शुक्लयजुर्वेदः/अध्यायः १४

विकिस्रोतः तः
(शुक्‍लयजुर्वेदः/अध्यायः १४ इत्यस्मात् पुनर्निर्दिष्टम्)
← अध्यायः १३ शुक्लयजुर्वेदः
अध्यायः १४
[[लेखकः :|]]
अध्यायः १५ →

द्वितीयाचितिवीडियो

तृतीयाचितिवीडियो

चतुर्थीचितिवीडियो

अध्यायः 14
अग्निचयने द्वितीय तृतीय चतुर्थी चिति मन्त्राः


14.1
ध्रुवक्षितिर् ध्रुवयोनिर् ध्रुवासि ध्रुवं योनिम् आ सीद साधुया ।
उख्यस्य केतुं प्रथमं जुषाणा ।
अश्विनाध्वर्यू सादयताम् इह त्वा ॥

14.2
कुलायिनी घृतवती पुरंधिः स्योने सीद सदने पृथिव्याः ।
अभि त्वा रुद्रा वसवो गृणन्त्व् इमा ब्रह्म पीपिहि सौभगाय ।
अश्विनाध्वर्यू सादयताम् इह त्वा ॥

14.3
स्वैर् दक्षैर् दक्षपितेह सीद देवानाꣳ सुम्ने बृहते रणाय ।
पितेवैधि सूनव ऽ आ सुशेवा स्वावेशा तन्वा सं विशस्व ।
अश्विनाध्वर्यू सादयताम् इह त्वा ॥

14.4
पृथिव्याः पुरीषम् अस्य् अप्सो नाम तां त्वा विश्वे ऽ अभि गृणन्तु देवाः ।
स्तोमपृष्ठा घृतवतीह सीद प्रजावद् अस्मे द्रविणा यजस्व ।
अश्विनाध्वर्यू सादयताम् इह त्वा ॥

14.5
अदित्यास् त्वा पृष्ठे सादयाम्य् अन्तरिक्षस्य धर्त्रीं विष्टम्भनीं दिशामधिपत्नीं भुवनानामूर्मिर् द्रप्सो ऽ अपाम् असि विश्वकर्मा त ऽ ऋषिः ।
अश्विनाध्वर्यू सादयताम् इह त्वा ॥

14.6
शुक्रश् च शुचिश् च ग्रीष्माव् ऋतू ऽ अग्नेर् अन्तःश्लेषो ऽसि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः ।
ये ऽ अग्नयः समनसो ऽन्तरा द्यावापृथिवी ऽ इमे ग्रैष्माव् ऋतू ऽ अभिकल्पमानाऽ इन्द्रम् इव देवा ऽ अभिसं विशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥

14.7
सजूर् ऋतुभिः सजूर् विधाभिः सजूर् देवैः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा ।
सजूर् ऋतुभिः सजूर् विधाभिः सजूर् वसुभिः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा ।
सजूर् ऋतुभिः सजूर् विधाभिः सजू रुद्रैः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा ।
सजूर् ऋतुभिः सजूर् विधाभिः सजूर् आदित्यैः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा ।
सजूर् ऋतुभिः सजूर् विधाभिः सजूर् विश्वैर् देवैः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा ॥

14.8
प्राणं मे पाहि ।
अपानं मे पाहि ।
व्यानं मे पाहि ।
चक्षुर् म ऽ उर्व्या वि भाहि ।
श्रोत्रं मे श्लोकय ।
अपः पिन्व ।
ओषधीर् जिन्व ।
द्विपाद् अव ।
चतुष्पात् पाहि ।
दिवो वृष्टिम् एरय ॥

14.9
मूर्धा वयः प्रजापतिश् छन्दः ।
क्षत्रं वयो मयंदं छन्दः ।
विष्टम्भो वयो ऽधिपतिश् छन्दः ।
विश्वकर्मा वयः परमेष्ठी छन्दः ।
वस्तो वयो विवलं छन्दः ।
वृष्णिर् वयो विशालं छन्दः ।
पुरुषो वयस् तन्द्रं छन्दः ।
व्याघ्रो वयो ऽनाधृष्टं छन्दः ।
सिꣳहो वयश् छदिश् छन्दः ।
पष्ठवाड् वयो बृहती छन्दः ।
ऽ उक्षा वयः ककुप् छन्दः ।
ऽ ऋषभो वयः सतोबृहती छन्दः ॥

14.10
अनड्वान् वयः पङ्क्तिश् छन्दः ।
धेनुर् वयो जगती छन्दः ।
त्र्यविर् वयस् त्रिष्टुप् छन्दः ।
दित्यवाड् वयो विराट् छन्दः ।
पञ्चाविर् वयो गायत्री छन्दः ।
त्रिवत्सो वय ऽ उष्णिक् छन्दः ।
तुर्यवाड् वयो ऽनुष्टुप् छन्दः ।
[ लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् ।
इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् ।
ता अस्य सूददोहसः सोमꣳ श्रीणन्ति पृश्नयः ।
जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः ।
इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः ।
रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम् ॥ ]???

14.11
इन्द्राग्नी ऽ अव्यथमानाम् इष्टकां दृꣳहतं युवम् ।
पृष्ठेन द्यावापृथिवी ऽ अन्तरिक्षं च विबाधसे ॥

14.12
विश्वकर्मा त्वा सादयत्व् अन्तरिक्षस्य पृष्ठे व्यचस्वतीं प्रथस्वतीम् अन्तरिक्षं यच्छान्तरिक्षं दृꣳहान्तरिक्षं मा हिꣳसीः ।
विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय ।
वायुष् ट्वाभि पातु मह्या स्वस्त्या छर्दिषा शंतमेन तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥

14.13
राज्ञ्य् असि प्राची दिक् ।
विराड् असि दक्षिणा दिक् ।
सम्राड् असि प्रतीची दिक् ।
स्वराड् अस्य् उदीची दिक् ।
अधिपत्न्य् असि बृहती दिक् ॥

14.14
विश्वकर्मा त्वा सादयत्व् अन्तरिक्षस्य पृष्ठे ज्योतिष्मतीम् ।
विश्वस्मै प्राणायापानाय व्यानाय विश्वं ज्योतिर् यच्छ ।
वायुष्टे ऽधिपतिस् तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥

14.15
नभश् च नभस्यश् च वार्षिकाव् ऋतू ऽ अग्नेर् अन्तःश्लेषो सि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः ।
ये ऽ अग्नयः समनसोऽन्तरा द्यावापृथिवी ऽ इमे वार्षिकाव् ऋतू ऽ अभिकल्पमानाऽ इन्द्रम् इव देवा ऽ अभिसं विशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥

14.16
इषश् चोर्जश् च शारदाव् ऋतू ऽ अग्नेर् अन्तःश्लेषोऽसि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः ।
ये ऽ अग्नयः समनसोऽन्तरा द्यावापृथिवी ऽ इमे शारदाव् ऋतू ऽ अभिकल्पमाना ऽइन्द्रम् इव देवाऽ अभिसं विशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥

14.17
आयुर् मे पाहि ।
प्राणं मे पाहि ।
अपानं मे पाहि ।
व्यानं मे पाहि ।
चक्षुर् मे पाहि ।
श्रोत्रं मे पाहि ।
वाचं मे पिन्व ।
मनो मे जिन्व ।
आत्मानं मे पाहि ।
ज्योतिर् मे यच्छ ॥

14.18
मा छन्दः ।
प्रमा छन्दः ।
प्रतिमा छन्दः ।
ऽ अस्रीवयश् छन्दः ।
पङ्क्तिश् छन्दः ।
ऽ उष्णिक् छन्दः ।
बृहती छन्दः ।
ऽअनुष्टुप् छन्दः ।
विराट् छन्दः ।
गायत्री छन्दः ।
त्रिष्टुप् छन्दः ।
जगती छन्दः ॥

14.19
पृथिवी छन्दः ।
ऽअन्तरिक्षं छन्दः ।
द्यौश् छन्दः ।
समाश् छन्दः ।
नक्षत्राणि छन्दः ।
वाक् छन्दः ।
मनश् छन्दः ।
कृषिश् छन्दः ।
हिरण्यं छन्दः ।
गौश् छन्दः ।
ऽअजा छन्दः ।
ऽअश्वश् छन्दः ॥

14.20
अग्निर् देवता ।
वातो देवता ।
सूर्यो देवता ।
चन्द्रमा देवता ।
वसवो देवता ।
रुद्रा देवता ।
ऽऽआदित्या देवता ।
मरुतो देवता ।
विश्वे देवा देवता ।
बृहस्पतिर् देवता ।
इन्द्रो देवता ।
वरुणो देवता ॥

14.21
मूर्धासि राड् ध्रुवासि धरुणा धर्त्र्य् असि धरणी ।
आयुषे त्वा वर्चसे त्वा कृष्यै त्वा क्षेमाय त्वा ॥

14.22
यन्त्री राड् यन्त्र्य् असि यमनी ध्रुवासि धरित्री ।
इषे त्वोर्जे त्वा रय्यै त्वा पोषाय त्वा ।
लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् ।
इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् ।
ता अस्य सूददोहसः सोमꣳ श्रीणन्ति पृश्नयः ।
जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः ।
इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः ।
रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम् ॥

14.23
आशुर् त्रिवृत् ।
भान्तः पञ्चदशः ।
व्योमा सप्तदशः ।
धरुण ऽ एकविꣳशः ।
प्रतूर्तिर् अष्टादशः ।
तपो नवदशः ।
ऽअभीवर्तः सविꣳशः ।
वर्चो द्वाविꣳशः ।
संभरणस् त्रयोविꣳशः ।
योनिश् चतुर्विꣳशः ।
गर्भाः पञ्चविꣳशः ।
ऽ ओजस् त्रिणवः ।
क्रतुर् एकत्रिꣳशः ।
प्रतिष्ठा त्रयस्त्रिꣳशः ।
ब्रध्नस्य विष्टपं चतुस्त्रिꣳशः ।
नाकः षट्त्रिꣳशः ।
विवर्तो ष्टाचत्वारिꣳशः ।
धर्त्रं चतुष्टोमः ॥

14.24
अग्नेर् भागो ऽसि दीक्षाया ऽ आधिपत्यं ब्रह्म स्पृतं त्रिवृत् स्तोमः ।
इन्द्रस्य भागो ऽसि विष्णोर् आधिपत्यं क्षत्रꣳ स्पृतं पञ्चदशः स्तोमः ।
नृचक्षसां भागो ऽसि धातुर् आधिपत्यं जनित्रꣳ स्पृतꣳ सप्तदशः स्तोमः ।
मित्रस्य भागो ऽसि वरुणस्याधिपत्यं दिवो वृष्टिर् वात स्पृत ऽएकविꣳश स्तोमः ॥

14.25
वसूनां भागो ऽसि रुद्राणाम् आधिपत्यं चतुष्पात् स्पृतं चतुर्विꣳश स्तोमः ।
आदित्यानां भागो ऽसि मरुताम् आधिपत्यं गर्भा स्पृताः पञ्चविꣳश स्तोमः ।
अदित्यै भागो ऽसि पूष्ण ऽ आधिपत्यम् ओज स्पृतं त्रिणव स्तोमः ।
देवस्य सवितुर् भागो ऽसि बृहस्पतेर् आधिपत्यꣳ समीचीर् दिश स्पृताश् चतुष्टोम स्तोमः ॥

