शतपथब्राह्मणम्/काण्डम् ३/अध्यायः ५/उपरवविधिः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
उपरवविधिः.
सोमाभिषवणम्


३.५.४. उपरव विधिः

द्वयं वा अभ्युपरवाः खायन्ते । शिरो वै यज्ञस्य हविर्धानं तद्य इमे शीर्षंश्चत्वारः कूपा इमावह द्वाविमौ द्वौ तानेवैतत्करोति तस्मादुपरवान्खनति - ३.५.४.[१]

देवाश्च वा असुराश्च । उभये प्राजापत्याः पस्पृधिरे ततोऽसुरा एषु लोकेषु कृत्यां वलगान्निचख्नुरुतैवं चिद्देवानभिभवेमेति - ३.५.४.[२]

तद्वै देवा अस्पृण्वत । त एतैः कृत्या वलगानुदखनन्यदा वै कृत्यामुत्खनन्त्यथ साऽलसा मोघा भवति तथो एवैष एतद्यद्यस्मा अत्र कश्चिद्द्विषन्भ्रातृव्यः कृत्यां वलगान्निखनति तानेवैतदुत्किरति तस्मादुपरवान्खनति स दक्षिणस्य हविर्धानस्याधोऽधः प्रउगं खनति - ३.५.४.[३]

सोऽभ्रिमादत्ते । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णोहस्ताभ्यामाददे नार्यसीति समान एतस्य यजुषो बन्धुर्योषो वा एषायदभ्रिस्तस्मादाह नार्यसीति - ३.५.४.[४]

तान्प्रादेशमात्रं विना परिलिखति । इदमहं रक्षसां ग्रीवा अपि कृन्तामीति वज्रो वा अभ्रिर्वज्रेणैवैतन्नाष्ट्राणां रक्षसां ग्रीवा अपिकृन्तति - ३.५.४.[५]

तद्यावेतौ पूर्वौ । तयोर्दक्षिणमेवाग्रे परिलिखेदथापरयोरुत्तरमथापरयोर्दक्षिणमथ पूर्वयोरुत्तरम् - ३.५.४.[६]

अथो इतरथाहुः । अपरयोरेवाग्र उत्तरं परिलिखेदथपूर्वयोर्दक्षिणमथापरयोर्दक्षिणमथ पूर्वयोरुत्तरमित्यथो अपि समीच एव परिलिखेदेतं त्वेवोत्तमं परिलिखेद्य एष पूर्वयोरुत्तरो भवति - ३.५.४.[७]

तान्यथापरिलिखितमेव यथापूर्वं खनति । बृहन्नसि बृहद्रवा इत्युपस्तौत्येवैनानेतन्महयत्येव यदाह बृहन्नसि बृहद्रवा इति बृहतीमिन्द्राय वाचं वदेतीन्द्रो वै यज्ञस्य देवता वैष्णवं हविर्धानं तत्सेन्द्रं करोति तस्मादाह बृहतीमिन्द्राय वाचं वदेति - ३.५.४.[८]

रक्षोहणं वलगहनमिति । रक्षसां ह्येते वलगानां वधाय खायन्ते वैष्णवीमिति वैष्णवी हि हविर्धाने वाक् - ३.५.४.[९]

तान्यथाखातमेवोत्किरति । इदमहं तं वलगमुत्किरामि यं मे निष्ठ्यो यममात्यो निचखानेति निष्ठ्यो वा वा अमात्यो वा कृत्यां वलगन्निखनति तानेवैतदुत्किरति - ३.५.४.[१०]

इदमहं तं वलगमुत्किरामि । यं मे समानो यमसमानो निचखानेति समानो वा वा असमानो वा कृत्यां वलगान्निखनति तानेवैतदुत्किरति- ३.५.४.[११]

इदमहं तं वलगमुत्किरामि । यं मे सबन्धुर्यमसबन्धुर्निचखानेति सबन्धुर्वा वा असबन्धुर्वा कृत्यां वलगान्निखनति तानेवैतदुत्किरति - ३.५.४.[१२]

इदमहं तं वलगमुत्किरामि । यं मे सजातो यमसजातो निचखानेति सजातो वा वा
असजातो वा कृत्यां वलगान्निखनति तानेवैतदुत्किरत्युत्कृत्यां किरामीत्यन्तत उद्वपति तत्कृत्यामुत्किरति - ३.५.४.[१३]

तान्बाहुमात्रान् खनेत् । अन्तो वा एषोऽन्तेनैवैतत्कृत्यां मोहयति तानक्ष्णया संतृन्दन्ति यद्यक्ष्णया न शक्नुयादपि समीचस्तस्मादिमे प्राणाः परः संतृण्णाः - ३.५.४.[१४]

