शृङ्गारतिलकः

विकिस्रोतः तः
Jump to navigation Jump to search
शृङ्गारतिलकः
रुद्रभट्टः

रुद्रभट्टविरचितः शृङ्गारतिलकः


प्रथमपरिच्छेदः[सम्पाद्यताम्]


शृङ्गारी गिरिजानने सकरुणो रत्यां प्रवीरः स्मरे
बीभत्सोऽस्थिभिरुत्फणी च भयकृन्मूर्त्याद्भुतस्तुङ्गया ।
रौद्रो दक्षविमर्दने च हसकृन्नग्नः प्रशान्तश्चिराद्
इत्थं सर्वरसाश्रयः पशुपतिर्भूयात्सतां भूतये ॥ १.१ ॥

आख्यातनामरचनाचतुरस्रसन्धि
सद्वागलङ्कृतिगुणं सरसं सुवृत्तम् ।
आसेदुषामपि दिवं कविपुङ्गवानां
तिष्ठत्यखण्डमिह काव्यमयं शरीरम् ॥ १.२ ॥

काव्ये शुभेऽपि रचिते खलु नो खलेभ्यः
कश्चिद्गुणो भवति यद्यपि सम्प्रतीह ।
कृपां तथापि सुजनार्थमिदं यतः किं
यूकाभयेन परिधानविमोक्षणं स्यात् ॥ १.३ ॥

सानन्दप्रमदाकटाक्षविशिखैर्येषां न भिन्नं मनो
यैः संसारसमुद्रपातविधुरेष्वन्येषु पोतयितम् ।
यैर्निःसीमसरस्वतीविलसितं द्वित्रैः पदैः संहृतं
तेषामप्युपरि स्फुरन्ति मतयः कस्यापि पुण्यात्मनः ॥ १.४ ॥

प्रायो नाट्यं प्रति प्रोक्ता भरताद्यै रसस्थितिः ।
यथामति मयाप्येषा काव्यं प्रति निगद्यते ॥ १.५ ॥

यामिनीवेन्दुना मुक्ता नारीव रमणं विना ।
लक्ष्मीरिव ऋते त्यागान्नो वाणी भाति नीरसा ॥ १.६ ॥

सत्यं सन्ति गृहे गृहे सुकवयो येषां वचश्चातुरी
स्वे हर्म्ये कुलकन्यकेव लभते जातैर्गुणैर्गौरवम् ।
दुष्प्रापः स तु कोऽपि कोविदपतिर्यद्वाग्रसग्राहिणां
पुण्यस्त्रीव कलाकलापकुशला चेतांसि हर्तुं क्षमा ॥ १.७ ॥

तस्माद्यत्नेन कर्तव्यं काव्यं रसनिरन्तरम् ।
अन्यथा शास्त्रविद्गोष्ठ्यां तत्स्यादुद्वेगदायकम् ॥ १.८ ॥
शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः ।
बीभत्साद्भुतशान्ताश्च नव काव्ये रसाः स्मृताः ॥ १.९ ॥
रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्साविस्मयशमाः स्थायिभावाः प्रकीर्तिताः ॥ १.१० ॥
निर्वेदोऽथ तथा ग्लानिः शङ्कासूया मदः श्रमः ।
आलस्यं चैव दैन्यं च चिन्ता मोहो धृतिः स्मृतिः ॥ १.११ ॥
व्रीडा चपलता हर्ष आवेगो जडता तथा ।
गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ १.१२ ॥
सुप्तं प्रबोधोऽमर्षश्चाप्यवहित्था तथोग्रता ।
मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ १.१३ ॥
त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः ।
त्रयस्त्रिंशदिमे भावाः प्रयान्ति च रसस्थितिम् ॥ १.१४ ॥
स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः ।
वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥ १.१५ ॥
भावा एवातिसम्पन्नाः प्रयान्ति रसताममी ।
यथा द्रव्याणि भिन्नानि मधुरादिरसात्मनाम् ॥ १.१६ ॥
सम्भवन्ति यथा वृक्षे पुष्पपत्रफलादयः ।
तद्वद्रसेऽपि रुचिरा विशेषा भावरूपिणः ॥ १.१७ ॥
प्रायो नैकरसं काव्यं किञ्चिदत्रोपलभ्यते ।
बाहुल्येन भवेद्यस्तु स तद्वृत्त्या निगद्यते ॥ १.१८ ॥
कैशिक्यारभटी चैव सात्वती भारती तथा ।
चतस्रो वृत्तयो ज्ञेया रसावस्थानसूचकाः ॥ १.१९ ॥
धर्मादर्थोऽर्थतः कामः कामात्सुखफलोदयः ।
साधीयानेष तत्सिद्ध्यै शृङ्गारो नायको रसः ॥ १.२० ॥
चेष्टा भवति पुंनार्योर्या रत्युत्थातिरिक्तयोः ।
संयोगो विप्रलम्भश्च शृङ्गारो द्विविधो मतः ॥ १.२१ ॥
संयुक्त्योश्च संयोगो विप्रलम्भो वियुक्तयोः ।
प्रच्छन्नश्च प्रकाशश्च पुनरेष द्विधा यथा ॥ १.२२ ॥

मदनकुञ्जरकुम्भतटोपमे
स्तनयुगे परितः स्फुरिताङ्गुलिम् ।
सकरजक्षतवाममपि प्रिया
दयितपाणिममन्यत दक्षिणम् ॥ १.२२ ॥

सन्तप्तः स्म्रसंनिवेशविवशैः श्वासैर्मुहुः पञ्चमो
द्गारावर्तिभिरापतद्भिरभितः सिक्तश्च नेत्राम्बुभिः ।
एतस्याः प्रियविप्रयोगविधुरस्त्यक्त्वाधरो रागितां
सम्प्रत्युद्धतवह्निवारिविषमं मन्ये व्रतं सेवते ॥ १.२२ ॥

कान्ते विचित्रसुरतक्रमबद्धरागे
सङ्केतकेऽपि मृगशावकलोचनायाः ।
तत्कूजितं किमपि येन तदीयतल्पं
नाल्पैः परीतमनुशब्दितलावकौघैः ॥ १.२२ ॥ (स्क्म् १११६)

किञ्चिद्वक्रितकण्ठकन्दलदलत्पीनस्तनावर्तन
व्यायां चितकञ्चुकं मृगदृशस्तस्यास्तदालोकितम् ।
वाचस्ताश्च विदग्धभावचतुराः स्फारीभवन्मन्मथा
हंहो मानस किं स्मरस्यभिमताः सिद्ध्यन्ति पुण्यैः क्रियाः ॥ १.२२ ॥

त्यागी कुलीनः कुशलो रतेषु
कल्पः कलावित्तरुणो धनाढ्यः ।
भव्यः क्षमावान् सुभगोऽभिमानी
स्त्रीणामभीष्टस्त्विह नायकः स्यात् ॥ १.२३ ॥
तस्यानुकूलदक्षिणशठधृष्टा इत्थमत्र चत्वारः ।
भेदाः क्रिययोच्यन्ते तदुदाहृतयश्रमणीयाः ॥ १.२४ ॥
अतिरक्ततया नार्या सदा त्यक्तपराङ्गनः ।
सीतायां रामवत्सोऽयमनुकूलः स्मृतो यथा ॥ १.२५ ॥

अस्माकं सखि वाससी न रुचिरे ग्रैवेयकं नोज्ज्वलं
नो वक्त्रा गतिरुद्धतं न हसितं नैवास्ति कश्चिन्मदः ।
किं त्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो नान्यतो
दृष्टिं निःक्षिपतीति विश्वमियता मन्यामहे दुःखितम् ॥ १.२५ ॥

यो गौरवं भयं प्रेम सद्भावं पूर्वयोषिति ।
न मुञ्चत्यन्यचित्तोऽपि ज्ञेयोऽसौ दक्षिणो यथा ॥ १.२६ ॥

सैवास्य प्रणतिस्तदेव वचनं ता एव केलिक्रिया
भीतिः सैव तदेव नर्ममधुरं पूर्वानुरागोचितम् ।
कान्तस्याप्रियकारिणीति भवती तं वक्ति दोषाबिलं
किं स्यादित्थमहर्निशं सखि मनो दोलायते चिन्तया ॥ १.२६ ॥

प्रियं वक्ति पुरोऽन्यत्र विप्रियं कुरुते भृशम् ।
ज्ञातापराधचेष्टश्च कुटिलोऽसौ शठो यथा ॥ १.२७ ॥

सहजतरले आवां तावद्बहुश्रुतिशालिनौ
पुनरिह युवां सत्यं शिष्टं तदत्र कृतागसि ।
प्रणयिनि पुनर्युक्तं रन्तुं न वेति बतावयो
र्ध्रुवमुपगते कर्णौ प्रष्टुं कुरङ्गदृशौ दृशौ ॥ १.२७ ॥

अपि च
कोपात्किञ्चिदुपानतोऽपि रभसादाकृष्य केशेष्वलं
नीत्वा मोहनमन्दिरं दयितया हारेण बह्वा दृढम् ।
भूयो यास्यसि तद्गृहानिति मुहुः कण्ठारुद्धाक्षरं
जल्पन्त्या श्रवणोत्पलेन सुकृती कश्चिद्रहस्ताड्यते ॥ १.२७ ॥ (अमरु ९, दश्२.१९)

निःशङ्कः कृतदोषोऽपि विलक्षस्तर्जितोऽपि नो ।
मिथ्यावाग्दृष्टदोषोऽपि धृष्टोऽसौ कथितो यथा ॥ १.२८ ॥

जल्पन्त्याः परुषं रुषा मम बलाच्चुम्बत्यसावाननं
मृद्गात्याशु करं करेण बहुशः सन्ताड्यमानोऽपि सन् ।
आलीनां पुरतो दधाति शिरसा पादप्रहारांस्ततो
नो जाने सखि साम्प्रतं प्रणयिएन् कुप्यामि तस्मै कथम् ॥ १.२८ ॥ (स्क्म् ८८८)

अपि च
धिक्त्वां धूर्त गतत्रप प्रणयिनी सैव त्वयाराध्यतां
यस्याः पादतलाहतिं तव हृदि व्याख्यात्यसौ यावकः ।
इत्युक्तोऽपि न नाम मुञ्चति यदा पादावयं दुर्जनो
मिथ्यावादविचक्षणः किमपरं कुर्यां वयस्ये तदा ॥ १.२८ ॥

गूढमन्त्रः शुचिर्वाग्मी भक्तो नर्मविचक्षणः ।
स्यान्नर्मसचिवस्तस्य कुपितस्स्त्रीप्रसादकः ॥ १.२९ ॥
पीठमर्दो विटश्चेति विदूषक इति त्रिधा ।
स भवेत्प्रथमस्तत्र नायिकानायकानुगः ॥ १.३० ॥
एकविद्यो विटः प्रोक्तः क्रीडाप्रायो विदूषकः ।
स्ववपुर्वेषभाषाभिर्हास्यकारी च नर्मवित् ॥ १.३१ ॥
एषां प्रबन्धविषयो व्यवहारः प्रायशो भवेत्प्रचुरः ।
प्रत्येकमुदाहृतस्तथापि काश्चिन्निगद्यन्ते ॥ १.३२ ॥

विमुञ्चामुं मानं सफलय वचः साधु सुहृदां
मुधा सन्तापेन ग्लपयसि किमङ्गं स्मरभुवा ।
प्रियं पादप्रान्तप्रणतमधुना मानय भृशं
न मुग्धे प्रेत्येतुं प्रभवति गतः कालहरिणः ॥ १.३२ ॥

प्रणयिनि भृशं तस्मिन्मानं मनस्विनि मा कृथाः
किमपरमितो युक्तायुक्तैर्विना ह्यमुना तव ।
अयमपि भवेत्सम्प्रत्यपि क्षयानलसंनिभः
सरसविसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः ॥ १.३२ ॥