14.26
यवानां भागो ऽस्य् अयवानाम् आधिपत्यं प्रजा स्पृताश् चतुश्चत्वारिꣳश स्तोमः ।
ऋभूणां भागो ऽसि विश्वेषां देवानाम् आधिपत्यं भूतꣳ स्पृतं त्रयस्त्रिꣳश स्तोमः ॥

14.27
सहश् च सहस्यश् च हैमन्तिकाव् ऋतू ऽ अग्नेर् अन्तःश्लेषो सि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः ।
ये ऽ अग्नयः समनसो न्तरा द्यावापृथिवी ऽ इमे हैमन्तिकाव् ऋतू ऽ अभिकल्पमाना ऽ इन्द्रम् इव देवा ऽ अभिसंविशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥

14.28
एकयास्तुवत प्रजा ऽ अधीयन्त प्रजापतिर् अधिपतिर् आसीत् ।
तिसृभिर् अस्तुवत ब्रह्मासृज्यत ब्रह्मणस्पतिर् अधिपतिर् आसीत् ।
पञ्चभिर् अस्तुवत भूतान्य् असृज्यन्त भूतानां पतिर् अधिपतिर् आसीत् ।
सप्तभिर् अस्तुवत सप्त ऋषयो ऽसृज्यन्त धाताधिपतिर् आसीत् ॥

14.29
नवभिर् अस्तुवत पितरो ऽसृज्यन्तादितिर् अध्निपत्न्य् आसीत् ।
एकादशभिर् अस्तुवत ऽ ऋतवो ऽसृज्यन्तार्तवा ऽ अधिपतय ऽ आसन् ।
त्रयोदशभिर् अस्तुवत मासा ऽ असृज्यन्त संवत्सरो ऽधिपतिर् आसीत् ।
पञ्चदशभिर् अस्तुवत क्षत्रम् असृज्यतेन्द्रो ऽधिपतिर् आसीत् ।
सप्तदशभिर् अस्तुवत ग्राम्याः पशवो ऽसृज्यन्त बृहस्पतिर् अधिपतिर् आसीत् ॥

14.30
नवदशभिर् अस्तुवत शूद्रार्याव् असृज्येताम् अहोरात्रे ऽ अधिपत्नी आस्ताम् ।
एकविꣳशत्यास्तुवतैकशफाः पशवो सृज्यन्त वरुणो ऽधिपतिर् आसीत् ।
त्रयोविꣳशत्यास्तुवत क्षुद्रां पशवो ऽसृज्यन्त पूषाधिपतिर् आसीत् ।
पञ्चविꣳशत्यास्तुवताऽऽरण्याः पशवो ऽसृज्यन्त वायुर् अधिपतिर् आसीत् ।
सप्तविꣳशत्यास्तुवत द्यावापृथिवी व्यैतां वसवो रुद्राऽ आदित्याऽ अनुव्य् आयꣳस् त ऽ एवाधिपतय ऽ आसन् ॥

14.31
नवविꣳशत्यास्तुवत वनस्पतयोऽसृज्यन्त सोमो ऽधिपतिर् आसीत् ।
एकत्रिꣳशतास्तुवत प्रजा ऽ असृज्यन्त यवाश् चायवाश् चाधिपतय ऽ आसन् ।
त्रयस्त्रिꣳशतास्तुवत भूतान्य् अशाम्यन् प्रजापतिः परमेष्ठ्य् अधिपतिर् आसीत् ।
[लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् ।
इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् ।
ता अस्य सूददोहसः सोमꣳ श्रीणन्ति पृश्नयः ।
जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः ।
इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः ।
रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम् ॥


भाष्यम्(उवट-महीधर)

चतुर्दशोऽध्यायः।

तत्र प्रथमा।
ध्रु॒वक्षि॑तिर्ध्रु॒वयो॑निर्ध्रु॒वाऽसि॑ ध्रु॒वं योनि॒मा सी॑द साधु॒या । उख्य॑स्य के॒तुं प्र॑थ॒मं जु॑षा॒णाऽश्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ।। १ ।।
उ०द्वितीयां चितिं देवा अपश्यन् तस्यां चितौ पञ्चाश्विन्यो यजुरन्ताः । अश्विनाध्वर्यू इत्यादियजुः । प्रथमा विराट् । द्वितीयाद्याश्चतस्रस्त्रिष्टुभः । ध्रुवक्षितिः । या त्वं ध्रुवक्षितिः स्थिरनिवासा ध्रुवयोनिश्च अनश्वरस्थाना च ध्रुवा चासि स्वत एव तां त्वां ब्रवीमि । ध्रुवं स्थिरं योनिं स्थानम् । आसीद अधितिष्ठ । साधुया साधुम् । द्वितीयैकवचनस्य स्थाने या । उख्यस्याग्नेः केतुं प्रज्ञानं प्रथममाद्यं जुषाणा सेवमाना । उख्यस्याग्नेः प्रथमं प्रज्ञानम् । 'इयमेव प्रथमा चितिस्तस्याश्चोपरिष्टान्निधीयते तस्मादेवमुच्यते' । उत्तरं यजुः । किंच अश्विनौ चाध्वर्यू सादयताम् इह रेतःसिग्वेलायां त्वा त्वाम् । केचिच्चतुर्थमेतं पादं वर्णयन्ति त्रिष्टुभं च ॥ १ ॥
म० त्रयोदशेऽध्याये प्रथमा चितिरुक्ता सा भूलोकरूपा । 'अयं वै लोकः प्रथमा चितिः' ( ८ । २ । १ । १) इति श्रुतेः । चतुर्दशेऽध्याये द्वितीयादिचितित्रयं वक्ष्यते । भूमेरूर्ध्वमन्तरिक्षादर्वाग्भागो द्वितीया चितिः । 'एतां द्वितीयां चितिमपश्यन् यदूर्ध्वं पृथिव्या अर्वाचीनमन्तरिक्षात्तेषामेष लोकः' ( ८।२।१।२) इति श्रुतेः । देवैरश्विनौ प्रार्थितौ यद्युवां भिषजौ ततो द्वितीयां चितिमुपधत्तमिति ताभ्यामुक्तं चित्युपधाने किमावयोः फलमिति देवैरुक्तं युवां चित्युपधाने देवानामध्वर्यवो भविष्यथ इति ततस्ताभ्यां द्वितीया चितिरुपहितेति श्रुत्या 'तेऽश्विनावब्रुवन्' (८ । २ । १ । ३ ) इत्यादिकयोक्तम् । तत्रादौ पञ्चाश्विन्य इष्टकाः । द्वितीयचितिमन्त्रा देवदेवत्याः। 'आश्विनीर्ध्रुवक्षितिरिति प्रतिमन्त्रम्' (का. १७ । ८।१५) । पञ्चकण्डिकाभिराश्विनीसंज्ञा इष्टका रेतःसिग्वेलायामुपदधाति प्रतीष्टकं नित्ये इति सूत्रार्थः । पञ्चाश्विनीदेवत्याः प्रथमा विराट् चतस्रस्त्रिष्टुभो यजुरन्ताः । अश्विनाध्वर्यू इत्यादि यजुः । अदित्यास्त्वार्षी त्रिष्टुबेकाधिका पादानियमात् । हे इष्टके, यतस्त्वं ध्रुवा स्थिरासि अतो ध्रुवं स्थिरं योनिं स्थानं रेतः सिग्वेलालक्षणमासीद अधितिष्ठ । कीदृशम् । साधुया साधुं श्रेष्ठं 'सुपां सुलुक्' इत्यमो यादेशः । कीदृशी त्वम् । ध्रुवक्षितिः ध्रुवा स्थिरा क्षितिर्निवासो यस्याः सा । ध्रुवा अचला योनिः कारणं यस्याः सा । तथा उख्यस्याग्नेः प्रथममाद्यं केतुं स्थानं प्रथमचितिरूपं जुषाणा सेवमाना । अथवा 'अग्निरुख्यस्तस्यैष प्रथमः केतुर्यत्प्रथमा चितिस्तां जुषाणा' ( ८।२।१।४) ' इति श्रुतेः । इतः परं यजुः । किंच अश्विना देवानामध्वर्यू इह रेतःसिग्वेलायां हे इष्टके, त्वा त्वां सादयतामुपधत्ताम् । केचिदिदं यजुश्चतुर्थपादेन परिकल्प्य त्रिष्टुभं वदन्ति ॥१॥

द्वितीया ।
कुला॒यिनी॑ घृ॒तव॑ती॒ पुर॑न्धिः स्यो॒ने सी॑द॒ सद॑ने पृथि॒व्याः ।
अ॒भि त्वा॑ रु॒द्रा वस॑वो गृणन्त्वि॒मा ब्रह्म॑ पीपिहि॒ सौभ॑गायाश्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ।। २ ।।
उ० कुलायिनी । कुलायं गृहं तदाकारा कुलायिनी । सा हि रेतःसिग्वेलायामिष्टकाभिरुपहिताभिर्गृहाकारा भवति घृतवती भविष्यता योगेन । इह हि वसोर्धाराद्या आहुतयो होष्यन्ते । पुरंधिः । बहु हि इष्टकाजातमियं धारयति चितिसंबद्धम् । या त्वमित्थंभूता तां त्वां ब्रूमः । स्योने सीद सदने पृथिव्याः सुखरूपे उपविश स्थाने पृथिव्याः । किंच अभि त्वा अभिगृणन्तु त्वां रुद्रादयः। किंच । इमां इमानि ब्रह्माणि पीपिहि आप्यायस्व । सौभगाय महते ऐश्वर्याय । अश्विनेति व्याख्यातम् ॥ २॥
म० हे इष्टके, पृथिव्याः सदने प्रथमचितिरूपे स्थाने स्योने सुखरूपे त्वं सीद तिष्ठ । 'पृथिवी वै प्रथमा चितिस्तस्यै शिवे स्योने सीद सदने' ( ८ । २।१।५) इति श्रुतेः । त्वम् । कुलायिनी 'कुलायो नीडमस्त्रियाम्' कुलायो नीडं गृहमस्या अस्तीति गृहाकारा । रेतःसिग्वेलायामिष्टकोपचिता सा गृहाकारा भवति । 'कुलायमिव वै द्वितीया चितिः' (८ । २।१।५) इति श्रुतेः । अत्र सादृश्यार्थ इनिः । तथा घृतवती होष्यमाणाज्ययुता वसोर्धारा ह्यत्र होष्यन्ते । पुरन्धिः पुरं बहु इष्टकाजातं दधातीति पुरु बहुधा धीयते स्थाप्यत इति वा । किंच रुद्रा वसवश्चोपलक्षणम् । सर्वे देवाः त्वा त्वामभिगृणन्तु स्तुवन्तु । किंच सौभगाय ऐश्वर्याय इमा इमानि ब्रह्म ब्रह्माणि मन्त्रान् पीपिहि आप्यायस्व मन्त्रान् प्राप्नुहि ।। अस्मन्मन्त्रोपहिता सौभाग्याय भवेति भावः । इमेति सुप आकारः । ब्रह्मेति सुपो लोपः । 'पि गतौ' तुदादिः । 'बहुलं छन्दसि' (पा. २ । ४ । ७६ ) इति शपः श्लुः 'श्लौ' (पा० । ६ । १ । १० ) इति द्वित्वं 'तुजादीनां दीर्घोऽभ्यासस्य' (पा० ६ । १।७) इति अभ्यासदीर्घः । अश्विनेत्यादि पूर्ववत् ॥ २॥

