सामग्री पर जाएँ

शुक्लयजुर्वेदः/अध्यायः २४

विकिस्रोतः तः
(शुक्‍लयजुर्वेदः/अध्यायः २४ इत्यस्मात् पुनर्निर्दिष्टम्)
← अध्यायः २३ शुक्लयजुर्वेदः
अध्यायः २४
[[लेखकः :|]]
अध्यायः २५ →

अध्यायः 24
आश्वमेधिकानां पशूनां देवतासम्बन्धिनि विधायिनो मन्त्राः

24.1
अश्वस् तूपरो गोमृगस् ते प्राजापत्याः कृष्णग्रीव ऽ आग्नेयो रराटे पुरस्तात् सारस्वती मेष्य् अधस्ताद्धन्वोर् आश्विनाव् अधोरामौ बाह्वोः सौमपौष्णः श्यामो नाभ्याꣳ सौर्ययामौ श्वेतश् च कृष्णश् च पार्श्वयोस् त्वाष्ट्रौ लोमशसक्थौ सक्थ्योर् वायव्यः श्वेतः पुच्छ ऽ इन्द्राय स्वपस्याय वेहद् वैष्णवो वामनः ॥

24.2
रोहितो धूम्ररोहितः कर्कन्धुरोहितस् ते सौम्या बभ्रुर् अरुणबभ्रुः शुकबभ्रुस् ते वारुणाः शितिरन्ध्रो ऽन्यतःशितिरन्ध्रः समन्तशितिरन्ध्रस् ते सावित्राः शितिबाहुर् अन्यतःशितिबाहुः समन्तशितिबाहुस् ते बार्हस्पत्याः पृषती क्षुद्रपृषती स्थूलपृषती ता मैत्रावरुण्यः ॥

24.3
शुद्धवालः सर्वशुद्धवालो मणिवालस् त ऽ आश्विनाः श्यॆतः श्येताक्षो ऽरुणस् ते रुद्राय पशुपतये कर्णा यामा ऽ अवलिप्ता रौद्रा नभोरूपाः पार्जन्याः ॥

24.4
पृश्निस् तिरश्चीनपृश्निर् ऊर्ध्वपृश्निस् ते मारुताः फल्गूर् लोहितोर्णी पलक्षी ताः सारस्वत्यः प्लीहाकर्णः शुण्ठाकर्णो ऽद्ध्यालोहकर्णस् ते त्वाष्ट्राः कृष्णग्रीवः शितिकक्षो ऽञ्जिसक्थस् त ऽ ऐन्द्राग्नाः कृष्णाञ्जिर् अल्पाञ्जिर् महाञ्जिस् त ऽ उषस्याः ॥

24.5
शिल्पा वैश्वदेव्यो रोहिण्यस् त्र्यवयो वाचे ऽविज्ञाता ऽ अदित्यै सरूपा धात्रे वत्सतर्यो देवानां पत्नीभ्यः ॥

24.6
कृष्णग्रीवा ऽ आग्नेयाः शितिभ्रवो वसूनाꣳ रोहिता रुद्राणाꣳ श्वेता ऽ अवरोकिण ऽ आदित्यानां नभोरूपाः पार्जन्याः ॥

24.7
उन्नत ऽ ऋषभो वामनस् त ऽ ऐन्द्रवैष्णवा ऽ उन्नतः शितिबाहुः शितिपृष्ठस् त ऽ ऐन्द्राबार्हस्पत्याः शुकरूपा वाजिनाः कल्माषा ऽ आग्निमारुताः श्यामाः पौष्णाः ॥

24.8
एता ऽ ऐन्द्राग्ना द्विरूपा ऽ अग्नीषोमीया वामना ऽ अनड्वाह ऽ आग्नावैष्णवा वशा मैत्रावरुण्योऽन्यत एन्यो ऽ मैत्र्यः ॥

24.9
कृष्णग्रीवा ऽ आग्नेया बभ्रवः सौम्याः श्वेता वायव्या ऽ अविज्ञाता ऽ अदित्यै सरूपा धात्रे वत्सतर्यो देवानां पत्नीभ्यः ॥

24.10
कृष्णा भौमा धूम्रा ऽ आन्तरिक्षा बृहन्तो दिव्याः शबला वैद्युताः सिध्मास् तारकाः ॥

24.11
धूम्रान् वसन्ताया लभते श्वेतान् ग्रीष्माय कृष्णान् वर्षाभ्यो ऽरुणाञ्छरदे पृषतो हेमन्ताय पिशङ्गाञ्छिशिराय ॥

24.12
त्र्यवयो गायत्र्यै पञ्चावयस् त्रिष्टुभे दित्यवाहो जगत्यै त्रिवत्सा ऽ अनुष्टुभे तुर्यवाह ऽ उष्णिहे ॥

24.13
पष्ठवाहो विराज ऽ उक्षाणो बृहत्या ऽ ऋषभाः ककुभे ऽनड्वाहः पङ्क्त्यै धेनवो ऽतिच्छन्दसे ॥

24.14
कृष्णग्रीवा ऽ आग्नेया बभ्रवः सौम्या ऽ उपध्वस्ताः सावित्रा वत्सतर्यः सारस्वत्यः श्यामाः पौष्णाः पृश्नयो मारुता बहुरूपा वैश्वदेवा वशा द्यावापृथिवीयाः ॥

24.15
उक्ताः संचरा ऽ एता ऽ ऐन्द्राग्नाः कृष्णाः वारुणाः पृश्नयो मारुताः कायास् तूपराः ॥

24.16
अग्नये ऽनीकवते प्रथमजान् आ लभते मरुद्भ्यः सांतपनेभ्यः सवात्यान् मरुद्भ्यो गृहमेधिभ्यो बष्किहान् मरुद्भ्यः क्रीडिभ्यः सꣳसृष्टान् मरुद्भ्यः स्वतवद्भ्योऽनुसृष्टान् ॥

24.17
उक्ताः संचरा ऽ एता ऽ ऐन्द्राग्नाः प्राशृङ्गा माहेन्द्रा बहुरूपा वैश्वकर्मणाः ॥

24.18
धूम्रा बभ्रुनीकाशाः पितॄणाꣳ सोमवतां बभ्रवो बभ्रुनीकाशाः पितॄणां बर्हिषदां कृष्णा बभ्रुनीकाशाः पितॄणाम् अग्निष्वात्तानां कृष्णाः पृषन्तस् त्रैयम्बकाः ॥

24.19
उक्ताः संचरा ऽ एता शुनासीरीयाः श्वेता वायव्याः श्वेताः सौर्याः ॥

24.20
वसन्ताय कपिञ्जलान् आ लभते ग्रीष्माय कलविङ्कान् वर्षाभ्यस् तित्तिरीञ्छरदे वर्तिका हेमन्ताय ककराञ्छिशिराय विककरान् ॥

24.21
समुद्राय शिशुमारान् आलभते पर्जन्याय मण्डूकान् अद्भ्यो मत्स्यान् मित्राय कुलीपयान् वरुणाय नाक्रान् ॥

24.22
सोमाय हꣳसान् आ लभते वायवे बलाका ऽ इन्द्राग्निभ्यां क्रुञ्चान् मित्राय मद्गून् वरुणाय चक्रवाकान् ॥

24.23
अग्नये कुटरून् आ लभते वनस्पतिभ्य ऽ उलूकान् अग्नीषोमाभ्यां चाषान् अश्विभ्यां मयूरान् मित्रावरुणाभ्यां कपोतान् ॥

24.24
सोमाय लबान् आ लभते त्वष्ट्रे कौलीकान् गोषादीर् देवानां पत्नीभ्यः कुलीका देवजामिभ्यो ऽग्नये गृहपतये पारुष्णान् ॥

24.25
अह्ने पारावतान् आ लभते रात्र्यै सीचापूर् अहोरात्रयोः संधिभ्यो जतूर् मासेभ्यो दात्यौहान्त् संवत्सराय महतः सुपर्णान् ॥

24.26
भूम्या ऽ आखून् आ लभते ऽन्तरिक्षाय पाङ्क्तान् दिवे कशान् दिग्भ्यो नकुलान् बभ्रुकान् अवान्तरदिशाभ्यः ॥

24.27
वसुभ्य ऽ ऋश्यान् आ लभते रुद्रेभ्यः रुरून् आदित्येभ्यो न्यङ्कून् विश्वेभ्यो देवेभ्यः पृषतान्त् साध्येभ्यः कुलुङ्गान् ॥

24.28
ईशानाय परस्वत ऽ आ लभते मित्राय गौरान् वरुणाय महिषान् बृहस्पतये गवयाꣳस् त्वष्ट्र ऽ उष्ट्रान् ॥

24.29
प्रजापतये पुरुषान् हस्तिन ऽ आ लभते वाचे प्लुषीꣳश् चक्षुषे मशकाञ्छ्रोत्राय भृङ्गाः ॥

24.30
प्रजापतये च वायवे च गोमृगो वरुणायारण्यो मेषो यमाय कृष्णो मनुष्यराजाय मर्कटः शार्दूलाय रोहिद् ऋषभाय गवयी क्षिप्रश्येनाय वर्तिका नीलङ्गोः कृमिः समुद्राय शिशुमारो हिमवते हस्ती ॥

24.31
मयुः प्राजापत्य ऽ उलो हलिक्ष्णो वृषदꣳशस् ते धात्रे दिशां कङ्को धुङ्क्षाग्नेयी कलविङ्को लोहिताहिः पुष्करसादस् ते त्वाष्ट्रा वाचे क्रुञ्चः ॥

24.32
सोमाय कुलुङ्ग ऽ आरण्यो ऽजो नकुलः शका ते पौष्णाः क्रोष्टा मायोर् इन्द्रस्य गौरमृगः पिद्वो न्यङ्कुः कक्कटस् ते ऽनुमत्यै प्रतिश्रुत्कायै चक्रवाकः ॥

24.33
सौरी बलाका शार्गः सृजयः शयाण्डकस् ते मैत्राः सरस्वत्यै शारिः पुरुषवाक् श्वाविद् भौमी शार्दूलो वृकः पृदाकुस् ते मन्यवे सरस्वते शुकः पुरुषवाक् ॥

24.34
सुपर्णः पार्जन्य ऽ आतिर्वाहसो दर्विदा ते वायवे बृहस्पतये वाचस् पतये पैङ्गराजो ऽलज ऽ आन्तरिक्षः प्लवो मद्गुर् मत्स्यस् ते नदीपतये द्यावापृथिवीयः कूर्मः ॥

24.35
पुरुषमृगश् चन्द्रमसो गोधा कालका दार्वाघाटस् ते वनस्पतीनां कृकवाकुः सावित्रो हꣳसो वातस्य नाक्रो मकरः कुलीपयस् ते ऽकूपारस्य ह्रियै शल्पकः ॥

24.36
एण्य् अह्नो मण्डूको मूषिका तित्तिरिस् ते सर्पाणां लोपाश ऽ आश्विनः कृष्णो रात्र्या ऽ ऋक्षो जतूः सुषिलीका त ऽ इतरजनानां जहका वैष्णवी ॥

24.37
अन्यवापो ऽर्धमासानाम् ऋश्यो मयूरः सुपर्णस् ते गन्धर्वाणाम् अपाम् उद्रो मासां कश्यपो रोहित् कुण्डृणाची गोलत्तिका ते ऽप्सरसां मृत्यवे ऽसितः ॥

24.38
वर्षाहूर् ऋतूनाम् आखुः कशो मान्थालस् ते पितॄणां बलायाजगरो वसूनां कपिञ्जलः कपोत ऽ उलूकः शशस् ते निर्ऋत्यै वरुणायारण्यो मेषः ॥