दूरात्कन्दलितैर्हृदि प्रविततैः कण्ठे लुठद्भिर्हठाद्
वक्त्रे सङ्कटनासिकातरलितैर्निर्यद्भिरत्यूष्मभिः ।
निःश्वासैः पृथुमन्मथोत्थदवथुर्व्यक्तं तवावेदितो
म्थ्यालम्बितसौष्ठवेन किमतः कोपेन कान्तं प्रति ॥ १.३२ ॥

स्वकीया परकीया च सामान्यवनिता तथा ।
कलाकलापकुशलास्तिस्रस्तस्येह नायिकाः ॥ १.३३ ॥
पौराचाररता साध्वी क्षमार्जवविभूषिता ।
मुग्धा मध्या प्रगल्भा च स्वकीया त्रिविधा मता ॥ १.३४ ॥
मुग्धा नववधूस्तत्र नवयौवनभूषिता ।
नवानङ्गरहस्यापि लज्जाप्रायरतिर्यथा ॥ १.३५ ॥

गतं कर्णाभ्यर्णे प्रसरति तथाप्यक्षियुगलं
कुचौ कुम्भारम्भौ तदपि चिबुकोत्तम्भनरुची ।
नितम्बप्राग्भारो गुरुरपि गुरुत्वं मृगयते
कथंचिन्नो तृप्तिस्तरुणिमनि मन्ये मृगदृशः ॥ १.३५ ॥

यथा रोमाञ्चोऽयं स्तनभुवि लसत्स्वेदकणिको
यथा दृष्टिस्तिर्यक्पतति सहसा सङ्कुचति च ।
तथा शङ्केऽमुष्याः प्रणयिनि दरास्वादितरसं
न मध्यस्थं चेतः प्रगुणरमणीयं न च दृढम् ॥ १.३५ ॥

विरम नाथ विमुञ्च ममाञ्चलं
शमय दीपमियं समया सखी ।
इति नवोढवधूवचसा युवा
मुदमगादधिकां सुअरतादपि ॥ १.३५ ॥ (स्क्म् ५०१)

सकम्पा चुम्बने वक्त्रं हरत्येषोपगूहिता ।
परावृत्य चिरं तल्प आस्ते रन्तुं च वाञ्छति ॥ १.३६ ॥

अपहरति यदास्यं चुम्बने श्लिष्यमाणा
वलति च शयनीये कम्पते च प्रकामम् ।
वदति च यदलक्ष्यं किञ्चिदुक्तापि भूयो
रमयति सुतरां तच्चित्तमन्तर्नवोढा ॥ १.३६ ॥

मुग्धामावर्जयत्येष मृदूपायेन सान्त्वयन् ।
नातिभीतिकरैर्भावऐर्निबन्धैर्बालभीषकैः ॥ १.३७ ॥

सरति सरस्तीरादेषा भ्रमद्भ्रमरावली
सुमुखि विमुखी पद्मे मन्ये तवास्यपिपासया ।
इति निगदिते किञ्चिद्भीत्या विवर्तितकन्धरा
वदनकमले भर्त्रा बाला चिरं परिचुम्बिता ॥ १.३७ ॥

अन्यां निषेवमाणेऽपि यदि कुप्यति सा प्रिये ।
रोदित्यस्याग्रतः स्वल्पमनुनीता च तुष्यति ॥ १.३८ ॥

मन्यौ कृते प्रथममेव विकारमन्यं
नो जानती नववधू रुदती परं सा ।
धूर्तेन लोचनजलं परिमृज्य गाढं
संचुम्ब्य चाधरदले गमिता प्रसादम् ॥ १.३८ ॥

आरूढयौवना मध्या प्रादुभूतमनोभवा ।
प्रगल्भवचना किञ्चिद्विचित्रसुरता यथा ॥ १.३९ ॥

तरत्तारं चक्षुः क्षपयति मुनीनामपि दृशः
कुचद्वन्द्वाक्रान्तं हृदयमहृदः कान्न कुरुते ।
गतिर्मन्दीभूता हरति गमनं मन्मथवता
महो तन्व्यास्तुल्यं तरुणिमनि सर्वं विजयते ॥ १.३९ ॥

दृष्टिः स्निह्यति निर्भरं प्रियतमे वैदग्ध्यभाजो गिरः
पाणिः कुन्तलमालिकाविरचने त्यक्तान्यकार्यग्रहः ।
वक्षः संव्रियते पुनः पुनरिदं भारालसं गम्यते
जाता सुभ्रु मनोरमा तव दशा कस्मादकस्मादियम् ॥ १.३९ ॥ (स्क्म् ५०२)

सुभग कुरवकस्त्वं नो किमालिङ्गनोक्तिः
किमु मुखमदिरेच्छुः केसरो नो हृदिस्थः ।
त्वयि नियतमशोके युज्यते पादघातः
प्रियमिति परिहासात्पेशलं काचिदूचे ॥ १.३९ ॥

कान्ते तथा कथमपि प्रथितं मृगाक्ष्या
चातुर्यमुद्धतमनोभवया रतेषु ।
तत्कूजितान्यनुवदद्भिरनेकवारं
शिष्यायितं गृहकपोतशतैर्यथास्याः ॥ १.३९ ॥

गाढं व्याप्रियते कान्तं इबतीव रतावियम् ।
विशतीव तदङ्गेषु मुह्यतीव सुखे यथा ॥ १.४० ॥

कृत्वानेकविधां रसेन सुरते केलिं कथञ्चिच्चिरा
त्प्राप्तान्तः सुखमीलिताक्षियुगला स्विद्यत्कपोलस्थली ।
सुप्तेयं किल सुन्दरीति सुभगः स्वैरं तथैवास्वज
द्गाढानङ्गविमर्दनिःसहवपुर्निद्रां सहैवागतः ॥ १.४० ॥

सा धीरा वक्ति वक्रोक्त्या प्रियं कोपात्कृतागसम् ।
मध्या रोदित्युपालम्भैरधीरा परुषं यथा ॥ १.४१ ॥

उपेत्य तां दृढपरिरम्भलालस
श्चिरादभूः प्रमुपितचारुचन्दनः ।
धृताञ्जनः सपदि तदक्षिचुम्बना
दिहैव ते प्रिय विदिता कृतार्थता ॥ १.४१ ॥

यत्रार्कायितमिन्दुना सरसिजैरङ्गारपुञ्जायितं
क्रुद्धायां मयि नाथ ते कदलिकाकाण्डैरलातायितम् ।
कालोऽन्यः खलु कोऽपि सोऽमृतमयो जातो विषात्माधुना
धिक्त्वां धूर्त विनिर्यदश्रुरबला मोहं रुदन्ती गता ॥ १.४१ ॥

सार्धं मनोरथशतैस्तव धूर्त कान्ता
सैव स्थिता मनसि कृत्रिमभावरम्या ।
अस्माकमस्ति न हि कश्चिदिहावकाशस्
तस्मात्कृतं चरणपातविडम्बनाभिः ॥ १.४१ ॥ (स्क्म् ५८७, प्व्२१८)

लब्धायतिः प्रगल्भा स्यात्समस्तरतिकोविदा ।
आक्रान्तनायिका बाढं विराजद्विभ्रमा यथा ॥ १.४२ ॥

सेयं परङ्गिनी मृणाललतिकामादाय यस्याः प्रियो
हारं मे कुरुते पयोधरतटे प्रत्यग्रतारारुचम् ।
बन्धूकं च तदेतदालि विदलद्यत्तेन सीमन्तितं
सर्वाशाविजिगीषुपुष्पधनुषो बाणश्रियं धास्यति ॥ १.४२ ॥

यत्र स्वेदलवैरलं व्लुलितैर्व्यालुप्यते चन्दनं
स्वच्छन्दैर्मणितैश्च यत्र रणितं निह्नूयते नूपुरम् ।
यत्रायान्त्यचिरेण सर्वविषयाः कामं तदेकाग्रतां
सख्यस्तत्सुरतं भणामि रतये शेषा तु लोकस्थितिः ॥ १.४२ ॥

स्वामिन् भङ्गुरयालकं सतिलकं भालं विलासिन् कुरु
प्राणेश त्रुटितं पयोधरतटे हारं पुनर्योजय ।
इत्युक्त्वा सुरतावसानसुखिता सम्पूर्णचद्न्रानना
स्पृष्टा तेन तथेति जातपुलका प्राप्ता पुनर्मोहनम् ॥ १.४२ ॥ (स्क्म् ६६२)

मधुरवचनैः सभ्रूभङ्गैः कृताङ्गुलितर्जनै
रलसवलितैरङ्गन्यासैर्महोत्सवबन्धुभिः ।
असकृदसकृत्स्फारस्फारैरपाङ्गविलोकितै
स्त्रिभुवनजये सा पञ्चेषोः करोति सहायताम् ॥ १.४२ ॥ (स्क्म् ५०९)

निराकुला रतावेषा द्रवतीव प्रियाङ्गके ।
कोऽयं कास्मि रतं किं वा न वेत्ति च रसाद्यथा ॥ १.४३ ॥

धन्यास्ताः सखि योषितः प्रियतमे सर्वाङ्गलग्नेऽपि याः
प्रागल्भ्यं प्रथयन्ति मोहनविधावालम्ब्य धैर्यं महत् ।
अस्माकं तु तदीयपाणिकमलेऽप्युन्मोचयत्यंशुकं
कोऽयं का वयमत्र किं नु सुरतं नैव स्मृतिर्जायते ॥ १.४३ ॥

कृतदोषेऽपि साधीरा तस्मिन्नाद्रियते रुषा ।
आकारसंवृतिं चापि कृत्वोदास्ते रतौ यथा ॥ १.४४ ॥

यद्वाचः प्रचुरोपचारचतुरा यत्सादरं दूरतः
प्रत्युत्थानमिदं स्वहस्तनिहितं यद्भिन्नमप्यासनम् ।
उत्पश्यामि यदेवमेव च मुहुर्दृष्टिं सखीसंमुखीं
तच्छङ्के तव पङ्कजाक्षि बलवान् कोऽप्यप्रसादो मयि ॥ १.४४ ॥

यत्पाणिर्न निवारितो निवसनग्रन्थिं सौमुद्ग्रन्थय
न्भ्रूभेदो न कृतो मनागपि मुहुर्यत्खण्ड्यमानेऽधरे ।
यन्निःशङ्कमिवार्पितं वपुरहो पत्युः समालिङ्गने
मानिन्या कथितोऽनुकूलविधिना तेनैव मन्युर्महान् ॥ १.४४ ॥

मध्या प्रतिभिनत्त्येनं सोल्लुण्ठं साधुभाषितैः ।
अधीरा पुरुषैर्हन्ति सन्तर्ज्य दयितं यथा ॥ १.४५ ॥

कृतं मिथ्याजल्पैर्विरम विदितं कामुक चिरात्
प्रियां तामेवोच्चैरभिसर यदीयैर्नखपदैः ।
विलासैश्च प्राप्तं तव हृदि पदं रगबहुलैर्
मया किं ते कृत्यं ध्रुवमकुटिलाचारपरया ॥ १.४५ ॥

सा बाढं भवतेक्षितेति निविडं संयम्य बाह्वोः स्रजा
भूयो द्रक्ष्यसि तां शठेति दयितं संतर्ज्य संतर्ज्य च ।
आलीनां पुर एव निह्नुतिपरः कोपाद्रणन्नूपुरं
मानिन्या चरणप्रहारविधिना प्रेयानशोकीकृतः ॥ १.४५ ॥

एकाकारा मता मुग्धा पुनर्भूश्च यतोऽनयोः ।
अतिसूक्ष्मतया भेदः कविभिर्न प्रदर्शितः ॥ १.४६ ॥
मध्या पुनः प्रगल्भा च द्विधा सा परिभिद्यते ।
एका ज्येष्ठा कनिष्ठान्या नायकप्रणयं प्रति ॥ १.४७ ॥
उपरोधात्तथा स्नेहात्सानुरागोऽपि नायकः ।
चेष्टते तां प्रति प्रायः कलासु कुशलो यथा ॥ १.४८ ॥