तृतीया ।
स्वैर्दक्षै॒र्दक्ष॑पिते॒ह सी॑द दे॒वाना॑ᳪं᳭ सु॒म्ने बृ॑ह॒ते रणा॑य ।
पि॒तेवै॑धि सू॒नव॒ आ सु॒शेवा॑ स्वावे॒शा त॒न्वा सं वि॑शस्वा॒श्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ।। ३ ।।
उ० स्वैर्दक्षैः स्वैर्वीर्यैः । दक्षपिता वीर्यस्य पालयित्री सती इह द्वितीयायां चितौ सीद अवस्थानं कुरु । दक्षशब्द इह वीर्यवचनः । प्रयोजनमाह । देवानां सुम्ने सुखाय । कथं नाम देवाः सुखं प्राप्नुयुरिति । बृहते रणाय महते च रमणीयाय यज्ञक्रतवे । किंच । पितेवैधि सूनवे पिता इव भव पुत्राय । आसुशेवा मर्यादया साधु सुखयित्री । किंच स्वावेशाः स्वावेशेति विभक्तिव्यत्ययः । स्वावेशया तन्वा आत्मना संविशस्व अवस्थानं कुरु । अश्विनावध्वर्यू । उक्तार्थः ॥ ३॥
म० हे इष्टके, त्वमिह द्वितीयायां चितौ सीद तिष्ठ स्वैर्दक्षैः वीर्यैः सामर्थ्यैः सह । दक्षशब्दोऽत्र वीर्यार्थः । 'स्वेन वीर्येणेह | सीद' (८।२।१।६) इति श्रुतेः । कीदृशी । दक्षपिता दक्षं वीर्यं पातीति वीर्यस्य पालयित्री। किमर्थं स्थातव्यं तत्राह । रणाय रमणीयाय बृहते सुम्ने सुम्नाय सुखाय । सप्तमी चतुर्थ्यर्थे । 'देवानाᳪं᳭ सुम्नाय महते रणाय' ( ८।२।१।६) इति श्रुतेः । देवाः सुखिनो भवन्त्विति तिष्ठेत्यर्थः । किंच आसमन्ताद्भावेन सुशेवा शोभनं शेवं सुखं यस्यास्तादृशी सर्वदा सुखयित्री एधि भव 'ध्वसोरेद्धौ-' (पा० ६ । ४ । ११९) इत्येकारः । तत्र दृष्टान्तः । पिता सूनव इव यथा पिता जनकः सूनवे पुत्राय सुशेवः सुखयिता भवति तद्वत् । किंच स्वावेशा सुखेनाविशति स्वावेशा । प्रथमा तृतीयार्थे । स्वावेशया सुखप्रवेशवत्या तन्वा शरीरेण संविशस्व अवस्थानं कुरु । 'स्वावेशेनात्मना संविशस्व' (८ । २।१।६) इति श्रुतेः । अश्विनेत्युक्तम् ॥ ३ ॥

चतुर्थी।
पृ॒थि॒व्याः पुरी॑षम॒स्यप्सो॒ नाम॒ तां त्वा॒ विश्वे॑ अ॒भि गृ॑णन्तु दे॒वाः ।
स्तोम॑पृष्ठा घृ॒तव॑ती॒ह सी॑द प्र॒जाव॑द॒स्मे द्रवि॒णाऽऽय॑जस्वा॒श्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ।। ४ ।।
उ० पृथिव्याः पुरीषम् । या त्वं पृथिव्याः प्रथमायाश्चितेः पुरीषमिवासि । 'पृथिवी वै प्रथमा चितिः तस्या एतत्पुरीषमिव यद्द्वितीया' इति श्रुतिः । अप्सो नाम रसो नाम । अप्स इति रसपर्यायं दर्शयति । अपः सनोतीत्यप्सः । अपां हि रसो गुणः । 'तस्य वा एतस्य यजुषो रस एवोपनिषत्' इत्येतच्छ्रुतिर्दर्शयति । तां त्वामुपधीयमानां विश्वेदेवा अभिगृणन्तु अभिष्टुवन्तु । त्वमपि च स्तोमपृष्ठा घृतवती च इह सीद द्वितीयस्यां चितौ । यां स्तोमस्यान्तᳪं᳭स्य (?) मानो भवति तैरेषा स्तोमपृष्ठा घृतवती च वसोर्धारादिभिर्होमैः । ततः प्रजावदस्मे द्रविणा यजस्व । प्रजासंयुक्तानि अस्मभ्यं द्रविणानि देहि । यजतिर्दानार्थः । शेषमुदक् ॥ ४॥
म० हे इष्टके, त्वं पृथिव्याः प्रथमचितेः पुरीषं पूरकं वस्त्वसि । 'पृथिवी वै प्रथमा चितिस्तस्या एतत्पुरीषमिव यद्द्वितीया' ( ८।२।१।७) इति श्रुतेः । पृणाति पूरयति पुरीषम् । 'शॄपॄभ्यां कित्' ( उणा० ४ । २७) पृणातेरीषन्प्रत्ययः । किंच कित्त्वात् 'उदोष्ठ्यपूर्वस्य' (पा. ७।१।१०२) इत्युदादेशो रपरत्वं च । नित्त्वादाद्युदात्तः । अपः सनोति ददातीत्यप्सो नामापां कारणीभूतो रसश्च त्वमसि । तां तादृशीं प्रथमचितिपूरिकां जलदरसभूतां त्वां त्वा विश्वे सर्वे देवा अभिगृणन्तु सर्वतः स्तुवन्तु । किंच स्तोमपृष्ठाः स्तोमास्त्रिवृदादयः पृष्ठानि रथन्तरादीनि पठिष्यमाणानि यस्यां सा तादृशी स्तोमपृष्ठवती । घृतवती होष्यमाणाज्ययुता सतीह द्वितीयश्चितौ सीद तिष्ठ । ततः प्रजावत् पुत्रपौत्रादिप्रजायुक्तं द्रविणा द्रविणं धनमस्मे अस्मभ्यमायजस्व समन्ताद्देहि । यजतिरिह दानार्थः । अस्मे इति सुपां सुलुगिति विभक्तेः शेआदेशः । व्याख्यातमन्यत् ॥ ४ ॥

पञ्चमी ।
अदि॑त्यास्त्वा पृ॒ष्ठे सा॑दयाम्य॒न्तरि॑क्षस्य ध॒र्त्रीं वि॒ष्टम्भ॑नीं दि॒शामधि॑पत्नीं॒ भुव॑नानाम् |ऊ॒र्मिर्द्र॒प्सो अ॒पाम॑सि वि॒श्वक॑र्मा त॒ ऋषि॑र॒श्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ।। ५ ।।
उ० अदित्यास्त्वा । या त्वम् ऊर्मिः कल्लोलराशिः द्रप्सः रसः अपामसि । यस्याश्च ते तव विश्वकर्मा प्रजापतिर्ऋषिर्द्रष्टा । तां त्वाम् अदित्याः पृथिव्याः पृष्ठे प्रथमायाश्चितेरुपरि सादयामि । कथंभूतामित्यत आह । अन्तरिक्षलोकस्य धर्त्रीं धारयित्रीम् विष्टम्भनीं संस्तम्भनीम् अन्तरिक्षस्यैव । दिशामधिपत्नीं दिशामीशिनीं भूतजातानां च । शेषं समानोदर्कम् ॥ ५॥
म० हे इष्टके, अदित्याः प्रथमचितिरूपायाः पृथिव्याः पृष्ठे उपरि त्वा त्वां सादयामि स्थापयामि । किंभूतां त्वाम् ।। अन्तरिक्षस्य भुवर्लोकस्य धर्त्रीं धारयित्रीम् । दिशां पूर्वादीनां विष्टम्भनीं संस्तम्भनकर्त्रीं भुवनानां भूतजातानामधिपत्नीं स्वामिनीम् । किंच त्वमपां द्रप्सो रस ऊर्मिरसि रसरूपः कल्लोलस्त्वमसि । विश्वकर्मा प्रजापतिस्ते तव ऋषिः द्रष्टा । तं त्वामश्विनौ सादयतामित्युक्तम् ॥ ५॥

षष्ठी ।
शु॒क्रश्च॒ शुचि॑श्च ग्रैष्मा॑वृ॒तू अ॒ग्नेर॑न्तःश्ले॒षो॒ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धय॒: कल्प॑न्ताम॒ग्नय॒: पृथ॒ङ्नम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः|
ये अ॒ग्नय॒: सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे | ग्रै॒ष्मा॑वृ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रुवे सी॑दतम् ।। ६ ।।
उ० ऋतव्य उपदधाति । शुक्रश्च शुचिश्च व्याख्यातम् ॥ ६ ॥
म०. 'शुक्रश्च शुचिश्चेत्यृतव्ये पूर्वयोरुपरि' (का. १७ । ८ । १६) । प्रथमचित्युपहितयोर्ऋतव्ययोरुपरि द्वे ऋतव्ये पद्ये प्राग्लक्षणे अनूकमभित उदङ्मुख उपदधाति शुक्रश्च शुचिश्चेति प्रत्येकमुपधाय । ग्रैष्मावृतू इति मन्त्रशेषो द्वे अप्यालभ्य पठ्य इति सूत्रार्थः । उत्कृतिच्छन्दः । शुक्रो ज्येष्ठमासः शुचिराषाढः तौ ग्रैष्मावृतू ग्रीष्मसंबन्धिनौ ऋत्ववयवौ । अन्यद्व्याख्यातम् ॥ ६॥