24.39
श्वित्र ऽ आदित्यानाम् उष्ट्रो घृणीवान् वार्ध्रीणसस् ते मत्या ऽ अरण्याय सृमरो रुरू रौद्रः क्वयिः कुटरुर् दात्यौहस् ते वाजिनां कामाय पिकः ॥

24.40
खड्गो वैश्वदेवः श्वा कृष्णः कर्णो गर्दभस् तरक्षुस् ते रक्षसाम् इन्द्राय सूकरः सिꣳहो मारुताः कृकलासः पिप्पका शकुनिस् ते शरव्यायै विश्वेषां देवानां पृषतः ॥

भाष्यम्(उवट-महीधर)

चतुर्विशोऽध्यायः।

तत्र प्रथमा ।
अश्व॑स्तूप॒रो गो॑मृ॒गस्ते प्रा॑जाप॒त्याः कृ॒ष्णग्री॑व आग्ने॒यो र॒राटे॑ पु॒रस्ता॑त्सारस्व॒ती मे॒ष्यधस्ता॒द्धन्वो॑राश्वि॒नाव॒धोरा॑मौ बा॒ह्वोः सौ॑मापौ॒ष्णः श्या॒मो नाभ्या॑ᳪं᳭ सौर्यया॒मौ श्वे॒तश्च॑ कृ॒ष्णश्च॑ पा॒र्श्वयो॑स्त्वा॒ष्ट्रौ लो॑म॒शस॑क्थौ स॒क्थ्योर्वा॑य॒व्य॒: श्वे॒तः पुच्छ॒ इन्द्रा॑य स्वप॒स्या॒य वे॒हद्वै॑ष्ण॒वो वा॑म॒नः ।। १ ।।
उ० इतउत्तरं श्रुतिरूपा मन्त्रा आश्वमेधिकानां पशूनां देवतासंबन्धाभिधायिनोऽध्यायेनोच्यन्ते । अश्वस्तूपरोगोमृगस्ते प्राजापत्या इति शतपथोप्येतमध्यायं श्रुतिकृत्याह । अश्वस्तूपरोगो मृग इति । तन्मध्ये यूप आलभत इत्यादिना ग्रन्थेन दिङ्मात्रं प्रदर्शयन् सूत्रकृता चायमध्यायः सूत्रीकृतः । येनैवमाह अग्निष्टे अश्वस्तूपरो गोमृगान्नियुनक्ति । यथोक्तमश्वादौ देवता इति । तत्र वैष्णवो वामन इत्येवमन्ताः पर्यंग्याः । अश्वः तूपरो निःशृङ्गः गोमृगो गवयः एते प्रजापतिदेवत्याः । कृष्णग्रीवश्छाग आग्नेयः पुरस्ताल्ललाटे अश्वस्य बन्धनीय इति शेषः । एवं सारस्वती मेषी अधस्ताद्धन्वोः आश्विनौ अधोरामौ अधः शुक्रौ च्छागौ पूर्वपादयोः सोमपूषदेवत्यो नाभ्याम् बन्ध० । सूर्यदेवत्यः श्वेतयमदेवताः कृष्णश्च पार्श्वयोः लोमयुते सक्थनी ययोस्तौ त्वष्टृदेवत्यौ सक्थाः । वायव्यः श्वेतः पुच्छे स्वपस्याय शोभनकर्मणे इन्द्राय वेहत् विष्णुदेवत्यो वामनश्च पशुः अश्वस्य पुच्छ एव । एते पर्यंग्याः । एवमग्रेऽपि देवतापशुबन्धो ज्ञेयः । ललाटादिषु पशुबन्धनायाश्वशरीरं रज्जुभिर्वेष्टनीयम् । एते मध्यमयूपे ॥ १ ॥
म० श्रुतिरूपमन्त्रा आश्वमेधिकानां पशूनां देवतासंबन्धविधायिनोऽध्यायेनोच्यन्ते । तत्राश्वमेधे एकविंशतिर्यूपाः सन्ति तत्र मध्यमो यूपोऽग्निष्ठसंज्ञः तत्र सप्तदश पशवो नियोजनीयाः । तान् देवतासंबन्धकथनपूर्वकमाह । अश्वस्तूपरोगोमृगस्ते प्राजापत्याः । अश्वः तूपरः शृङ्गोत्पत्तिकालेऽतीतेऽपि शृङ्गहीनः गोमृगः गवयः एते प्रजापतिदैवत्याः । ततः प्रजापतये जुष्टं नियुनज्मीति मन्त्रेण बन्धनीयाः । एवमग्रेऽपि यो यद्दैवत्यः पशुः सः अमुष्मै जुष्टं नियुनज्मीत्यादिमन्त्रैर्बन्धनीयः । आग्नेयोऽग्निदैवतः कृष्णग्रीवः श्यामवर्णगलोऽजः अश्वस्य पुरस्तात् ललाटे उपनये बन्धनीयः । हन्वोरधस्तात्सारस्वती मेषो बन्धनीयः। आश्विनावधोरामौ अधोभागे शुक्लवर्णावजौ बाह्वोः अश्वस्य पूर्वपादयोरेकैकः । सोमपूषदेवत्यः श्यामः शुक्लकृष्णरोमाजोऽश्वस्य नाभ्यां । श्वेतः कृष्णश्च सौर्ययामौ श्वेतः पशुः सूर्यदेवतो दक्षिणपार्श्वे । यमदैवतः कृष्णोऽश्ववामपार्श्वे । त्वाष्ट्रौ त्वष्टृदेवतौ लोमशसक्थौ बहुरोमपुच्छिकौ पशू अश्वस्य सक्थ्योरूर्वोः पश्चात्पदयोरेकैकः । वायव्यः श्वेतवर्णः पशुरश्वस्य पुच्छे । स्वपस्याय शोभनकर्मणे इन्द्राय स्वपस्येन्द्रदेवता वेहत् गर्भघातिनी वैष्णवो वामनः पशुश्च पुच्छ एव अङ्गान्तरानुक्तेः । एवमश्वादिभिः सह पञ्चदश भवन्ति । एते पर्यङ्ग्या उच्यन्ते । अत्राश्वस्य शरीरं तरणाय तुंबीफलवद्रज्जुं बद्ध्वा गुम्फनीयम् । ततः कृष्णग्रीवः आग्नेयो रराट इत्यादयोऽश्वस्य शरीरे यथोक्तस्थाने संबद्धायां रज्ज्वां बन्धनीयाः । ततो रोहितो धूम्ररोहित इत्यादयो द्वादशसंख्याकाः शितिबाहुरन्यतः । शितिबाहुः समन्तशितिबाहुस्ते बार्हस्पत्या इत्यन्ता मध्यमे एव यूपे नियोज्याः । 'सप्तदशैव पशून्मध्यमे यूप आलभते' (१३ । ५ । १ । १५) इति श्रुतेः । तत्र त्रयोऽश्वतूपरगोमृगाः द्वौ चाग्नेयावेकादशिनौ द्वादश रोहितादयः एवं सप्तदश मध्यमे यूपे । ततः पृषती क्षुद्रपृषतीत्यादीनां श्वेताः सौर्या इत्यन्तानां (१९) शतत्रयसंख्याकानां पशूनां मध्ये पञ्चदश पञ्चदश पशूनेकैकस्मिन्यूपे युनक्ति । एवमितरेषु यूपेषु पञ्चदश पञ्चदशैते पशवः एकैकश्चैकादशिनः । एवं मध्ययूपव्यतिरिक्तेषु विंशतियूपेषु षोडश षोडश पशवो भवन्ति 'षोडशषोडशेतरेषु' (१२ । ५ । १।१५) इति श्रवणात् ॥ १॥

द्वितीया ।
रोहि॑तो धू॒म्ररो॑हितः क॒र्कन्धु॑रोहित॒स्ते सौ॒म्या ब॒भ्रुर॑रु॒णब॑भ्रु॒: शुक॑बभ्रु॒स्ते वा॑रु॒णाः शि॑ति॒रन्ध्रो॒ऽन्यत॑: शितिरन्ध्रः सम॒न्तशि॑तिरन्ध्र॒स्ते सा॑वि॒त्राः शि॑तिबा॒हुर॒न्यत॑: शितिबाहुः सम॒न्तशि॑तिबाहु॒स्ते बा॑र्हस्प॒त्याः पृष॑ती क्षु॒द्रपृ॑षती स्थू॒लपृ॑षती॒ ता मै॑त्रावरु॒ण्य॒: ।। २ ।।
उ० रोहितो धूम्र रोहित इत्यादयः श्वेता वायव्याः श्वेताः सौर्या इत्येवमन्तः । इतरेषु यूपेषु रोहितादिषु ये गुणवचनाः शब्दास्ते गुणिनं पशुं लक्षयन्ति ॥ २॥
म० रोहितः सर्वरक्तः धूम्ररोहितः धूम्रवर्णमिश्रो रक्तः तृतीयः कर्कन्धुरोहितः बदरसदृशरक्तः ते त्रयः सौम्याः सोमदैवत्याः सोमाय जुष्टं नियुनज्मीत्यादिमन्त्रेण प्रत्येकं मध्यमे यूप एव नियोज्याः। ततो बभ्रुः कपिलवर्णः अरुणबभ्रुः अरुणवर्णमिश्रः कपिलः शुकबभ्रुः शुकपक्षिसमवर्णः कपिलश्च ते त्रयो वारुणाः वरुणदेवत्याः मध्यमयूप एव । शिति कृष्णं रन्ध्रं छिद्रं यस्य स शितिरन्ध्रः । अन्यत इत्येकपार्श्वे शितिरन्ध्रः समन्तं सर्वतः शितिरन्ध्रः एते सारस्वताः मध्यमे एव । शितिबाहुः श्वेतपूर्वपादः अन्यतः शितिबाहुः एकस्मिन्नेव पार्श्वे शितिपादः समन्तशितिबाहुः सर्वश्वेतबाहुः 'शिती धवलमेचकौ' एते बार्हस्पत्याः बृहस्पतिदैवत्याः मध्यमे एव । अथ द्वितीययूपे । पृषती विचित्रवर्णबिन्दुयुक्तशरीरा क्षुद्रपृषती सूक्ष्म विचित्रबिन्दुयुक्ता स्थूलपृषती स्थूलविचित्रबिन्दुयुक्ता एते स्त्रीपशवो मित्रावरुणदेवताः द्वितीये यूपे नियोज्याः ॥ २ ॥