त्वदक्षिणी कुवलयबुद्धिरत्यली
रुणध्म्यहं तदिति निमीय लोचने ।
ततो भृशं पुलकितगण्डमण्डलां
युवा परां निभृतमचुम्बदङ्गनाम् ॥ १.४८ ॥

सम्पत्तौ च विपत्तौ च मरणेऽपि न मुञ्चति ।
या स्वीया तां प्रति प्रेम जायते पुण्यकारिणः ॥ १.४९ ॥
अन्यदीया द्विधा प्रोक्ता कन्योढा चेति ते प्रिये
दर्शनाच्छ्रवणाद्वापि कामार्ते भवतो यथा ॥ १.५० ॥

किमपि ललितैः स्निग्धैः किञ्चित्किमप्यतिकुञ्चितैः
किमपि वलितैः कन्दर्पेषून् हसद्भिरिवेक्षणैः ।
अभिमतमुखं वीक्षां चक्रे नवाङ्गनया तथा
ललितकुशलोऽप्यालीलोको यथातिविसिस्मये ॥ १.५० ॥

निशमय्य बहिर्मनोहरं स्वरमैक्षिष्ट तथापरा या ।
तिलमात्रकमप्यभून्नहि श्रवेणेन्दीवरलोचनानन्तरम् ॥ १.५० ॥

कस्याश्चित्सुभग इति श्रुतश्चिरं यस्तं
दृष्ट्वाधिगतरतेर्निर्मीलिताक्ष्याः ।
निस्पन्दं वपुरवलोक्य सौविदल्लाः
सन्तेपुर्विधुरधियो निशान्तवध्वाः ॥ १.५० ॥

कार्श्यजागरतापान्यः करोति श्रुतोऽप्यलम् ।
तमेव दुर्लभं कान्तं चेतः कस्माद्दिदृक्षसे ॥ १.५० ॥

साक्षाच्चित्रे तथा स्वप्ने तस्य स्याद्दर्शनं त्रिधा ।
देशे काले च भङ्ग्या च श्रवणं चास्य तद्यथा ॥ १.५१ ॥

सत्यं सन्ति गृहे गृहे प्रियतमा येषां भुजालिङ्गन
व्यापारोच्छलदच्छमोहनजला जायन्त एणीदृशः ।
प्रेयान् कोऽप्यपरोऽयमत्र सुकृती दृष्टेऽपि यस्मिन् वपुः
स्वेदोज्जृम्भणकम्पसाध्वसमुखैः प्राप्नोति काञ्चिद्दृशाम् ॥ १.५१ ॥

चित्रं चित्रगतोऽप्येष ममालि मदनोपमः ।
समुन्मूल्य बलाल्लज्जामुत्कण्ठयति मानसम् ॥ १.५१ ॥ (स्क्म् ९४४)

मुग्धा स्वप्नसमागते प्रियतमे तत्पाणिसंस्पर्शना
द्रोमाञ्चार्चितया शरीरलतया संसूच्य कोपात्किल ।
मा मां वल्लभ संस्पृशेति सहसा शून्यं वदन्ती मुहुः
सख्या नो हसिता सचिन्तमसकृत्संशोचिता प्रत्युत ॥ १.५१ ॥

स्फारस्फुरत्प्रदीपं सौधं मधु सोत्पलं कलं गीतम् ।
प्रियसखि सकलमिदं तव सफलं खलु यदि भवेत्सोऽत्र ॥ १.५१ ॥

विकसति कैरवनिकरे सरति च सरसीसमीरणो सुतनु ।
चम्बत्यम्बरमिन्दौ तव तेन विना रतिः कीदृक् ॥ १.५१ ॥

अजननिरस्तु दृशोस्तव कुचयोरभवनिरलं भवतु ।
यदि दृश्यते न स युवा निर्भरमालिङ्ग्यते नो वा ॥ १.५१ ॥

द्रष्टुं वक्तुं च नो कन्या रक्ता शक्नोत्यमुं स्फुटम् ।
पश्यन्तमभिजल्पन्तं विविक्तेऽपि ह्रिया यथा ॥ १.५२ ॥

कामं न पश्यति दिदृक्षत एव भूम्ना
नोक्तापि जल्पति विवक्षति चादरेण ।
लज्जास्मरव्यतिकरेण मनोऽधिनाथे
बाला रसान्तरमिदं ललितं बिभर्ति ॥ १.५२ ॥

विज्ञातनायिकाचित्ता सखी वदति नायकम् ।
नायको वा सखीं तस्याः प्रेमाभिव्यक्तये यथा ॥ १.५३ ॥

कण्टकिततनुशरीरा लज्जामुकुलायमाननयनेयम् ।
तव कुमुदिनीव वाञ्छति नृचन्द्र बाला करस्पृशम् ॥ १.५३ ॥

सन्तापयन्ति शिशिरांशुरुचो यदेते
संमोहयन्ति च विनिद्रसरोजवाताः ।
यत्खिद्यते तनुरियं च तदेष दोषः
सख्यास्तवैव सुतनु प्रचुरत्रपायाः ॥ १.५३ ॥

अपश्यन्तं च सा कान्तं स्फारिताक्षी निरीक्ष्यते ।
दूरादालोकयत्येव सखीं स्वजनि निर्भरम् ॥ १.५४ ॥
निर्निमित्तं हसन्ती च सखीं वदति किंचन ।
सव्याजं सुन्दरं किञ्चिद्गात्रमाविष्करोति च ॥ १.५५ ॥
सख्यादि स्थापितां मालां काञ्च्यादि रचयेत्पुनः ।
चेष्टां च कुरुते रम्यामङ्गभङ्गैः शुभैर्यथा ॥ १.५६ ॥

अभिमुखगते यस्मिन्नेव प्रिये बहुशो वद
त्यवनतमुखं तूष्णीमेव स्थितं मृगनेत्रया ।
अथ किल वलल्लीलालोकं स एष तथेक्षितः
कथमपि यथा दृष्टा मन्ये कृतं श्रुतिलङ्घनम् ॥ १.५६ ॥ (स्क्म् ९५७)

तिर्यग्वर्तितगात्रयष्टिविषमोद्वृत्तस्तनास्फालन
त्रुट्यन्मौक्तिकमालया सपुलकस्वेदोल्लसद्गण्डया ।
दूरादेव विलोकयेत्यभिमते तद्वक्त्रदत्तेक्षणं
दुर्वारस्मरया तया सहचरी गाढं समालिङ्गिता ॥ १.५६ ॥ (स्क्म् ९५६)

अनिमित्तं यद्विहसति निष्कारणमेव यत्सखीं वदति ।
दयितं विलोक्य तदियं शंसति तदधीनमात्मानम् ॥ १.५६ ॥

प्रादुष्यद्रुजमूलकान्तिललितामुद्यम्य दोर्वल्लरीं
वल्गत्पीनपयोधरस्थललुलन्मुक्तावलीसुन्दरम् ।
अङ्गुल्या प्रचलत्कराग्रवलयस्वानोपहूतस्मरं
तन्व्याः कुञ्चितलोचनं विजयते तत्कर्णकण्डूयनम् ॥ १.५६ ॥

स्रहोऽवतंसं रशनां च किञ्चित्
प्रियं समालोक्य समासजन्ती ।
पुनस्तरां सा सुहृदो ददाति
प्रत्यङ्गमावासमिव स्मरस्य ॥ १.५७ ॥

व्याजृम्भणोन्नमितदन्तमयूखजाल
व्यालम्बिमौक्तिकगुणं रमणे मुदेव ।
ऊर्ध्वं मिलद्भुजलतावलयप्रपञ्च
सत्तोरणं हृदि विशत्यपरा व्युदासे ॥ १.५७ ॥ (स्क्म् ९५८)

अन्योढापि करोत्येव सर्वमुद्धतमन्मथा ।
दुरवस्था पुनः कान्तमभियुङ्क्ते स्वयं यथा ॥ १.५८ ॥

उल्लङ्घ्याî सखीवचः समुचितामुत्सृज्य लज्जामलं
हित्वा भीतिभरं निरस्य च निजं सौभाग्यगर्वं मनाक् ।
आज्ञां केवलमेव मन्मथगुरोरादाय नूनं मया
त्वं निःशेषविलासिवर्गगणनाचूडामणे संश्रितः ॥ १.अ ॥

चक्षुर्मीलति सानन्दं नितम्बः प्रस्रवत्यपि ।
वेपते च तनुस्तन्वी तस्यास्तद्दर्शने यथा ॥ १.५९ ॥

मीलन्मन्थरचक्षुषा परिपतत्काञ्चीग्रहव्यग्रया
गाडानन्ङ्गभरस्रवत्रवनया कम्पोपरुद्धाङ्गया ।
सर्वाङ्गं चटुकारकोऽप्यबलया सङ्केतके कौतुका
दास्तां रन्तुमहो निरीक्षितुमपि प्रेयान्न सम्भावितः ॥ १.५९ ॥

नाभियुङ्क्ते स्वयं कन्त्या मुग्धत्वाद्दुःस्थितापि तम् ।
तदवस्थां तु कान्ताय तत्सखी कथयेद्यथा ॥ १.६० ॥

निःश्वासेषु स्खलति कदलीबीजनं तापसम्प
न्नेत्राम्भोभिश्छमिति पतितैः सिच्यते च स्तनान्तः ।
तस्याः किञ्चित्सुभग तदभूत्तानवं त्वद्वियोगे
येनाकस्माद्वलयपदवीमङ्गुलीयं प्रयाति ॥ १.६० ॥

अनन्यशरणा स्वीया धनाहार्या पराङ्गना ।
अस्यास्तु केवलं प्रेम तेनैषा रागिणां मता ॥ १.६१ ॥
सामान्या वनिता वेश्या सा द्रव्यं परमिच्छति ।
निर्गुणेऽपि न विद्वेषो न रागोऽस्या गुणिन्यपि ॥ १.६२ ॥
तत्स्वरूपमिदं प्रोक्तं कैश्चिद्ब्रूमो वयं पुनः ।
वर्णयन्त्यनया युक्त्या तासामप्यनुरागिताम् ॥ १.६३ ॥
शृङ्गाराभास एतासु न शृङ्गारः कदाचन ।
तद्व्यापारोऽथवा तासां स्मरः किं भक्षितो बकैः ॥ १.६४ ॥
तस्मात्तासामपि क्वापि रागः स्यात्किं नु सर्वथा ।
धनार्थं कृत्रिमैर्भावैर्ग्राम्यं व्यामोहयन्ति ताः ॥ १.६५ ॥
लिङ्गी प्रच्छन्नकामश्च नरंमन्यश्च षण्डकः ।
सुखप्राप्तधनो मूर्खः पितृवित्तेन गर्वितः ॥ १.६६ ॥
इत्यादीन् प्रथमं ग्राम्यान् ज्ञात्वाकृष्य च तद्धनम् ।
अपूर्वा इव मुञ्चन्ति तानेतास्तापयन्ति च ॥ १.६७ ॥
किन्तु तासां कलाकेलि कुशलानां मनोरमम् ।
विस्मारितापरस्त्रीकं सुरतं जायते यथा ॥ १.६८ ॥

गाढालिङ्गनपीडितस्तनतटं स्विद्यत्कपोलस्थलं
सन्दष्टाधरमुक्तसीत्कृतमतिभ्राम्यद्भ्रुनृत्यत्करम् ।
चाटुप्रायवचोविचित्रभणितैर्यातै रुतैश्चाङ्कितं
वेश्यानां धृतिधाम पुष्पधनुषः प्राप्नोति धन्यो रतम् ॥ १.६८ ॥

ईर्ष्या कुलस्त्रीषु न नायकस्य
निःशङ्ककेलिर्न पराङ्गनासु ।
वेश्यासु चैतद्द्वितयं प्ररूढं
सर्वस्वमेतास्तदहो स्मरस्य ॥ १.६९ ॥ (स्क्म् ५५६)
कुप्यत्पिनाकिनेत्राग्नि ज्वालाभस्मीकृतः पुरा ।
उज्जीवति पुनः कामो मन्ये वेश्यावलोकितैः ॥ १.७० ॥ (स्क्म् ५५७)
आनन्दयन्ति युक्त्या तां सेविता घ्नन्ति चान्यथा ।
दुर्विज्ञेयाः प्रकृत्यैव तस्माद्वेश्या विषोपमाः ॥ १.७१ ॥

