । तदभावो यथा ----वियुज्यन्ते, प्रस्मपतीति । तदुत्कर्षो यथा ---प्रगल्भते, अतिक्रामतीति । तदपकर्षो यथा --- विहसति, प्राश्नातीति । अत्र च योऽसौ क्रियात्मभूतो धर्मः कालहरणादिसस्तद्धात्वभिहितमेवासत्त्वभूतमनभिदधत् प्रादिरवद्योतयति । यथाऽक्षिनिकोचादयोऽनाभिदधत एवार्थान् प्रदर्शन्ति, एवं क्रियास्थान् प्रारम्भादीनब्रुवन्त एव प्रादयोऽवद्योतयन्ति । धोतोरेकाकिनः क्रियाविशेषाभिधानासामथ्र्ये सहकारिभावः सहाभिधायकत्वं तत्रान्तरङ्गो बाह्यःअव्यभिचारी व्यभिचारी व्यवहितः सविशेषश्च सहाभिधायको भवति । तेष्वन्तरङ्गो यथा--- सङ्ग्रामयते, असङ्ग्रमयत । बाह्यो यता---अनुरुध्यते, अन्वरुध्यत । अव्यबिचारी यथा--- अधीते, अध्येति । व्यभिचारी यथा-- आचामति, संधुक्षयति । व्यवहितो यथा--- पुच्छमुदस्यत्युत्पुच्छयते । सविशेषो यथा--- सेनाया अभियाति अभिषेणयति, वीणयोपगायति उपव#ीणयति । सहार्थाभिधाने तूपसर्गयोर्भेदप्रतिपत्तिः कथम् ? यद्यपि धातुरुपसर्गं न व्यभिचरति व्यभिचरत्येवोपसर्गो धातुम् । अतः सक्यतेऽन्वयव्यतिरेकाभ्यां भेदः कल्पयुतुम् ष। यावावनयं समादिरुपसर्गोऽन्यत्र दृष्टः इहापि तावानेव भवितुर्भवतीति । सजातीयेभ्यश्चावच्छ#ेदको विशेषकः । स षोढा, प्रकृत्यर्थविशेषकः, प्रत्ययार्थविशेषकः, उबयविशेषकः, उभयार्थविशेषकश्च । तेषु प्रकृतिविशेषको यथा-- विजयते, पराजयते । प्रकृत्यर्थविशेषको यथा-- सङ्क्रीडड्डत्ध्;ति, सङ्क्रीडड्डत्ध्;ते । प्रत्ययविशेषको यथा--- विशालं विशङ्कटम् । प्रत्ययार्थविशेषको यथा-- अभिमनायते, दुर्मनायते । उभयविशेषको यथा--- उपतुष्ठति, उपतुष्ठते । अत्र च प्रादिः प्रकर्षादिकर्थं ब्रवाणः क्रियां सामान्येनोपगृढद्धठ्ठड़14;णाति । न क्रियासामान्यविशेषयोरात्मानं नियमयति । परस्परोपश्लेषे तु तयोर्विशेषणविशेष्यभावो नीलोत्पलादिवद्भवति । कार्यार्थत्वं यथा --- प्रयुङ्क्ते, पराकरोति, अभिषुणोति, प्रणमति, वित्तं, समीपमिति । आत्मनेपदं, परस्मैपदं, षत्वं, णत्वं, तत्वं, ईत्वं, च कार्याण्युपसर्गे भवन्ति । निरर्थकत्वं यथा-- निढद्धठ्ठड़14;नुते, निरव्जन्ति, प्रलम्बते, संश्रयतीति । अत्र पदोपचयमात्र#े प्रादिः प्रयुक्तः इति निरर्थकत्वम् । आहुश्च --- स वाचतको विशेषाणां स भवेद्द्योतकोऽपि ना । शक्त्याधानाय धातोर्वा सहकारी प्रयुज्यते ।। क्रियाविशेषको वा स्यात्काव्यार्थं वोपदिश्यते । पदोपचयमात्रेवाऽनर्थकः प्रादीरिष्यते ।। इति। एवमयमनेकरूपः पदैकार्थीभावः । एवं वाक्यर्थीभावोऽपि तत्राख्यातं साव्यायकारकविशेषणं वाक्यं एकतिङ्वाक्यमित्यादयो विकल्पाः । तत्र चैकवाक्यस्थात् पदादुत्तरयोस्तिङामन्त्रितपदयोर्निघातः । युष्मस्मदोर्वान्नवादय आदेशाः । वाक्यास्य टेः प्लुत उदात्त इति तु व#ाक्याचामान्त्यस्य प्लुत इत्यादीनि प्रयोजनान्यभिधीयन्ते । क्रियाकारकान्ययविशेषणपदार्थानां च परस्पकमुपकार्योपकारकभानेनावस्थितानां भावना विधिः प्रतिभा वेति वाक्यार्थाः प्रथते । एवं वाक्यानामपि परस्परमुपमानोपमेयभावादिभिरिवादिशब्दप्रयोगे मुक्तकादिष्वेकार्थीभावो भवति । एतेनैकक्रियाकारकाभिनिवेशिनोर्युगगलसन्दानितककालापककुलकादयो वाक्यविशेषा व्याख्याताः । तत्र द्वाभ्यां चतुश्पदीभ्यां युगलकम्, तिसृभिः सन्दानितकम्, चतुर्भिः, कीलापकं, पञ्चादिभिः कुलकमिति संज्ञा विधीयते । 8.88. एतेनैकप्रगॉघट्टकोपनिबन्धानां सुभाषितानां समूहः सङ्घातः । अनेकप्रधट्टकोपनिबद्धानां तु कोश इत्यपि व्याक्यातम् । नागरर्तीद्यानचन्द्रार्कोदयार्णववर्णनादयस्तु सङ्घातरूपा एव प्रबन्धान्तः पातिनो वाक्यसमूहाः प्रकरणव्यपदेशभाजौऽवान्तरवाक्यातां लभन्ते । तदर्थाश्चैकार्थीभावमनुभवन्ति । 8.89. यस्तु तैरूपक्रियामाणो महावाक्यार्थः सर्गबन्धादावख्यायिकादौ मुखप्रतिमुखगर्भविमर्शनिर्वहणाख्यैः पञ्चसन्धिभिरुपक्षेपपरिकरादिभिश्चतुष्षष्ठिसन्ध्यङ्गैरङ्गषोडड्डत्ध्;शकरूपभारत्यादिरूपवृत्तिचतुष्टयेन च यतोयोगमुपकृतः कृतान्योन्यविशेषणविशेष्यभावः सुभद्राहरमं जानक#ीरहममित्यादिना महावाक्यार्थरूपेण प्रथते स प्रबन्धैकार्थीभावोऽपरि इत्याख्यायते । 8.90. यस्तु तद्रूपरामायणादिप्रबन्धार्थानामवधारणेनोपहितसंस्कारस्य रामवद्वर्तितव्यं न रावणादिवदित्यादिविधिनिषेधप्रतिभाविशेष उपजायते, स समस्तविश्वव्यापी चतुर्वर्गैकहेतुः परो महावाक्यैकार्थोऽर्थमूत्र्य विपरिणतमनादिनिधनमखण्डंड्डत्ध्; शब्दब्रह्मेत्युच्यते । अखण्डड्डत्ध्;ः सैष वाक्यार्थः शब्दब्राह्मेति गीयते । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ।। इदमाद्यं पदस्थाने सिद्धिसोपानपर्वणाम् । इयं सा मोक्ष्यमाणानामजिह्मा राजपद्धतिः ।। उक्ताश्चतस्त्रो पुनश्चतस्त्रः शब्दार्थसम्बन्धभिदाः क्रमेण । यतस्त्र एवाथ वचोविशेषे निषेदुषीस्ताः परिकीर्तयामः ।। इति महाराजधिराः श्री भोजदेवविरचिते श्रृङ्गारप्रकाशे सोपेक्षशब्दशक्तिप्रकाशो नाम अष्टमप्रकाशः