तृतीया ।
शु॒द्धवा॑लः स॒र्वशु॑द्धवालो मणि॒वाल॒स्त आ॑श्वि॒नाः श्येत॑: श्येता॒क्षो॒ऽरु॒णस्ते रु॒द्राय॑ पशु॒पत॑ये क॒र्णा या॒मा अ॑वलि॒प्ता रौ॒द्रा नभो॑रूपाः पार्ज॒न्याः ।। ३ ।।
उ० महीधरोक्तमर्थं विलिखामि । शुद्धवालः शुभ्रवालः सर्वशुद्धवालः मणिशुद्धवालः मणिवर्णकेशः ते त्रयः अश्विदैवत्याः द्वितीये । श्येतः श्वेतवर्णः श्येताक्षः श्वेतनेत्रः अरुणः रक्तः ते त्रयो रुद्राय पशुपतये पशुपतिरुद्रदैवता द्वितीये । कर्णास्त्रयः पशुविशेषाः 'कर्णश्चन्द्रे च वृक्षे च' इति विश्वोक्तेः। कर्णाश्चन्द्रसदृशश्वेतकर्णास्त्रयः पशवः । बहुवचनस्य त्रित्वे पर्यवसानात् । यामाः यमदैवताः द्वितीये । अवलिप्ताः सगर्वास्त्रियो रौद्राः । एते द्वितीये पञ्चदश । अथ तृतीये यूपे । नभोरूपाः आकाशवन्नीलवर्णाः पार्जन्याः पर्जन्यदैवताः पशवस्तृतीये नियोज्याः ॥ ३॥
म० शुद्धवालः शुभ्रवालः सर्वशुद्धवालः मणिशुद्धवाल: मणिवर्णकेशः ते त्रयः अश्विदेवत्याः द्वितीये । श्येतः श्वेतवर्णः श्येताक्षः श्वेतनेत्रः अरुणः रक्तः ते त्रयो रुद्राय पशुपतये पशुपतिरुद्रदेवता द्वितीये । कर्णास्त्रयः पशुविशेषाः 'कर्णश्चन्द्रे च वृक्षे च' इति विश्वोक्तेः । कर्णाश्चन्द्रसदृशश्वेतकर्णास्त्रयः पशवः । बहुवचनस्य त्रित्वे पर्यवसानात् । यामाः यमदैवताः द्वितीये । अवलिप्ताः सगर्वास्त्रयो रौद्राः । एते द्वितीये पञ्चदश । । अथ तृतीययूपे । नभोरूपाः आकाशवन्नीलवर्णाः पार्जन्याः पर्जन्यदेवताः पशवः तृतीये नियोज्याः ॥ ३ ॥

चतुर्थी।
पृश्नि॑स्तिर॒श्चीन॑पृश्निरू॒र्ध्वपृ॑श्नि॒स्ते मा॑रु॒ताः फ॒ल्गूर्लो॑हितो॒र्णी प॑ल॒क्षी ताः सा॑रस्व॒त्य॒: प्लीहा॒कर्ण॑: शुण्ठा॒कर्णो॑ऽध्यालोह॒कर्ण॒स्ते त्वा॒ष्ट्राः कृ॒ष्णग्री॑वः शिति॒कक्षो॑ऽञ्जिस॒क्थस्त ऐ॑न्द्रा॒ग्नाः कृ॒ष्णाञ्जि॒रल्पा॑ञ्जिर्म॒हाञ्जि॒स्त उ॑ष॒स्या॑: ।। ४ ।।
उ० पृश्निः विचित्रवर्णा तिरश्चीनानि पृश्नीनि बिन्दवो यस्य सः । एवमूर्ध्वानि पृश्नीनि यस्य सः । ते त्रयो मारुताः मरुद्देवत्यास्तृतीये । फलगूः अपुष्टशरीरा लोहितोर्णी रक्तरोमवती पलक्षी श्वेता । पलक्षशब्दो वलक्षार्थः श्वेतपर्यायः । तास्तिस्रोऽजाः सारस्वत्यः सरस्वतिदैवतास्तृतीये । प्लीहाकर्णः प्लीहा रोगविशेषः तद्युक्तौ कर्णौ यस्य स प्लीहकर्णः 'अन्येषामपि दृश्यते' इति संहितायां दीर्घः । शुण्ठकर्णः ह्रस्वकर्णः अध्यालोहकर्णः रक्तवर्णकर्णः ते त्रयस्त्वाष्ट्राः त्वष्टृदैवतास्तृतीये । कृष्णग्रीवः शितिकक्षः श्वेतकक्षः अञ्जिसक्थः अञ्जि पुण्ड्रं सक्थ्नोरूर्वोर्यस्य सः ते त्रय ऐन्द्राग्नाः इन्द्राग्निदैवताः तृतीये । पञ्चदश पूर्णाः । कृष्णाञ्जिः कृष्णपुण्ड्रः अपाञ्जिः महाञ्जिः अल्पमञ्जि यस्य महदञ्जि यस्य तथा ते त्रय उषस्याः उषादेवताश्चतुर्थे यूपे नियोज्याः ॥ ४ ॥
म० पृश्निः विचित्रवर्णा तिरश्चीनानि पृश्नीनि बिन्दवो यस्य सः एवमूर्ध्वानि पृश्नीनि यस्य सः ते त्रयो मारुताः मरुद्देवत्यास्तृतीये । फल्गूः अपुष्टशरीरा लोहितोर्णी रक्तरोमवती पलक्षी श्वेता । पलक्षशब्दो वलक्षार्थः श्वेतपर्यायः । तास्तिस्रोऽजाः सारस्वत्याः सरस्वतिदैवतास्तृतीये । प्लीहाकर्णः प्लीहा रोगविशेषः तद्युक्तौ कर्णौ यस्य स प्लीहकर्णः ‘अन्येषामपि दृश्यते' (पा० ६ । ३ । १३७) इति संहितायां दीर्घः । शुण्ठकर्णः ह्रस्वकर्णः अध्यालोहकर्णः रक्तवर्णकर्णः । ते त्रयस्त्वाष्ट्राः त्वष्टृदैवतास्तृतीये । कृष्णग्रीवः शितिकक्षः श्वेतकक्षः अञ्जिसक्थः अञ्जि पुण्ड्रं सक्थ्नोरूर्वोर्यस्य सः ते त्रय ऐन्द्राग्नाः इन्द्राग्निदैवताः तृतीये । पञ्चदश पूर्णाः । कृष्णाञ्जि कृष्णपुण्ड्र: अल्पाञ्जिः महाञ्जिः अल्पमञ्जि यस्य महदञ्जि यस्य स तथा। ते त्रय उषस्या उषोदेवताश्चतुर्थे यूपे नियोज्याः ॥ ४ ॥

पञ्चमी।
शि॒ल्पा वै॑श्वदे॒व्यो रोहि॑ण्य॒स्त्र्यव॑यो वा॒चेऽवि॑ज्ञाता॒ अदि॑त्यै॒ सरू॑पा धा॒त्रे व॑त्सत॒र्यो दे॒वानां॒ पत्नी॑भ्यः ।। ५ ।।
उ०. विचित्रवर्णास्तिस्रः स्त्रीपशवो वैश्वदेव्यः विश्वदेवदेवताश्चतुर्थे । रोहिण्यः रक्तवर्णाः त्र्यवयः सार्धसंवत्सरास्तिस्रोऽजा वाचे वाग्देवताश्चतुर्थे । अविज्ञाताः कृष्णग्रीवादिचिह्नविज्ञानशून्यास्त्रयः पशवोऽदित्यै अदितिदेवताश्चतुर्थे । सरूपाः समानरूपास्त्रयः पशवो धात्रे धातृदेवताश्चतुर्थे । एवं पञ्चदश । अथ पञ्चमे यूपे तिस्रो वत्सतर्यः बालछाग्यो देवतानां पत्नीभ्यः तद्देवताः पञ्चमे ॥५॥
म० विचित्रवर्णास्तिस्रः स्त्रीपशवो वैश्वदेव्यः विश्वदेवदेव-ताश्चतुर्थे । रोहिण्यः रक्तवर्णाः व्यवयः सार्धसंवत्सरास्तिस्रोऽजा वाचे वाग्देवताचतुर्थे । अविज्ञाताः कृष्णग्रीवादिचिह्नविज्ञानशून्यास्त्रयः पशवोऽदिलै अदितिदेवताश्चतुर्थे । सरूपाः समानरूपास्त्रयः पशवो धात्रे धातृदेवताश्चतुर्थे एवं पञ्चदश । अथ पञ्चमे यूपे तिस्रो वत्सतर्यः बालछाग्यो देवानां पत्नीभ्यः तद्देवताः पञ्चमे ॥ ५॥

षष्ठी।
कृ॒ष्णग्री॑वा आग्ने॒याः शि॑ति॒भ्रवो॒ वसू॑ना॒ᳪं᳭ रोहि॑ता रु॒द्राणा॑ᳪं᳭ श्वे॒ता अ॑वरो॒किण॑ आदि॒त्यानां॒ नभो॑रूपाः पार्ज॒न्याः ।। ६ ।।
उ० कृष्णग्रीवाः कालकण्ठास्त्रयः पशव आग्नेयाः अग्निदेवताः पञ्चमे। शितिभ्रवः श्वेतवर्णभ्रूयुक्तास्त्रयो वसूनां वसुदेवताः पञ्चमे । रोहिताः रक्तवर्णास्त्रयः रुद्राणां रुद्रदेवताः पञ्चमे । श्वेताः अवरोकिणः अवलोकिनः । यद्वा अवाधस्ताद्रोकः छिद्रं येषां ते । 'छिद्रं निर्व्य॑थनं रोकः' । ते त्रयः आदित्यानां तद्देवताः पञ्चमे । अथ षष्ठे यूपे । नभोरूपाः पार्जन्यास्त्रयः षष्ठे ॥ ६ ॥
म० कृष्णप्रीवाः कालकण्ठास्त्रयः पशव आग्नेयाः अग्निदेवताः पञ्चमे । शितिभ्रवः श्वेतवर्णभ्रूयुक्तास्त्रयो वसूनां वसुदेवताः पञ्चमे । रोहिताः रक्तवर्णास्त्रयः रुद्रदेवताः पञ्चमे । श्वेताः अवरोकिणः अवलोकिनः । यद्वा अवाधस्तादोकः छिद्रं येषां ते 'छिद्रं निर्व्य॑थनं रोकः' इति कोशः। ते त्रयः आदित्यानां तद्देवताः पञ्चमे । अथ षष्टे यूपे । नभोरूपाः पार्जन्यास्त्रयः षष्ठे ॥६॥

सप्तमी।
उ॒न्न॒त ऋ॑ष॒भो वा॑म॒नस्त ऐ॑न्द्रवैष्ण॒वा उ॑न्न॒तः शि॑तिबा॒हुः शि॑तिपृ॒ष्ठस्त ऐ॑न्द्राबार्हस्प॒त्याः शुक॑रूपा वाजि॒नाः क॒ल्माषा॑ आग्निमारु॒ताः श्या॒माः पौ॒ष्णा: ।। ७ ।।
उ० उन्नतः उच्चः ऋषभः पुष्टः वामनः बहुन्यपि वयसि गते वृद्धिरहितः ते त्रय ऐन्द्रावैष्णवाः इन्द्र विष्णुदेवताः षष्ठे । उन्नतः शितिबाहुः श्वेतपूर्वपादः शितिपृष्ठः श्वेतपृष्ठः ते प्रयः ऐन्द्राबार्हस्पत्याः इन्द्रबृहस्पतिदेवताः षष्ठे । शुकरूपाः शुकपक्षिसमवर्णाः यो वाजिनाः वाजिदेवताः षष्ठे । कल्माषाः कर्बुरास्त्रयः पशव आनिमारुताः पष्ठे । एवं पञ्चदश । अथ सप्तमे यूपे । श्यामाः शुक्लकृष्णवर्णाः पौष्णाः पूषदेवताः सप्तमे ॥ ७ ॥
म० उन्नतः उच्चः ऋषभः पुष्टः वामनः बहुन्यपि वयसि गते वृद्धिरहितः ते त्रय ऐन्द्रावैष्णवाः इन्द्रविष्णुदेवताः षष्ठे । उन्नतः शितिबाहुः श्वेतपूर्वपादः शितिपृष्ठः श्वेतपृष्ठः ते त्रयः ऐन्द्राबार्हस्पत्याः इन्द्रबृहस्पतिदेवताः षष्ठे । शुकरूपाः शुकपक्षिसमवर्णाः त्रयो वाजिनाः वाजिदेवताः षष्ठे । कल्माषाः कर्बुरास्त्रयः पशव आग्निमारुताः षष्ठे । एवं पञ्चदश । अथ सप्तमे यूपे । श्यामाः कृष्णवर्णाः पौष्णाः पूषदेवताः सप्तमे ॥ ७ ॥