स्वाधीनपतिकोत्का च तथा वासकसज्जिका ।
सन्धिता विप्रलब्धा च खण्डिता चाभिसारिका ॥ १.७२ ॥
प्रोषितप्रेयसी चैवं नायिकाः पूर्वसूचिताः ।
ता एवात्र भवन्त्यष्टाववस्थाभिः पुनर्यथा ॥ १.७३ ॥
यस्या रतिगुणाकृष्टः पतिः पार्श्वं न मुञ्चति ।
विचित्रविभ्रमासक्ता स्वाधीनपतिका यथा ॥ १.७४ ॥

लिखति कुचयोः पत्रं कण्ठे नियोजयति स्रजं
तिलकमलिके कुर्वन् गण्डादुदस्यति कुन्तलान् ।
इति चटुशतैर्वारं वारं वपुः परितः स्पृशन्
विरहविधुरो नास्याः पार्श्वं विमुञ्चति वल्लभः ॥ १.७४ ॥ (स्क्म् ६६१)

उत्का भवति सा यस्याः सङ्केतं नागतः प्रियः ।
तस्यानागमने हेतुं चिन्तयन्त्याकुला यथा ॥ १.७५ ॥

किं रुद्धः प्रियया कयाचिदथवा सख्या तयोद्वेजितः
किं वा कारणगौरवं किमपि यन्नाद्यागतो वल्लभः ।
इत्यालोच्य मृगीदृशा करतले संस्थाप्य वक्त्राम्बुजं
दीर्घे निःश्वसितं चिरं च रुदितं क्षिप्ताश्च पुष्पस्रजः ॥ १.७५ ॥

भवेद्वासकसज्जासौ सज्जिताङ्गरतालया ।
निशित्यागमनं भर्तुर्द्वारेक्षणपरा यथा ॥ १.७६ ॥

दृष्ट्वा दर्पणमण्डले निजमुखं भूषां मनोहारिणीं
दीपार्चिःकपिशं च मोहनगृहं त्रस्यात्कुरङ्गीदृशा ।
एवं नौ सुरतं भविष्यति चिरादद्येति सानन्दया
मन्दं कान्तदिदृक्षयातिललितं द्वारे दृगारोपित्ं ॥ १.७६ ॥ (स्क्म् ६५७)

निरस्तो मन्युना कान्तो नमन्नपि यया पुनः ।
दुःस्थिता तं विना साति सन्धिताभिमता यथा ॥ १.७७ ॥

यत्पादप्रणतः प्रियः परुषया वाचा स निर्वारितो
यत्सख्या न कृतं वचो जडतया यन्मन्युरेको धृतः ।
पापस्यास्य फलं तदेतदधुना यच्चन्दनेन्दुद्युति
प्रालेयाम्बुसमीरपङ्कजविसैर्गात्रं मुहुर्दह्यते ॥ १.७७ ॥ (स्क्म् ६७४)

प्रेष्य दूतीं स्वयं दत्त्वा सङ्केतं नागतः प्रियः ।
यस्यास्तेन विना दुःस्था विप्रलब्धा तु सा यथा ॥ १.७८ ॥

यत्सङ्केतगृहं प्रियेण कथितं सम्प्रेष्य दूतीं स्वयं
तच्छून्यं सुचिरं निषेव्य सुदृशा पश्चाच्च भग्नाशया ।
स्थानोपासनसूचनाय विगलत्सान्द्राञ्जनैर्लोचनैर्
भूमावक्षरमालिकेव लिखिता दीर्घं रुदत्या शनैः ॥ १.७८ ॥ (स्क्म् ६७०)

कुतश्चिन्नागतो यस्या उचिते वासके प्रियः ।
तदनागमसन्तप्ता खण्डिता सा मता यथा ॥ १.७९ ॥
सोत्कण्ठं रुदितं सकम्पमसकृद्यातं सबाष्पं चिरं
चक्षुर्दिक्षु निवेशितं सकरुणं सख्या समं जल्पितम् ।
नागच्छत्युचितेऽपि वासकविधौ कान्ते समुद्विग्नया
तत्तत्किंचिदनुष्ठितं मृगदृशा नो यत्र वाचां गतिः ॥ १.७९ ॥ (स्क्म् ६६९)

या निर्लज्जीकृता बाढं मदने मदनेन च ।
अभियाति प्रियं साभि सारिकेति मता यथा ॥ १.८० ॥

नो भीतं तडितो दृशा जलमुचा तद्दर्शनाकाङ्क्षया
नो गर्जिर्गणिता भृशं श्रुतिमुखं तद्वाचि संचिन्त्य च ।
धारापातसमुद्भवा न च मता पीडा तदालिङ्गनं
वाञ्छन्त्या दयिताभिसारणविधौ तन्व्या परं तत्परम् ॥ १.८० ॥

कुतश्चित्कारणाद्यस्याः पतिर्देशान्तरं गतः ।
दत्त्वावधिं भृशार्ता सा प्रोषितप्रेयसी यथा ॥ १.८१ ॥
उत्क्षिप्यालकमालिकां विलुलितामापाण्डुगण्डस्थला
द्विश्लिष्यद्वलयप्रपातभयतः प्रोद्यम्य किञ्चित्करौ ।
द्वारस्तम्भनिषण्णगात्रलतिका केनापि पुण्यात्मना
मार्गालोकनदत्तदृष्टिरबला तत्कालमालिङ्ग्यते ॥ १.८१ ॥ (स्क्म् ७६३)

निःश्वाससन्तापसखीवचोर्ति
चिन्ताश्रुपातादियुताः सखेदाः ।
वाच्या प्रलब्धागतभर्तृकोत्का
तिसन्धिताः खण्डितया सहात्र ॥ १.८२ ॥
विचित्रमण्डना हृष्टा भवेत्स्वाधीनभर्तृका ।
तथा वासकसज्जापि सा किं त्वागन्तुकप्रिया ॥ १.८३ ॥
कुलजान्याङ्गना वेश्या त्रिधा स्यादभिसारिका ।
यथैवोक्तास्तथैवान्याः स्वाधीनपतिकादयः ॥ १.८४ ॥
कुलजा संवृता त्रस्ता सव्रीडा च द्रुतं व्रजेत् ।
नायकं परनारी च समन्तादनवेक्षिता ॥ १.८५ ॥
सखीयुक्ता मदाधिक्यात्स्फारिताक्षी न शङ्किता ।
सशब्दाभरणा कामं वेश्या सरति नायकम् ॥ १.८६ ॥
त्रयोदशविधा स्वीया द्विविधा च पराङ्गना ।
एका वेश्या पुनश्चाष्टाववस्थाभेदतोऽत्र ताः ॥ १.८७ ॥
पुनश्च तास्त्रिधा सर्वा उत्तमा मध्यमाधमा ।
इत्थं शतत्रयं तासामशीतिश्चतुरुत्तरा ॥ १.८८ ॥
दोषानुरूपकोपा या [अ]नुनीता च प्रसीदति ।
रज्यते च भृशं नाथे गुणहार्योत्तमेति सा ॥ १.८९ ॥

कान्ते किं कुपितासि कः परजने प्राणेश कोपो भवेत्
कोऽयं सुभ्रु परस्त्वमेव दयिते दासोऽस्मि कस्ते परः ।
इत्युक्त्वा प्रणतः प्रियः क्षितितलादुत्थाप्य सानन्दया
नेत्राम्भःकणिकाङ्किते स्तनतटे तन्व्या समारोपितः ॥ १.८९ ॥

दोषे स्वल्पेऽपि या कोपं धत्ते कष्टेन मुञ्चति ।
प्रयाति करुणाद्रागं मध्यमा सा मता यथा ॥ १.९० ॥

विस्फारस्फुरिताधरापि विकसद्गण्डस्थलप्रस्खल
द्घर्माम्भःकणिकापि भङ्गुरतरभ्रूभेदभूषाप्यलम् ।
पादान्तःप्रणते प्रिये प्रकटयत्यन्तः प्रसादं प्रिया
केशारमन्रूपुण्डलीषु वलितानुन्मोचयन्ती शनैः ॥ १.९० ॥

या कुप्यति विना दोषं स्निह्यत्यनुनयं विना ।
निर्हेतुकप्रवृत्तिश्च चलचित्तापि साधमा ॥ १.९१ ॥

यत्राधःकृतकामकार्मुककथो भ्राम्यद्भुवोर्विभ्रमः
सद्यः प्रोद्गतचन्द्रकान्तिजयिनी यस्मिन् कपोलच्छविः ।
यत्र स्वेदकणावलुप्तमहिमा हारोऽप्युरोजस्थले
कोऽयं मानिनि मत्प्रणामविमुखः प्रत्यग्रमानग्रहः ॥ १.९१ ॥

जातिकालवयोवस्था भावकन्दर्पनायकैः ।
इतरा पयसङ्ख्याः स्युर्नोक्ता विस्तरभीतितः ॥ १.९२ ॥
इत्यादि सकलं ज्ञात्वा स्वयं चालोक्य तद्विदाम् ।
कवीनां च विशेषोक्त्या ज्ञातव्याः सकला इमाः ॥ १.९३ ॥
रोमाञ्चवेपथुस्तम्भ स्वेदनेत्राम्बुविभ्रमाः ।
वाच्याः संयोगशृङ्गारे कविना नायिकाश्रिताः ॥ १.९४ ॥

सम्बन्धिमित्रद्विजराजतीक्ष्ण
वर्णाधिकानां प्रमदा न गम्याः ।
व्यङ्गास्तथा प्रव्रजिता विभिन्न
मन्त्राश्च धर्मार्थमनोभवज्ञैः ॥ १.९५ ॥

अनेन मार्गेण विशेषरम्यं
सम्भोगशृङ्गारमिमं वितन्वन् ।
भवेत्कविर्भावरसानुरक्तो
विदग्धगोष्ठीवनितामनोज्ञैः ॥ १.९६ ॥

इति श्रीरुद्रभट्टविरचिते शृङ्गारतिलकाभिधाने काव्यरसालङ्कारे
सम्भोगशृङ्गारो नाम प्रथमः परिच्छेदः ।

द्वितीयपरिच्छेदः[सम्पाद्यताम्]


विप्रलम्भाभिधानोऽयं शृङ्गारः स्याच्चतुर्विधः ।
पूर्वानुरागो मानाख्यः प्रवासः करुणात्मकः ॥ २.१ ॥
दम्पत्योर्दर्शनादेव समुत्पन्नानुरागयोः ।
ज्ञेयः पूर्वानुरागोऽयमप्राप्तौ च दशा यथा ॥ २.२ ॥

किं चन्दनैर्रचयसे नु मृणालशय्यां
मा मा ममालि कुरु कोमलतालवृन्तम् ।
मुञ्चाग्रहं विकचपङ्कजयोजनेषु
तत्सङ्गमः परमपाकुरुते स्मराग्निम् ॥ २.२ ॥

यत्सारैरिव पङ्कजस्य घटितं यच्चन्द्रगर्भादिव
प्रोत्कीर्णं यदनङ्गसायकशिखाभासेव संवर्धितम् ।
यत्संसिच्य सुधारसैरिव रतेरास्थानभूमीकृतं
तद्भूयोऽपि कदा सरोरुहदृशः पश्यामि तस्या मुखम् ॥ २.२ ॥