सप्तमी।
स॒जूर्ऋ॒तुभि॑: स॒जूर्वि॒धाभि॑: स॒जूर्दे॒वैः स॒जूर्दे॒वैर्व॑योना॒धैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑
स॒जूर्ऋ॒तुभि॑: स॒जूर्वि॒धाभि॑: स॒जूर्वसु॑भिः स॒जूर्दे॒वैर्व॑योनाधैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑
स॒जूर्ऋ॒तुभि॑: स॒जूर्वि॒धाभि॑: स॒जू रु॒द्रैः स॒जूर्दे॒वैर्व॑योना॒धैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑
स॒जूर्ऋ॒तुभि॑: स॒जूर्वि॒धाभि॑: स॒जूरा॑दि॒त्यैः स॒जूर्दे॒वैर्व॑योना॒धैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑
स॒जूर्ऋ॒तुभि॑: स॒जूर्वि॒धाभि॑: स॒जूर्विश्वै॑र्दे॒वैः स॒जूर्दे॒वैर्व॑योनाधैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ।। ७ ।।
उ० वैश्वदेवीरुपदधाति । विश्वेषांदेवानामार्षम् । सजूर्ऋतुभिः । यथा समानजोषणः ऋतुभिः प्रजापतिर्भूत्वा इष्टका उपहितवान् । यथाच समानजोषणः विधाभिः । 'आपो वै विधाः । अद्भिहीदं सर्वं विहितम्' । यथाच समानजोषणो देवैः । च समानजोषमाणः देवैर्वयोनाधैः । 'प्राणा वै देवा वयोनाधाः । प्राणैर्हीदं सर्वं वयुनं नद्धं अथो छन्दांसि वै देवा वयोनाधाः । छन्दोभिर्हीदं सर्वं प्रज्ञानं नद्धम् । एवमहमपि एताभिर्देवताभिः समानप्रीतिर्भूत्वा उपदधामि । अग्नये वैश्वानराय त्वाम् । संवत्सरो वा अग्निर्वैश्वानरः । अश्विनौ च अध्वर्यू सादयतामिह त्वाम् । एवमुत्तरेष्वपि मन्त्रेषु वसुरुद्रादित्यविश्वेदेवा योज्याः ॥ ७ ॥
म० 'वैश्वदेवीः सजूर्ऋतुभिरिति प्रतिमन्त्रम्' (का० १७ । ८ । १७ ) पञ्च मन्त्रैः पञ्च वैश्वदेवीसंज्ञा इष्टकाः पूर्वादिषूपदधातीत्यर्थः । विश्वदेवदृष्टानि विश्वदेवदेवत्यानि पञ्च यजूंषि । हे इष्टके, देवानामध्वर्यू अश्विना अश्विनौ तां त्वा त्वामिह स्थाने द्वितीयचितौ सादयताम् । किमर्थम् । वैश्वानराय विश्वेभ्यः सर्वेभ्यो नरेभ्यो हितायाग्नयेऽग्नितृप्तये । अग्नये त्वेति त्वाशब्दो या इति प्रथमार्थे । प्रातिपदिकसुपोर्व्यत्ययः । तां काम् , या त्वमृतुभिः सजूः जोषणं जुट् प्रीतिः 'जुषी प्रीतिसेवनयोः' संपदादित्वाद्भावे क्विप् । समाना जूः प्रीतिर्यस्याः सा सजूः 'समानस्य छन्दस्यमूर्ध-' (पा० ६ । ३ । ८४ ) इति समानस्य सादेशः। वसन्तादिभिर्या त्वं प्रीतिमती । तथाविधाभिः या त्वम् सजू: असि विदधति सृजन्ति जगदिति विधा आपस्ताभिः । 'आपो वै विधा अद्भिर्हीदᳪं᳭ सर्वं विहितम्' (८ । २ । २ । ८) इति श्रुतेः । 'अप एव ससर्जादौ' ( मनुः १ । ८ ) इति स्मृतेश्च । तथा देवैरिन्द्रादिभिश्च सजूः तथा वयो बाल्यादि नह्यन्ति बध्नन्ति ते वयोनाधाः प्राणा देवा दीप्यमानास्तैश्च सजूः । 'प्राणा वै वयोनाधाः प्राणैर्हीदᳪं᳭ सर्वं वयुनं नद्धम्' ( ८।२।२ । ८) इति श्रुतेः । यद्वा वयोनाधैर्देवैश्छन्दोभिः सजूः । 'अथो छन्दाᳪं᳭सि वे देवा वयोनाधाश्छन्दोभिर्हीदᳪं᳭ सर्वं वयुनं नद्धम् ( ८ । २ । २।८) इति श्रुतेः । एवमुत्तरमन्त्रेष्वपि । यद्वा ऋतुदेवप्राणान् जनयित्वा तैः सजूः सयुग्भूत्वा प्रजापतिर्यथा त्वामुपहितवानेवमहमप्यग्नये त्वामुपदधामीति शेषः । अश्विनौ चेह त्वां सादयताम् 'तदृतून प्राजनयदृतुभिर्वै सयुग्भूत्वा' ( ८ । २ । २ । ८) इति श्रुतेः । उत्तरचतुर्मन्त्रेषु वसुभिः रुद्रैः आदित्यैर्विश्वैर्देवैः सजूरिति विशेषः । शेषं पूर्वतुल्यम् ॥ ७ ॥

अष्टमी।
प्रा॒णं मे॑ पाह्यपा॒नं मे॑ पाहि व्या॒नं मे॑ पाहि॒ चक्षु॑र्म उ॒र्व्या वि भा॑हि॒ श्रोत्रं॑ मे श्लोकय ।
अ॒पः पि॒न्वौष॑धीर्जिन्व द्वि॒पाद॑व चतु॑ष्पात् पाहि दि॒वो वृष्टि॒मेर॑य ।। ८ ।।
उ० प्राणभृत उपदधाति । प्राणं मे पाहि गोपाय । अपानं मे पाहि । व्यानं मे पाहि । चक्षुर्म उर्व्या विभाहि विभावय। श्रोत्रं मे मम श्लोकय । श्लोक इति वाग्नामसु पठितम् श्लोकं पाहि श्रोत्रं कुरु । अपस्या उपदधाति । अपः पिन्व । पिन्वतिः सेचनार्थः । ओषधीर्जिन्त्र । जिन्वतिः प्रीतिकर्मा । द्विपादवद्द्विपादमिति विभक्तिव्यत्ययः । अव गोपाय । चतुष्पात्पाहि चतुष्पादं गोपाय । दिवो वृष्टिमेरय द्युलोकाद्वृष्टिं आईरय आगमय ॥ ८॥
म० 'प्राणभृतः प्राणं म इति' ( का० १७ । ८ । २०) पञ्चयजुर्भिः प्राणभृत्संज्ञका इष्टकाः पूर्वादिषूपदधाति । पञ्च वायुदेवत्यानि यजूंषि । 'प्राणो वै वायुर्वायुमेवास्मिन्नेतद्दधाति' (८।२।३ । २) इति श्रुतेः । हे इष्टके, त्वं मे मम प्राणं प्राणरूपं वायुं पाहि पालय । एवमपानं मम पाहि । व्यानं वायुं च मे मम पाहि । उर्व्या विस्तीर्णया दृष्ट्या मे चक्षुर्विभाहि विशेषेण प्रकाशय । दर्शनसमर्थं कुर्वित्यर्थः । मम श्रोत्रं कर्णेन्द्रियं श्लोकय सङ्घाते शक्तं कुरु । 'श्लोकृ सङ्घाते' बहुशब्दश्रवणसमर्थं कुर्वित्यर्थः । 'अपः पिन्वेत्यपस्याः' ( का. १७ । ८ । २१) । पञ्चमन्त्रैरपस्यासंज्ञा इष्टका उपदधाति । अब्देवत्यानि पञ्च यजूंषि । हे इष्टके, त्वमपो जलानि पिन्व सिञ्च । पिन्वतिः सेचनार्थः । ओषधीर्जिन्व प्रीणय । जिन्वतिः प्रीतिकर्मा । द्विपान्मनुष्यशरीरमव रक्ष । चतुष्पात्पशुशरीरं पाहि पालय । दिवो द्युलोकाद्वृष्टिमेरय आ समन्तात्प्रवर्तय ॥८॥