अष्टमी।
एता॑ ऐन्द्रा॒ग्ना द्वि॑रू॒पा अ॑ग्नीषो॒मीया॑ वाम॒ना अ॑न॒ड्वाह॑ आग्नावैष्ण॒वा व॒शा मै॑त्रावरु॒ण्योऽन्यत॑एन्यो मै॒त्र्य॒: ।। ८ ।।
उ० एताः कर्बुरवर्णास्त्रय इन्द्राग्निदेवताः सप्तमे । द्विरूपाः वर्णद्वयोपेतास्त्रयः अग्नीषोमीयाः अग्निसोमदेवत्याः सप्तमे । वामना अनड्वाहः त्रय आग्नावैष्णवाः अग्निविष्णुदेवत्याः सप्तमे । वशाः वन्ध्याः तिस्रोऽजाः मैत्रावरुण्यः तद्देवताः सप्तमे । अथाष्टमे यूपे । अन्यत एन्यः एकपार्श्वे कर्बुरवर्णास्तिस्रोऽजा मैत्र्याः मित्रदेवत्याः अष्टमे ॥ ८ ॥
म० एताः कर्बुरवर्णास्त्रय इन्द्राग्निदेवताः सप्तमे । द्विरूपाः वर्णद्वयोपेतास्त्रयः अग्नीषोमीयाः अग्निसोमदेवत्याः सप्तमे । वामना अनड्वाहः त्रय आग्नावैष्णवाः अग्निविष्णुदेवत्याः सप्तमे। वशाः वन्ध्याः तिस्रोऽजाः मैत्रावरुण्यः तद्देवताः सप्तमे । अथाष्टमे यूपे । अन्यत एन्यः एकपार्श्वे कर्बुरवर्णास्तिस्रोऽजा मैत्र्यः मित्रदेवत्याः अष्टमे ॥ ८॥

नवमी।
कृ॒ष्णग्री॑वा आग्ने॒या ब॒भ्रव॑: सौ॒म्याः श्वे॒ता वा॑य॒व्या अवि॑ज्ञाता॒ अदि॑त्यै॒ सरू॑पा धा॒त्रे व॑त्सत॒र्यो॒ दे॒वानां॒ पत्नी॑भ्यः ।। ९ ।।
उ० कृष्णग्रीवा आग्नेयास्त्रयः अस्मे । बभ्रवः कपिलवर्णास्त्रयः सौम्याः सोमदेवत्याः अष्टमे । श्वेतास्त्रयः वायव्याः वायुदेवत्याः अष्टमे । अविज्ञाताः चिह्नविशेषेणाज्ञातास्त्रयः अदितिदेवत्या अष्टमे । अथ नवमे सरूपाः धातृदेवत्याः नवमे । वत्सतर्यः देवपत्नीदेवत्यास्तिस्रः नवमे ॥ ९ ॥
म० कृष्णग्रीवा आग्नेयास्त्रयः अष्टमे । बभ्रवः कपिलवर्णास्त्रयः सौम्याः सोमदेवत्याः अष्टमे । श्वेतास्त्रयः वायव्याः वायुदेवत्याः अष्टमे । अविज्ञाताः चिह्न विशेषेणाज्ञातास्त्रयः अदितिदेवत्याः अष्टमे । अथ नवमे । सरूपाः धातृदेवत्याः नवमे । वत्सतर्यः देवपत्नीदेवत्यास्तिस्रः नवमे ॥ ९ ॥

दशमी।
कृ॒ष्णा भौ॒मा धू॒म्रा आ॑न्तरि॒क्षा बृ॒हन्तो॑ दि॒व्याः श॒बला॑ वैद्यु॒ताः सि॒ध्मास्ता॑र॒काः ।। १० ।।
उ० कृष्णाः भौमाः भूमिदेवत्यास्त्रयः नवमे । धूम्रवर्णास्त्रयः अन्तरिक्षदेवत्याः नवमे । बृहन्तो महान्तस्त्रयः दिव्याः द्युदेवत्याः नवमे । अथ दशमे शबलाः कर्बुरास्त्रयः वैद्युताः । विद्युद्देवत्याः दशमे । सिध्माः सिध्माख्यरोगवन्तस्त्रयः तारकाः नक्षत्रदेवत्याः दशमे ॥ १० ॥
म० कृष्णाः भौमा भूमिदेवत्यास्त्रयः नवमे । धूम्रवर्णास्त्रयः अन्तरिक्षदेवत्याः नवमे । बृहन्तो महान्तस्त्रयः दिव्याः द्युदेवत्याः नवमे । अथ दशमे शबलाः कर्बुरास्त्रयः वैद्युताः विद्युद्देवत्याः दशमे । सिध्माः सिध्माख्यरोगवन्तस्त्रयः नक्षत्रदेवत्याः दशमे ॥ १० ॥

एकादशी।
धू॒म्रान्व॑स॒न्तायाल॑भते श्वे॒तान्ग्री॒ष्माय॑ कृ॒ष्णान्व॒र्षाभ्यो॑ऽरु॒णाञ्छ॒रदे॒ पृष॑तो हेम॒न्ताय॑ पि॒शङ्गा॒ञ्छिशि॑राय ।। ११ ।।
उ० धूम्रवर्णान् त्रीनजान् वसन्ताय वसन्तदेवतानालभते नियुनक्ति दशमे । श्वेतांस्त्रीन् ग्रीष्माय दशमे । कृष्णवर्णान् त्रीन् वर्षाभ्यः दशमे । अथैकादशे अरुणान् रक्तांस्त्रीन् शरदे एकादशे। पृषतः नानावर्णबिन्दुयुक्तान त्रीन् हेमन्ताय एकादशे । पिशङ्गान् लोहितमिश्रकपिलवर्णांस्त्रीन् शिशिराय एकादशे ॥ ११ ॥
म० धूम्रवर्णान् त्रीनजान् वसन्ताय वसन्तदेवतानालभते नियुनक्ति दशमे । श्वेतान त्रीन् ग्रीष्माय दशमे । कृष्णवर्णान् त्रीन्वर्षाभ्यः दशमे । अथैकादशे अरुणान् रक्तान् त्रीन् शरदे एकादशे । पृषतः नानावर्णबिन्दुयुक्तान् त्रीन् हेमन्ताय एकादशे । पिशङ्गान् लोहितमिश्रकपिलवर्णान् त्रीन् शिशिराय एकादशे ॥ ११ ॥

द्वादशी।
त्र्यव॑यो गाय॒त्र्यै पञ्चा॑वयस्त्रि॒ष्टुभे॑ दित्य॒वाहो॒ जग॑त्यै त्रिव॒त्सा अ॑नु॒ष्टुभे॑ तुर्य॒वाह॑ उ॒ष्णिहे॑ ।। १२ ।।
उ० सार्धसंवत्सरास्त्रयः गायत्र्यै एकादशे । सार्धद्विसंवसरास्त्रयः त्रिष्टुभे एकादशे । अथ द्वादशे यूपे । दित्यवाहः । द्विसंवत्सरास्त्रयो जगत्यै द्वा० । त्रिवत्साः त्रिवर्षास्त्रयोऽनुष्टुभे द्वा० । तुर्यवाहः सार्धत्रिसंवत्सरास्त्रय उप्णिहे द्वा० ॥ १२ ॥
म० सार्धसंवत्सरास्त्रयः गायत्र्यै एकादशे । सार्धद्विसंवत्सरास्त्रयः त्रिष्टुभे एकादशे । अथ द्वादशे यूपे । दित्यवाहः द्विसंवत्सरास्त्रयो जगत्यै द्वा० । त्रिवत्साः त्रिवर्षाः त्रयोऽनुष्टभे द्वा० । तुर्यवाहः सार्धत्रिसंवत्सरास्त्रय उष्णिहे द्वा० ॥ १२ ॥
.
त्रयोदशी।
प॒ष्ठ॒वाहो॑ वि॒राज॑ उ॒क्षाणो॑ बृह॒त्या ऋ॑ष॒भाः क॒कुभे॑ऽन॒ड्वाह॑: प॒ङ्क्त्यै धे॒नवो॑ऽतिच्छन्दसे ।। १३ ।।
उ० पष्ठवाहः चतुःसंवत्सरास्त्रयो विराजे द्वा० । उक्षाणः सेचनसमर्था युवानस्त्रयः बृहत्यै द्वा० । अथ त्रयोदशे यूपे । ऋषभाः उक्ष्णोऽप्यधिकवयस्काः त्रयः ककुभे त्रयोदशे। अनड्वाहः शकटवहनसमर्था अजास्त्रयः पङ्क्यैउक त्रयो० । धेनवः नवप्रसूता अजास्तिस्रः अतिच्छन्दसे त्रयो० ॥ १३ ॥
म० पष्ठवाहः चतुःसंवत्सरास्त्रयो विराजे द्वा० । उक्षाणः सेचनसमर्था युवानस्त्रयः बृहत्यै द्वा० । अथ त्रयोदशे यूपे ऋषभाः उक्ष्णोऽप्यधिकवयस्काः त्रयः ककुभे त्रयोदशे । अनड्वाहः शकटवहनसमर्था अजास्त्रयः पङ्क्त्यै त्रयो० । धेनवः नवप्रसूता अजास्तिस्रः अतिच्छन्दसे त्रयो० ॥ १३ ॥

चतुर्दशी।
कृ॒ष्णग्री॑वा आग्ने॒या ब॒भ्रव॑: सौ॒म्या उ॑पध्व॒स्ताः सा॑वि॒त्रा व॑त्सत॒र्य॒: सारस्व॒त्य॒: श्या॒माः पौ॒ष्णाः पृश्न॑यो मारु॒ता ब॑हुरू॒पा वै॑श्वदे॒वा व॒शा द्या॑वापृथि॒वीया॑: ।। १ ४ ।।
उ० अथ चातुर्मास्यदेवाः पशवः श्वेताः सौर्या इत्यन्ताः। तत्र प्रथमं वैश्वदेवपर्वपशव उच्यन्ते । कृष्णग्रीवाः त्रयः आग्नेयाः त्रयः बभ्रवः कपिलास्त्रयः सौम्याः । अथ चतुर्दशे यूपे । उपध्वस्ताः उपध्वंसनमधःपतनं तद्गुणविशिष्टा वर्णान्तरमिश्रिता वा त्रयः सवितृदेवताः चतु० । वत्सतर्यः तिस्रः सरस्वतीदेवताः चतु० । श्यामाः शुक्लकृष्णवर्णाः पौष्णाः पूषदेवत्याः चतु० । पृश्नयः तनुकाया विचित्रवर्णा वा त्रयो मरुद्देवताः चतु० । बहुरूपास्त्रयो वैश्वदेवाः चतु० । अथ पञ्चदशे । वशाः वन्ध्यास्तिस्रो द्यावापृथिवीयाः द्यावापृथिवीदेवत्याः पञ्च० ॥ १४ ॥
म० अथ चातुर्मास्यदेवाः पशवः श्वेताः सौर्या इत्यन्ताः । तत्र प्रथमं वैश्वदेवपर्वपशव उच्यन्ते । कृष्णग्रीवाः त्रयः आग्नेयाः त्रयो० । बभ्रवः कपिलास्त्रयः सौम्याः । अथ चतुर्दशे यूपे । उपध्वस्ताः उपध्वंसनमधःपतनं तद्गुणविशिष्टा वर्णान्तरमिश्रिता वा त्रयः सवितृदेवताः चतु० । वत्सतर्यः तिस्रः सरस्वतीदेवताः चतु० । श्यामाः शुक्लकृष्णवर्णाः पौष्णाः पूषदेवत्याः चतु० । पृश्नयः तनुकाया विचित्रवर्णा वा त्रयो मरुद्देवताः चतु० । बहुरूपास्त्रयो वैश्वदेवाः चतु० । अथ पञ्चदशे । वशाः वन्ध्यास्तिस्रो द्यावापृथिवीयाः द्यावापृथिवीदेवत्याः पञ्च० ॥ १४ ॥