मृणालकदलीचन्द्र चन्दनाम्बुरुहादिकम् ।
तत्रानयोः स्मरातङ्क शान्तये नैव सेवितम् ॥ २.३ ॥
आलोकालापसंरूढ रागाकुलितचेतसोः ।
तयोर्भवेदसंप्राप्तौ दशावस्थः स्मरो यथा ॥ २.४ ॥
अभिलाषोऽथ चिन्ता स्यात्स्मृतिश्च गुणकीर्तनम् ।
उद्वेगोऽथ प्रलापः स्यादुन्मादो व्याधिरेव च ॥ २.५ ॥
जडता मरणं चैव दशमं जायते ध्रुवम् ।
असंप्राप्तौ भवन्त्येतास्तयोर्दश दशा यथा ॥ २.६ ॥
व्यवसायो भवेद्यत्र बाढं तत्सङ्गमाशया ।
सङ्कल्पाकुलचित्तत्वात्सोऽभिलाषः स्मृतो यथा ॥ २.७ ॥

प्रविशति यथा गेहेऽकस्माद्बहिश्च विचेष्टते
वदति च यथा सख्या सार्धं सहासमिहोत्सुका ।
दयितवदनालोके मन्दं यथा च चलत्यसौ
मृगदृशि तथैतस्यां मन्ये स्मरेण कृतं पदम् ॥ २.७ ॥ (स्क्म् ९५९)

कथं स वल्लभः प्राप्यः किं कुर्यामस्य सिद्धये ।
कथं भवेदसौ वश्य इति चिन्ता मता यथा ॥ २.८ ॥

सत्यं दुर्लभ एष वल्लभतमो रागो ममास्मिन् पुनः
कोऽप्यन्योऽस्ति गुरुर्न चातिनिपुणाः सख्योऽस्य संबोधने ।
संचिन्त्येति मृगीदृशा प्रियतमे दृष्टे श्लथां मेखलां
बध्नन्त्या न गतं स्थितं न च गलद्वासो न वा संवृतम् ॥ २.८ ॥

द्वेषो यत्रान्यकार्येषु तदेकाग्रं च मानसम् ।
श्वासैर्मनोरथैश्चापि चेष्टास्ताः स्मरणं यथा ॥ २.९ ॥

इन्दुं निन्दति पद्मकन्दलदलैस्तल्पं न वा मन्यते
कर्पूरं किरति प्रयाति न रतिं प्रालेयधारागृहे ।
श्वासैः केवलमेव खेदिततनुर्ध्यायत्यसौ बालिका
यत्तत्कोऽपि युवा ध्रुवं स्मरसुहृच्चेतस्यमुषाः स्थितः ॥ २.९ ॥

सौन्दर्यहसितालापैर्नास्त्यन्यस्तत्समो युवा ।
इति वाणी भवेद्यत्र तदित्थं गुणकीर्तनम् ॥ २.१० ॥

तद्वक्त्रं हसितेन्दुमण्डलमिति स्फारं तदालोकितं
सा वाणी जितकामकार्मुकरवा सौन्दर्यमेतस्य तत् ।
इत्थं संततमालि वल्लभतमध्यानप्रसक्तात्मनश्
चेतश्चुम्बितकालकूटमिव मे कस्मादिदं मुह्यति ॥ २.१० ॥

यस्मिन् रम्यमरम्यं वा न च हर्षाय जायते ।
प्रद्वेषः प्राणितव्येऽपि स उद्वेगः स्मृतो यथा ॥ २.११ ॥

अग्न्याकारं कलयसि पुरश्चक्रवाकीव चन्द्रं
बद्धोत्कम्पं शिशिरमरुता दह्यसे पद्मिनीव ।
प्राणान् धत्से कथमपि बलाद्गच्छतः शल्यतुल्यां
स्तत्केनासौ सुतनु जन्तिओ मान्मथस्ते विकारः ॥ २.११ ॥ (स्क्म् ९७२)

बम्भ्रमीति मनो यस्मिन् रत्यौत्सुक्यादितस्ततः ।
वाचः प्रियाश्रिता एव स प्रलापः स्मृतो यथा ॥ २.१२ ॥

इत्थं तेन निरीक्षितं न च मयाप्येवं समालोकितस्
तेनोक्तं सुभगेन तत्र न मया दत्तं वचो मन्दया ।
तत्सत्यं कथयालि किं स सुभगः कुप्येन्न मह्यं गत
इत्युक्त्वा सुदृशा कयापि वलितग्रीवं दृशौ स्फारिते ॥ २.१२ ॥

श्वासप्ररोदनोत्कम्प वसुधोल्लेखनैरपि ।
व्यापारो जायते यत्र स उन्मादः स्मृतो यथा ॥ २.१३ ॥

देवीवानिमिषेक्षणा विलिखति क्षोणीं श्वसित्युच्चकैः
किंचिद्ध्यायति निश्चला च बलवद्रोमाञ्चिता कम्पते ।
रोदित्यङ्गगतां विलोक्य सुचिरं वीणामपि व्यापृता
स्वल्पैरेव दिनैरियं वरतनुः केनापि संशिक्षिता ॥ २.१३ ॥

सन्तापवेदनाप्रायो दीर्घश्वाससमाकुलः ।
तनूकृततनुर्व्याधिरष्टमोऽयं स्मृतो यथा ॥ २.१४ ॥

तापः शोषितचन्दनोदकरसः श्वासा विकीर्णोत्पलाः
कर्पूराभिभवप्रचण्डपटिमा गण्डस्थले पाण्डिमा ।
म्लायद्बालमृणालनालललिता प्राप्ता तनुस्तानवं
तन्वङ्ग्याः कथितः स्मरेण गुरुणा कोऽप्येष कष्टक्रमः ॥ २.१४ ॥

अकाण्डे यत्र हुंकारो दृष्टिः स्तब्धा गता स्मृतिः ।
श्वासाः समधिकाः कार्श्यं जडतेयं मता यथा ॥ २.१५ ॥

दृष्टिर्निश्चलतारकाधरदलं श्वासैः कृतं धूषरं
प्राप्तं वासरचन्द्रबिम्बपदवीं वक्त्रं विनष्टा स्मृतिः ।
हुंकारः परमेक एव वचनस्थाने स्थितः सांप्रतं
मन्येऽस्याः कुसुमायुधः सशिबिरः प्रत्यङ्गमावासितः ॥ २.१५ ॥

उपायैर्विविधैर्नार्या यदि न स्यात्समागमः ।
कन्दर्पशरभिन्नाया मरणं जायते ततः ॥ २.१६ ॥
पुंसोऽपि हि भवन्त्येता दशावस्था मनोभवात् ।
मरणं किं त्वसौन्दर्यात्तयोः कैश्चिन्न बध्यते ॥ २.१७ ॥
अन्ये तदपि बध्नन्ति प्रत्युज्जीवनकाङ्क्षया ।
वृत्तानुवादे तच्छस्तमुत्पाद्ये प्रायशो नहि ॥ २.१८ ॥
एकस्मिंस्तु मृतेऽप्यन्यो यदि जीवेत्कथंचन ।
का स्नेहगणना तत्र म्रियते चेन्न सङ्गमः ॥ २.१९ ॥
पूर्वं नारी भवेद्रक्ता पुमान् पश्चात्तदिङ्गितैः ।
ततः संभोगलीलेति स्वभावसुभगा स्थितिः ॥ २.२० ॥
अन्यथापि न दोषः स्याद्यदि प्रेम समं द्वयोः ।
रक्तापरक्ता वृत्तिश्चेच्छृङ्गाराभास एव सः ॥ २.२१ ॥
अयं च प्रायशस्तज्ज्ञैरित्थं हास्येषु बध्यते ।
निर्द्रव्येण मया सार्धं वेश्ये मानय यौवनम् ॥ २.२२ ॥
अनुरक्तो भवेद्यस्यां नायकस्तत्सखीजनम् ।
साम्ना मानेन दानेन बाढमावर्जयत्यसौ ॥ २.२३ ॥
तस्याग्रे तत्कथां कुर्वन् स्वाभिप्रायं प्रकाशयेत् ।
तदभावे प्रयुञ्जीत काश्चित्प्रव्रजितादिकाः ॥ २.२४ ॥
तद्द्वारेण समाख्यात स्वभावो ज्ञाततन्मनाः ।
उपचारैः परैर्लेखैः साधयेत्तामतन्द्रितः ॥ २.२५ ॥
ततो दृष्ट्वा विविक्ते तामिन्द्रजालकलादिभिः ।
प्रयोगैर्ललितैः स्वैरं विस्मयं परमं नयेत् ॥ २.२६ ॥

धात्रीसखीवेश्मनि रात्रिचारे
महोत्सवे तीव्रतमे भये च ।
निमन्त्रेण व्याधिमिषेण शून्ये
गेहे तयोर्नूतनसङ्गमः स्यात् ॥ २.२७ ॥

यदा रागो गुरुः सा च लभ्यते नैव याचिता ।
क्षीणोपायस्तदा कन्यां नायकः साधयेदिति ॥ २.२८ ॥
परस्त्रीगमनोपायः कविभिर्नोपदिश्यते ।
सुन्दरं किन्तु काव्याङ्गमेतत्तेन निदर्श्यते ॥ २.२९ ॥
वामता दुर्लभत्वं च स्त्रीणां या च निवारणा ।
तदेव पञ्चबाणस्य मन्ये परममायुधम् ॥ २.३० ॥
बहुमानाद्भयाद्वापि नृणामन्यत्र योषिति ।
प्रच्छन्नकामितं रम्यं सतामपि भवेद्यथा ॥ २.३१ ॥

जीर्णं तार्णकुटीरकं निवसनं तल्पीकृतं स्थण्डिले
नीरन्ध्रं तिमिरं किरन्ति सलिलं गर्जन्त एते घनाः ।
गच्छामीति वदत्यसावपि मुहुः शङ्काकुला केवलं
चेतश्चित्रमहो तथापि रमते संकेतके कामिनाम् ॥ २.३१ ॥

स मानो नायिका यस्मिन्नीर्ष्यया नायकं प्रति ।
धत्ते विकारमन्यस्त्री सङ्गदोषवशाद्यथा ॥ २.३२ ॥

किंचिद्बाष्पजलावलेपललिते नेत्रे समाकुञ्चिते
रागो विस्फुरणानुबन्धरुचिरः संदर्शितो गण्डयोः ।
कम्पश्चाधरपल्लवे विरचितः कामं कुरङ्गीदृशा
नो जाने किमयं प्रिये प्रकटितः कोपोऽभिलाषोऽथवा ॥ २.३२ ॥

स प्रायशो भवेद्त्रेधा कामिनीनां प्रियं प्रति ।
अवेक्ष्य दोषमेतस्य गरीयान्मध्यमो लघुः ॥ २.३३ ॥
पर्तिनार्यां गते कान्ते स्वयं दृष्टे नखाङ्किते ।
तद्वासोदर्शने गोत्र स्खलिते च गुरुर्यथा ॥ २.३४ ॥

बिम्बोष्ठः स्फुरति प्रयाति पटुतां गण्डस्थले शोणिमा
यातस्तिर्यगमू दृशौ च बलवद्भ्रूयुग्मअमुद्भ्राम्यति ।
इत्थं चण्डि तथा तवैष रुचिरः कोपक्रमो जृम्भते
जातोऽयं प्रणतीरपास्य सुतरामेतद्दिदृक्षुर्यथा ॥ २.३४ ॥

दृष्टे प्रियतमे रागादन्यया सह जल्पति ।
सख्याख्यातेऽथवा दोषे मानोऽयं मध्यमो यथा ॥ २.३५ ॥

वाचो वाग्मिनि किं तवाद्य परुषाः सुभ्रु भ्रुवोर्विभ्रमै
र्विश्रान्तं कुत एव लोलनयने किं लोहिते लोचने ।
स्वेदः किं नु घनस्तनि स्तनतटे मुक्ताफलानां तुलां
धत्ते मुञ्च रुषं ममात्र दयिते लेशोऽपि नास्त्यागसः ॥ २.३५ ॥ (स्क्म् ८८७)

सविलासं स्फुरच्चक्षुः वीक्षमाणे परां प्रिये ।
किंचिदन्यमनस्केन जायते स लघुर्यथा ॥ २.३६ ॥