तान्यथाखातमेवावमर्शयति । स्वराडसि सपत्नहा सत्रराडस्यभिमातिहा जनराडसि रक्षोहा सर्वराडस्यमित्रहेत्याशीरेवैषैतस्य कर्मण आशिषमेवैतदाशास्ते - ३.५.४.[१५]

अथाध्वर्युश्च यजमानश्च सम्मृशेते । पूर्वयोर्दक्षिणेऽध्वर्युर्भवत्यपरयोरुत्तरे यजमानः सोऽध्वर्युः पृच्छति यजमान किमत्रेति भद्रमित्याह तन्नौ सहेत्युपांश्वध्वर्युः- ३.५.४.[१६]

अथापरयोर्दक्षिणेऽध्वर्युर्भवति । पूर्वयोरुत्तरे यजमानः पृच्छत्यध्वर्यो किमत्रेति भद्रमित्याह तन्म इति यजमानस्तद्यदेवं सम्मृशेते प्राणानेवैतत्सयुजः कुरुतस्तस्मादिमे प्राणाः परः संविद्रेऽथ यत्पृष्टो भद्रमिति प्रत्याह कल्याणमेवैतन्मानुष्यै वाचो वदति तस्मात्पृष्टो भद्रमिति प्रत्याहाथ प्रोक्षत्येको वै प्रोक्षणस्य बन्धुर्मेध्यानेवैतत्करोति - ३.५.४.[१७]

स प्रोक्षति । रक्षोहणो वो वलगहन इति रक्षोहणो ह्येते वलगहनो ह्येते प्रोक्षामि वैष्णवानिति वैष्णवा ह्येते - ३.५.४.[१८]

अथ याः प्रोक्षण्यः परिशिष्यते । ता अवटेष्ववनयति तद्या इमाः प्राणेष्वापस्ता एवैतद्दधाति तस्मादेषु प्राणेष्विमा आपः - ३.५.४.[१९]

सोऽवनयति । रक्षोहणो वो वलगहनोऽवनयामि वैष्णवानित्यथ बर्हींषि प्राचीनाग्राणि चोदीचीनाग्राणि चावस्तृणाति तद्यानीमानि प्राणेषु लोमानि तान्येवैतद्दधाति तस्मादेषु प्राणेष्विमानि लोमानि - ३.५.४.[२०]

सोऽवस्तृणाति । रक्षोहणो वो वलगहनोऽवस्तृणामि वैष्णवानित्यथ बर्हींषि तनूनीवोपरिष्टात्प्रच्छादयति केशा हैवास्यैते - ३.५.४.[२१]

अथाधिषवणे फलके उपदधाति । रक्षोहणौ वां वलगहना उपदधामि वैष्णवी इति हनू हैवास्यैते अथ पर्यूहति रक्षोहणौ वां वलगहनौ पर्यूहामि वैष्णवी इति दृंहत्येवैने एतदशिथिले करोति - ३.५.४.[२२]

अथाधिषवणं परिकृत्तं भवति । सर्वरोहितं जिह्वा हैवास्यैषा तद्यत्सर्वरोहितं भवति लोहिनीव हीयं जिह्वा तन्निदधाति वैष्णवमसीति वैष्णवं ह्येतत्- ३.५.४.[२३]

अथ ग्राव्ण उपावहरति । दन्ता हैवास्य ग्रावाणस्तद्यद्ग्रावभिरभिषुण्वन्ति यथा दद्भिः प्सायादेवं तत्तान्निदधाति वैष्णवा स्थेति वैष्णवा ह्येत एतदु यज्ञस्य शिरः संस्कृतम् - ३.५.४.[२४]



[सम्पाद्यताम्]

टिप्पणी

दर्शपूर्णमासादि हविर्यागेषु पेषणाय दृषदुपलयोः प्रयोगं भवति। सोमयागे एतयोः स्थाने अभिषवणफलकयोः उपयोगं कथितमस्ति। व्यवहारे सोमाभिषवणाय दृषदस्थानीया या शिला अस्ति, तस्याः उल्लेखं न उपलभ्यते।श्री मंगेश बाविकरानुसारेण अस्याः एका संज्ञा उपरहः अस्ति। द्वितीया संज्ञा अश्मा अस्ति -- रक्षोघ्नो वो वलगघ्नस्सꣳसादयामि वैष्णवान् तस्मिंश्चतुरो। ग्राव्ण्णः प्रादेशमात्रान् ऊर्ध्वसानूनाहननप्रकारानश्मनस्संसादयत्युपरं प्रथिष्ठं मध्ये पञ्चमम् । तमभिसंमुखा भवन्ति । स्थवीयांसि मुखानि ।(आश्वलायनश्रौतप्रयोगः)


द्र. दृषदोपरि टिप्पणी