पञ्चदशी ।
उ॒क्ताः स॑ञ्च॒रा एता॑ ऐन्द्रा॒ग्नाः कृ॒ष्णाः वा॑रु॒णाः पृश्न॑यो मारु॒ताः का॒यास्तू॑प॒राः ।। १५ ।।
उ० अथ वरुणप्रघासपर्वपशव उच्यन्ते । संचरशब्देन कृष्णग्रीवा आग्नेया इत्यादयः पूर्वकण्डिकोक्ताः पञ्चदश पशव उच्यन्ते । पञ्च संचराणि हवींषि भवन्तीतिवत् यथा चातुर्मास्येषु चतुर्ष्वपि पर्वसु आग्नेयादीनि पञ्च हवींषि समानानि एवमत्रापि चतुर्णां पर्वणां संबन्धिनामाद्यानां पञ्चानां देवानामाद्या एते पञ्चदश पशवः समाना एव भवन्ति । तेन संचरा उक्ताः । आग्नेयादयः पञ्चदश पशव उक्ता इत्यर्थः । आग्नेयाः कृष्णग्रीवास्त्रयः पञ्चदशे । सौम्याः बभ्रवस्त्रयः पञ्च० । सावित्रा उपध्वस्ताः त्रयः पञ्च० । सारस्वत्यः वत्सतर्यः तिस्रः पञ्च० । अथ षोडशे । पौष्णाः श्यामाः त्रयः षोडशे । एते संचरा उक्ताः । एताः कर्बुरास्त्रय ऐन्द्राग्नाः इन्द्राग्निदेवताः षो० । कृष्णाः कृष्णवर्णास्त्रयो वारुणाः वरुणदेवताः षो० । पृश्नयः तनुशरीरास्त्रयः मारुताः षो० । त्रयः तूपराः निःशृङ्गाः कायाः कदेवताः षो० ॥ १५ ॥
म० अथ वरुणप्रघासपर्वपशव उच्यन्ते । संचरशब्देन कृष्णग्रीवा आग्नेया इत्यादयः पूर्वकण्डिकोक्ताः पञ्चदश पशव उच्यन्ते । पञ्च संचराणि हवींषि भवन्तीतिवत् । यथा चातुमास्येषु चतुर्ष्वपि पर्वसु आग्नेयादीनि पञ्च हवींषि समानानि एवमत्रापि चतुर्णां पर्वणां संबन्धिनाम् आद्यानां पञ्चानां देवानामाद्या एते पञ्चदश पशवः समाना एव भवन्ति । तेन संचरा उक्ताः । आग्नेयादयः पञ्चदश पशव उक्ता इत्यर्थः । आग्नेयाः कृष्णग्रीवास्त्रयः पञ्चदशे । सौम्याः बभ्रवस्त्रयः पञ्च० । सावित्रा उपध्वस्ताः त्रयः पञ्च० । सारस्वत्यः वत्सतर्यः तिस्रः पञ्च० । अथ षोडशे । पौष्णाः श्यामाः त्रयः षोडशे । एते संचरा उक्ताः । एताः कर्बुरास्त्रय ऐन्द्राग्ना इन्द्राग्निदेवताः षो० । कृष्णाः कृष्णवर्णास्त्रयो वारुणाः वरुणदेवताः षो० । पृश्नयः तनुशरीरास्त्रयः मारुताः षो० । त्रयः तूपराः निःशृङ्गाः कायाः कदेवताः षो० ॥ १५ ॥

षोडशी।
अ॒ग्नयेऽनी॑कवते प्रथम॒जानाल॑भते म॒रुद्भ्य॑: सान्तप॒नेभ्य॑: सवा॒त्यान्म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॒ बष्कि॑हान्म॒रुद्भ्य॑: क्री॒डिभ्य॑: सᳪं᳭सृ॒ष्टान्म॒रुद्भ्य॒: स्वत॑वद्भ्योऽनुसृ॒ष्टान् ।। १ ६ ।।
उ० अथ सप्तदशे । अथ साकमेधपशवः । प्रथमगर्भे जातान् त्रीन् अजान् अनीकवते अनीकवद्गुणविशिष्टायाग्नये । आलभते नियुनक्ति सप्त० । वातसमूहो वात्या तया सह वर्तन्त इति सवात्याः वातमण्डलीमध्यस्थान् त्रीनजान् सांतपनेभ्यः मरुद्भ्यः सप्त । बष्किहान् चिरप्रसूतान्त्रीन्गृहमेधिभ्यो मरुद्भ्यः सप्त० । संसृष्टान् सह सृष्टान् त्रीन् क्रीडिभ्यो मरुद्भ्यः सप्त० । अनुसृष्टान् अनुक्रमेण जातान् त्रीन् स्वतवद्भ्यो मरुद्भ्यः सप्त० ॥ १६ ॥
म० अथ सप्तदशे । अथ साकमेधपशवः । प्रथमजान् मात्रा प्रथमगर्भे जातान् त्रीन् अजान् अनीकवते अनीकवद्गुणविशिष्टायाग्नये आलभते नियुनक्ति सप्त० । वातसमूहो वात्या तया सह वर्तन्त इति सवात्याः वातमण्डलीमध्यस्थां स्त्रीनजान् सान्तपनेभ्यः मरुद्भ्यः सप्त० । बष्किहान् चिरप्रसूतान् त्रीन् गृहमेधिभ्यो मरुद्भ्यः सप्त० । संसृष्टान् सह सृष्टान् त्रीन् क्रीडिभ्यः मरुद्भ्यः सप्त० । अनुसृष्टान् अनुक्रमेण जातान् त्रीन् स्वतवद्भ्यो मरुद्भ्यः सप्त० ॥ १६ ॥

सप्तदशी।
उ॒क्ताः स॑ञ्च॒रा एता॑ ऐन्द्रा॒ग्नाः प्रा॑शृ॒ङ्गा मा॑हे॒न्द्रा ब॑हुरू॒पा वै॑श्वकर्म॒णाः ।। १७ ।।
उ० अथाष्टादशे यूपे महाहविःपशवः कृष्णग्रीवादयः पञ्चदश पूर्ववत् । अथैकोनविंशतितमे एताः कर्बुरास्त्रय ऐन्द्राग्नाः एकोन० । प्राशृङ्गाः संहितायां दीर्घः । प्रकृष्टशृङ्गयुक्ता माहेन्द्राः महेन्द्रदेवता एकोन० । बहुरूपास्त्रयो वैश्वकर्मणाः विश्वकर्मदेवताः एकोन० ॥ १७ ॥
म० अथाष्टादशे यूपे महाहविःपशवः कृष्णग्रीवादयः पञ्चदश पूर्ववत् । अथैकोनविंशतितमे एताः कर्बुरास्त्रय ऐन्द्राग्नाः एकोन० । प्राशृङ्गाः संहितायां दीर्घः । प्रकृष्टशृङ्गयुक्ता माहेन्द्राः महेन्द्रदेवताः एकोन० । बहुरूपास्त्रयो वैश्वकर्मणाः विश्वकर्मदेवताः एकोन० ॥ १७ ॥

अष्टादशी।
धू॒म्रा ब॒भ्रुनी॑काशाः पितॄ॒णाᳪं᳭ सोम॑वतां ब॒भ्रवो॑ धू॒म्रनी॑काशाः पितॄ॒णां ब॑र्हि॒षदां॑ कृ॒ष्णा ब॒भ्रुनी॑काशाः पितॄ॒णाम॑ग्निष्वा॒त्तानां॑ कृ॒ष्णाः पृष॑न्तस्त्रैयम्ब॒काः ।। १८ ।।
उ० अथ पित्र्येष्टिदेवतापशवः धूम्राः कृष्णवर्णमिश्रा लोहितवर्णाः बभ्रुनीकाशाः कपिलवर्णसदृशास्त्रयः पशवः सोमवतां पितॄणां नियोज्याः एकोन० । बभ्रवः कपिलाः धूम्रनीकाशाः धूम्रा इव नितरां काशन्ते इति तादृशास्त्रयः बर्हिषदां पितॄणामेकोन० । अथ विंशे । यूपे कृष्णाः बभ्रुनीकाशाः अग्निष्वात्तानां पितॄणां विंशे । कृष्णाः पृषन्तः बिन्दुयुक्ताः त्र्यम्बकदेवताः विंशे ॥ १८ ॥
म०. अथ पित्र्येष्टिदेवतापशवः । धूम्राः कृष्णवर्णमिश्रा लोहितवर्णाः बभ्रुनीकाशाः कपिलवर्णसदृशास्त्रयः पशवः सोमवतां पितॄणां नियोज्याः एकोन० । बभ्रवः कपिलाः धूम्रनीकाशाः धूम्रा इव नितरां काशन्ते इति तादृशास्त्रयः बर्हिषदां पितॄणामेकोन० । अथ विंशे यूपे । कृष्णा बभ्रुनीकाशाः अग्निष्वात्तानां पितॄणां विंशे । कृष्णाः पृषन्तः बिन्दुयुक्ताः त्रैयम्बकाः त्र्यम्बकदेवताः विंशे ॥ १८ ॥

एकोनविंशी।
उ॒क्ताः स॑ञ्च॒रा एता॑: शुनासी॒रीया॑: श्वे॒ता वा॑य॒व्या॒: श्वे॒ताः सौ॒र्याः ।। १९ ।।
उ० अथ शुनासीरीयपशवः । तत्र संचराः आग्नेयादयः पञ्चदशोक्ताः । तेन कृष्णग्रीवा आग्नेयाः विंशे । बभ्रवः सौम्याः विंशे । उपध्वस्ताः सावित्राः विंशे । अथैकविंशे यूपे वत्सतर्यः सारस्वत्यः एकविंशे । श्यामाः पौष्णाः एक० । एताः कर्बुराः शुनासीरीयाः शुनासीरदेवताः एक० । श्वेताः त्रयो वायव्याः वायुदेवत्याः एक० । श्वेताः त्रयः सौर्याः सूर्यदेवताः एक० । एवं समाप्ताः यूपाः। इत्यश्वाद्याः सौर्यान्ताः सप्तविंशत्यधिकशतत्रयं ग्राम्याः पशवः सर्वे उक्ताः ॥ १९॥
म० अथ शुनासीरीयपशवः । तत्र संचराः आग्नेयादयः पञ्चदशोक्ताः तेन कृष्णग्रीया आग्नेयाः विंशे। बभ्रवः सौम्याः विंशे । उपध्वस्ताः सावित्राः विंशे । अथैकविंशे यूपे । वत्सतर्यः सारस्वत्यः एकविंशे । श्यामाः पौष्णाः एक० । एताः कर्बुराः शुनासीरीयाः शुनासीरदेवताः एक० । श्वेताः त्रयो वायव्याः वायुदेवत्याः एक० । श्वेताः त्रयः सौर्याः सूर्यदेवताः एक० । एवं समाप्ताः यूपाः । इत्यश्वाद्याः सौर्यान्ताः सप्तविंशत्यधिकशतत्रयं ग्राम्याः पशवः सर्वे उक्ताः ॥ १९ ॥