मामेव ताडय नितम्बिनि यद्यकस्मात्
कोपो भवेत्तव मुखं तु निजं किमेतत् ।
आनीयते शशधरानुकृतिं कपोल
पालीप्लुतेन घनकज्जलनेत्रवारा ॥ २.३६ ॥

देशकालबलात्कोपः प्रायशः सर्वयोषिताम् ।
जायते सुखसाध्योऽयं कृच्छ्रसाध्यश्च कामिभिः ॥ २.३७ ॥

प्रज्वलितोज्ज्वलदीपं रतिगृहमिन्दूज्ज्वलं च सौधतलम् ।
मधुविधुरीकृतमधुकरमधुरध्वनिबोधितं च कमलवनम् ॥ २.३८ ॥॰

इत्यादिषु प्रदेशेषु मानिनीनामसंशयम् ।
मन्युर्गुरुतरोऽप्याशु सुखसाध्यो भवेद्यथा ॥ २.३९ ॥

मधुसमयशशधरोदयकन्दर्पमदाधिकेषु कालेषु ।
मानो मनस्विनीनामतिसुखसाध्यो भवेद्भूम्ना ॥ २.४० ॥॰

दूतीजनस्य परतो लघुरपि दोषो गुरूयते प्रायः ।
अभिनवदोषावसारे तथैव वनिताजनस्य यथा ॥ २.४१ ॥

साम दानं च भेदः स्यादुपेक्षा प्रणतिस्तथा ।
तथा प्रसङ्गविध्वंसो दण्डः शृङ्गारहानये ॥ २.४२ ॥

तस्याः प्रसादने सद्भिरुपायाः षट्प्रकीर्तिताः ।
सुन्दरास्ते निदर्श्यन्ते सहोदाहृतिभिर्यथा ॥ २.४३ ॥

अविनीतोऽपि पाल्योऽहं त्वया सुभ्रु क्षमाभृता ।
इति वाणी भवेद्यत्र तत्सामेति निगद्यते ॥ २.४४ ॥

अलंकारादिकं दद्यान्नायको यत्र तुष्टये ।
उद्दिश्य कारणं किंचिद्दानं लुब्धासु तद्यथा ॥ २.४५ ॥

यस्मिन् परिजनं तस्याः समावर्ज्य प्रसादतः ।
तेनैव लभते कान्तां कान्ताभेदः स उच्यते ॥ २.४६ ॥

प्रसादनविधिं त्यक्त्वा वाक्यैरन्यार्थसूचकैः ।
यस्मिन् प्रसाद्यते योषिदुपेक्षा सा मता यथा ॥ २.४७ ॥

एतत्किं ननु कर्णभूषणमयं हारः सुकाञ्ची नवा
बद्धा काचिदियं त्वयाद्य तिलकः श्लाघ्यः प्रिये कल्पितः ।
प्रत्यङ्गं स्पृशतेति तत्क्षणभवद्रोमाञ्चमालाञ्चिता
तन्वी मानमुपेक्षयैव शनकैर्धूर्तेन संमोचिता ॥ २.४७ ॥

केवलं दैन्यमालम्ब्य पादपातान्नतिर्मता ।
अभीष्टा सा भृशं स्त्रीणां ललिता च भवेद्यथा ॥ २.४८ ॥

अकस्माज्जायते यत्र भयहर्षादिभावना ।
सोऽयं प्रसङ्गविध्वंसः कोपभ्रंशात्मको यथा ॥ २.४९ ॥

कथं ममोरसि कृतपक्षनिःस्वनः
शिलीमुखोऽपतदिति जल्पति प्रिये ।
निवृत्य किं किमिदमिति ब्रुवाणया
ससाध्वसं कुपितमलोकि कान्तया ॥ २.४९ ॥

यथोत्तरं वलीयांस इत्युपायाः प्रसादने ।
आद्यास्त्रयो घनं कार्या विदग्धैः पश्चिमाः क्वचित् ॥ २.५० ॥
नातिखेदयितव्योऽयं प्रियः प्रमदया क्वचित् ।
मानश्च विरलः कार्यः प्रणामोत्सवसिद्धये ॥ २.५१ ॥
इत्युपायान् प्रयुञ्जीत नायिकापि प्रियं प्रति ।
कुलजा नेर्ष्यते किं तु तत्रान्यत्कारणं भवेत् ॥ २.५२ ॥
स्नेहं विना भयं न स्यान्नेर्ष्या च प्रणयं विना ।
तस्मान्मानप्रकारोऽयं द्वयोः प्रेमप्रकाशकः ॥ २.५३ ॥
प्रियसुभगदयितवल्लभनाथस्वामीशकान्तचन्द्रमुखाः ।
दयित मनोरम रमणीजीवित इत्यादि नाम स्यात् ॥ २.५४ ॥
प्रीतौ भर्तरि सुदृशामप्रीतौ पुनरमूनि शठधृष्टौ ।
निर्लज्जदुराचारौ निष्ठुरदुःशीलवानादि ॥ २.५५ ॥
गर्वाद्व्यसनत्यागाद्विप्रियकरणाच्च निष्ठुरालापात् ।
लोभादतिप्रवासात्स्त्रीणां द्वेष्यः प्रियो भवति ॥ २.५६ ॥
परदेशं व्रजेद्यस्मिन् कुतश्चित्कारणात्प्रियः ।
स प्रवास इति ख्यातः कष्टावस्थो द्वयोरपि ॥ २.५७ ॥

दृष्टं केतकधूलिधूसरमिदं व्योम क्रमाद्वीक्षिताः
कच्चान्ताश्च शिलीन्ध्रकन्दलभृतः सोढाः कदम्बानिलाः ।
सख्यः संवृणुताश्रु मुञ्चत भयं कस्मान्मुदेवाकुला
एतानप्यधुनास्मि वज्रघटिता नूनं सहिष्ये धनान् ॥ २.५७ ॥ (स्क्म् ७४९)

कामं कर्णकटुः कुतोऽतिमधुरः केकारवः केकिनां
मेघाश्चामृतधारिणोऽपि विहिताः प्रायो विषस्यन्दिनः ।
उन्मीलन्नवकन्दलावलिरसौ सह्याप्यसह्यायते
तत्किं यद्विपरीतमत्र न कृतं तस्या वियोगेन मे ॥ २.५७ ॥

कार्श्यजागरमालिन्य चिन्ताद्यं यत्र जायते ।
अवस्था विविधाः स्त्रीणां मृत्युश्चेदवधेः परः ॥ २.५८ ॥

अद्यैव यत्प्रतिपदुद्गतचन्द्रलेखा
सख्यं त्वया वपुरिदं गमितं वराक्याः ।
कृष्णे गते कुसुमसायक तत्प्रभाते
बाणावलिं कथय कुत्र विमोक्ष्यसि त्वम् ॥ २.५८ ॥

निःश्वासैः सह साम्प्रतं सखि गता वृद्धिं ध्रुवं रात्रयः
सार्धं लोचनवारिणा विगलितं यत्प्राक्तनं मे सुखम् ।
प्राणाशा तनुतामुपैति च मुहुर्नूनं तनुस्पर्धया
कन्दर्पः परमेक एव विजयी यातेऽपि कान्ते स्थितः ॥ २.५८ ॥

नीरागोऽधरपल्लवोऽतिमलिना वेणी दृशौ नाञ्जिते
म्लायद्बालमृणालिकाधवलतामालम्बतेऽङ्गच्छविः ।
इत्थं सुभ्रु विसंस्थुलापि विरहव्यापाद्विमर्दादियं
सख्येव स्थिरशोभया दृढतरं प्रत्यङ्गमालिङ्गिता ॥ २.५८ ॥

किं तत्र नास्ति रजनी किं वा चन्द्रो न सुष्ठुरुचिः ।
येन सखि वल्लभामपि न स्मरति स मां विदेशरुचिः ॥ २.५८ ॥

प्रसर शिशिरामोदं कौन्दं समीर समीरय
प्रकटय शशिन्नाशाः कामं मनोज समुल्लस ।
अवधिदिवसः पूर्णः सख्यो विमुञ्चत तत्कथां
हृदयमधुना किञ्चित्कर्तुं ममान्यदिहेच्छति ॥ २.५८ ॥ (स्क्म् ७५०)

इत्यादिविरहावस्थाः पुंसोऽपि हि भवन्ति ताः ।
कन्दर्पशरपाताद्या मा भूवन् वैरिणामपि ॥ २.५९ ॥
यत्रैकस्मिन् विपन्नेऽन्यो मृतकल्पोऽपि तद्गतम् ।
नायकः प्रलपेत्प्रेम्णा करुणोऽअसौ स्मृतो यथा ॥ २.६० ॥

दग्धा स्निग्धवधूविलासकदली वीणा समुन्मूलिता
पीता पञ्चमकाकलीकवलिता शीतद्यूतेः कौमुदी ।
प्लुष्टाः स्पष्ट्मनेकरत्ननिवहा नालं रतेः केवलं
कन्दर्पं हरता हरेण भुवनं निःसारमेतत्कृतम् ॥ २.६० ॥ (स्क्म् ९७७)

वक्त्रं चन्द्रमसा दृशौ मृगगणैः केशाः कलापिव्रजैर्
मातङ्गैः स्तनमण्डलं भुजयुगोल्लासो मृणालैरपि ।
सौगन्ध्यं मलयानिलेन बलिना तन्वी विभज्येति सा
सर्वैर्निष्करुणैर्हृता ध्रुवमहो दैवेन किंचिन्न मे ॥ २.६० ॥

इयतीं सुभगावस्थां गतोऽसि यस्याः कृते स्मरातङ्कात् ।
मूर्च्छां हरामि सा तव गतपुण्या नयनसलिलेन ॥ २.६० ॥

पाशो विपाशित उपाहित एष सान्द्रः
कर्पूररेणुरुपगूढमुरो नताङ्गि ।
पापेन येन गमितेति दशाममुष्मिन्
मूर्छाविरामललितं मयि धेहि चक्षुः ॥ २.६० ॥

ग्लानो मुक्ताश्रुरुद्विग्नः स्रस्ताङ्गो मुक्तचेतनः ।
सचिन्तो दैन्यभागस्मिन्नेवं प्रायो जनो भवेत् ॥ २.६१ ॥
केषांचित्करुणभ्रान्तिः कारुण्यादत्र जायते ।
एतस्य मिथुनावस्थां विस्मृत्य रतिमूलजाम् ॥ २.६२ ॥
स्त्रीपुंसयोर्भवेदेष सापेक्षः संगमे पुनः ।
शृङ्गारवचनप्रायः करुणः स्यात्स चान्यथा ॥ २.६३ ॥
तस्माच्छृङ्गार एवायं करुणेनानुमोदितः ।
सौन्दर्यं सुतरां धत्ते निबद्धो विरलं बुधैः ॥ २.६४ ॥
कारुर्दासी नटी धात्री प्रातिवेश्या च शिल्पिनी ।
बाला प्रव्रजिता चेति स्त्रीनां ज्ञेयः सखीजनः ॥ २.६५ ॥
कलाकौशलमुत्साहो भक्तिश्चित्तज्ञता स्मृतिः ।
माधुर्यं नर्मविज्ञानं वाग्मिता चेति तद्गुणाः ॥ २.६६ ॥
विनोदो मण्डनं शिक्षो [उ]पालम्भोऽथ प्रसादनम् ।
सङ्गमो विरहाश्वासः सखीकर्मेति तद्यथा ॥ २.६७ ॥

मया कोऽयं मुग्धे कथय लिखितः सत्वरसखी
वचः श्रुत्वेत्युच्चैर्विनिहितदृशा चित्रफलके ।
न वक्तुं तन्वङ्ग्या शकितमथ चोद्दामविदलत्
कदम्बाकारेण प्रिय इति समाख्यायि वपुषा ॥ २.६७ ॥

प्रत्यङ्गं प्रति कर्म नर्मपरया कृत्वाधिरूढं स्मरा
दौत्सुक्यं प्रविलोक्य मोहनविधौ चातुर्यमालोक्य च ।
सद्यो यावकमण्डनं न रचितं पादे कुरङ्गीदृशा
स्मेरान्ता विशदच्छदे च शयने दृष्टिः समारोपिता ॥ २.६७ ॥ (स्क्म् १०९२)