नवमी।
मू॒र्धा वय॑: प्र॒जाप॑ति॒श्छन्द॑: क्ष॒त्रं वयो॒ मय॑न्दं॒ छन्दो॑ विष्ट॒म्भो वयोऽधि॑पति॒श्छन्दो॑
वि॒श्वक॑र्मा॒ वय॑: परमे॒ष्ठी छन्दो॑ ब॒स्तो वयो॑ विव॒लं छन्दो॒ वृष्णि॒र्वयो॑ विशा॒लं छन्द॒:
पुरु॑षो॒ वय॑स्त॒न्द्रं छन्दो॑ व्या॒घ्रो वयोऽना॑धृष्टं॒ छन्द॑: सि॒ᳪं᳭हो वय॑श्छ॒दिश्छन्द॑: पष्ठ॒वाड्वयो॑ बृह॒ती छन्द॑ उ॒क्षा वय॑: क॒कुप् छन्द॑ ऋष॒भो वय॑: स॒तोबृ॑हती॒ छन्द॑: ।। ९ ।।
उ० पयस्या उपदधाति । अत्र श्रुत्युक्तं निदानम् । प्रजापतेर्विश्रस्तात्पशव उदक्रामन् छन्दांसि भूत्वा तान् गायत्री भूत्वा वयसाप्नोत्प्रजापतिः । मूर्धावयः प्रजापतिश्छन्दः चतुर्भिर्मन्त्रैर्गायत्रीरूपः प्रजापतिः कल्प्यते। मूर्धा प्रजापतिप्राधान्यात् । वयः शरीरावस्था । प्रजापतिः स्वयमेव छन्दः । क्षत्रं वयः प्रजापतिर्वै क्षत्रं वयोभवत् । मयन्दच्छन्दः अनिरुक्तत्वात्प्रजापतिः । मयं सुखं ददातीति मयन्दः । विष्टम्भो वयः । प्रजापतिर्विष्टम्भः । सहीदं सर्वं विष्टभ्नोति । अधिपतिश्छन्दः । प्रजापतिर्वा अधिपतिः । विश्वकर्मा वयः प्रजापतिर्वै विश्वकर्मा परमेष्ठीछन्दः । आपो वै प्रजापतिः परमेष्ठी । अयमष्टावयवो गायत्रीरूपः प्रजापतिः पञ्चदशवक्ष्यमाणान्पशून्गृह्णाति । वयसा वयोवस्थया जरया। । 'अस्माज्जीर्णं पशुं वयसाप्त' इति श्रुतिः । वस्तो वयो विवलं छन्दः। वस्तः पशुः विवलं छन्दोरूपमाश्रित्योदकामत् तं प्रजापतिर्गायत्रीरूपो वयसाप्नोत् एकपदा वै विवलं छन्दः तद्विविधं वरमुत्कृष्टं पुरुषसंबन्धि हि तच्छन्दः । एवमुत्तरेष्वपि मन्त्रेषु योज्यम् । वृष्णिर्वयो विशालंछन्दः । वृष्णिं मेषं वयसा विवलं विशालं द्विपदाछन्द आप्नोति । पुरुषो वयस्तन्द्रं छन्दः । तन्द्रं छन्दः पङ्क्तिः । व्याघ्रो वयोनाष्टंछन्दः विराड्वा अनाधृष्टं छन्दः । सिंहो वयः छदिश् छन्दः । अतिछन्दा वै छदिश्छन्दः । अथातो निरुक्तानिव पशून्निरुक्तानि छन्दांस्यभिदधाति पृष्ठवाड् वय इत्यादिदश निगदव्याख्याताः ॥ ९ ॥
म०. 'वयस्याः पञ्च पञ्चानूकान्तेषु मूर्धा वय इति प्रतिमन्त्रं चतस्रः पुरस्तात्' ( का० १७ । ८ । २२) । दक्षिणोत्तरपश्चिमेष्वनूकान्तेषु पञ्च-पञ्च पूर्वे तु चतस्रो वयस्यासंज्ञका इष्टका उपदधात्येकोनविंशतिमन्त्रैरित्यर्थः । एकोनविंशतिर्यजूंषि लिङ्गोक्तदेवतानि । वयःशब्दोपेतमन्त्रैरुपधेया इष्टकाः । अत्र श्रुत्युक्तं निदानम् । पुरा सृष्टवतः प्रजापतेर्व्याकुलात्सकाशात् सृष्टाः पशवश्छन्दोरूपमास्थाय निरगच्छन् । ततः प्रजापतिरपि गायत्र्यादिच्छन्दोरूपं स्वीकृत्य पशुसंबन्धिन्या तत्तद्वयोवस्थया तान्पशूनाप्नोत्तदभिधायका मन्त्राः । 'प्रजापतेर्विस्रस्तात्पशव उदक्रामंश्छन्दाᳪं᳭सि भूत्वा तान्गायत्री छन्दो भूत्वा वयमाप्नोत्' (८ । २ । ३ । ९) इति श्रुतेः। तत्रादौ चतुर्भिर्मन्त्रैः प्रजापतेरष्टावयवात्मकं गायत्रीरूपं परिकल्प्यते । मूर्धाप्रधानः प्रजापतिश्छन्दो गायत्रीरूपो भूत्वा वयः । विभक्तिव्यत्ययः । वयसा कृत्वा पशूनाप्नोदिति शेषः । तद्रूपां त्वामिष्टके उपदधामीति सर्वत्र शेषः । अनेन मन्त्रेण प्रजापतेर्द्वावयवौ कल्पितौ। 'प्रजापतिर्वै मूर्धा स वयोऽभवत्प्रजापतिश्छन्द इति प्रजापतिरेव छन्दोऽभवत्' (८।२।३।१०) इति श्रुतेः । क्षतात्त्रायत इति क्षत्रं तादृशं वयः शरीरावस्था प्रजापतिरभवत् । मयं सुखं ददातीति मयन्दमनिरुक्तं छन्दोऽभवत् । क्षत्त्रं वय इति प्रजापतिर्वै क्षत्रᳪं᳭स वयोऽभवन्मयन्दं छन्द इति । यद्वा 'अनिरुक्तं तन्मयन्दमनिरुक्तो वै प्रजापतिः प्रजापतिरेव छन्दोऽभवत्' (८।२।३ । ११) इति श्रुतेः । अधिपतिः अधिकं पालकः विष्टभ्नोति जगत्स्तम्भयतीति विष्टम्भः ईदृशः प्रजापतिः वयस्तत्पशुवयोऽवस्थावान् छन्दश्चाभवत् । 'प्रजापतिर्वै विष्टम्भः स वयोऽभवदधिपतिश्छन्द इति प्रजापतिर्वा अधिपतिः प्रजापतिरेव छन्दोऽभवत्' (८ । २ । ३ । १२) इति श्रुतेः । परमे पदे तिष्ठतीति परमेष्ठी विश्वकर्मा सर्वस्रष्टा प्रजापतिर्वयश्छन्दश्चाभवत् । 'प्रजापतिर्वै विश्वकर्मा स वयोऽभवत्परमेष्ठी छन्द इत्यापो वै प्रजापतिः परमेष्ठी ता हि परमे स्थाने तिष्ठन्ति प्रजापतिरेव परमेष्ठी छन्दोऽभवत्' (८।२।। ३ । १३) इति श्रुतेः । एवं प्रतिमन्त्रं द्वौ द्वाववयवावित्यष्टावयवः प्रजापतिर्गायत्रीरूपः परिकल्पितः । तथा चाष्टसंख्योपेतत्वात्सर्वच्छन्दःप्रकृतिभूतं गायत्रीछन्दो भूत्वा वयसा । तृतीयाया लुक् । वयोऽवस्थया वक्ष्यमाणान् पञ्चदश पशून् प्रजापतिरगृह्णात् । 'तानि वा एतानि चत्वारि वयाᳪं᳭सि चत्वारि छन्दाᳪं᳭सि तदष्टावष्टाक्षरा गायत्र्येषा वै सा गायत्री या तद्भूत्वा प्रजापतिरेतान्पशून्वयसाप्नोत् (८।२।३ । १४) इति श्रुतेः । बस्तः अजः । द्वितीयैकवचनस्य सुपां स्विति सुआदेशः । वय इति तृतीयालुक् । विवलं वरमुत्कृष्टं छन्दः एकपदाख्यं छन्दो भूत्वोत्क्रान्तं बस्तं पशुं वयसा तत्तद्वयोवस्थया जग्राह । एवमुत्तरमन्त्रेष्वपि विभक्तिविपरिणामं कृत्वा तत्तच्छन्दोरूपमास्थाय प्रजापतिस्तत्तद्वयसा तं तं पशुं गृहीतवानिति योज्यम् । विशेषस्तु वक्ष्यते । 'वस्तो वय इति वस्तं वयसाप्नोद्विवलं छन्द इत्येकपदा विवलं छन्द एकपदा ह भूत्वाजा उच्चक्रमुः' (८ । २ । ४ । १) इति श्रुतेः । विशालं द्विपदागायत्रीरूपं छन्दो भूत्वा वृष्णिं सेचनसमर्थं मेषं वयसा जग्राह । 'वृष्णिं वयसाप्नोद्विशालं छन्दः इति द्विपदा वै विशालं छन्दो द्विपदा ह भूत्वा वय उच्चक्रमुः' (८।२।४। २) इति श्रुतेः । तन्द्रं पङ्क्तिश्छन्दो भूत्वोत्रा दन्तं पुरुषं पशुं "वयसाप्नोत् । 'पुरुषं वयसाप्नोत्तन्द्रं छन्द इति पङ्क्तिर्वै तन्द्रं छन्दः पङ्क्तिर्ह भूत्वा पुरुषा उच्चक्रमुः' (८।२।४ । ३) इति श्रुतेः । अनाधृष्टं विराट्छन्दो भूत्वोत्रातिन्तं व्याघ्रं पशुं वयसाऽग्रहीत् 'व्याघ्रं वयसाप्नोदनाधृष्टं छन्द इति विराड्वा छन्दोऽन्नं वै विराडन्नमनाधृष्टं विराड्भूत्वा व्याघ्रा उच्च०' (८।२।४ । ४ । ८) । छादयतीति छदिरतिच्छन्दाछन्दो भूत्वोत्रा' न्तं सिंहं पशुं वयसाग्रहीत् । “ सिᳪं᳭हं वयसाप्नोच्छदिश्छन्द इत्यतिच्छन्दा वै छदिश्छन्दः सा हि सर्वाणि छन्दाᳪं᳭सि छादयत्यतिच्छन्दा ह भूत्वा सिᳪं᳭हा उच्च०' इति 'अथातो निरुक्तानेव पशून्निरुक्तानि छन्दाᳪं᳭स्युपदधाति' इति श्रुतेः स्पष्टानि छन्दांसि दशोच्यन्ते । पष्ठे पृष्ठभागे वहतीति पष्ठवाट् पञ्चवर्षः पशुः बृहती छन्दो भूत्वोत्रातिन्तं पष्ठवाहं पशुं वयसाग्रहीत् । 'पष्ठवाहं वयसाप्नोद्बृहतीच्छन्द इति बृहती ह भूत्वा पष्ठवाह उच्च०' इति । उक्षा सेचनसमर्थः पशुः । आद्यन्तावष्टाक्षरौ पादौ मध्यमो द्वादशाक्षरः सा ककुप् ककुप्छन्दो भूत्वोत्क्रान्तमुक्षाणं पशुं वयसाग्रहीत् । 'उक्षाणं वयसाप्नोत्ककुप्छन्द इति ककुब्भूत्वोक्षाण उच्च०' इति । वृषभः सेचनसमर्थोऽनड्वान् । द्वादशाक्षरत्रिपादा सतोबृहती सा भूत्वोत्क्रान्तमृषभं वयसाग्रहीत् । ऋषभं वयसाप्नोत्सतोबृहतीछन्द इति सतोबृहती भूत्वर्षभा उच्च०' इति ॥ ९ ॥

दशमी।
अ॒न॒ड्वान्वय॑: प॒ङ्क्तिश्छन्दो॑ धे॒नुर्वयो॒ जग॑ती॒छन्द॒स्त्र्यवि॒र्वय॑स्त्रि॒ष्टुप् छन्दो॑ दित्य॒वाड्वयो॑ वि॒राट् छन्द॒: पञ्चा॑वि॒र्वयो॑ गाय॒त्री छन्द॑स्त्रिव॒त्सो वय॑ उ॒ष्णिक् छन्द॑ऽ स्तु॑र्य॒वाड्वयो॑ऽनु॒ष्टुप् छन्दो॑ लो॒कं ता इन्द्र॑म् ।। १ ०।।
म० अनः शकटं वहतीत्यनड्वान्बलीवर्दः पङ्क्तिश्छन्दो भूत्वोत्क्रान्तमनड्वाहं पशुं वयसाग्रहीत् । अनड्वाहं पशुं वयसाग्रहीत् । | अनड्वाहं वयसाप्नोत्पङ्क्तिश्छन्द इति पङ्क्तिर्ह भूत्वानड्वाह उच्च०'(८ । २ । ४ । ९-१५) धेनुः नवप्रसूता सवत्सा गौः जगती छन्दो भूत्वोत्रा्पन्ता धेनुं वयसाग्रहीत् । 'धेनुं वयसाप्नोज्जगती छन्द इति जगती ह भूत्वा धेनव उच्च०' इति । षण्मासात्मकः कालोऽविः तिस्रोऽवयोऽस्य त्र्यविः अष्टादशमासः पशुः त्रिष्टुप्छन्दो भूत्वोत्क्रान्तं त्र्यविं पशुं वयसाग्रहीत् त्र्यविं पशुं वयसाग्रहीत् । 'त्र्यविं वयसाप्नोत्त्रिष्टुप् छन्द इति त्रिष्टुब् ह भूत्वा त्र्ययव उच्च०' इति । 'दोऽवखण्डने' क्तिन्प्रत्ययः । दितिं खण्डनमर्हति दित्यं धान्यं वहति दित्यवाट् । यद्वा द्विवर्षः पशुर्दित्यवाट् विराट्छन्दो भूत्वोत्क्रान्तं दित्यवाहं पशुं वयसाग्रहीत् । 'दित्यवाहं वयसाप्नोद्विराट् छन्द इति विराड् भूत्वा दित्यवाह उच्च०' इति । पञ्चाविः पञ्चावयो यस्य सः सार्धद्विवर्षः पशुः गायत्री भूत्वोत्राट्न्तं पञ्चाविं पशुमग्रहीत् । 'पञ्चाविं वयसाप्नोद्गायत्री छन्द इति गायत्री ह भूत्वा पञ्चावय उच्च०' इति । त्रिवत्सः त्रयो वत्साः वत्सराः यस्य सः त्रिवत्सः पशुः उष्णिक् छन्दो भूत्वोत्क्रान्तं त्रिवत्सं जग्राह । 'त्रिवत्सं वयसाप्नोदुष्णिक् छन्द इत्युष्णिग्घ भूत्वा त्रिवत्सा उच्च०' इति । तुर्यवाट् तुर्यं चतुर्थं वर्षं वहतीति चतुर्वर्षः पशुः अनुष्टुप् छन्दो भूत्वोत्क्रान्तं तुर्यवाहं पशुं प्रजापतिर्वयसाग्रहीत् । 'तुर्यवाहं वयसाप्नोदनुष्टुप् छन्द इत्यनुष्टुब् ह भूत्वा तुर्यवाह उच्चक्रमुः' (८। २।४।१५) इति श्रुतेः । एवं श्रुत्यनुसारेण मन्त्रा व्याख्याताः । 'दक्षिणश्रोणेरधि लोकंपृणाः पूर्ववत्' (का० १७। ८ । २४)। दक्षिणश्रोणिमारभ्य लोकंपृणा उपदधाति ( १२, ५४ । ५५ । ५६) पुरीषनिर्वापः सप्तर्चोपस्थानं चेति सूत्रार्थः ॥ १० ॥
इति द्वितीया चितिः संपूर्णा ॥