विंशी।
व॒स॒न्ताय॑ क॒पिञ्ज॑ला॒नाल॑भते ग्री॒ष्माय॑ कल॒विङ्का॑न्व॒र्षाभ्य॑स्ति॒त्तिरी॑ञ्छ॒रदे॒ वर्ति॑का हेम॒न्ताय॒ कक॑रा॒ञ्छिशि॑राय॒ विक॑करान् ।। २० ।।
उ० वसन्ताय कपिञ्जलानालभते इत्यादयः विश्वेषां देवानां पृषन्त इत्येवमन्ता यूपान्तरेषु त्रयोदश त्रयोदशारण्याः पशव आलभ्यन्ते ॥ २० ॥
म० अथारण्याः पशव उच्यन्ते । अत्रैकविंशतिर्यूपाः तेषां यूपानां विंशतिरन्तरालानि तेष्वन्तरालेषु अन्तरालोत्पत्तिक्रमेण कपिञ्जलादयस्त्रयोदश त्रयोदश पशव आलम्भनीयाः । अत्र यूपान्तरालेष्वारण्यपशूनां बन्धनोपाय उक्तो मानवसूत्रे । नाडीषु प्लुषिमशकान् करण्डेषु सर्पान् पञ्जरेषु मृगव्याघ्रसिंहान् कुम्भेषु मकरमत्स्यमण्डूकान् जालेषु पक्षिणः कारासु हस्तिनो नौषु चौदकानि यथार्थमितरानिति । ये पशवो येनोपायेन यूपान्तरालेषु तिष्ठन्ति ते तेनोपायेन स्थापनीया इति तात्पर्यम् । अत्र येषामारण्यजीववाचिपदानामर्था न ज्ञायन्ते ते निगमनिरुक्तनिघण्टुव्याकरणोणादिवृत्त्यभिधानग्रन्थेभ्यो विलोक्यावगन्तव्याः । आटविकेभ्यश्च लक्षणीयाः । तत्र प्रथमोत्पन्ने यूपान्तराले त्रीन् कपिञ्जलान् वसन्ताय आलभते नियुनक्ति । त्रीन् कलविङ्कान् चटकान् ग्रीष्माय । तित्तिरीन् त्रीन् वर्षाभ्यः। वर्तिकाः पक्षिविशेषान् शरदे । ततस्त्रयाणां ककराणां मध्ये एक ककरं हेमन्ताय । अथ द्वितीयेऽवकाशे शिष्टौ द्वौ ककरौ पक्षिविशेषौ हेमन्ताय । त्रीन् विककरान् शिशिराय ॥ २० ॥

एकविंशी।
स॒मु॒द्राय॑ शिशु॒मारा॒नाल॑भते प॒र्जन्या॑य म॒ण्डूका॑न॒द्भ्यो मत्स्या॑न्मि॒त्राय॑ कुली॒पया॒न्वरु॑णाय ना॒क्रान् ।। २१ ।।
उ० त्रीन् शिशुमारान् जलचरजन्तून् समुद्रायालभते । त्रीन्मण्डूकान्भेकान् पर्जन्याय । त्रयाणां मत्स्यानां मध्ये द्वौ अद्भ्यः । अथ तृतीयेऽवकाशे एकं शिष्टं मत्स्यमद्भ्यः । त्रीन् कुलीपयान् सोमाय । जलजान् मित्राय । त्रीन् नाक्रान् नक्रा एव नाक्रास्ताञ्जलचरान् वरुणाय ॥ २१ ॥
म० त्रीन् शिशुमारान् जलचरजन्तून् समुद्रायालभते । त्रीन्मण्डूकान्भेकान् पर्जन्याय । त्रयाणां मत्स्यानां मध्ये द्वौ अद्भ्यः । अथ तृतीयेऽवकाशे एकं शिष्टं मत्स्यमद्भ्यः । त्रीन् कुलीपयान जलजान् मित्राय । त्रीन् नाक्रान् नक्रा एव नाक्रास्ताञ्जलचरान् वरुणाय ॥ २१ ॥

द्वाविंशी।
सोमा॑य ह॒ᳪं᳭सानाल॑भते वा॒यवे॑ ब॒लाका॑ इन्द्रा॒ग्निभ्यां॒ क्रुञ्चा॑न्मि॒त्राय॑ म॒द्गून्वरु॑णाय चक्रवा॒कान् ।। २२ ।।
उ० त्रीन् हंसान् तिस्रो बलाकाः बकपत्नीः वायवे । अथ चतुर्थेऽवकाशे । त्रीन् क्रुञ्चान् पक्षिणः इन्द्राग्निभ्याम् । त्रीन् मद्गून् जलकाकान् मित्राय। त्रीन् चक्रवाकान् वरुणाय ॥२२॥
म० त्रीन् हंसान् सोमाय । तिस्रो बलाकाः बकपत्नीः वायवे । अथ चतुर्थेऽवकाशे । त्रीन् क्रुञ्चान् पक्षिणः इन्द्राग्निभ्याम् । त्रीन् मद्गून्जलकाकान् मित्राय । त्रीन् चक्रवाकान् वरुणाय ॥ २२ ॥

त्रयोविंशी।
अ॒ग्नये॑ कु॒टरू॒नाल॑भते॒ वन॒स्पति॑भ्य॒ उलू॑कान॒ग्नीषोमा॑भ्यां॒ चाषा॑न॒श्विभ्यां॑ म॒यूरा॑न्मि॒त्रावरु॑णाभ्यां क॒पोता॑न् ।। २३ ।।
उ० त्रीन् कुटरून् कुक्कुटानग्नये । ततस्त्रयाणामुलूकानां मध्ये एकमुलूकं वनस्पतिभ्यः । अथ पञ्चमेऽवकाशे द्वौ उलूकौ काकवैरिणौ । त्रीन् चाषानग्नीषोमाभ्याम् त्रीन्मयूरानश्विभ्यां श्रीन्कपोतान्मित्रावरुणाभ्याम् ॥ २३ ॥
म० त्रीन् कुटरून् कुक्कुटानग्नये । ततस्त्रयाणामुलूकानां मध्ये एकमुलूकं वनस्पतिभ्यः । अथ पञ्चमेऽवकाशे द्वौ उलूकौ काकवैरिणौ । त्रीन् चाषानग्नीषोमाभ्यां त्रीन् मयूरानश्विभ्यां त्रीन् कपोतान् मित्रावरुणाभ्याम् ॥ २३ ॥

चतुर्विंशी।
सोमा॑य ल॒बानाल॑भते॒ त्वष्ट्रे॑ कौली॒कान्गो॑षा॒दीर्दे॒वानां॒ पत्नी॑भ्यः कु॒लीका॑ देवजा॒मिभ्यो॒ऽग्नये॑ गृ॒हप॑तये पारु॒ष्णान् ।। २४ ।।
उ० त्रयाणां लबानां लावकानां मध्ये द्वौ सोमाय अथ षष्ठेऽवकाशे एकं लबं सोमाय । कौलीकान् पक्षिणः त्वष्ट्रे । तिस्रो गोषादीः गवां सादयित्रीः पक्षिणीः देवानां पत्नीभ्यः । तिस्रः कुलीकाः पक्षिणीः देवजामिभ्यः देववधूभ्यः । 'जामिः स्वसृकुलस्त्रियोः' । त्रीन्पारुष्णसंज्ञान्गृहपतयोऽग्नये ॥ २४ ॥
म त्रयाणां लबानां लावकानां मध्ये द्वौ सोमाय । अथ षष्ठेऽवकाशे एक लबं सोमाय । कौलीकान् पक्षिणः त्वष्ट्रे । तिस्रो गोषादीः गवां सादयित्रीः पक्षिणीः देवानां पत्नीभ्यः । तिस्रः कुलीकाः पक्षिणीः देवजामिभ्यः देववधूभ्यः । 'जामिः स्वसृकुलस्त्रियोः' । त्रीन् पारुष्णसंज्ञान् गृहपतयेऽग्नये ॥ २४ ॥

पञ्चविंशी।
अह्ने॑ पा॒राव॑ता॒नाल॑भते॒ रात्र्यै॑ सीचा॒पूर॑होरा॒त्रयो॑: स॒न्धिभ्यो॑ ज॒तूर्मासे॑भ्यो दात्यौ॒हान्त्सं॑वत्स॒राय॑ मह॒तः सु॑प॒र्णान् ।।
उ० अथ सप्तमेऽवकाशे त्रीन्पारावतान्कलरवाह्ने। तिस्रः सीचापूः पक्षिणीः रात्र्यै । तिस्रो जतूः पात्राख्याः अहोरात्रयोः सन्धिभ्यः । त्रीन्दात्यूहान् कालकण्ठान्मासेभ्यः । त्रयाणां महतां सुपर्णानां मध्ये एकं संवत्सराय । अथाष्टमेऽवकाशे द्वौ महान्तौ सुपर्णौ संवत्सराय ॥ २५ ॥ ।
म० अथ सप्तमेऽवकाशे त्रीन् पारावतान् कलरवानह्ने । | तिस्रः सीचापूः पक्षिणी रात्र्यै । तिस्रो जतूः पात्राख्याः पक्षिणीः अहोरात्रयोः सन्धिभ्यः। त्रीन् दात्यूहान् कालकण्ठान् मासेभ्यः। त्रयाणां महतां सुपर्णानां मध्ये एकं संवत्सराय । अथाष्टमेवकाशे द्वौ महन्तौ सुपर्णौ संवत्सराय ॥ २५ ॥

षड्विंशी।
भूम्या॑ आ॒खूनाल॑भते॒ऽन्तरि॑क्षाय पा॒ङ्क्त्रान्दि॒वे कशा॑न्दि॒ग्भ्यो न॑कु॒लान्बभ्रु॑कानवान्तरदि॒शाभ्य॑: ।। २६ ।।
उ० भूम्यै आखून्मूषकान् त्रीन् पाङ्क्त्रान् मूषकजातिविशेषानन्तरिक्षाय । काशान् तद्भेदानेव दिवे । त्रीन्नकुलान्दिग्भ्यः तत्र द्वौ अष्टमे । अथ नवमे एकम् त्रीन्बभ्रुकानवान्तरदिशाभ्यः ॥ २६ ॥
म० भूम्यै आखून् मूषकान् त्रीन् पाङ्क्त्रान् मूषकजाति: विशेषानन्तरिक्षाय । काशान् तद्भेदानेव दिवे । त्रीन् नकुलान् दिग्भ्यः तत्र द्वौ अष्टमे । अथ नवमे एकम् । त्रीन् बभ्रुकानवान्तरदिशाभ्यः ॥ २६ ॥

सप्तविंशी।
वसु॑भ्य॒ ऋश्या॒नाल॑भते रु॒द्रेभ्यो॒ रुरू॑नादि॒त्येभ्यो॒ न्यङ्कू॒॒न्विश्वे॑भ्यो दे॒वेभ्य॑: पृष॒तान्त्सा॒ध्येभ्य॑: कुलु॒ङ्गान् ।। २७ ।।
उ० त्रीनृष्यान्वसुभ्यः । ऋष्यादयो मृगविशेषाः रुद्रेभ्यः रुरुन् । त्रीन्न्यङ्कूनादित्येभ्यः । अथ दशमेऽवकाशे त्रीन् पृषतान्विश्वेभ्यो देवेभ्यः । त्रीन् कुलुङ्गान् साध्येभ्यः ॥ २७॥
म० त्रीनृष्यान् वसुभ्यः । ऋष्यादयो मृगविशेषाः । रुद्रेभ्यः । रुरून् । त्रीन् न्यङ्कूनादित्येभ्यः । अथ दशमेऽवकाशे त्रीन् पृषतान् विश्वेभ्यो देवेभ्यः । त्रीन् कुलुङ्गान् साध्येभ्यः ॥२७॥