नीरन्ध्रं परिरभ्यते प्रियतमो भूयस्तरां चुम्ब्यते
तद्बाढं क्रियते यदस्य रुचितं चाटूच्चकैस्तन्यते ।
सख्या मुग्धवधूरियं रतिविधौ यत्नेन संशिक्षिता
न्रिभ्रान्तं गुरुणा पुनः शतगुणं पुष्पेषुणा कारिता ॥ २.६७ ॥

सुभग भगवता हृद्ये तस्या ज्वलत्स्मरपावकेऽप्य्
अभिनिवेशता प्रेमाधिक्यं चिरात्प्रकटीकृतम् ।
तव तु हृदये शीतेऽप्येवं सदैव सुखाप्तये
मम सहचरी सा निःस्नेहा मनागपि न स्थिता ॥ २.६७ ॥

कोऽयं विमुञ्च कुरु नाथ वचो मदीयम्
आश्वासय स्मरकृशानुकृशां कृशाङ्गीम् ।
एकाकिनी कठिनतारकराजकान्त्या
पञ्चत्वमाशु ननु यास्यति सा वराकी ॥ २.६७ ॥

अमुं दधेऽंशुकमहमत्र पादपे
युवामलं निभृतमिहैव तिष्ठताम् ।
रहःस्थयोरिदमभिधाय कामिनोः
स्वयं ययौ निपुणसखी लतान्तरम् ॥ २.६७ ॥

स्फुरति यदिदमुच्चैर्लोचनं तन्वि वामं
स्तनतटमपि धत्ते चारुरोमाञ्चमालाम् ।
कलयति च यदन्तःकम्पतामूरुकाण्डं
ननु वदति तदद्य प्रेयसा संगमं ते ॥ २.६७ ॥

इत्यादि विविधं सख्यो व्यापारं कुर्वते सदा ।
योषितां मन्त्रसर्वस्व निधानकलशोपमाः ॥ २.६८ ॥
इत्थं विरचनीयोऽयं शृङ्गारः कविभिः सदा ।
अनेन रहितं काव्यं प्रायो नीरसमुच्यते ॥ २.६९ ॥
इत्थं विचार्य प्रचुरप्रयोगा
न्योऽमुं निबध्नाति रसं रसज्ञः ।
तत्काव्यमारोप्य पदं विदग्ध
वक्त्रेषु विश्वं परिबम्भ्रमीति ॥ २.७० ॥

इति श्रीरुद्रभट्टविरचिते शृङ्गारतिलकाभिधाने काव्यरसालङ्कारे
विप्रलम्भो नाम द्वितीयः परिच्छेदः ।

तृतीयपरिच्छेदः[सम्पाद्यताम्]

विकृताङ्गवचःकृत्य वेषेभ्यो जायते रसः ।
हास्योऽयं हासमूलत्वात्पात्रत्रयगतो यथा ॥ ३.१ ॥
किञ्चिद्विकसितैर्गण्डैः किञ्चिद्विस्फारितेक्षणैः ।
किञ्चिद्लक्ष्यद्विजैः सोऽयमुत्तमानां भवेद्यथा ॥ ३.२ ॥

पाणौ कङ्कणमुत्फणः फणिपतिर्नेत्रं ज्वलत्पावकं
कण्ठः कुण्ठितकालकूटकुटिलो वस्त्रं गजेन्द्राजिनम् ।
गौरीलोचनलोभनाय सुभगो वेषो वरस्येति मे
गण्डोल्लासविभावितः पशुपतेर्हासोद्गमः पातु वः ॥ ३.२ ॥ (स्क्म् ३६)

मध्यमानां भवत्येष विवृताननपङ्कजः ।
नीचानां निपतद्बाष्पः श्रूयमाणध्वनिर्यथा ॥ ३.३ ॥

मुग्धे त्वं सुभगे न वेत्सि मदनव्यापारमद्यापि तं
नूनं ते जलजैषिणायमलिना दृष्टो न भर्ताधरः ।
सख्यैवं हसितं वधूं प्रति तथा सानन्दमाविर्भवद्
वक्त्रान्तर्गतसीधुवासरसिकैर्भृङ्गैर्यथा धावितम् ॥ ३.३ ॥

त्यक्त्वा गुञ्जफलानि मौक्तिकमयी भूषा स्तनेष्वाहिता
स्त्रीणां कष्टमिदं कृतं सरसिजं कर्णे न बर्हिच्छदम् ।
इत्थं नाथ तवारिधाम्नि शवरैरालोक्य चित्रस्थितिं
बास्पार्द्रीकृतलोचनैः स्फुटरवं दारैः समं हस्यते ॥ ३.३ ॥

अस्मिन् सखीकराघात नेत्रोल्लासाङ्गवर्तनम् ।
नासाकपोलविस्पन्दो मुखरागश्च जायते ॥ ३.४ ॥
शोकात्मा करुणो ज्ञेयः प्रियभृत्यधनक्षयात् ।
तत्रेत्थं नायको दैव हतः स्याद्दुःखभाजनम् ॥ ३.५ ॥

भर्ता संगर एव मृत्युवसतिं प्राप्तः समं बन्धुभिर्
यूनां काममियं दुनोति च मनो वैधव्यभावाद्वधूः ।
बालो दुस्त्यज एक एव च शिशुः कष्टं कृतं वेधसा
जीवामीति महीपते प्रलपति त्वद्वैरिसीमन्तिनी ॥ ३.५ ॥

भूपातो दैवनिन्दा च रोदनं दीननिःस्वनः ।
शरीरताडनं मोहो वैवर्ण्यं चात्र जायते ॥ ३.६ ॥
क्रोधात्मको भवेद्रौद्रः प्रतिशत्रूनमर्षतः ।
रक्षःप्रायो भवेदत्र नायकोऽत्युग्रविग्रहः ॥ ३.७ ॥

यः प्राणापहतिः कृता मम पितुः क्षुद्रैर्युधि क्षत्रियै
रामोऽहं रमणीर्विहाय बलवन्निःशेषमेषां हठात् ।
भास्वत्प्रौढकुठारकोटिघटनाकाण्डत्रुटत्कन्धरा
स्रोतोऽन्तःस्रुतविस्रशोणितभरैः कुर्यां क्रुधां निर्वृतिम् ॥ ३.७ ॥

मुखरागायुधोत्क्षेप स्वेदकम्पाधरग्रहाः ।
शक्तिशंसा कराघातो भ्रुकुटी चात्र जायते ॥ ३.८ ॥
उत्साहात्मा भवेद्वीरो दयादानाजिपूर्वकः ।
त्रिविधो नायकस्तत्र जायते सत्त्वसंयुतः ॥ ३.९ ॥
गाम्भीर्यौदार्यसौन्दर्य शौर्यधैर्यादिभूषितः ।
आवर्जितजनो जन्य निर्व्यूढप्रौढविक्रमः ॥ ३.१० ॥

अयि विहङ्ग वराक कपोतकं
विमृज धेहि धृतिं मम मेदसा ।
शिबिरहं भवता विदितो न किं
सकलसत्त्वसमुद्धरणक्षमः ॥ ३.१० ॥

सुखितोऽसि हरे नूनं
भुवनत्रयमात्रलब्धितोषेण ।
बलिरर्थितदोऽस्मि यतो
न याचितः किंचिदप्यधिकम् ॥ ३.१० ॥

यत्रैरावणदन्ततीव्रमुसलैरेरण्डकाण्डायितं
वज्रेणापि विकीर्णवह्निततिना मार्णालनालायितम् ।
मद्वक्षस्यवलम्ब्य किंचिदधुना तद्विस्मृतं वज्रिणा
युद्धं यद्यवलम्बते स तु पुनः सज्जोऽस्म्यहं रावणः ॥ ३.१० ॥

धृतिगर्वौद्धत्यमतिस्मृतिरोमाञ्चा भवन्ति चामुष्मिन् ।
विविधा वाक्यक्षेपाः सोत्साहामर्षवेगाश्च ॥ ३.११ ॥
भयानको भयस्थायि भावोऽसौ जायते रसः ।
शब्दादेर्विकृताद्वोढं बालस्त्रीनीचनायकः ॥ ३.१२ ॥

श्रुत्वा तूर्यनिनादं द्वारे भयचकितललितबाहुलतः ।
धन्यस्य लगति कण्ठे मुग्धशिशुर्धूलिधूसरितः ॥ ३.१२ ॥

प्रणयकलहसङ्गान्मन्युभाजा निरस्तः
प्रकटितचटुकोटिः पादपद्मानतोऽपि ।
नवजलधरगर्जेर्भीतयासौ कयाचित्
त्रुटिततरलहारं सस्वजे प्राणनाथः ॥ ३.१२ ॥

कम्पोपरुद्धसर्वाङ्गैर्
गलत्स्वेदोदबिन्दुभिः ।
त्वदारब्धैर्महीनाथ
वैरिभिर्वनितायितम् ॥ ३.१२ ॥

वैवर्ण्यमश्रु संत्रासो हस्तपादादिकम्पनम् ।
स्वेदास्यशोषदिक्प्रेक्षा संभ्रमाश्च प्रकीर्तिताः ॥ ३.१३ ॥
जुगुप्साप्रकृतिर्ज्ञेयो बीभत्सोऽहृद्यदर्शनात् ।
श्रवणात्कीर्तनाद्वापि पूत्यादिविषयाद्यथा ॥ ३.१४ ॥

लुठत्कृमिकलेवरं स्रवदसृग्वसावासितं
विशीर्णशवसंततिप्रसरदुग्रगन्धान्वितम् ।
भ्रमत्प्रचुरपत्रिकं त्रिकविवर्तिनृत्यक्रिया
प्रवीणगुणकौणपं परिबभौ परेताजिरम् ॥ ३.१४ ॥

नासाप्रच्छादनं वक्त्र कूणनं गात्रसंवृतिः ।
निष्ठीवनादि चात्र स्यादुद्वेगादुत्तमेष्वपि ॥ ३.१५ ॥
विस्मयात्माद्भुतो ज्ञेयो रसो रसविचक्षणैः ।
मायेन्द्रजालदिव्यस्त्री विपिनाद्युद्भवो यथा ॥ ३.१६ ॥

सत्यं हृता त्वया हंस वनितानामियं गतिः ।
भ्रमन्त्येतास्तथाप्येतदिन्द्रजालं तदद्भुतम् ॥ ३.१६ ॥

गद्गदः साधुवादश्च स्वेदः पुलकवेपथू ।
दृष्टेर्निशलतारत्वं विकासश्चात्र जायते ॥ ३.१७ ॥
सम्यग्ज्ञानोद्भवः शान्तः समत्वात्सर्वजन्तुषु ।
गतेच्छो नायकस्तत्र तमोरागपरिक्षयात् ॥ ३.१८ ॥