एकादशी।
इन्द्रा॑ग्नी॒ अव्य॑थमाना॒मिष्ट॑कां दृᳪं᳭हतं यु॒वम् ।
पृ॒ष्ठेन॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं च॒ विबा॑धसे ।। ११ ।।
उ० तृतीयां चितिमिन्द्राग्नी विश्वकर्मा नापश्यत् । तत्र स्वयमातृण्णा प्रथमा । इन्द्राग्नी अव्यथमानाम् । अनुष्टप् । पूर्वोऽर्धर्च ऐन्द्राग्नः उत्तरः स्वयमातृण्णायाः । तत्रोत्तरोऽर्धर्चः पूर्वं व्याख्यायते । तत्र विबाधत इति पुरुषव्यत्ययः। येयं पृष्ठेन द्यावापृथिवी अन्तरिक्षं च विबाधते अभिभवति तामिन्द्राग्नी अव्यथमानां अचलन्तीमिष्टकां दृंहतं दृढीकुरुतम् । युवं युवाम् ॥ ११ ॥
म० अथ तृतीया चितिः । इन्द्राग्नी विश्वकर्मा च तन्मन्त्राणामृषिः । 'तृतीयायाᳪं᳭स्वयमातृण्णामिन्द्राग्नी इति मध्ये' (का० १७ । ८ । २५) । तृतीयायां चितावात्मनो मध्ये स्वयमातृण्णामुपदधाति । अनुष्टुप् पूर्वोऽर्धर्च इन्द्राग्निदेवत्यः उत्तरः स्वयमातृण्णादेवतः । हे इन्द्राग्नी, युवं युवामव्यथमानामचलन्तीं भङ्गरहितामिष्टकां स्वयमातृण्णाख्यां दृढीकुरुतम् । एवमिन्द्राग्नी प्रत्युक्त्वा इष्टकामाह । हे स्वयमातृण्णे, पृष्ठेन स्वोपरिभागेन द्यावापृथिवी अन्तरिक्षं च त्वं विबाधसे अभिभवसि लोकत्रयमत्येषि ॥ ११ ॥

द्वादशी।
वि॒श्वक॑र्मा त्वा सादयत्व॒न्तरि॑क्षस्य पृ॒ष्ठे व्यच॑स्वतीं॒ प्रथ॑स्वतीम॒न्तरि॑क्षं यच्छा॒न्तरि॑क्षं दृᳪं᳭हा॒न्तरि॑क्षं॒ मा हि॑ᳪं᳭सीः । विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य । वा॒युष्ट्वा॒ऽभि पा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शन्त॑मेन॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॑द ।। १२ ।।
उ० विश्वकर्मा त्वा प्रजापतिः सादयतु इत्यादि पूर्ववद्व्याख्येयम् । अन्तरिक्षस्य पृष्ठेनायुष्ट्वा इति विशेषः ॥१२॥
म० वायुदेवत्यं विकृतिच्छन्दस्कं यजुः स्वयमातृण्णोपधाने एव विनियुक्तम् । हे स्वयमातृण्णे, विश्वकर्मा प्रजापतिरन्तरिक्षस्य पृष्ठे उपरि त्वा त्वां सादयतु स्थापयतु । किंभूतां त्वाम् । व्यचस्वतीमभिव्यक्तियुक्ताम् । प्रथस्वतीं प्रथनं प्रथो विस्तारस्तद्युक्ताम् । हे इष्टके, त्वमन्तरिक्षं यच्छ गन्धर्वाप्सरोगणादिधारकतया नियमय । अन्तरिक्षं दृंह परोपद्रवाभावेन दृढीकुरु । तदन्तरिक्षं मा हिंसीः । किमर्थम् । विश्वस्मै सर्वस्मै प्राणापानव्यानोदानाख्यवायुवृत्तिलाभाय प्रतिष्ठायै स्वगृहस्थित्यै चरित्राय शास्त्रीयाचरणाय । प्राणिनामेतत्सर्वं लोकदार्ढ्ये सति भवतीति नभोनियमनादि प्रार्थ्यत इति भावः । किंच मह्या महत्या स्वस्त्या योगक्षेमसंपत्त्या शन्तमेनातिशुभकारिणा छर्दिषा तेजोविशेषेण च कृत्वा वायुः त्वा त्वामभिपातु सर्वतो रक्षतु । तवाधिष्ठात्री या देवता तया देवतयानुगृहीता ध्रुवा स्थिरा सती सीदोपविश । अङ्गिरस्वत् अङ्गिरसां चयनानुष्ठाने यथा त्वं ध्रुवा स्थिता तद्वत् ॥ १२ ॥

त्रयोदशी।
राज्ञ्य॑सि॒ प्राची॒ दिग्वि॒राड॑सि॒ दक्षि॑णा॒ दिक् स॒म्राड॑सि प्र॒तीची॒ दिक् स्व॒राड॒स्युदी॑ची॒ दिगधि॑पत्न्यसि बृह॒ती दिक् ।। १३ ।।
उ० शतम् ७०० पञ्च दिश्या उपदधाति । वायुरपश्यत् राज्ञ्यसीति प्रतिमन्त्रम् ॥ १३ ॥
म० 'अनूकेषु पञ्च दिश्या वैश्वदेवीवद्राज्ञ्यसीति प्रतिमन्त्रम्' ( का० १७ । ८ । २६) । वैश्वदेवीवदिति प्रतिदिशं रेतःसिग्वेलायामनूकेषु पञ्च दिश्यासंज्ञका इष्टका उपदधाति पञ्चमीं दक्षिणामुत्तरेणेति सूत्रार्थः । दिक्शब्दोपेतत्वान्मन्त्राणां दिश्या इष्टकाः । दिग्देवत्यानि पञ्च यजूंषि । हे इष्टके, त्वं राज्ञी राजमाना सती प्राची दिक् पूर्वा दिग्भवसि गायत्रीरूपासि । | विराट् विविधं राजमाना दक्षिणा दिक् असि । त्रिष्टुब्रूपासि । सम्राट् सम्यग्राजमाना प्रतीची दिक् जगत्यसि । स्वराट् परनिरपेक्षं स्वयमेव राजमाना सती उदीची दिगनुष्टुबसि । अधिकं पातीत्यधिपत्नी बृहती प्रौढोर्ध्वा दिक् पङ्क्तिरसि । दिक्छन्दोरूपां तां त्वां सादयामीति सर्वत्र शेषः । 'छन्दाᳪं᳭सि वै दिशो गायत्री वै प्राची दिक् त्रिष्टुब्दक्षिणा जगती प्रतीच्यनुष्टुबुदीची पङ्क्तिरूर्ध्वेति' (८।३ । १ । १४) श्रुतेः ॥१३॥

चतुर्दशी।
वि॒श्वक॑र्मा त्वा सादयत्व॒न्तरि॑क्षस्य पृ॒ष्ठे ज्योति॑ष्मतीम् ।
विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नाय॒ विश्वं॒ ज्योति॑र्यच्छ ।
वा॒युष्टेऽधि॑पति॒स्तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॑द ।। १४ ।।
उ०. विश्वज्योतिषमुपदधाति । विश्वकर्मा त्वा । वायुदेवत्या ॥ १४॥
म० 'विश्वकर्मेति विश्वज्योतिषमुपरि पूर्वस्याः' ( का० १७ । ९ । ३) प्रथमोपहिताया विश्वज्योतिष उपरि विश्वज्योतिषमिष्टकामुपदधाति । वायुदेवत्यं शक्वरीच्छन्दस्कं यजुः । हे इष्टके, ज्योतिष्मतीं वायुरूपां त्वां विश्वकर्मान्तरिक्षस्य पृष्ठे त्वां सादयतु । 'अन्तरिक्षस्य पृष्ठे ह्ययं ज्योतिष्मान् वायुः' ( ८ । ३ । २ । ३ ) इति श्रुतेः । किंच सर्वप्राणादिलाभाय त्वं सर्वं ज्योतिर्यच्छ प्रयच्छ । वायुः तवाधिपतिः तया देवतया ध्रुवा सती सीद अङ्गिरसां चिताविव ॥ १४ ॥

पञ्चदशी।
नभ॑श्च नभ॒स्य॒श्च॒ वार्षि॑कावृ॒तू अ॒ग्नेर॑न्तः श्ले॒षो॒ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धय॒: कल्प॑न्ताम॒ग्नय॒: पृथ॒ङ्मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः। ये अ॒ग्नय॒: सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे। वार्षि॑कावृ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ।। १५ ।।
म०. 'ऋतव्ये नभश्च नभस्यश्चेति' ( का० १७ । ९ । ४) पूर्वर्तव्ययोरुपरि द्वे ऋतव्ये उपदधाति । ऋतुदैवत्यमुत्कृतिच्छन्दस्कं यजुः । नभः श्रावणः । नभस्यो भाद्रपदः । शेषं व्याख्यातम् ( अ० १३ क० २५ ) ॥ १५ ॥

षोडशी।
इ॒षश्चो॒र्जश्च॑ शार॒दावृ॒तू अ॒ग्नेर॑न्तः श्ले॒षो॒ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धय॒: कल्प॑न्ताम॒ग्नय॒: पृथ॒ङ्मम॒ ज्यैष्ठ्याय॒ सव्र॑ताः । ये अ॒ग्नय॒: सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे। शा॒र॒दावृ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ।। १६ ।।
उ० ऋतव्या नभस्वद्देवत्या ॥ १६ ॥
म० 'इषश्चोर्जश्चेत्यपरे' ( का० १७ । ९ । ५)। अपरे ऋतव्ये पूर्वयोरुपरि दधाति । ऋतव्यमुत्कृतियजुः । इषः आश्विनः ऊर्जः कार्तिकः शरदवयवौ । शिष्टं प्रोक्तम् ( अ.. १३ क० २५) ॥ १६ ॥

सप्तदशी।
आयु॑र्मे पाहि प्रा॒णं मे॑ पाह्यपा॒नं मे॑ पाहि व्या॒नं मे॑ पाहि॒ चक्षु॑र्मे पाहि॒
श्रोत्रं॑ मे पाहि॒ वाचं॑ मे पिन्व॒ मनो॑ मे जिन्वात्मानं॑ मे पाहि॒ ज्योति॑र्मे यच्छ ।। १७ ।।
उ० दश प्राणभृतः । आयुर्मे पाहि गोपाय । वाचं मे पिन्व त्रयीलक्षणां वाचं मे मम पिन्व सिंच कामैः पूरय । मनो मे जिन्व । जिन्वतिः प्रीतिकर्मा । ज्योतिर्मे यच्छ देहि । सुखबोध्यमन्यत् ॥ १७ ॥
म० 'पूर्वार्धे प्राणभृतो दशायुर्म इति प्रतिमन्त्रम्' ( का० १७ । ९ । ६ ) आत्मनः पूर्वभागे प्राणभृत्संज्ञा दशेष्टका उपदधातीति सूत्रार्थः । दश यजूंषि लिङ्गोक्तदेवत्यानि । हे इष्टके, मे ममायुः त्वं पाहि रक्ष । एवं प्राणमपानं व्यानं चक्षुः श्रोत्रं मे रक्ष । मे वाचं पिन्व सिञ्च कामैः पूरय । मे मनो जिन्व प्रीणय । ममात्मानं जीवं पाहि मह्यं ज्योतिस्तेजो यच्छ ॥ १७ ॥