अष्टाविंशी।
ईशा॑नाय॒ पर॑स्वत॒ आल॑भते मि॒त्राय॑ गौ॒रान्वरु॑णाय महि॒षान्बृह॒स्पत॑ये गव॒याँस्त्वष्ट्र॒ उष्ट्रा॑न् ।। २८ ।।
उ० परस्वतः मृगविशेषानीशानाय । त्रीन्गौरान्मृगान्मित्राय । त्रीन्महिषान्वरुणाय तत्रैकं दशमे । अथैकादशेऽवकाशे त्रीन् गवयान्गोसदृशानारण्यपशून्बृहस्पतये । त्रीनुष्ट्रान त्वष्ट्रे ॥ २८ ॥
म० परस्वतः मृगविशेषानीशानाय । त्रीन् गौरान्मृगान् । मित्राय । त्रीन् महिषान्वरुणाय तत्रैकं दशमे । अथैकादशेऽवकाशे त्रीन् गवयान्गोसदृशानारण्यपशून् बृहस्पतये । त्रीनुष्ट्रान् त्वष्ट्रे ॥ २८ ॥

एकोनत्रिंशी।
प्र॒जाप॑तये॒ पुरु॑षान्ह॒स्तिन॒ आल॑भते वा॒चे प्लुषीँ॒श्चक्षु॑षे म॒शका॒ञ्छ्रोत्रा॑य॒ भृङ्गा॑: ।। २९ ।।
उ० प्रजापतये पुरुषान्हस्तिनः त्रीन् । त्रीन् प्लुषीन्वक्रतुण्डान्वाचे। तन्मध्ये द्वौ प्लुषी एकादशे। अथ द्वादशेऽवकाशे एकं प्लुषिम् । त्रीन्मशकान् चक्षुषे । त्रयो भृङ्गाः श्रोत्राय नियोज्याः ॥ २९॥
म० प्रजापतये पुरुषान् हस्तिनः त्रीन् । त्रीन् प्लुषीन् । वक्रतुण्डान् वाचे तन्मध्ये द्वौ प्लुषी एकादशे । अथ द्वादशेऽवकाशे एकं प्लुषिम् । त्रीन् मशकान् चक्षुषे । त्रयो भृङ्गाः श्रोत्राय नियोज्याः ॥ २९ ॥

त्रिंशी।
प्र॒जाप॑तये च वा॒यवे॑ च गोमृ॒गो वरु॑णायार॒ण्यो मे॒षो य॒माय॒ कृष्णो॑ मनुष्यरा॒जाय॑ म॒र्कट॑: शार्दू॒लाय॑ रो॒हिदृ॑ष॒भाय॑ गव॒यी क्षि॑प्रश्ये॒नाय॒ वर्ति॑का॒ नील॑ङ्गो॒: कृमि॑: समु॒द्राय॑ शिशु॒मारो॑ हि॒मव॑ते ह॒स्ती ।। ३० ।।
उ० प्रजापतये च वायवे च एको गोमृगः गवयः। एक आरण्यो मेषे वरुणाय । एकः कृष्णो मेषे यमाय । एको मर्कटः मनुष्यराजाय । एको रोहिदृष्यः शार्दूलाय । एका गवयी ऋषभाय तदाख्यदेवाय । अथ त्रयोदशेऽवकाशे एका वर्तिका क्षिप्रश्येनाय देवाय । एकः कृमिः कीट: नीलङ्गोः नीलङ्गवे । शिशुमारः एको जलचरः समुद्राय । हस्ती हिमवते ॥ ३० ॥
म० प्रजापतये च वायवे च एको गोमृगः गवयः । एक आरण्यो मेषो वरुणाय । एकः कृष्णो मेषो यमाय । एको मर्कटः मनुष्यराजाय । एको रोहिदृष्यः शार्दूलाय । एका गवयी ऋषभाय तदाख्यदेवाय । अथ त्रयोदशेऽवकाशे एका वर्तिका क्षिप्रश्येनाय देवाय । एकः कृमिः कीटः नीलङ्गोः नीलङ्गवे । शिशुमारः एको जलचरः समुद्राय । हस्ती हिमवते ॥ ३० ॥

एकत्रिंशी।
म॒युः प्रा॑जाप॒त्य उ॒लो ह॒लिक्ष्णो॑ वृषद॒ᳪं᳭शस्ते धा॒त्रे दि॒शां क॒ङ्को धुङ्क्षा॑ग्ने॒यी क॑ल॒विङ्को॑ लोहिता॒हिः पु॑ष्करसा॒दस्ते त्वा॒ष्ट्रा वा॒चे क्रुञ्च॑: ।। ३१ ।।
उ० मयुः प्राजापत्यः तुरङ्गवदनः किन्नरः प्रजापतिदेवतः । उलो मृगविशेषः हलिक्ष्णः सिंह विशेषः वृषदंशो विडालः ते त्रयो धात्रे । एकः कङ्कः बकः दिशां दिग्भ्यः । एका धुङ्क्षा पक्षिणी आग्नेयी अग्निदेवत्या । कलविङ्कः चटकः लोहिताहिः रक्तवर्णसर्पः पुष्करसदः पुष्करे सीदतीति कमलभक्षी पक्षिविशेषः ते त्रयः त्वाष्ट्राः त्वष्टृदेवताः । अथ | चतुर्दशेऽवकाशे एकः क्रुञ्चः वाचे ॥ ३१ ॥ ।
म० मयुः प्राजापत्यः तुरङ्गवदनः किन्नरः प्रजापतिदेवतः । उलो मृगविशेषः हलिक्ष्णः सिंहविशेषः वृषदंशो विडालः ते त्रयो धात्रे । एकः कङ्कः बकः दिशां दिग्भ्यः । एका धुङ्क्षा पक्षिणी आग्नेयी अग्निदेवत्या । कलविङ्कः चटकः लोहिताहिः रक्तवर्णसर्पः पुष्करसादी पुष्करे सीदतीति कमलभक्षी पक्षिविशेषः ते त्रयः त्वाष्ट्राः त्वष्टृदेवताः । अथ चतुर्दशेऽवकाशे एकः क्रुञ्चः वाचे ॥ ३१ ॥

द्वात्रिंशी। ।
सोमा॑य कुलु॒ङ्ग आ॑र॒ण्योऽजो न॑कु॒लः शका॒ ते पौ॒ष्णाः क्रो॒ष्टा मा॒योरिन्द्र॑स्य गौरमृ॒गः पि॒द्वो न्यङ्कु॑: कक्क॒टस्तेऽनु॑मत्यै प्रति॒श्रुत्का॑यै चक्रवा॒कः ।। ३२ ।।
उ० कुलुङ्गः कुरङ्गो हरिण एकः सोमाय । आरण्यो वनजोऽजश्छागः नकुलः शका शकुन्तिः एते त्रयः पौष्णाः पूषदेवत्याः । क्रोष्टा शृगालो मायोर्देवस्य । एको गौरमृगः इन्द्रस्य । पिद्वो मृगविशेषः न्यङ्कुः अपि कक्कटः स एव ते त्रयोऽनुमत्यै । चक्रवाकः प्रतिश्रुत्कायै ॥ ३२ ॥ ।
म० कुलुङ्गः कुरङ्गो हरिण एकः सोमाय । आरण्यो वनजोऽजच्छागः नकुलः शका शकुन्तिः एते त्रयः पौष्णाः पूषदेवत्याः । क्रोष्टा शृगालो मायोर्दवस्य । एको गौरमृगः इन्द्रस्य । पिद्वो मृगविशेषः न्यङ्कुः अपि कक्कटः स एव ते त्रयोऽनुमत्यै । चक्रवाकः प्रतिश्रुत्कायै ॥ ३२ ॥

त्रयस्त्रिंशी। .
सौ॒री ब॒लाका॑ शा॒र्गः सृ॑ज॒यः श॒याण्ड॑क॒स्ते मै॒त्राः सर॑स्वत्यै॒ शारि॑: पुरुष॒वाक् श्वा॒विद्भौ॒मी शा॑र्दू॒लो वृक॒: पृदा॑कु॒स्ते म॒न्यवे॒ सर॑स्वते॒ शुक॑: पुरुष॒वाक् ।। ३३ ।।
उ० बलाका बकस्त्री सूर्य देवत्या । शार्गः पक्षिविशेषः । अथ पञ्चदशेऽवकाशे सृजयः पक्षिविशेषः शयाण्डकोऽपि ते मैत्राः मित्रदेवत्याः । पुरुषवाक् मनुष्यवद्वादिनी शारिः शुकी सरस्वत्यै । श्वावित् सेधा भौमी भूदेवत्या शार्दूलो व्याघ्रः वृकः चित्रकः पृदाकुः सर्पः ते त्रयो मन्यवे । पुरुषवाक् शुकः सरस्वते समुद्राय ॥ ३३ ॥
म० बलाका बकस्त्री सूर्य देवत्या । शार्गः पक्षिविशेषः । अथ पञ्चदशेऽवकाशे सृजयः पक्षिविशेषः शयाण्डकोऽपि ते मैत्राः मित्रदेवत्याः । पुरुषवाक् मनुष्यवद्वादिनी शारिः शुकी सरस्वत्यै । श्वावित् सेधा भौमी भूदेवत्या शार्दूलो व्याघ्रः वृकः चित्रकः पृदाकुः सर्पः ते त्रयो मन्यवे । पुरुषवाक् शुकः सरस्वते समुद्राय ॥ ३३ ॥

चतुस्त्रिंशी।
सु॒प॒र्णः पा॑र्ज॒न्य आ॒तिर्वा॑ह॒सो दर्वि॑दा॒ ते वा॒यवे॒ बृह॒स्पत॑ये वा॒चस्पत॑ये पैङ्गरा॒जो॒ऽल॒ज आ॑न्तरि॒क्षः प्ल॒वो म॒द्गुर्मत्स्य॒स्ते न॑दीप॒त॑ये द्यावापृथि॒वीय॑: कू॒र्मः ।। ३४ ।।
उ० सुपर्णः गरुत्मान् पार्जन्यः पर्जन्याय । आतिः आडी वाहसः दार्विदा काष्ठकुट्टः ते त्रयः पक्षिविशेषाः वायवे । बृहस्पतये वाचस्पतये वाचो वाण्याः पतये इति बृहस्पतिविशेषणम् । ईदृशाय बृहस्पतये पैङ्गराजः पक्षिविशेषः । अथ पोडशेऽवकाशे अलजः पक्षिविशेषः आन्तरिक्षः अन्तरिक्षदेवतः । प्लवः जलपक्षी मद्गुः कारण्डवः मत्स्यः ते नदीपतये। कूर्मः कच्छपः द्यावापृथिवीयः द्यावापृथिवीदेवतः ॥ ३४ ॥
म० सुपर्णः गरुत्मान् पार्जन्यः पर्जन्याय । आतिः आडी वाहसः दार्विदा काष्ठकुट्टः ते त्रयः पक्षिविशेषाः वायवे । बृहस्पतये वाचस्पतये वाचो वाण्याः पतये इति बृहस्पतिविशेषणम् । ईदृशाय बृहस्पतये पैङ्गराजः पक्षिविशेषः । अथ षोडशेऽवकाशे अलजः पक्षिविशेषः आन्तरिक्षः अन्तरिक्षदेवतः । प्लवः जलपक्षी मद्गुः कारण्डवः मत्स्यः ते नदीपतये । कूर्मः कच्छपः द्यावापृथिवीयः द्यावापृथिवीदेवतः ॥ ३४ ॥

