शृङ्गारकलिकात्रिशती (कामराजदीक्षितविरचितम्)

विकिस्रोतः तः
शृङ्गारकलिकात्रिशती
कामराजदीक्षितः
१९३८

श्रीकामराजदीक्षित विरचिता शृङ्गारकलिकात्रिशती। लक्ष्मीविहृतविलासावलोकितानन्दितस्वान्तः । पश्यति गुरौ विधातरि लज्जानतकन्धरो हरिर्जयति ॥ १ ॥ प्रतिपादयति समुद्रे लक्ष्मीमन्तःपटे धृते गुरुबुधाभ्याम् । तद्वदनदर्शनोत्कः प्रपदालम्बी हरिर्जयति ।। २ ।। १. श्रीकामराजदीक्षितोऽयमक्षरगुम्फार्यानिशत्योः कर्तुः श्रीसामराजदीक्षितस्य सुत आसीत् । कामराजदीक्षितकृतौ द्वावेव ग्रन्थावुपलभ्यते (१) शृङ्गारकलिका- त्रिशतीनामको मुक्तकग्रन्थः, (२) काव्येन्दुप्रकाशाख्योऽलंकारग्रन्थश्चेति. शृङ्गारकलिकात्रिशती। देवः स पातु दितिजनिनायकनिधनैधिताधिकक्रोधः । लक्ष्मीवदनसुधाकरदर्शनसंजातसौम्यसद्भावः ॥ ३॥ योगान्तरं न योगे सत्येकस्मिन्भवति शशिशीर्षे । कृतपद्मासनरचने जयति(तरां) स्तब्धचरणार्या() ॥ ४॥ नाभीकमलनिवासश्चतुर्मुखश्चिन्तया मुग्धः । पुरुषायिते रमायाः संमीलितलोचनो विधिर्जयति ॥ ५॥ क्षीराम्बुधौ मुकुन्दं स्थितं समालोक्य शेषशय्यायाम् । तद्दक्षिणाक्षिमीलनलग्नकरा सा जयति लक्ष्मीः ॥ ६॥ लक्ष्मीपाणिच्छन्ने दक्षिणनयने भुरारातेः । आनन्दितः कुटुम्बी जयति विधिर्नाभिवास्तव्यः ॥ ७ ॥ लक्ष्मीमुखमालोकति भगवति सेर्ष्या वचोदेवी । ननु वदनान्निजवीणाक्वणनमिषाज्जयति हुंकृतिं ददती ॥ ८॥ वाल्मीकप्रभृतीनां चरणयुगं संततं हृदि भजामि । यद्वशतः पदबन्धे सामर्थ्यं जायतेऽसदादीनाम् ॥ ९ ॥ हृदि भावयामि सततं तातं श्रीसामराजमहम् । यत्कृतमक्षरगुम्फं कवयः कण्ठेपु हारमिव दधते ॥ १०॥ संपादितसुरसार्थव्यञ्जनपदबन्धदृष्टसद्भावम् । वाचस्पतिमिव काव्यं विबुधाः पश्यन्तु विनयमुखाः ॥ ११ ॥ उद्धृृतदोषा सगुणा युक्तैकावलिमुखैरलंकारैः । सरसा सुवृत्तवर्णा कविता वनितेव मानसं हरति ।। १२ ॥ सुजनः करोतु हृदये कृतिमेतां ब्राह्मणो यथा वेदम् । यदि दुर्जनोऽन्त्यज इव त्यजति तदा कैव हानिरस्माकम् ॥ १३ ॥ मुग्धामिव युबलोकाः सरसां शृङ्गारकलिकाख्याम् । कमलकलिकामिवालय एनां रसयन्तु रसिकजनाः ॥ १४ ॥ काव्यमाला। श्रीसामराजजन्मा तनुते श्रीकामराजकविः । मुक्तककाव्यं विदुषां प्रीत्यै शृङ्गारकलिकाख्यम् ॥ १५ ॥ असमशरबाणवैधव्यथिताङ्गी मीननयना सा । स्मृतदयितसंगमसुखश्लथनीवी जीवितं धत्ते ॥ १६ ॥ अपयास्यति पञ्चशरः षष्ठेऽहनि किं करिष्यति ममायम् । इत्यालम्बितधैर्या मर्यादां नातिचक्राम ॥ १७॥ अवधिं विधाय तरसा दिनपञ्चकमञ्चितं सुभ्रूः । पिकनिकरश्रुूतपञ्चमशब्दा पञ्चत्वमापेदे ।। १८ ॥ अक्षद्यूते विरचितसुरतषणे प्रेयसि प्रसभम् । आलोक्य सखीक्दनं साचिमुखी1 प्राहसद्बाला ॥ १९ ॥ अतिकठिनं कृष्णमुखं स्तनयुगलं भाति जलजाक्ष्याः शृङ्गारपूर्णकलशद्वयमिव मदनस्य मुद्राङ्कम् ॥ २० ॥ अतिशयितप्रीतिजुषोरकलितचिबकं नताधरं यूनोः । श्रुतशब्दमात्रमहृताधररागं चुम्बनं जयति ॥ २१ ॥ अवतार्य भूषणचयं यावत्स्नातुं समेति हरिणाक्षी। तावत्क्षुतवति मयि सा पुनर्दधौ नासिकाभरणम् ।। २२ ।। आगामिनि बुधवारे भविता सखि मङ्गलो वारः । श्रुत्वा चकितेऽन्यजने स्वयमादित सा कदम्बसौभाग्यम् ।। २३ ॥ आश्लेषलालसे सति दयिते बाहू रसात्प्रसारयति । नैजाङ्गुलित्रयमियं नतानना दर्शयामास ॥ २४ ॥ १. कामराजदीक्षितसुतेन व्रजराजदीक्षितेन रचिता, (१) रसिकरञ्जनम्, (२) वल्लभाख्या नाटिका, (३) शृङ्गारशतकम्, (४) षडृतुवर्णनं चेति अन्य चतु- ष्टयी प्राप्तेति (The odor Aufreohts Catalogus catalogorum). शृङ्गारकलिकात्रिशती। इयदेव मानिनीनां संमाननमानतानने भाति । यद्धूलिधूसरालककलिक एष ते प्रियः पुरतः ॥ २५ ॥ इङ्गितमेव मनोगतमस्याः स्फुटमातनोत्यभिप्रायम् । यदनिशमेषा बाला वातायनसंश्रिता भवति ॥ २६ ॥ ईप्सितमस्याः कः किल वेद यदेषालिमध्येऽध्वम् । रोषकषायितसालसनयना सहसा स्थिरीभूता ॥ २७ ॥ ईदृशमेव तवेदं रूपं द्रष्टुं मदीयनयनयुगम् । धृतजन्म जन्मभाजां नवं नवं प्रीतिमावहति ।। २८ ।। ईश्वर एव जगत्यां शृङ्गाररसीयसारवेत्तास्ति । यः सर्वदार्धनारीभूतशरीरो वियोगभीत्येव ।। २९ ।। उद्गतकुचां नवोढां वीक्ष्य तथा परिचचारार्या। भर्तुः प्रसादमनिशं प्राप यथा सा त्रियामार्धम् ।। ३०॥ 'उन्नमितकर्णयुगलं किमु धावसि गानलोभेन । गन्धवहपूरितान्तरकीचकशब्दोऽयमुल्लसति ॥ ३१ ॥ उद्भिन्नस्तनमुकुलां प्रतिवेशिवधूं विलोक्य युवा । क्रीडति जम्बीरयुगं निजमधरं दशति साकूतम् ॥ ३२ ॥ ऊर्ध्वज्ञुस्थितमर्धासनोपविनिवेशितैककरम् । ऊर्ध्वमुखमूर्धितैकस्तनमस्या लीलया दृषत्क्षेपः ॥ ३३ ॥ ऋद्धिं परस्य वीक्ष्य प्रतिवेश्मा मोदमावहति । सत्यपि विभवे गृहिणी भूषासु मनो न संधत्ते ॥ ३४ ॥ ऋजुरबला पतिमूचे मन्मातृगृहादयं प्राप्तः । उपचार्यतामितीत्थं गोपायत्यसमयागतं जारम् ॥ ३५ ॥ ऋक्षाणि मौक्तिकानि प्रसारितान्यङ्गणे नभसि । चन्द्रेण रागिणा किं पूर्वाशावारवनितायाः ।। ३६ ॥ २० काव्यमाला। ऋक्ष जनभयवशतो विज्ञाय सकम्बलं जारम् । परिषस्वजे कृशाङ्गीं रुदतीमथ जहास हलिकजनः ॥ ३७॥ ऋतुमभिगम्य वसन्ते पालाशं दरविकासकुसुमाग्रम् । दर्शयति सस्मितास्या निभृतं कौमारजाराय ॥ ३८॥ एतावदेव गुरुजनसमक्षमिन्दीवराक्षी सा । निजगाद ग्रहणस्य स्नानं गृह एवं दुःखिता तनयाम् ॥ ३९ ॥ एरण्डवीथिकान्तर्जारं गतमीक्ष्य हलिककन्या । तृणकर्तनत्वरामिषरङ्गिवने सा तदायासीत् ॥ ४० ॥ एतावतालमित्थं निगदन्तीं खिन्नसर्वाङ्गी। अवनतमुखी दिनान्ते सखीजनं हासयति सुभ्रुः ।। ४१ ॥ एतदिदं तत्कुसुमं गृहाण चरवर्णिनीत्युक्ता । यूना मिषेण नीता रभसात्कुञ्जोदरं सुतनुः ॥ ४२ ॥ एकक्रमात्प्रवृत्ता दूषणगणनाय तव सुभग सुभ्रूः । मयि मौनमञ्चति द्राग्गणनाभ्रंशे सलज्जहासाभूत् ।। ४३ ॥ ऐक्षवरसं हि मधुरं वदन्ति केचित्परेऽमृतं तु परम् । अर्हति न षोडशीमपि कलामवाप्तुं प्रियाधरसुधायाः ।। ४४ ॥ ऐन्दवमुदेतु बिम्ब निवृत्य यास्यामि नैजगृहम् । घनतरतमालवीथीपथेन संकेतमुपयामि ॥ ४५ ॥ ओमिति यत्प्रियदूतीं जगाद नतकन्धरं कुरङ्गाक्षी । प्रणवः स शीलखण्डननिगमारम्भस्य संकथितः ।।४६ ।। ओंकारः स्मरकेलेः स्वाहाकारो वियोगदुःखानाम् । उपगूहनहुंकारस्तस्याः करकङ्कणक्काणः ॥ ४७ ।। ओकसि पिपीलिकाभिः कृते वसत्यहिपतिः शीघ्रम् । किमसंभाव्यममुष्मिञ्जिह्मगतौ च द्विजिह्वे च ॥ ४८ ॥ शृङ्गारकलिकात्रिशती। औपम्यरहितमेतद्वदनं कथमिन्दुसदृशमद्याभूत् । इत्यालप्य सृगाक्षी साक्षीभूतं निनिन्द कन्दर्पम् ॥ ४९ ॥ औत्सुक्यादुच्चलितं मानेन पुनः स्थिरीकृतं हृदयम् । प्रियसदनं प्रति गन्तुं स्थातुं दोलायितं तस्याः ॥ ५० ॥ औदनमन्यत्रैकं चषकं परिवेषयन्ती सा। प्राधुणिकस्य तु पात्रे विहसन्ती द्वित्यमर्पयामास ।। ५१ ।। अञ्जनमलिनाधरपुटमवेक्ष्य दयितं कुरङ्गाक्षी । रोषकषायितनयना तत्संमुखमादधे मुकुरम् !! ५२ ।। अङ्के निवेश्य करकृतं चपकं चुबुक उन्नते तस्याः । आकारयति गुरुजनमपि तत्र च हुंकृतिः समं जयति ॥ ५३ ।। अम्बरमद्भुतमीदृशमेकं मम दीयतां सुभगे । श्रुत्वेति स्तब्धतनुः स पुनः कार्य विसस्मार ॥ ५४ ॥ अन्तः प्रेमलचित्तां मुग्धामनुकूलयति मयि रसेन । श्रवणोत्पलसंसर्पी जातो मधुकृन्निसृष्टार्थः ॥ ५५ ॥ अः कमलजाकराचस्पर्शसमुद्भूतमनसिजो जयति । रत्युत्कण्ठाजागरविकसितनाभीसरोजन्मा ।। ५६ ।। कलिका मधुकरपङ्क्तिं मदयत्यन्तस्थसौरभापि मालत्याः । रत्युत्सुकयोः खञ्जनयूनोः सनिधिर्धरा स्फुटीभवति ।। ५७ ।। कामप्रेतावेशग्रस्तः स खलु श्मशानवास्तव्यः । अर्धाङ्गे धृतदारो वन्दितचन्द्रः स्मरारिरपि ॥ ५८ ॥ कियदभिगोपयसि त्वं कितव परप्रणयिनीप्राण । कस्तूरिकापरिमलः कथमथ शक्यो वरीतुमयम् ।। ५९ ।। कीर्तनसमये शौरेर्वन्दत्सु जनेषु हरिदासम् । न चलति पदात्पदमपि पतिता तत्पादयोरार्या ।। ६० ।। ९२ काव्यमाला । कुतुकं विलोकयिष्ये मिषतो दधिविक्रयस्याहम् । संभ्रमविस्मृतकञ्चुकपरिधाना पुलककञ्चुकीं दधे ।। ६१ ॥ कूर्पासकमाश्लेत्रे काञ्चीं नीवीविमोक्षे च । याचितवती नयनयोश्चुम्बनसमये विमुग्धाभूत् ।। ६२ ।। केतकरजसा व्याप्टतमभवद्यूनोः कपोलतलम् । पाण्डरितमाननमभूचित्रं नलिनाभनयनायाः ॥ ६३ ॥ कैदारिकेऽत्र मार्गः किं वामे दक्षिणेऽथवेत्युक्ते । निकटोपवनावानं प्रदर्श्य सा नम्रितास्यासीत् ।। ६४ ॥ कोपकषायितनयना नयनाञ्चलसत्कृशानुन्ने । पादपतितेऽपि नीवीमाकर्षति सस्मिता सखीमैक्षत् ॥ ६५ ॥ कौतुकदर्शनलालसचित्तेन स्वगृहरक्षणे गुरुजनेन । विनियुक्तापि मृगाक्षी पुलकितवपुरास सा नितराम् ।। ६६ ॥ कंदर्पाकुलचित्ता गुरुजनपुरतो नवोढा सा । लज्जामन्थरतारकमालोक्य पतिं निशश्वास ॥ ६७ ।। कः किल कथ्यः कुतुकं नागेशस्तल्पितो येन । तल्पीकृतोऽध सोऽपि व्रजनार्या मल्लिकाकुञ्जे ॥ ६८ ॥ खर्जुरीरानयितुं नियोजिता बत गतैकाहम् । आरोहणावरोहणसमये मम खण्डितो देहः ॥ ६९ ।। खाण्डवमधुरिमलुब्धो भाण्डपतद्धारयानुलिप्ताङ्गः । मार्जनमिषेण लमा धिक्कार्या सा विभीषयति लोकम् ॥ ७० ॥ खिद्यतु मां गुरुलोकः कथमेनां वार्षिकीं यात्राम् । त्यक्तुं समुत्सहेऽहं यत्र स्त्रीपुंससंमर्दः ।। ७१ ॥ १. 'नयनान्तकृशानुनानुन्ने' इति युक्तं प्रतिभाति. शृङ्गारकलिकात्रिशती। खुरधातदलितपृथ्वीरजोभिरभितोऽम्बरे व्याप्ते । पशुभिः सायं यूनोः कयोश्चिदालिङ्गनं जयति ॥ ७२ ॥ खेदाय मे भवति तद्गोपायसि यदम्बुजाक्षि महिमानम् । यावकपदाङ्किता ते कथयति भालस्थली सुकृतम् ॥ ७३ ॥ खञ्जननयने मानं मुञ्च बधान प्रिये प्रीतिम् । प्राप्तैव विजयदशमी यास्यन्ति न वासरा याताः ॥ ७४ ।। गजमदसुगन्धिशाल्मलितरूमालोक्य प्रगे व्याधी । पर्यचरत्पतिमधिकं गुजाभूषाकुरूपमपि ॥ ७५ ।। गायत्रीजपपूतं मम मुखमुच्छिष्टमातेने । प्रातरिति वदति दयिते हसत्सु लोकेषु नम्रितास्याभूत् ॥ ७६ ॥ गिरिकन्याशंकरयोस्तस्मै प्रेम्णे नमस्कुर्मः । यत्र कटाक्षक्षेपे जयति समं नित्यमभिलाषः ।। ७७ ॥ गीष्पतिदारविहारी चन्द्रः स कलङ्कतामाप्तः । स पितामहः स्वकन्यागामी तत्सत्य आभाणः ॥ ७८ ॥ गुणपूर्णे किं मानैर्वर्षाः प्रतियान्तु धर्मसमयेऽपि । सुरभिः शरच शिशिरो हेमन्तो जायतां नित्यम् ॥ ७९ ॥ गूढव्यञ्जद्विनयप्रवृत्तमदनगुलिकाकृति1स्तन्व्या । यदि मोहिता युवानः पूर्णकुचाग्रे तु '2किं कर्ता ॥ ८० ॥ गेहक्रियासु गुरुजननियोजिता संभ्रमत्वरिता । वसनाञ्चलसंवरणव्याजेनादर्शयत्स्वाङ्गम् ॥ ८१ ॥ गैरिकमण्डितगण्डः सखि यातु करी विधेहि दयाम् । विरचितपत्रालिकुचे पुरतो मा याहि मा याहि ॥ ८२ ॥ १. 'कृतौ तन्व्याः' इति युक्तम्, २. का वार्ता काव्यमाला । गोपस्त्रियः प्रदर्श्य स्तनयुगलं तन्तुजालकृतकञ्चुक्याः । कन्दुकमिममर्पय मे हरिणेत्युक्ते जहास नन्दवधूः ।। ८३ !! गौरववशतो बालामधिकतरं पर्यचरदार्या । उद्भिन्नरोमलतिकाफलायितस्तनमुकुलयुग्माम् ॥ ८४ ॥ गङ्गातरङ्गशीतलपवनस्पर्शेन भिन्नगात्राहम् । कथमुपयामि नमस्यापुष्पाहरणाय गुरुजननियुक्ता ।। ८५ ।। गः कार्तिकेयशङ्कातङ्कितहृदयोऽङ्कमारूढः । स्ववदनशुण्डादण्डाकलितशिवास्तनयुगो जयति ॥ ८६ ॥ घनतरघनाधनानामचिरद्युतिभीषिताखिलजनानाम् । आलोक्य यातृयुगलं सुखितैका दुःखितापरा चित्रम् ।। ८७ ।। घातुकमदनशराहतिजर्जरिताङ्गी विचेतनापि वधूः । आलीमुख1निसृतप्रियनामश्रवणेन सोज्जीवा ॥ ८८ ॥ घुर्घुरति वेत्रवत्यास्तीरोपवनेषु मण्डलकः । सखि वद कथमुपयास्ये सलिलाय नियोजयत्यार्या ।। ८९ ॥ घूर्णितनयनो मधुना कुलाङ्गनाशीलखण्डनोद्युक्तः । आलिङ्गति पर्यङ्कस्थितमार्जारीं तदीयनखदूनोऽपि ।। ९० ॥ घोषं नवजलदानां श्रुत्वा विरहाकुला तन्वी । निश्वासच्छलतो ननु पवनास्त्रं तत्र निक्षिपति ॥ ९१ ।। 'घण्टाघोषं श्रुत्वा शिवगानश्रवणभक्तिमती । 'पतितं स्तनांशुकमपि न वेद तत्संमुखस्थापि ।। ९२ ।। ङाराधनाभिसक्ता प्रतिदिनमेकाकिनी यान्ती। आर्याधिसायमनिशं खिन्नशरीरा समायाति ॥ ९३ ॥ १. 'विस्मृतवति' इति साधु, शृङ्गारकलिकात्रिशती। चरणानतदायतशिरःशिरोरुहग्रथितमञ्जीरा । लघु मोचयन्त्यवनता गतमाना लक्षिता सहचरीभिः ।। ९१।। चामीकराङ्गकान्तिः कृतान्धकाराभिसारवेषापि । संस्मृतदयितसमागमजातस्तम्मा जनैर्ज्ञाता ॥ ९५ ।। चिरपरदेशनिवृत्ते दयिते विरहातुरा तन्वी । उषसि स्मृतताम्बूला जहास चाहासयत्तमपि !! १६ ॥ चीनार्द्रचीवरपरिष्वक्तविभक्ताखिलावयवा । रसमग्नेव नताङ्गी नाङ्गीकुरुते मनः कस्य ।। ९७ ।। चुम्बनमसकृद्यूनोर्गवाक्षनिर्विष्टवक्त्रयोर्जयति । प्रविवेशतः प्ररूढे प्रेमलतायाः प्रसूनमिव ।। ९८ ॥ चूर्णप्लुष्टरसज्ञः पद्माक्ष्याः प्रथमवीटिकादाने । उपहस्यते प्रभाते वचने वचने प्रजावत्या ।। ९९ ॥ चेतश्चञ्चलभावं मुञ्च बधानान्तरे धैर्यम् । पिकरवमन्मथडिण्डीघोषकरो याति मधुसमयः ।। १०० ॥ रसिकानन्दनिकायां श्रीमत्कविकामराजचितायाम् । इति शतकं परिपूर्ण प्रथमं शृङ्गारकलिकायाम् ॥ १॥ द्वितीयं शतकम्। भोक्तुं प्रतीक्षते त्वां द्विपास्य पञ्चाननः सदने । श्रुत्वा धात्रीवचनं पलायितो गणपतिर्जयति ॥१॥ चैत्रे विगलितपत्रे कुञ्जे परिलमबहुगुञ्जे । आलीषु गण्डपालीलीना पुलकेषु मीनाक्ष्याः ॥ २ ॥ nirma+. १. "प्रविवेश तत्प्ररूढम्' इति युक्तम्, काव्यमाला। चोरमुपागतमीक्ष्य ध्वान्ते शिश्लेष भीषयितुमेषा। सोऽपि तदानन्दवशाचौर्यं का विसस्मार ॥ ३ ॥ चौहारपीठनिलयो धूर्तस्तपसि स्थितः कश्चित् । साकूतमानतमुखं सह समरोदीदरोदयकांचित् ॥ ४॥ चन्दनपङ्कजलार्द्रा वक्षसि निहिता जलार्द्रापि । शुष्यति तत्क्षणमस्याः किं कुर्मः कं प्रति ब्रूमः ॥ ५ ॥ चः खलु शीतप्रकृतिर्जगति स्थितिरीदृशी प्रथिता । कथमिव मयि तिग्मतरो भ्रमत्यहो पद्मिनीनाम्ना ॥६॥ छत्रमिव ग्रामस्य प्ररोहनिभृतो व्यलोकि वटः । श्रुत्वेति वधूवचनं बभूव मलिनानना श्वश्रूः ॥ ७ ॥ छायामर्यमकरिणोत्तानितकमलस्य सखि पश्य । कोकमिथुनं निषीदति तपति खरे खरमयूखेऽस्मिन् ॥ ८ ॥ छिद्रवति वंशिके त्वं मधुरिपुमधुरामृतस्तृप्ते । गायसि मधुस्वरं यत्कस्य न विदितासि लोकेऽस्मिन् ॥ ९॥ छुरितं लीलामिषतः प्रियस्य पैष्टातकं रजोऽक्षियुगे। अभिनवरतविवशाङ्ग्या श्लथनीवीबन्धया सुदृशा ॥ १० ॥ छेकमुखोद्गतसुश्रुतसमागतश्लोकसन्ततिस्तन्वी । पुरुषायिते कथमिति प्रश्नेनापाहरद्दयितशङ्काम् ॥ ११ ॥ छन्दः प्रपठति दयिते चतुष्पदीरूपमम्बुजाक्षी तम् । सहसितमवदन्मर्त्यः कथमिव सक्तश्चतुष्पद्याम् ॥ १२ ॥ जगति जयन्ति न रामाः कति वा प्रियदीयमानमणिभूषाः । मम तु मणिभूषणानामङ्गस्पर्शं स ह्रतिनैव ।। १३ ॥ जारं गुर्जरगृहिणी विलोक्य कीटामिदंशनच्छलतः । प्रकटमकरोन्निजोरुद्वितयं सिचयं समास्फाल्य ॥ १४ ॥ शृङ्गारकलिकात्रिशती। जितमद्य मया दयित त्वदीयसौहार्दसंगत्या । धारयसि देहशोभां न विना मम दर्शनं कांचित् ॥ १५ ॥ जीवितमथ कथमिव सा दधातु भवता विना सुभग । भारायन्ते सुतनोर्वदने नयनोदविन्दवः पतिताः ॥ १६ ॥ जुष्टं पवनैर्घुष्टं पिकालिभिर्वनमनोकहैः पुष्टम् । हृष्टं चित्तं कृष्टं पतता सूर्येण झिल्लिभिस्तुष्टम् ।। १७ ॥ जूटीवन्धव्यापृतहरकरपरिकृष्टकेशायाः । किंचिन्मीलितनयनं सीत्कारो जयति गिरिजायाः ॥ १८ ॥ जेमनसमये लङ्गुकयुगलं परिवेषयन्ती सा । स्वकरेणादायैकं मर्दयता समुपहसितैव ॥ १९ ॥ जैत्रं तव वपुरस्त्रं यूनां विजयाय कृतमनङ्गेन । स्त्रीणां मृगङ्गीनां जयाय कुसुमेषवो विधृताः ॥ २० ॥ जोषं तिष्ठ तवैषा व्यलोकि शोभा परैव मया । निर्वर्तितेऽक्षिणी मे मा श्रुत्योर्निर्नृतिं धेहि ॥ २१ ॥ जङ्घाकरिकः प्रतिहृतदयितोऽप्यन्तः कृतार्थतामगमत् । उत्सुकसत्वरवनितास्खलितांशुकदृष्टवक्षोजः ॥ २२ ॥ झडिति समुपागतास्ते क्रीडनमपसारय त्वरितम् । उक्त्वेत्यसंवृततनुर्जगाम शिबिरं दुनोति तच्चेतः ।। २३ ।। झाङ्कारितनिजपक्षः पक्षी परितः परिभ्रमति । अधिपल्वलमितरे पुनरम्भः पास्यन्ति पक्षिणस्तु कथम् ॥ २४ ॥ झिल्लीझांकृतिमुखरे भिल्लीवेषा निशावदने । पल्लीपतेस्तनूजा मल्लीकुञ्जं गवेषयति ॥ २५ ॥ झुझुणुझुणितचरणकिङ्किणिजालं बालं समादाय । चुम्बति दयिते प्रेम्णा सखीं विलोक्याहसल्ललना ॥ २६ ॥ चतुर्दशगु० ७ काव्यमाला। झंगडथोंततधिक्कटमुरजध्वनिनादिते भुवने। लोके कुतुकविलोकिनि सरागमालोकनं जयति यूनोः ।। २७ ॥ झञ्झापवनोद्भूतासारविशीर्णाम्बुकणलेशाः । सीत्कुर्वन्ति तदीयेप्वङ्गेषु मनोजतप्तेषु ॥ २८ ॥ टिट्टिभकलकलमधिकं श्रुत्वा गुरुयन्त्रिता भवनकृत्ये । प्रददौ तक्रं सुतनुः पायसकरणाय याचिता दुग्धम् ॥ २९ । टीकत एव तडागं प्रान्ते कोयष्टिकस्तरुणः । संभावयति पुनस्तं चटुना कोयष्टिकी न किंचिदपि ॥ ३०॥ टंकारः स्मरधनुषः फटकारः शमदमादीनाम् । जयकारश्चित्तजनेर्भणितं जयति त्रपावत्याः ।। ३१ ।। ठणिति यदैव वरोरोर्मया श्रुतो नूपुरस्य रवः । अवलोकितगुरुल्लोकः कांचिदवस्थामहं प्राप्तः ॥ ३२ ॥ ठंकृतिमभिसंश्रुत्य क्षीवाक्षी सा क्षपान्तघटिकायाः । नीलमणिवासगृहगा कथयति दयिताय मध्यरात्रमिति ॥ ३३ ॥ डमरुडमत्कारचमत्कृतं गणेशं विलोक्य चलमौलिम् । दोलितशुण्डादण्डं जयन्त्युमाप्रेमहसितानि ॥ ३४ ।। डात्कृतिभीषितलोके प्रेतैः पितृकानने ह्यस्मिन् । नरमांसविक्रयागतपुंसो धैर्यं विलोकयत ॥ ३५ ॥ डिण्डिमधोषः समभून्मनस्विनीमानभङ्गाय । निशि रतवशयुवतीजनकाञ्चीकलकिङ्किणीक्वाणः ॥ ३६ ॥ डुलिमम्बुभङ्गिलोलां संस्थानविशेषशालिनीं वीक्ष्य। अवहत्पलाण्डखण्डप्रपाण्डुरां गण्डमण्डलीं सुतनुः ॥ ३७॥ डैण्डिमशब्दश्रवणस्तनितभ्रमभङ्गुरान्तरा तन्वी । चक्रे सखीर्निराशा राशा वदनावलोकनोत्तरला ॥ ३८ ॥ शृङ्गारकलिकात्रिशती। डोवीप्रभृतिरूपकविविधप्रतिरूपकाणि दृष्टानि । प्रतिरूपकं मयाद्य व्यलोकि लोकेऽद्भुतं सुभग ॥ ३९ ॥ डौडभशिशुं चरन्तं मुक्तशफरीविवृतवदनान्तः । दर्शयति प्रतिवेलं खेलन्ती दयितमम्बुनि हसन्ती॥ ४० ॥ ढक्कारव इव रतिपतिविजयप्रास्थानिको जयति । प्रत्यूषे शतपत्रप्रसूनपङ्क्तिस्फुटोन्नादः ॥ ४१ ॥ ढुण्ढोत्सवे सुकेशी प्रियह्रदि पैष्टातकं मुष्टिम् । अनुरागमान्तरस्थं प्रीत्येव समर्पयामास ॥ ४२ ॥ ढौकितवती स्तनाभ्यां देवकाशं ममापसर परतः । निगदन्तीत्थं दयितं मनस्विनी रात्रिपर्यन्ते ।। ४३ ॥ तस्याः स्मरामि सारीद्यूतपणे निजपराजयैकफले। पुरुषायिते श्रमाम्भःपरिचितमुत्कम्पितोरुवपुः ॥ ४४ ॥ तारुण्यगुणगरिष्ठे निन्दति नाथे पराङ्गनासक्तम् । तारापतिं प्रदर्श्यनतानना कमलनयनासीत् ॥ ४५ ॥ तिमिराभिसारिका सा नासापवनाहृतालिकुला । कैर्न विदिता वराङ्गी साङ्गीकृतमन्मथा विपिने ।। ४६ ।। तीरस्थितैणशावकनयना प्रतिबिम्बमम्बुनि प्रेक्ष्य । निकटनिषण्णः कश्चित्पुलकितगात्रो जहास नतवदनः ॥ ४७॥ तुलयन्त्यां वणिजोऽम्बुजनयनायां पण्यवस्तूनि । त्वरितागतोऽपि चित्रं पण्यग्रहणं विसस्मार ॥ १८॥ तूलपटीमपहाय स्वपिति सहस्येऽप्यनावृतशरीरः । अवलोकितनिजदयितानन्दपटानन्दितस्वान्तः ॥ ४९ ॥ ते पत्रिका प्रदिष्टा प्रिययेत्युक्त्वा निवेदिता पुंसाम् । श्रीकारमात्रसितामवलोक्य चिरं निशश्वास ॥ ५० ॥ काव्यमाला तैलङ्ग्यामनुरक्तस्त्वरितस्तन्वीविलोचनेषु युवा । तां निन्दतिस्म विहसन्विहसन्ती सा तमालिलिङ्ग भृशम् ।। ५१॥ तोषपरिफुल्लनयना पुलकितकुचमण्डला बभूव वधूः । यात्रायै गुरुलोके गच्छति गृहरक्षणे निवेश्यैनाम् ।। ५२ ॥ तौर्यत्रिकावलोके बलभीवातायनान्तस्था । सतनुमतनुं विदधतीं ह्यतनुं सतनुं ततान सा सुतनुः ।। ५३ ॥ तन्निजित्वरकण्ठी कण्ठीरवमध्यमा रामा । रामारामविहारे हारेण मनो न कस्य संहरति ।। ५४ ।। दलितकमलावलीनां परिमलमनिलाहृतं समाध्राय । शीतातुरा तु तरुणी सविधे भर्तुर्निशश्वास ।। ५५ ।। दाहहताखिलगात्री त्रीनपि दिवसान्कथं जीवेत् । वेतण्डतुण्डसेवां वारं वारं कुरुध्वमविवादा ।। ५६ ।। दिवसे दिवसे पीनं कुचयुगमानीलवदनमेणाक्ष्याः । आलोक्य तुष्यति पतिः कर्णाभ्यर्णावतीर्णपलितश्रीः ।। ५७ ।। दीप्ते दीप्तैः किरणैश्चण्डमरीचेर्जगति सखि चित्रम् । पाथः प्रयाति हित्वा वापीशैवालवल्लरी ललिता ॥ ५८ ॥ दुःसहतरं वदन्ती सखीजने निजविरहजं दुःखम् । श्रुत्वा प्रियस्य शब्दं द्वारि कृशाङ्गी समुदतिष्ठत् ॥ ५९ ॥ दूरतरदेशगमनोयुक्तं दयितं जगाद हरिणाक्षी । सायं यास्यति सदनं श्रुत्वेति स संनिवृत्तोऽभूत् ।। ६०॥ देवरकरकमलेरितशृङ्गच्युतसलिलधारया सेकः । उद्धतपुलकविनिह्रुवसाहाय्यं व्यतनुतारविन्दाक्ष्याः ॥ ६१ ॥ दैवमुपालभमाना जिगमिषति प्रियतमे गुरुजनोक्त्या । धृतसितवसना वसने यावकमभिपातयामास ॥ ६२ ॥ शृङ्गारकलिकात्रिशती । दोःपल्लवद्वयेन च्छादयति प्रियतमे प्रियानयने । पृच्छन्ती केति सखीमुत्तरयामास पुलकैः सा ॥ ६३ ॥ दौर्वाससमिव शाप शकुन्तला दयितसंगमे प्राप । बाला गुरुजनयन्त्रणमकृतरजोदृष्टिशान्तिविधिः ॥ ६४ ॥ दंदं मुहुर्वदन्ती निवेश्य वृद्धं पतिं सदने । पुलकितगात्री यवनी प्रययौ प्रतिवेशिना सह मदारम् ॥ ६५ ॥ धनुषा कुसुममयेन स्मरस्त्रिलोकीं विजेतुमसमर्थः । बाले कलयति भवती स स्तनगुलिकां धनुर्वल्लीम् ॥ ६६ ॥ धात्रे पिकाभिशिक्षितमक्षरयुगलं वदति बाले । बाले गुरुजनपुरतस्तव पतिमालोक्य हसिताहम् ॥ ६७ ॥ धिङ्मां चञ्चलहृदयामित्यात्मानं निनिन्द मदिराक्षी । आलोक्य मधुपरहितं कुञ्जं कुसुमाकरे काले ॥ ६८ ॥ धीरा विलासरभसा तस्याः प्रतिवेशिभिरकारि । सापि तथैवास सदा नमः सतीधर्मदैवाय ॥ ६९ ॥ धुन्वन्त्यां निजवसनं धूलीभिर्धूसरं तन्व्याम् । प्राप्तं मम लोलाभ्यां जनुषः साफल्यमक्षिभ्याम् ॥ ७० ॥ धूसरितं धूलीभिः शरीरमेतत्क्षतं च गोक्षुरकैः । भग्ना वलयाली मे तदपि विधेयो नियोग आर्यायाः ॥ ७१ ॥ धेनूनां धेनुभ्यः पुरोधसे शतमदान्न धेनूनाम् । सारं भासारम्भा सुरकरमस्याः स्म पश्यति स सारम्भः ॥ ७२ ॥ धैर्येण सखीवचनात्कृतमाना सा निनाय निशाम् । श्रुत्वाथ कुक्कुटरुतं प्रतिबोध्यालिङ्गितवती माम् ॥ ७३ ॥ धोरणिरलकालीनां तस्याः प्रियनिर्वृतिं चकारादौ । तदनु विलोलनमुच्चैस्तदनु कथा तदनु रतिविलासः ॥ ७४ ॥ १०२ काव्यमाला । धौताञ्जनाश्रुवदने वद नेयासौ त्वया कियती । रात्रिः शृणु चरणायुधकूजितशरणा समापतिता ॥ ७५ ॥ धंधनपरस्तपस्वी मुग्धामालोक्य ललितमौलिः । कर्णेजपवत्कर्णे जपं (च)कारान्यलोकस्य ॥ ७६ ॥ नवरङ्गपिहितगात्री पात्रीभूता युवप्रीतेः । नयनानन्दविधात्री रात्रीरेताः करोतु मे सफलाः ॥ ७७ ॥ नावि जनैः पूर्णायामारोढुं योषितमशक्ताम् । आरोहितुं प्रवृत्तो लेभे नौवाहिकस्तदाश्लेषम् ॥ ७८ ॥ निधिमिव जघनं तस्या रोमालीचिह्नितं नवोढायाः । नाभीमुद्रामुद्रितमालोक्यानन्दितस्थितस्तूष्णीम् ॥ ७९ ॥ नीवीबन्धे नीवीं दयिते परिमोक्तुमसमर्थे । बाला जहास निभृतं तथा यथाहासयत्स्वसखीः ॥ ८० ॥ नुन्नं प्रिययात्मानं पृथुना वृक्षोरुहैकेण । यात्राजनसंमर्दनरथ्यावदने युवा कृतिनमिव मेने ॥ ८१ ॥ नूतनमानन्दपटं प्रथमं सदने जनैार्व्याप्ते । प्रकटयति गोपयत्यपि गोपवधूर्विपरिवर्तितोरुयुगा ॥ ८२ ॥ नेय इतोऽयं बालो रोदनशीलः कृतककृतरोपम् । आह म सखीीला नतानना प्रियतमे चिरायाते ॥ ८३ ॥ नैशे तमसि मृगाक्षी लक्ष्यीकृत्य प्रियाभिसृतिम् । चलिताधिदेहलि पदं दोलारूढं मुहुर्मुहुरकर्षीत् ॥ ८४ ॥ नोल्लङ्घ्यति गुरूणां वचनं प्रतिवासरं तदाज्ञप्ता । शूकक्षतापि केतककुसुमान्यानयति पूजायै ॥ ८५ ॥ नौ संगमो विधाता स्वप्नेष्वप्यसहनो न संतनुते । उज्जागरतः स्वप्नो भ्रश्यति हा दैवबलवत्ता ॥ ८६ ॥ शृङ्गारकलिकात्रिशती । १०३