अष्टादशी।
मा छन्द॑: प्र॒मा छन्द॑: प्र॑ति॒मा छन्दो॑ अस्रीवय॒श्छन्द॑: प॒ङ्क्तिश्छन्द॑ उ॒ष्णिक् छन्दो॑
बृह॒ती छन्दो॑ऽनु॒ष्टुप् छन्दो॑ वि॒राट् छन्दो॑ गा॑य॒त्री छन्द॑स्त्रि॒ष्टुप् छन्दो॒ जग॑ती॒ छन्द॑: ।। १८ ।।
उ० षट्त्रिंशच्छन्दस्य उपदधाति । मा छन्दः । अयं लोकोमित इव मा छन्दः छादनात् । प्रमा छन्दः । अन्तरिक्षलोको वै प्रमा । अन्तरिक्षलोकः अस्माल्लोकात्प्रमित इव दृश्यते । प्रतिमा छन्दः द्यौः प्रतिमा सा हि अन्तरिक्षलोके प्रतिमिता । अस्रीवयः छन्दः अन्नमस्रीवयः । यदेभ्यो लोकेभ्य आहुतिपरिणामभूतमन्नं स्रवति तदस्रीवयः । परतो निरुक्तानि छन्दांसि पङ्क्तिप्रभृतीनि ॥ १८ ॥
म० 'छन्दस्या द्वादश द्वादशाप्ययेषु मा छन्द' (का० १७ । | ९ । ८ ) इति । अप्ययेषु पक्षपुच्छात्मसन्धिषु त्रिषु द्वादश द्वादश छन्दस्यासंज्ञा इष्टका उपदधातीति सूत्रार्थः । षट्त्रिंशद्यजूंषि लिङ्गोक्तदेवत्यानि । मीयत इति मा मितश्छादनाच्छन्दोऽयं लोकः । हे इष्टके, त्वं तद्रूपासि । 'अयं वै लोको मायं लोको मित इव' (८ । ३ । ३ । ५) इति श्रुतेः । अस्माल्लोकात्प्रमीयत | इति प्रमान्तरिक्षलोकरूपासि । 'अन्तरिक्षलोको वै प्रमान्तरिक्षलोको ह्यस्माल्लोकात्प्रमित इव' (८ । ३ । ३ । ५) इति श्रुतेः। प्रतिमा द्यौः सा ह्यन्तरिक्षे प्रतिमिता । 'असौ वै लोकः प्रतिमैष ह्यन्तरिक्षलोके प्रतिमित इवेति' (८ । ३ । ३ । ५) श्रुतेः । अस्रीवयः अस्यते क्षिप्यत इत्यस्रि अस्रि पतनशीलं वयोऽन्नं यस्मात्तदस्रिवयः । दीर्घश्छान्दसः । अस्रीवयः लोकत्रयरूपं छादनाच्छन्दस्तद्रूपासि । 'यदेषु लोकेष्वन्नं तदस्रीवयोथो यदेभ्यो लोकेभ्योऽन्नᳪं᳭ स्रवति तदस्रीवय' (८ । ३ । ३ । ५) इति श्रुतेः । इतः स्पष्टान्येव छन्दांसि पङ्क्त्यादीन्यष्टौ 'अथो निरुक्तान्येव छन्दाᳪं᳭स्युपदधाति' ( ८।३ । ३ । ५) इति श्रुतेः । इष्टके, त्वं पङ्क्त्युष्णिग्बृहत्यनुष्टुप्विराड्गायत्रीत्रिष्टुब्जगतीच्छन्दोरूपासीत्यर्थः ॥ १८॥

एकोनविंशी।
पृ॒थि॒वी छन्दो॒ ऽन्तरि॑क्षं॒ छन्दो॒ द्यौ॒श्छन्द॒: समा॒श्छन्दो॒ नक्ष॑त्राणि॒ छन्दो॒ वाक् छन्दो॒ मन॒श्छन्द॑:
कृ॒षिश्छन्दो॒ हिर॑ण्यं॒ छन्दो॒ गौश्छन्दो॒ ऽजाश्छन्दो ऽश्व॒श्छन्द॑: ।। १९ ।।
उ० पृथिवी छन्द इति । यान्येतद्देवत्यानि छन्दांसि तान्युपदधाति । छादयन्तीति छन्दांस्युच्यन्ते ॥ १९॥
म० पृथिव्यादिदेवत्यानि यानि छन्दांसि तद्रूपासि । समाः संवत्सराः स्पष्टमन्यत् । ‘यान्येतद्देवत्यानि छन्दाᳪं᳭सि तान्येवैतदुपदधातीति' ( ८ । ३ । ३ । ६ ) श्रुतेः ॥ १९ ॥

विंशी।
अ॒ग्निर्दे॒वता॒ वातो॑ दे॒वता॒ सूर्यो॑ दे॒वता॑ च॒न्द्रमा॑ दे॒वता॒ वस॑वो दे॒वता॑ रु॒द्रा दे॒वता॑
ऽऽदि॒त्या दे॒वता॑ म॒रुतो॑ दे॒वता॒ विश्वे॑ दे॒वा देवता॒ बृह॒स्पति॑र्दे॒वतेन्द्रो॑ दे॒वता॒ वरु॑णो दे॒वता॑ ।। २०।।
उ० अग्निर्देवता वातो देवतेत्येता वै छन्दांसि ता अपि छादयन्ति ॥ २० ॥
म० इष्टके, त्वमग्न्यादिदेवतारूपासि । तामुपदधामीति सर्वत्र शेषः । अग्न्यादीनां देवतात्वं प्रसिद्धम् । 'अग्निर्देवता वातो देवतेत्येता वै देवताश्छन्दाᳪं᳭सि तान्येवैतदुपदधातीति' ( ८ । ३ । ३ । ६) श्रुतेः ॥ २० ॥

एकविंशी।
मू॒र्धाऽसि॒ राड् ध्रु॒वाऽसि॑ ध॒रुणा॑ ध॒र्त्र्य॒सि॒ धर॑णी ।
आयु॑षे त्वा॒ वर्च॑से त्वा कृ॒ष्यै त्वा॒ क्षेमा॑य त्वा ।। २१ ।।
उ० चतुर्दश वालखिल्या उपदधाति द्वाभ्यामनुष्टुप्परोष्णिग्भ्याम् । मूर्धासि राट् मूर्धासि शिरोभूतासि राट् । 'राजृ दीप्तौ' दीप्ता चासि । ध्रुवा स्थिरासि । धरुणा च धारयित्री च धर्त्र्यसि धारयित्री असि । धरणी च विधरणी च । मर्यादाभूता च । एवं त्रिलोकसंस्तवः तिसृणामिष्टकानाम् । आयुषे त्वा वर्चसे त्वा कृष्यै त्वा क्षेमाय त्वा उपदधामीति शेषः । एतासां चतसृणां वालखिल्यानां मन्त्रस्तवः ॥ २१ ॥
म. 'वालखिल्याः सप्त पुरस्तात्प्राणभृद्भ्यो वापरा द्वादशभ्योऽपरास्तु मूर्धासि राडिति प्रतिमन्त्रम्' (का० १७ । ९ । १०-१३) । प्रागुक्तः दशप्राणभृद्भ्यः पूर्वा अपरा वा सप्त वालखिल्यासंज्ञा इष्टका उपदधाति मूर्धासीत्यादिसप्तमन्त्रैः । तुर्विशेषे । अपराः सप्त वालखिल्यास्तु द्वादशच्छन्दस्याभ्योऽपरा एवोपधेयाः यन्त्रीति सप्तमन्त्रैः । वालमात्रेणापि खिला अभिन्ना इति वालखिल्याः प्राणाः । ते च चतुर्दश सप्त पुरो हस्तौ बाह्र शिरो ग्रीवा नाभेरूर्ध्वभागश्चेति, ऊरू जानुनी पादौ नाभेरधोभागश्चेति सप्त पश्चादधोभागे एतेष्वङ्गेषु प्राणानां विद्यमानत्वात्तानेवोपदधाति । तथाच श्रुतिः 'प्राणा वै वालखिल्याः प्राणानेवैतदुपदधाति ता यद्वालखिल्या नाम' ( ८ । | ३ । ४ । १ । ४-५) यद्वा 'उर्वरयोरसंभिन्नं भवति खिल इति वै तदाचक्षते वालमात्रादुहेमे प्राणा असंभिन्नास्ते यद्वालमात्रादसंभिन्नास्तस्माद्वालखिल्याः ॥ १॥ सप्त वा इमे पुरस्तात्प्राणाश्चत्वारि दोर्बाहवाणि शिरो ग्रीवा यदूर्ध्वं नाभेस्तत्सप्तममङ्गेऽङ्गे हि प्राणाः ॥ ४॥ सप्त वा इमे पश्चात्प्राणाश्चत्वार्यूर्वष्ठीवानि द्वे प्रतिष्ठे यदवाङ्नाभेस्तत्सप्तममङ्गेऽङ्गे हि प्राणा एते वै सप्त पश्चात्प्राणास्तानस्मिन्नेतद्दधातीति ॥ ५॥' इति सूत्रार्थः । मूर्धासि अनुष्टुप् गायत्री परोष्णिक् । ऋग्द्वये चतुर्दश यजूंषि वालखिल्यादेवत्यानि । हे इष्टके, त्वं मूर्धा मूर्धवदुत्तमा राट् राजमाना चासि । हे इष्टके, त्वं ध्रुवा स्थिरा धरुणा धारणहेतुश्चासि । हे इष्टके, त्वं धर्त्री धारणं कुर्वती धरणी भूमिरूपा चासि । एवमिष्टकात्रयस्य त्रिलोकरूपत्वम् । तदुक्तं श्रुत्या 'मूर्धासि राडितीमं लोकमरोहन् ध्रुवासि धरणेत्यन्तरिक्षलोकं धर्त्र्यसि धरणीत्यमुं लोकमिति' ( ८ । ३ । ४ । ८)। आयुषे त्वा आयुर्वृद्ध्यर्थं त्वामुपदधामि । वर्चसे कान्त्यर्थं त्वामुपदधामि । कृष्यै सस्यनिष्पत्तये त्वामु० । क्षेमाय संपादितधनरक्षणाय त्वामु० । इष्टकाचतुष्टयस्य पशुसंस्तवः 'आयुषे त्वा वर्चसे त्वा कृष्यै त्वा क्षेमाय त्वेति चत्वारश्चतुष्पादाः पशवः' ( ८ । ३ । ४ । ८ ) इति श्रुतेः ॥२१॥

द्वाविंशी।
यन्त्री॒ राड् य॒न्त्र्य॒सि॒ यम॑नी ध्रु॒वाऽसि॒ धरि॑त्री ।
इ॒षे त्वो॒र्जे त्वा॑ र॒य्यै त्वा॒ पोषा॑य त्वा लो॒कं ता इन्द्र॑म् ।। २२ ।।
उ० परतोऽपि तिसृणां द्युलोकप्रभृतिलोकसंस्तवः । यन्त्री राट् । यमनी दीप्ता चासि । यन्त्री असि । यमनी ध्रुवा असि धरित्री । पशुसंस्तवः पूर्ववत् । इषे त्वोर्जेत्वा रय्यै त्वा पोपाय त्वा । लोकं ता इन्द्रमिति व्याख्यातम् ॥ २२ ॥
म० हे इष्टके, त्वं यन्त्री नियमोपेता राट् राजमाना चासि । तथा यन्त्री स्वयमपि सती यमनी सर्वेषां नियमकारिण्यसि । ध्रुवा स्थिरा सती धरित्री भूमिरूपा चासि । तिसृणां त्रिलोकसंस्तवः ‘यन्त्री राडित्यमुं लोकमरोहन् यन्त्र्यसि यमनीत्यन्तरिक्षलोकं ध्रुवासि धरित्रीतीमं लोकमिति' ( ८ । ३।४।१०) श्रुतेः । हे इष्टके, इषेऽन्नाय त्वामुपदधामि । ऊर्जे बलाय त्वामु० । रय्यै धनाय त्वामु० । पोषाय धनपुष्ट्यै त्वामु० । 'इषे त्वोर्जे त्वा रय्यै त्वा पोषाय त्वेति चतस्रश्चतुष्पादाः पशवः' ( ८।३।४।१० ) इति श्रुतेश्चतसृणां पशुसंस्तवः । 'उत्तरश्रोणेरधिलोकंपृणाः पूर्ववत्' ( का० १७ । ९ । १५) उत्तरश्रोणेरारभ्य प्रथमचितिवदेव लोकंपृणा उपदधाति । ततः पुरीषनिर्वापोपस्थाने ॥ २२ ॥
इति तृतीया चितिः॥