पञ्चत्रिंशी।
पु॒रु॒ष॒मृ॒गश्च॒न्द्रम॑सो गो॒धा काल॑का दार्वाघा॒टस्ते वन॒स्पती॑नां कृक॒वाकु॑: सावि॒त्रो ह॒ᳪं᳭सो वात॑स्य ना॒क्रो मक॑रः कुली॒पय॒स्तेऽकू॑पारस्य ह्रि॒यै शल्य॑कः ।। ३५ ।।
उ० पुरुषमृगः पुंमृगः चन्द्रमसः । गोधा कालका पक्षिविशेषः दार्वाघाटः सारसः ते वनस्पतीनाम् । कृकवाकु: ताम्रचूडः सावित्रः सवितृदेवतः हंसः वातस्य । नाक्रः मकरः कुलीपयः ते त्रयो जलचरविशेषाः अकूपारस्य समुद्रस्य । त्रयाणां मध्ये द्वौ षोडशे । अथ सप्तदशेऽवकाशे एकः कुलीपयः अकूपारस्य । शल्यकः श्वावित् ह्रियै देव्यै ॥ ३५॥
म० पुरुषमृगः पुंमृगः चन्द्रमसः । गोधा कालका पक्षिविशेषः दार्वाघाटः सारसः ते वनस्पतीनाम् । कृकवाकुः ताम् चूडः सावित्रः सवितृदेवतः हंसः वातस्य । नाक्रः मकरः कुलीपयः ते त्रयो जलचरविशेषाः अकूपारस्य समुद्रस्य । त्रयाणां मध्ये द्वौ षोडशे । अथ सप्तदशेऽवकाशे एकः कुलीपयः अकूपारस्य । शल्यकः श्वावित् ह्रियै देव्यै ॥ ३५ ॥

षट्त्रिंशी।
ए॒ण्यह्नो॑ म॒ण्डूको॒ मूषि॑का ति॒त्तिरि॒स्ते स॒र्पाणां॑ लोपा॒श आ॑श्वि॒नः कृष्णो॒ रात्र्या॒ ऋक्षो॑ ज॒तूः सु॑षि॒लीका॒ त इ॑तरज॒नानां॒ जह॑का वैष्ण॒वी ।। ३६ ।।
उ० एणी मृगी अह्नः आलभ्या । मण्डूको मूषिका तित्तिरिः ते त्रयः सर्पाणाम् । लोपाशो वनचरविशेषः आश्विनः अश्विदेवतः । कृष्णो मृगः रात्र्यै । ऋक्षः भल्लूकः जतूः सुपिलीका एतौ पक्षिविशेषो ते त्रयः इतरजनानां देवानाम् । जहका गात्रसङ्कोचनी वैष्णवी विष्णुदेवत्या ॥ ३६॥
म० एणी मृगी अह्नः आलभ्या। मण्डूको मूषिका तित्तिरिः ते त्रयः सर्पाणाम् । लोपाशो वनचरविशेषः आश्विनः अश्विदेवतः । कृष्णो मृगः रात्र्यै । ऋक्षः भल्लूकः जतूः सुषिलीका एतौ पक्षिविशेषौ ते त्रयः इतरजनानां देवानाम् । जहका गात्रसङ्कोचनी वैष्णवी विष्णुदेवत्या ॥ ३६ ॥

सप्तत्रिंशी।
अ॒न्य॒वा॒पो॒ऽर्धमा॒साना॒मृश्यो॑ म॒यूर॑: सुप॒र्णस्ते ग॑न्ध॒र्वाणा॑म॒पामु॒द्रो मा॒सां क॒श्यपो॑ रो॒हित्कु॑ण्डृ॒णाची॑ गो॒लत्ति॑का॒ ते॑ऽप्स॒रसां॑ मृ॒त्यवे॑ऽसि॒तः ।। ३७ ।। (पुण्डृणाची – पाठभेदः)
उ०. अन्यवापः कोकिलाख्यः पक्षिविशेषोऽर्धमासानां पशुः । अथाष्टादशेऽवकाशे । ऋष्यो मृगविशेषः मयूरः बर्ही सुपर्णो गरुत्मान् ते गन्धर्वाणां पशवः । उद्रः जलचरः कर्कटसंज्ञः अपां पशुः । कश्यपः कच्छपः मासां मासानाम् । रोहित् ऋष्यः कुण्डृणाची वनचरीविशेषः गोलत्तिकापि ते त्रयोऽप्सरसाम् । असितः कृष्णः पशुर्मृत्यवे ॥ ३७ ॥
म० अन्यवापः कोकिलाख्यः पक्षिविशेषोऽर्धमासानां पशुः । अथाष्टादशऽवकाशे । ऋष्यो मृगविशेषः मयूरः बर्ही सुपर्णो गरुत्मान् ते गन्धर्वाणां पशवः। रुद्रः जलचरः कर्कटसंज्ञः अपां पशुः । कश्यपः कच्छपः मासां मासानाम् । रोहित् ऋष्यः अष्टत्रिंशी।
व॒र्षा॒हूरृ॒तू॒ना॑मा॒खुः कशो॑ मान्था॒लस्ते पि॑तॄ॒णां बला॑याजग॒रो वसू॑नां क॒पिञ्ज॑लः क॒पोत॒ उलू॑कः श॒शस्ते निरृ॑त्यै॒ वरु॑णायार॒ण्यो मे॒षः ।। ३८ ।।
उ० वर्षाहूः वर्षाभूः भेकी ऋतूनाम् । आखुः मूषकः कशः मान्थालश्च तद्विशेषौ ते त्रयः पितॄणाम् । अथैकोनविंशे । अजगरो महासर्पः बलाय । कपिञ्जलो वसूनाम् । कपोतः उलूकः शशः ते निर्ऋत्यै । आरण्यो मेषो वरुणाय ॥ ३८॥
म० वर्षाहूः वर्षाभूः भेकी ऋतूनाम् । आखुः मूषकः कशः मान्थालश्च तद्विशेषौ ते त्रयः पितॄणाम् । अथैकोनविंशे । अजगरो महासर्पः बलाय । कपिञ्जलो वसूनाम् । कपोतः उलूकः शशः ते निर्ऋत्यै । आरण्यो मेषो वरुणाय ॥ ३८ ॥

एकोनचत्वारिंशी।
श्वि॒त्र आ॑दि॒त्याना॒मुष्ट्रो॒ घृणी॑वान्वार्ध्रीन॒सस्ते म॒त्या अर॑ण्याय सृम॒रो रुरू॑ रौ॒द्रः क्वयि॑: कु॒टरु॑र्दात्यौ॒हस्ते वा॒जिनां॒ कामा॑य पि॒कः ।। ३९ ।।
उ० श्वित्रः श्वेतः पशुरादित्यानाम् । उष्ट्रः दीर्घग्रीवः घृणिवान् तेजस्वी पशुविशेषः । संहितायां घृणिशब्दो दीर्घः । वार्ध्रीनसः कण्ठे स्तनवानजः ते त्रयो मत्यै देव्यै । सृमरः गवयोऽरण्याय देवाय । रुरुः मृगः रौद्रः रुद्रदेवतः। क्वयिः पक्षिविशेषः । अथ विंशेऽवकाशे । कुटरुः कुक्कुटः दात्यौहः कालकण्ठः ते त्रयो वाजिनां देवानाम् । पिकः कोकिलः कामाय ॥ ३९॥
म० श्वित्रः श्वेतः पशुरादित्यानाम् । उष्ट्रः दीर्घग्रीवः घृणिवान् तेजस्वी पशुविशेषः। संहितायां घृणिशब्दो दीर्घः । वार्रीेतनसः कण्ठे स्तनवानजः ते त्रयो मत्यै देव्यै । सृमरः गवयोऽरण्याय देवाय । रुरुः मृगः रौद्रः रुद्रदेवतः क्वयिः पक्षिविशेषः । अथ विंशेऽवकाशे । कुटरुः कुक्कुटः दात्यौहः कालकण्ठः ते त्रयो वाजिनां देवानाम् । पिकः कोकिलः कामाय ॥ ३९ ॥

चत्वारिंशी।
ख॒ड्गो वै॑श्वदे॒वः श्वा कृ॒ष्णः क॒र्णो ग॑र्द॒भस्त॒रक्षु॒स्ते रक्ष॑सा॒मिन्द्रा॑य सूक॒रः सि॒ᳪं᳭हो मा॑रु॒त: कृ॑कला॒सः पिप्प॑का श॒कुनि॒स्ते श॑र॒व्या॒यै॒ विश्वे॑षां दे॒वानां॑ पृष॒तः ।। ४० ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां चतुर्विंशोऽध्यायः ॥ २४ ॥
उ० खड्गो मृगविशेषो विश्वदेवदेवतः एकः कृष्णः श्वा सारमेयः द्वितीयः कर्णो लम्बकर्णो गर्दभः तृतीयस्तरक्षुः मृगादनः ते त्रयो रक्षसां पशवः । सूकरः इन्द्राय । सिंहो मारुतः मरुद्देवतः । कृकलासः सरटः पिप्पका पक्षिणी शकुनिः पक्षी एते त्रयः शरव्यायै । एकः पृषतः मृगविशेषो विश्वेषां देवानां पशुर्भवति विश्वेभ्यो देवेभ्यो जुष्टं नियुनज्मीति योज्यः । एवं षष्ट्यधिकं शतद्वयमारण्याः पशव उक्ताः । अत्र द्वाविंशतिरेकादशिनः सप्तविंशत्यधिकानि त्रीणि शतानि अश्वादयः सौर्यान्ताः षडधिकं शतद्वयं कपिञ्जलादयः पृषतान्ताः आरण्याः पशवः सर्वे मिलित्वा षट् शतानि नवाधिकानि पशवो भवन्ति । श्लोकश्च । षट् शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि । अश्वमेधस्य यज्ञस्य नवभिश्चाधिकानि चेति । तेष्वारण्याः सर्वे उत्स्रष्टव्या न तु हिंस्याः ॥ ४०॥
इति उवटकृतौ मन्त्रभाष्ये चतुर्विंशोऽध्यायः ॥ २४ ॥
म० खड्गो मृगविशेषो विश्वदेवदेवतः । एकः कृष्णः श्वा सारमेयः द्वितीयः कर्णो लम्बकर्णो गर्दभः तृतीयस्तरक्षुः मृगादनः ते त्रयो रक्षसां पशवः । सूकरः इन्द्राय । सिंहो मारुतः मरुद्देवतः । कृकलासः सरटः पिप्पका पक्षिणी शकुनिः पक्षी ते त्रयः शरव्यायै । एकः पृषतः मृगविशेषो विश्वेषां देवानां पशुर्भवति । विश्वेभ्यो देवेभ्यो जुष्टं नियुनज्मीति योज्यः । एवं षष्ट्यधिकं शतद्वयमारण्याः पशव उक्ताः । अत्र द्वाविंशतिरेकादशिनः सप्तविंशत्यधिकानि त्रीणि शतानि अश्वादयः सौर्यान्ताः षष्ट्यधिकं शतद्वयं कपिञ्जलादयः पृषतान्ता आरण्याः पशवः । सर्वे मिलित्वा षट्शतानि नवाधिकानि पशवो भवन्ति । श्लोकश्च । षट् शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि । । अश्वमेधस्य यज्ञस्य नवभिश्चाधिकानि चेति । तेष्वारण्याः सर्वे उत्स्रष्टव्या न तु हिंस्याः ॥ ४० ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
गतोऽध्यायश्चतुर्विंशो देवतापशुवाचकः ॥ २४ ॥