नन्दकुमारं यमुनातीरोपगतं विलोक्य कापि ययौ । कलशाकलनच्छलतः प्रकटितवक्षोजतटभुजामूला ॥ ८७ ॥ पतिमभिनववार्तागतमलोक्य मिषेण कीटदंशस्य । चैलाञ्चलमास्फाल्य प्रदीपनिर्वापणं चक्रे ॥ ८८ ॥ पादयुगप्रक्षालनसमयेऽस्मिन्राष्ट्र इत्युत्त्का । रचिताधिकृतापत्या सुतनुस्तनुदक्षिणादाने ॥ ८९ ॥ पिच्छलतरेऽम्बुपातैः कथमुपयास्यामि वापिकातीरे । इति कृतकरोषचचना गुर्वाज्ञता ययौ मुदिता ॥ ९० ॥ थीवानमीक्ष्य तरुणं प्रत्यानयनेऽस्य रचितबहयोगा । नतवदना म प्रातर्दैवे दोषं निवेशयति ॥ ९१ ॥ पुरतः पदं निधातुं सलिलान्तर्बिभ्यतीं सुतनुम् । कृत्वा करे पुरोधाः संस्नापयितुं चमच्चकारान्तः ॥ ९२ ॥ पूजितमानमति विगो(?)स्वामिनमङ्गनाजने भक्त्या । प्रत्युत्थापनसमये प्रति पदमासामसौ मुमुदे ॥ ९३ ॥ पेटीगृहीतुकामे दस्यौ प्राप्ते प्रतीक्षन्त्याम् । दयितायां मौनवतोस्तयोरभून्मन्मथो दूतः ॥ ९४ ॥ पैतृकविधिप्रवृत्तः करेण पिण्डं समादाय । साकूतहासमैक्षद्दयितावदनं युवा कश्चित् ॥ ९५ ॥ पोत्रिणि तटाकतीरे प्ररूढमुस्ताक्षतिप्रवाणे । पाशं सितालिमध्ये करञ्जकुञ्जस्य सौभाग्यम् ॥ ९६ ॥ पौगण्डवं व्यतीता पल्लीपतिकन्यकोद्याने । प्रतिवेशसारिणीजलमलापयन्नैजसारिण्याम् ॥ ९७ ॥ पण्डितवपूर्विचित्रं पराङ्गनारङ्गरञ्जितमनाः । भर्तरि दिवमुपयाते चितानलान्तः प्रजज्वाल ॥ ९८ ॥ १०४ काव्यमाला ।

फलितापि सखे ललिता द्राक्षालतिका मनो विनोदयति । परिपाकाधिकसरसा प्रतिपदपरिदृश्यमानबहुबन्धा ॥ ९९ ॥ फाणितपरिवेषणमिषवशतस्तरुणं वधूर्विलोकयति । सोऽप्यलमिति तां द्वावपि पूर्णं द्रोणं न जानीतः ॥ १०० ॥ रसिकानन्दनिकायां श्रीमत्कविकामराजरचितायाम् । शतकं द्वितीयमेतत्पूर्णं शृङ्गारकलिकायाम् ॥ १ ॥


तृतीयं शतकम् । जयति स कामः कामं कमनीयतरः कलाकलितः । येन किल जन्मतः प्राग्भविष्यता मोहितौ पितरौ ॥ १ ॥ फुल्लमतल्लीमल्लीवल्लीकुञ्जो निलीनालिः । आलोकितो मया किल बालो नालोचितो यशोदायाः ॥ २ ॥ फूत्कुर्वती प्रियस्य स्वहतसरोरुहरजःप्लुते नेत्रे । मिथ्यानिमीलिताक्ष्णा तूर्णं समचुम्बि मानिनी तेन ॥ ३ ॥ फेरुवदनानलशिखाप्रभाविभावितपथा निशीथिन्याम् । पञ्चशरैकसहायाभिसरति धन्यानुरागार्द्रा ॥ ४ ॥ फैरवशब्दं श्रुत्वाभिसारिकागमनदुन्दुभिध्वानम् । कृतकनिमीलितनयना पत्युर्नयने विलोकयति ॥ ५ ॥ बहुना किमिहोक्तेन प्रतियास्ये नैव नागरिङ्गवनम् । कतिभिर्नवोपभोक्तुं तत्र वलान्नागरिङ्गयुगम् ॥ ६ ॥ बाहू प्रसार्य दयिते याचत्याश्लेषमादरतः । सरजसमरन्दतुन्दिलमम्भोजं दर्शयामास ॥ ७ ॥ बिम्बीफलेऽधरपदं कुर्वति दैवे चकोराक्षी । अस्ताचलदिनकरयोः सहासलोकान्तरं सुचिरम् ॥ ८ ॥ शृङ्गारकलिकात्रिशती । १०५ बीजं कामः कन्दो जघनं नाभिस्तथा वालम् । कुचमुकुलमुकुलितोऽस्या रोमालीभूरुहो जयति ॥ ९ ॥ बुध एव सवितृसंनिधिवसतिस्त्यक्तोद्गतिः सततम् । अप्राप्तोऽप्युदयं यः कुशलं सकलस्य चिन्तयति ॥ १० ॥ बन्धयसि केशपाशं तथैव यूनां मनांसि नयनानि । चित्रायतस्य युक्तौ भवति न वा मुक्तिरेतेषाम् ॥ ११ ॥ भसितोद्धूलितदेहो दिगम्बरः कृत्तिमाञ्जटिलः । सोऽपि तिलतण्डुले यदि निरतः सकलैः किमपराद्धम् ॥ १२ ॥ भावं विज्ञातुमना मानिन्यास्तिर्यगालोक्य । द्वारोपान्ते विहसति वदत्यकाण्डे पुलकिताङ्गः ॥ १३ ॥ भित्तौ यूनि विरूढां तिलपुष्पीं दातुमायाते । सा निजपार्श्वविरूढामलुनात्तिलपुष्पिकां सकलाम् ॥ १४ ॥ भीरु तवायं को वा दुराग्रहो गुरुजनप्रश्ने । तावत्समयो यास्यति भिषजम्त्वद्दर्शनावशेषस्य ॥ १५ ॥ भुवनाधिनाथ भवता भवतापहरं किमाचरितम् । विरतिः श्लोकपदादौ प्रतिभाति न मानमान्तर्मे ॥ १६ ॥ भूषणपरिग्रहार्थं पेटीं सविधे समादधाना सा । हसितामालोक्य सखी तां च यथावभ्यितामकरोतु ॥ १७ ॥ भेषजमुपागतवति चिकित्सके दातुमबलायाः । वीक्षति नाडी लोको वैद्यान्तरमाजुहावाशु ॥ १८ ॥ भैमीभामाकररुहलालितपरिसंकुचच्चरणाः । स जयति कृष्ण: सस्मितवदनस्ताभ्यां सहासमुपदृष्टः ॥ १९ ॥ भोगिनमालोक्य करे शम्भोरपसारितकराब्जा । गिरिजा जयति करग्रहपरिचालितपाणिलेशेऽपि ॥ २० ॥ १०६ काव्यमाला । भौकलिमाणसस्थं ददती भक्ष्याणि पृच्छती वातास् । कनकमयपञ्जरान्तरतत्क्षणमभिवेशयामास ॥ २१ ॥ भङ्गविभङ्गीलोलां गङ्गायां वीक्ष्य कलहंसीम् । हंसं गवेषयन्तीं पथिकः श्लथगात्रतामाप ॥ २२ ॥ मधुपः कुसुमं मालाकारिणि न जहाति ते लुब्धः । नापैति वारितोऽपि हि किङ्करवैधृष्टमधुपेऽस्मिन् ॥ २३ ॥ मालाकारिणि मालामेनां कण्ठे ममार्पय प्रीत्या । एषा भवति महार्धा परतन्त्रां मां विजानीहि ॥ २४ ॥ मितभाषिणि तनुमाने सुरसे धृतलाघवासि तनुमाने । कथमिव सुरतौ दास्यं कुरुते तन्वति मयि रतौदास्यम् ॥ २५ ॥ मीलतु कुमुदं चन्द्रः प्रयातु चास्ताचलं रविरुदेतु । प्रभवामि नाम्बुजाक्षीं परिमोक्तुं निजभुजक्रोडात् ॥ २६ ॥ मुषितरदनक्षतादरमपहृतनखरक्षतं तन्व्याः । कूणितनेत्रप्रान्तं तस्याः स्मरचेष्टितं स्मराम्यनिशम् ॥ २७ ॥ मूकः केतकपत्रं मुग्धामालोक्य पाटयामास । सापि करस्थितमम्बुजमधोमुखं व्यतनुत प्रसभम् ॥ २८ ॥ मेषादीनां गणके कथयत्यायव्ययौ क्रमशः । पृष्टस्तृतीयभावं कया स जगाद समं भावम् ॥ २९ ॥ मैरेयघूर्णिताक्षिणि पृच्छत्यर्धं सहासमथ यूनि । अपहृतचेलाञ्चलया जगदे करकद्वयं गृहाणेति ॥ ३० ॥ मोचयति जीवितेशे पश्चान्मम कञ्जकीबन्धम् । उच्छिन्नबन्धमूल: पुलकः समभूत्सखि ममाङ्गे ॥ ३१ ॥ मौहर्तिकेन कथिते प्रवासदिवसे स्वगेहपतेः । गमनागमने भित्तेरपाकरोतीष्टिकाः सुभ्रूः ॥ ३२ ॥ शृङ्गारकलिकात्रिशती । १०७

मण्डनभूतं बालं मातृकुलादागता सुतनुः । कृतकृतकरोषतरला स्वापयति प्रतिपदं विलोकयति ॥ ३३ ॥ यजति निजगेहनाथे प्रातर्निद्राति मीलदक्षियुगा । पार्श्वस्थभित्तिसंरूढजारमुखमीक्ष्य हसिता सा ॥ ३४ ॥ यागं कुर्वति पत्यौ प्रवसति जारे समागते प्रष्टुम् । धूमच्छलगोपायितनयनजलं सा रुरोद चिरम् ॥ ३५ ॥ युगली रथाङ्गनाम्नोरमीमिलद्विकसिता कुमुदपङ्क्तिः । वाच्यं किमत्र चित्रं नैवास्ति प्रेम्णि निर्बन्धः ॥ ३६ ॥ यूना कम्पितधैर्या स्वपतिं दृष्ट्वा पलितशीर्षम् । प्रतिवेशवधूस्नेहच्छलतः प्रच्छन्नकमकार्षीत् ॥ ३७ ॥ येनोपहासविषये वयसि न तत्कार्यमित्युक्ता । नियमव्रतापदेशाद्भूशयनाभ्यासमातनुते ॥ ३८ ॥ यैर्ग्रथितेयं वेणी सुगन्धतैलैः कचान्समीकृत्य । मम कृतसीत्कारायास्तान्येव नखानि तां विमोक्षन्तु ॥ ३९ ॥ योजनमात्रं चलितं पान्थं सुकुमारमिन्दुमुखमीक्ष्य । दर्शयति बलात्स्वगृह> स्वास्तृततल्पं कमावसथ्याग्र्या ॥ ४० ॥ यौवनगर्वितमध्वगमात्मावसथं निनीषन्त्योः । विरचितवक्रकराङ्गुलि जयतितरामावसथ्ययोः कलहः ॥ ४१ ॥ यन्त्रपदाङ्गुष्ठयुगप्रहितो न पदात्पदं करी चलति । अभिसारिकाकुचद्वयदर्शनसंजातवारणाशङ्कः ॥ ४२ ॥ यः प्रतिपदं सखीभिः शिक्षावशतो न्यधायि हृदयेऽन्तः । उपपतिरिव सोऽपि गतो मानः प्रियदर्शनावसरे ॥ ४३ ॥ रत्नस्तम्भे स्वीयां प्रतिमामालोक्य रोषकलुपाक्षी । स्वान्तर्जनसमयोद्वेल्लत्करकमला वीक्ष्य तां जहास वधूः ॥ ४४ ॥ १०८ काव्यमाला । राजपथे विक्रेतुं कन्दुकयुगलं च लोहसर्पं च । आगतयोरथ यूनोर्मिथो जयत्यर्धनियमोक्तिः ॥ ४५ ॥ रिक्तोदपात्रकरतलमास मृगाक्षी सरित्तीरे । गुञ्जदलिपुञ्जमञ्जुलवञ्जुलजाले लताकुञ्जे ॥ ४६ ॥ रीतिमयभूषणापि हि चलति वधूः सा निमीलिताक्षियुगा । गर्भभरमन्थराङ्गी पुर: सपत्न्याः सकांस्यभूयायाः ॥ ४७ ॥ रुतमाकर्ण्य पिकानां का नाम न संभवेदुत्का । कथमुपनयाम्यनिद्रां चन्द्रांशुविभावितां रात्रीम् ॥ ४८ ॥ रूपभरगर्वशीला वाला वैवाहिके समये । नन्दति निजभवनजनेऽञ्जनबिन्दुः स्वालिके व्यतनोत् ॥ ४९ ॥ रेणुपरिधूसरालकचरमतनुः स्फोटितस्ववलयालिः । भग्नकलशा रुदन्ती बाला शनकैर्गृहमयासीत् ॥ ५० ॥ रैवतकभूपरिसरे भैमीभामायुतः कृष्णः । व्यत्ययमकरोद्विनिमयमनयोर्ज्येष्ठाकनिष्ठिकाभावे ॥ ५१ ॥ रोमलतिकालवाले पपौ रसं नयनखञ्जनद्वन्द्वम् । अतितृप्तिभावमाप्तं रसमास्वादयति नान्यमिदम् ॥ ५२ ॥ रौरवचर्मावृतया योगिरतासक्तया तमसि । आलिङ्गय भीषितः पतिरुपागतो मन्दमेणाक्ष्या ॥ ५३ ॥ रङ्गाजीववधूटीपरिपाटीं को नु विन्देत । सममेव युवजनानां मनांसि वासांसि रञ्जयति ॥ ५४ ॥ लज्जानताननायाः परिणयने भर्तृसंमुखीनायाः । ऊर्ध्वीकृततारायास्तदाननालोकनं जयति ॥ ५५ ॥ लाक्षारञ्जितचरणा चरणायुधकूजितं श्रुत्वा । प्रक्षालयति स्वीयौ चरणौ सलिलैरहो दृष्टा ॥ ५६ ॥ शृङ्गारकलिकात्रिशती । १०९

लिखति स्म मदनलेखं कमलदले नखरलेखन्या । पञ्चेषुरेष षष्ठं कथमकरोदिन्द्रियं क्षुब्धम् ॥ ५७ ॥ लीलादृषदुत्क्षेपोत्तरलितताराम्बुजाक्षी सा । स्वसखीमध्यनिविष्टा वलभीं तव पश्यति प्रसभम् ॥ ५८ ॥ लुलितालका वरोरूः समागते नैजगृहनाथे । अर्धोन्मीलितनयनं देवरमभिवीजयामास ॥ ५९ ॥ लूनामपि तिलबाटीं विलोक्य हलिकाङ्गना परितः । न बभार दुःखमन्तर्द्रष्टव्या कोशशणवाटी ॥ ६० ॥ लेखसमर्पणसमये क्रोधाविष्टे धराधिपतौ । राज्ञी जगाद कथमिव हन्तव्योऽयं मदीयकायस्थः ॥ ६१ ॥ लैङ्गिकमवापिता सा सख्या विरहाकुला बाला । नतिमिषतस्तमवादीदधुना शरणागताहमिति ॥ ६२ ॥ लोलनयनस्य पुंसः सविधेऽन्यजनस्य हृतवती चित्तम् । चैलाञ्चलसंयमनव्याजादमिदर्शितैककुचा ॥ ६३ ॥ लौहित्यं स्फटिकान्तः संक्रान्तं कौसुमं प्रदर्शयतः । सत्रासमन्यमेनं नतानना दर्शयामास ॥ ६४ ॥ चलिता प्रवसति दयिते द्वारोपान्तेषु गुन्द्रसलिलेन । अभिषिञ्चति साकूतं शंसन्ती त्वरितपरिवृत्तिम् ॥ ६५ ॥ लङ्घितुमसमर्थोऽयं दाक्षिण्यं वितथदत्तयन्त्रायाः । बहु मानयति कटूक्तिं तद्यातृप्रेमयन्त्रितो मन्त्री ॥ ६६ ॥ वारं वारं सुतनुर्द्वारमुपागत्य वीक्षतेऽश्रुमुखी । नो यास्थतीति प्रथमप्रस्थितकान्तस्य साध्वानम् ॥ ६७ ॥ विधिवन्नैजपुरोहितपूजायां चरणसंस्पर्शे । वनितायाः करयुगलप्रस्वेदेनाभवत्पाद्यम् ॥ ६८ ॥ ११० काव्यमाला ।