धनमहरहर्दत्तं स्वीयं यथार्थितमर्थिने
कृतमरिकुलं नारीशेषं स्वखड्गविजृम्भितैः ।
प्रणयिनि जने रागोद्रिक्ते रतिर्विहिता चिरं
किमपरमतः कर्तव्यं नस्तनावपि नादरः ॥ ३.१८ ॥
निरालम्बं मनो ह्यत्र बाढमात्मनि तिष्ठति ।
सुखे नेच्छा तथा दुःखेऽप्युद्वेगो नात्र जायते ॥ ३.१९ ॥
अष्टावमी रसाः पूर्वं ये प्रोक्तास्तत्र निश्चितम् ।
प्रत्यनीकौ रसौ द्वौ द्वौ तत्सम्पर्कं विवर्जयेत् ॥ ३.२० ॥
शृङ्गारबीभत्सरसौ तथा वीरभयानकौ ।
रौद्राद्भुतौ तथा हास्य करुणौ वैरिणौ मिथः ॥ ३.२१ ॥
हास्यो भवति शृङ्गारात्करुणो रौद्रकर्मतः ।
अद्भुतश्च तथा वीराद्बीभत्साच्च भयानकः ॥ ३.२२ ॥
यौ जन्यजनकावेतौ रसावुक्तौ मनीषिभिः ।
युक्त्या कृतोऽपि संभेदस्तयोर्बाढं न दुष्यति ॥ ३.२३ ॥
केचिद्रसविभागेषु भावाः पूर्वं प्रदर्शिताः ।
स्वातन्त्र्येणेह कीर्त्यन्ते रम्यास्ते कृतिनां मताः ॥ ३.२४ ॥
रत्यादय इमे भावा रसाभिप्रायसूचकाः ।
पञ्चाशत्स्थायिसंचारि सात्त्विकास्तान्निबोधत ॥ ३.२५ ॥
शृङ्गारादिरसेष्वेव भावा रत्यादयः स्मृताः ।
प्रत्येकं स्थैर्यतोऽन्ये च तर्यस्त्रिंशच्चराः स्मृताः ॥ ३.२६ ॥
प्रायोऽनवस्थिते चित्ते भावाः संकीर्णसंभवाः ।
बाहुल्येन निगद्यन्ते तथाप्येते यथा स्थिताः ॥ ३.२७ ॥
शङ्कासूया भयं ग्लानिर्व्याधिश्चिन्ता स्मृतिर्धृतिः ।
औत्सुक्यं विस्मयो हर्षो व्रीडोन्मादो मदस्तथा ॥ ३.२८ ॥
विषादो जडता निद्रा [अ]वहित्थं चापलं स्मृतिः ।
इति भावाः प्रयोक्तव्या शृङ्गारे व्यभिचारिणः ॥ ३.२९ ॥
श्रमश्चपलता निद्रा स्वप्नो ग्लानिस्तथैव च ।
शङ्कासूयावहित्थं च हास्ये भावा भवन्त्यमी ॥ ३.३० ॥
दैन्यं चिन्ता तथा ग्लानिर्निर्वेदो जडतास्मृतिः ।
व्याधिश्च करुणे ज्ञेया भावा भावविशारदैः ॥ ३.३१ ॥
हर्षोऽसूया तथा गर्व उत्साहो मद एव च ।
चापल्यमुग्रता वेगो रौद्रे भावाः प्रकीर्तिताः ॥ ३.३२ ॥
अमर्षः प्रतिबोधश्च वितर्कोऽथ मतिर्धृतिः ।
क्रोधोऽसूयाश्रु संमोह आवेगो रोमहर्षणम् ॥ ३.३३ ॥
गर्वो मदस्तथोग्रत्वं भावा वीरे भवन्त्यमी ।
संत्रासो मरणं चैव वचनीयं भयानके ॥ ३.३४ ॥
अपस्मारो विषादश्च भयं वेगो मतिर्मदः ।
उन्मादश्चेति विज्ञेया भावा बीभत्ससंभवाः ॥ ३.३५ ॥
आवेगो जडता मोहो विस्मयो हर्षणं मतिः ।
इति भावान्निबध्नन्ति रसेऽस्मिन्नद्भुते बुधाः ॥ ३.३६ ॥
एवं संचारिणो भावा ज्ञेयाः प्रतिरसं स्थिताः ।
सात्त्विकास्तु भवन्त्येते सर्वे सर्वरसाश्रयाः ॥ ३.३७ ॥

या नृत्यगीतप्रमदोपभोग
वेषाङ्गसङ्कीर्तनचारुबन्धा ।
माधुर्ययुक्ताल्पसमासरम्या
वाणी स्मृतासाविह कैशिकीति ॥ ३.३८ ॥

शृङ्गारहास्यकरुण रसानां परिवृद्धये ।
एषा वृत्तिः पर्योक्तव्या प्रयत्नेन बुधैर्यथा ॥ ३.३९ ॥

सौन्दर्यं शशलाञ्छनस्य कविभिर्मिथ्यैव तद्वर्ण्यते
सौभाग्यं क्व नु पङ्कजस्य रजनीसंभोगभग्नत्विषः ।
इत्यालोच्य चिराय चारु रुचिमन्त्रस्यत्कुरङ्गीदृशो
वीक्षेते नवयौवनोन्नतमुखौ मन्ये स्तनावाननम् ॥ ३.३९ ॥

हस्तेषुः कुसुमायुधस्य ललितं रागश्रियो लोचनं
सौभाग्यैकगृहं विलासनिकषो वैदग्ध्यसिद्धिध्वजः ।
साक्षीदं मदबान्धवस्य निभृतं कस्यापि लीलानिधेः
कक्षान्तर्नखमण्डनं सखि नवं प्रच्छाद्यतां वाससा ॥ ३.३९ ॥

समुल्लसत्काञ्चनकुण्डलोज्ज्वल
प्रभापि तापाय बभूव येष्वलम् ।
विलासिनीरम्यमुखाम्बुजन्मसु
प्रजज्वलुस्तेष्वकृशाः कृशानवः ॥ ३.३९ ॥

या चित्रयुद्धभ्रमशस्त्रपात
मायेन्द्रजालप्लुतिलाङ्घिताढ्या ।
ओजस्विगुर्वक्षरबन्धगाढा
ज्ञेया बुधैः सारभटीति वृत्तिः ॥ ३.४० ॥

रौद्रे भयानके चैव बीभत्से च विचक्षणैः ।
काव्यशोभाकरी वृत्तिरियमित्थं प्रयुज्यते ॥ ३.४१ ॥

शस्त्रोद्दारितकुम्भिकुम्भविगलद्रक्ताक्तमुक्ताफलं
स्फारस्फूर्जितकान्तिकल्पितबृहच्चञ्चच्चतुष्कायितम् ।
क्रोधोद्धावितधीरधोरणलसअत्खड्गाग्रमुग्राग्रहं
युद्धं सिद्धवधूगृहीतसुभटं जातं तदा दुर्धरम् ॥ ३.४१ ॥

नायं गर्जिरवो गभीरपरुषं तूर्यं तदीयं त्विदं
नैते भीमभुजङ्गभोगरुचयो मेघा इमे तद्रजाः ।
इत्थं नाथ नवाम्बुवाहसमये त्वत्सैन्यशङ्काकुला
म्लायद्वक्त्ररुचो विरोधिवनितास्त्रस्यन्ति नश्यन्ति च ॥ ३.४१ ॥

पिबन्नसृक्स्वदन्मांसमाकर्षन्नन्त्रमालिकाम् ।
कबन्धसङ्कुले क्रोष्टा भ्रमत्येष महारणे ॥ ३.४१ ॥

हर्षप्रधानाधिकसत्त्ववृत्तिस्
त्यागोत्तरोदारवचोमनोज्ञा ।
आश्चर्यसंपत्सुभगा च या स्यात्
सा सात्वती नाम मतात्र वृत्तिः ॥ ३.४२ ॥

नातिगूढार्थसंपत्तिः श्रव्यशब्दमनोरमा ।
वीरे रौद्रेऽद्भुते शान्ते वृत्तिरेषा मता यथा ॥ ३.४३ ॥

लक्ष्म्यास्त्वं जनको निधिश्च पयसां निःशेषरत्नाकरो
मर्यादानिरतस्त्वमेव जलधे ब्रूतेऽत्र कोऽन्यादृशम् ।
किं त्वेकस्य गृहं गतस्य बडवावह्नेः सदा तृष्णया
क्लान्तस्योदरपूरणेऽपि न सहो यत्तन्मनाङ्मध्यमम् ॥ ३.४३ ॥

स्फारितोत्कटकठोरतारकाकीर्ण वह्निकणसंततिः क्रुधा ।
दुर्निमित्ततडिदाकृतिर्बभौ दृष्टिरिष्टसमरांशुमालिनः ॥ ३.४३ ॥

अत्यद्भुतं नराधिप तव कीर्तिर्धवलयन्त्यपि जगन्ति ।
रक्तान् करोति सुहृदो मलिनयति च वैरिवदनानि ॥ ३.४३ ॥

निवृत्तविषयासङ्ग मधुना सुचिराय मे ।
आत्मन्येव समाधानं मनः केवलमिच्छति ॥ ३.४३ ॥

प्रधानपुरुषप्राया सद्वक्रोक्तिनिरन्तरा ।
भारतीयं भवेद्वृत्तिर्वीरहास्याद्भुताश्रया ॥ ३.४४ ॥

जन्मदेहवधबन्धनादिकं
तुल्यमेतदितरैः समं सताम् ।
यत्तथापि विपुलाचलाः श्रियः
साहसैकपरतात्र कारणम् ॥ ३.४४ ॥

यशोदाकृतरक्षस्य शासितुर्भुवनद्रुहाम् ।
बाल्ये निभृतगम्भीरो हरेर्हासः पुनातु वः ॥ ३.४४ ॥

निर्भयोऽप्येष भूपालस्तद्ददाति द्विषां युधि ।
असत्तेषु यशः शुभ्रमादत्ते चेदमद्भुतम् ॥ ३.४४ ॥

इत्यादि रम्याः प्रविलोक्य वृत्तीर्
दृष्ट्वा निबन्धांश्च महाकवीनाम् ।
आलोक्य वैचित्र्यमिदं विदध्यात्
काव्यं कविः सज्जनचित्तचौरम् ॥ ३.४५ ॥

विरसं प्रत्यनीकं च दुःसन्धानरसं तथा ।
नीरसं पात्रदुष्टं च काव्यं सद्भिर्न शस्यते ॥ ३.४६ ॥
विहाय जननीमृत्यु शोकं मुग्धे मया सह ।
यौवनं मानय स्पष्टमित्यादि विरसं मतम् ॥ ३.४७ ॥
प्रबन्धे नीयते यत्र रस एको निरन्तरम् ।
महतीं वृद्धिमिच्छन्ति नीरसं तच्च केचन ॥ ३.४८ ॥
नखक्षतोच्छलत्पूति प्लुतगण्डस्थलं रतौ ।
पिबामि वदनं तस्याः प्रत्यनीकं तदुच्यते ॥ ३.४९ ॥
तामेवानुचितां गच्छ ज्वलिता त्वत्कृते तु या ।
किं ते कृत्यं मया धूर्त दुःसन्धानरसं त्विदम् ॥ ३.५० ॥
दुर्जनो दयितः कामं मनो म्लानं मनोभवः ।
कृशो वियोगतप्तायास्तस्या इत्यादि नीरसम् ॥ ३.५१ ॥
मुग्धा व्याजं विना वेश्या कन्येयं निपुणा रतौ ।
कुलस्त्री सर्वदा धृष्टा पात्रदुष्टं त्विदं मतम् ॥ ३.५२ ॥
अन्येष्वपि रसेष्वेते दोषा वर्ज्या मनीषिभिः ।
यत्सम्पर्कान्न यात्येव काव्यं रसपरम्पराम् ॥ ३.५३ ॥
इति मया कथितेन पथामुना
रसविशेषमशेषमुपेयुषा ।
ललितपादपदासदलङ्कृतिः
कृतधियामिह वाग्वनितायते ॥ ३.५४ ॥
शृङ्गारतिलको नाम ग्रन्थोऽयं ग्रथितो मया ।
व्युत्पत्तये निषेवन्तु कवयः कामिनश्च ये ॥ ३.५५ ॥
कान्या काव्यकथा कीदृग्वैदग्धी को रसागमः ।
किं गोष्ठीमण्डनं हन्त शृङ्गारतिलकं विना ॥ ३.५६ ॥
त्रिपुरवधादेव गतामुल्लासमुमां समस्तदेवनताम् ।
शृङ्गारतिलकविधिना पुनरपि रुद्रः प्रसादयति ॥ ३.५७ ॥

इति श्रीरुद्रभट्टविरचिते शृङ्गारतिलकाभिधाने काव्यरसालङ्कारे
हास्यादिरसनिरूपणं नाम तृतीयः परिच्छेदः ।

"https://sa.wikisource.org/w/index.php?title=शृङ्गारतिलकः&oldid=119171" इत्यस्माद् प्रतिप्राप्तम्