वीरुन्निकुञ्जभवनं कोटरपारावतालिहुङ्कारैः । सुरतप्रवृत्तयूनोरनुकुरुते मणितमिव सततम् ॥ ६९ ॥ वेत्रं सहासदेवरकरोद्धृतं वीक्ष्य जलजाक्ष्याः । वेणीदण्डाहतिततिसंक्रमितः पृष्ठतोऽपि च स्नेहः ॥ ७० ॥ वैशसमात्मप्रेम्णोर्विलोक्य सा नावदद्दूतीम् । स्मरमपवर्तिततारकमालिख्य चिरं निदाधतप्त(भुवि)भूमौ ॥ ७१ ॥ वौषट् प्रातर्मन्त्रं कोऽन्तर्युक्त्वा स्थिते तूष्णीम् । अध्वर्युर्न जुहोति द्यावाभूम्यन्तरं पश्यन् ॥ ७२ ॥ वञ्चनचतुरः कुतुकी यतमानो वेदिकामध्ये । विष्णुक्रमणं बहुशस्तनोति मन्त्रं विना चित्रम् ॥ ७३ ॥ शयने निद्रापगमात्ताम्यन्मनसोः स्वगौरवत्रतयोः । कृकवाकुरुतं श्रुत्वा जयतितरां किमपि तद्यूनोः ॥ ७४ ॥ शातमृगराजनखरत्रुट्यत्करिकुम्भमुक्तमुक्ताभिः । अध्वानमीक्ष्य कीर्णं मोदं खेदं दधौ समं बाला ॥ ७५ ॥ शिव शिव शिबिरं त्यक्त्वा किं करवै सखि बहिर्गतो दयितः । साकूतं च सहासं मया समाकुञ्चिते देहे ॥ ७६ ॥ शीतोपचारनिकरं शिशिरे सहतेऽम्बुजाक्षी सा । सोऽपि तदीयकुचद्वयसंस्पर्शात्खेदमावहति ॥ ७७ ॥ शुद्धं दिनं पतिगृहं प्रेषयितुं पितरि पृच्छति द्विजं कन्याम् । आकर्ण्य संमुखीनं शुक्रं सा मोदमाधत्ते ॥ ७८ ॥ शूलं दत्त्वा स्कन्धे पुनरित्थमिति प्रतर्पितो जगदे । अद्यापि न मम हृदयादपयान्ति तदीयनयनान्ताः ॥ ७९ ॥ शेवधिमिवाधिगम्य प्रियाकुचद्वन्द्वमथ मनसि । कुर्वन्मनोरथशतं जज्ञे कर्तव्यतामूढः ॥ ८० ॥ शृङ्गारकलिकात्रिशती । १११ शैशवजारमुपागतमसुको मम मातृभगिनीजः । इति सखजे गुरूणां पुरतो निर्व्याजमेणाक्षी ॥ ८१ ॥ शोधयति लिखति पुस्तकमभिके पठति प्रिया रात्रौ । दीपोद्द्योतनमिषतस्तैले रक्षां निवेदयति ॥ ८२ ॥ षाट्कौशिकं शरीरं शिष्याय गुरौ प्रकाशयति । साकूतहसितबदना जगाद काचिद्वरं किमङ्गेषु ॥ ८३ ॥ शुण्डादण्डाकृष्टे ग्रामासन्ने वटे भग्ने । मातङ्गजेन पङ्कजनयना नयनाम्बु तत्याज ॥ ८४ ॥ षोडशसहस्रवनिताः समं स रमयन्हरिर्देवः । कष्टं पुराणपुरुषः पुरुषैरितरैः प्रतिस्पर्ध्यः ॥ ८५ ॥ षण्ढोऽपि काममाविष्कुर्वन्नारोपितं स्मरावेशम् । खेदयति कामिनीमथ किमद्भुतं सखि मयि विधत्से ॥ ८६ ॥ सरसीसलिलान्तर्गतमधोमुखं सस्मिताननं तरुणम् । तीरस्थिता विलोक्य स्वाङ्गे पुलकानवीवहद्बाला ॥ ८७ ॥ सा निजसखीषु बहुशो रचितप्रियवाचिकानुकृतिः । सहसागतं विलोक्य प्रियमबला सस्मितास्यासीत् ॥ ८८ ॥ सिद्धिं नैजां स्त्रीषु प्रथयितुमुपघट्टमर्ककन्यायाः । वृक्षाधिरोहसंस्थां कुतुकी कश्चित्प्रदर्शयति ॥ ८९ ॥ सीतां लक्ष्मणचरितं प्रजावतीं नित्यशोऽभिगायन्तीम् । दृष्ट्वा श्रावयति परं तारा सुग्रीवचरितानि ॥ ९० ॥ सुषमा परावलोकि प्राप्तं जनुषः फलं ममाक्षिभ्याम् । अकुसुमफलोद्भवानां का नु मदन्या स्थली लोके ॥ ९१ ॥ ११२ काव्यमाला । सूरिणि कथयति धर्मं परदारांश्चिन्तयेन्नेति । आकर्ण्य चञ्चलाक्षी साचिमुखी प्राहसत्सुमुखी ॥ ९२ ॥ सेकेनार्द्रतनुः सा दैवान्नववार्षिकाभ्ररचितेन । प्रस्वेदपुलककम्पा नार्यायै गोपयामास ॥ ९३ ॥ सैरभवाहनमद्य स्वप्नेऽहमपश्यमिति पतिवचः श्रुत्वा । प्रथमं मुदितापि भृशं रुरोद परमङ्गना काचित् ॥ ९४ ॥ सोमार्धनिभं नखरक्षतं नवं प्रतिनिशं स्न(र)ते दयितम् । किमिदमिति दर्शयन्ती विहसन्ती खेदयति हलिकयोषा ॥ ९५ ॥ सौरतखेदात्सुप्तं विहसन्ती कापि संजगाद पतिम् । आवां मिथःसहायौ कुर्वः प्रविभज्य कार्यमर्धार्धम् ॥ ९६ ॥ संतत्यभाववशतः खिन्ने परिपृच्छति द्विजं दयिते । नैजमनपायिवन्ध्याभावं श्रुत्वा मुमोद मदिराक्षी ॥ ९७ ॥ हलिकाङ्गनान्धतमसाऽभिसारिणी निकटदेवकुले । हस्तेन परामृशती बुभुजे पान्थेन दृष्टचाषेण ॥ ९८ ॥ हासपरिपाटलाधरमाकूणितनेत्रमुल्लसद्गण्डम् । अलमिति यन्मदिराक्षी जगाद तत्कृन्तति हृदन्तः ॥ ९९ ॥ हिमनिबिडाश्लिष्टतनु प्रपीडितोरोजमभिशयानम् । रतये नु मिथुनमसकृत्प्रबोधयति हैमनः पवनः ॥ १०० ॥ रसिकानन्दनिकायां श्रीमत्कविकामराजरचितायाम् । शतकं तृतीयमेतत्पूर्णं शृङ्गारकलिकायाम् ॥ १ ॥


१ जहर्ष-मुमुदे.