त्रयोविंशी।
आ॒शुस्त्रि॒वृद्भा॒न्तः प॑ञ्चद॒शो व्यो॑मा सप्तद॒शो ध॒रुण॑ एकवि॒ᳪं᳭शः
प्रतू॑र्तिरष्टाद॒शस्तपो॑ नवद॒शो॒ ऽभीव॒र्त्त: स॑वि॒ᳪं᳭शो वर्चो॑ द्वावि॒ᳪं᳭शः
स॒म्भर॑णस्त्रयोवि॒ᳪं᳭शो योनि॑श्चतुर्वि॒ᳪं᳭शो गर्भा॑: पञ्चवि॒ᳪं᳭श ओज॑स्त्रिण॒वः
क्रतु॑रेकत्रि॒ᳪं᳭शः प्र॑ति॒ष्ठा त्र॑यस्त्रि॒ᳪं᳭शो ब्र॒ध्नस्य॑ वि॒ष्टपं॑ चतुस्त्रि॒ᳪं᳭शो नाक॑: षट्त्रि॒ᳪं᳭शो
वि॑व॒र्तो॒ऽष्टाचत्वारि॒ᳪं᳭शो ध॒र्त्रं च॑तुष्टो॒मः ।। २३ ।।
उ० चतुर्थीं चितिमृषयोऽपश्यन् । आशुस्त्रिवृदित्यष्टादशेष्टकाः प्रतिमन्त्रमुपदधाति । स्तोमसंख्योपलक्षितैर्मन्त्रैः स्तोमानुपदधातीति श्रुतिः । प्रकटार्था मन्त्राः श्रुत्या च व्याख्याताः तथापि किंचित्किंचिदुच्यते । आशुः त्रिवृत् यएव त्रिवृत् स्तोमः सोऽनेन मन्त्रेणोक्तः इत्येकं व्याख्यानम् । अथो वायुर्वा आशुः शीघ्रः त्रिवृत् त्रिलोकसंचारी । एवमुपरितनान्यपि व्याख्येयानि । भान्तः पञ्चदशः। चन्द्रमा उच्यते । स हि भाति च पञ्चदशाहान्यापूर्यते च अपक्षीयते च । व्योमा सप्तदशः। संवत्सर उक्तः । स हि विविधमवति प्राणिनः सप्तदशावयवश्च । धरुण एकविंशः । आदित्यः स्तोमो वोच्यते । 'प्रतिष्ठा वै धरुणः प्रतिष्ठैकविंशः स्तोमः । आदित्या वा प्रतिष्ठा । मासादिभिः एकविंशावयवं च । परतः संवत्सररूपाणि व्याख्यातानि । प्रतूर्तिः संवत्सरः । स हि सर्वाणि भूतानि प्रतिरति प्रवर्धयति । तपः । संवत्सरो हि सर्वाणि भूतानि तपति शीतोष्णवर्षैः । अभीवर्तः । संवत्सरो हि सर्वाणि भूतान्यभिवर्तते । तेन हि अभिवृत्तेन ऋतुलिङ्गानि भूतेषु दृश्यन्ते । वर्चः । 'संवत्सरो हि सर्वेषां भूतानां वर्चस्वितमः' इति श्रुतिर्बुवन्ती मतुब्लोपं दर्शयति । वर्चस्वी महाभाग्यवान् । संभरणः । संवत्सरो हि सर्वाणि भूतानि संभरति उत्पादयति संहरति वा विनाशयति । योनिः स्थानम् । गर्भः संवत्सरः त्रयोदशमास इहोच्यते । स च गर्भो भूत्वा ऋतून्प्रविशति । कथं पुनस्त्रयोदशो मासः ऋतून्प्रविशति । उच्यते । एकोनषण्मासाहोरात्रैश्चन्द्रो द्वादशराशीन् विभ्रमति स चान्द्र ऋतुर्भवति । आदित्यस्त्वेकषण्मासदिवसैः राशिद्वयमतिकामति स सौरऋतुर्भवति । तैश्च सौरैर्ऋतुभिः संवत्सरो भवति । ततश्चैकस्मिन्नृतौ सौरचान्द्रौ ऋतुर्भवतः तिथिद्वयं च । एवं षड्ऋतुषु द्वादशतिथयः प्रविशन्ति अपरेषु षट्स्वपरा द्वादश अपरेषु षट्तिथयः । स एषोऽर्धतृतीयेषु संवत्सरेषु चान्द्रो मासः प्रविशति । स एवाधिमासः स एव त्रयोदशो मासः सौरानृतून्द्वाभ्यां तिथिभ्यां प्रविशति । ओजः । अत्रापि मतुब्लोपः । ओजस्वी संवत्सर ऋतुः । 'संवत्सरो हि सर्वाणि भूतानि करोति' इति श्रुतिः । प्रतिष्ठाधिष्ठानम् । ब्रध्नस्य विष्टपम् । स्वाराज्यं वै ब्रध्नस्य विष्टपम् । स्वाराज्यं स्वतन्त्रता । नाकः काम्यत इति कं सुखम् तद्विपरीतमकं दुःखम् नास्त्यकमसुखमस्मिन्निति नाकः । विवर्तः । विविधं वर्तन्ते तत्र गतानि भूतानीति विवर्तः पितृयाणः । धर्त्रं धारणम् । चतुष्टोमः चतुरुत्तरः स्तोमः चतुष्टोमः। उत्तरपदलोपी समासः ॥२३॥
म० 'उत्तरां पूर्वयोराशुस्त्रिवृदिति' (का० १७ । १० ।७) । पूर्वानूकान्तविहितयोर्दक्षिणोत्तरयोर्मध्ये उत्तरां जङ्घामात्रीमुदङ्मुख उपदधातीति सूत्रार्थः । अस्यां कण्डिकायामष्टादश यजूंषि चतुर्णां मृत्युमोहिन्युपधाने विनियोगः । प्रतूर्तिरित्यादीनां चतुर्दशार्धपद्योपधाने विनियोगः । हे इष्टके, त्वं त्रिवृत् स्तोमरूपासि । साम्नामावृत्तिविशेषाः स्तोमाः तेषां विशेषणान्याशुरित्यादीनि । कीदृशस्त्रिवृत् । आशुः । 'अशू व्याप्तौ' अश्नुते व्याप्नोति सर्वान् स्तोमानित्याशुः । तद्रूपां त्वामुपदधामीति सर्वत्र शेषः । 'स्तोमानुपदधाति प्राणा वै स्तोमाः प्राणा उ वै ब्रह्म ब्रह्मैवैतदुपदधातीति' (८ । ४ । १ । ३) श्रुतेः। यद्वा आशुः वायुः त्रिवृत् त्रिषु लोकेषु वर्तत इति त्रिवृत् क्विप् सर्वभूतव्यापकत्वादाशुर्वायुस्तद्रूपासि । एवं श्रुत्यनुसारेण सर्वत्र व्याख्यायते । तथाच श्रुतिः ‘स पुरस्तादुपदधात्याशुस्त्रिवृदिति य एव त्रिवृत्स्तोमस्तमुपदधाति तद्यत्तमाहाशुरित्येष हि स्तोमानामाशिष्ठोऽर्थो वायुर्वा आशुस्त्रिवृत् स एषु त्रिषु लोकेषु वर्तते तद्यत्तमाहाशुरित्येष हि सर्वेषां भूतानामाशिष्ठो वायुर्ह भूत्वा पुरस्तात्तस्थौ तदेव तद्रूपमुपदधातीति' ( ८ । ४।१।९)। 'दक्षिणां दक्षिणयोर्भान्तः पञ्चदश' (का० १७ । १० । ९) इति दक्षिणानूकान्तविहितयोर्दक्षिणोत्तरपद्ययोर्मध्ये भान्त इति मन्त्रेण दक्षिणां पद्यां प्रत्यङ्मुख उपदधातीति सूत्रार्थः । भान्तः वज्ररूपो यः पञ्चदशः स्तोमः । यद्वा भान्तश्चन्द्रः पञ्चदशाहानि पूर्यमाणत्वात्पञ्चदशाहं क्षीयमाणत्वात् पञ्चदशः। भा कान्तिरेवान्तः स्वरूपं यस्य तद्रूपासि । 'य एव पञ्चदशः स्तोमस्तं तदुपदधाति तद्यत्तमाह भान्त इति वज्रो वै भान्तो वज्रः पञ्चदशोऽथो चन्द्रमा वै भान्तः पञ्चदशः स पञ्चदशाहान्यापूर्यते पञ्चदशापक्षीयते तद्यत्तमाह भान्त इति भाति हि चन्द्रमाश्चन्द्रमा ह भूत्वा दक्षिणतस्तस्थौ तदेव तद्रूपमुपदधातीति' (८ । ४ । १० । १०) श्रुतेः । दक्षिणामुत्तरयोर्व्योमा सप्तदश इति' ( का० १७ । १० । १०)। उत्तरानूकान्तविहितयोर्दक्षिणोत्तरपद्ययोर्मध्ये दक्षिणां पद्यां व्योमेति प्रत्यङ्मुख उपदधातीति सूत्रार्थः । विविधमवतीति व्योमा प्रजापतिः सप्तदशः स्तोमः । संवत्सरो वा व्योमा सप्तदशः द्वादशमासपञ्चर्तुरूपसप्तदशावयवत्वात्तद्रूपासि । य एव सप्तदशः स्तोमस्तं तदुपदधाति तद्यत्तमाह व्योमेति प्रजापतिर्वै व्योमा प्रजापतिः सप्तदशोऽथो संवत्सरो वा व्योमा सप्तदशस्तस्य द्वादश मासाः पञ्चर्तवस्तद्यत्तमाह व्योमेति व्योमा हि संवत्सरः संवत्सरो ह भूत्वोत्तरतस्तस्थौ तदेव तद्रूपमुपदधातीति' ( ८ । ४ । १ । ११) श्रुतेः 'दक्षिणामपरयोर्धरुण एकविᳪं᳭श इति' ( का. १७ । १० । ८) । अपरानूकान्तविहितयोर्दक्षिणोत्तरयोर्मध्ये दक्षिणां जङ्घामात्रीं धरुण इति दक्षिणामुख उपदधातीति सूत्रार्थः । धरुणो धारकः प्रतिष्ठाभूत एकविंशः स्तोमः । यद्वा धरुण आदित्यः स एकविंशावयवत्वादेकविंशः । द्वादश मासाः पञ्चर्तवः त्रयो लोका आदित्य इत्यवयवास्तद्रूपासि । ‘य एवैकविᳪं᳭शः स्तोमस्तं तदुपदधाति तद्यत्तमाह धरुण इति प्रतिष्ठा वै धरुणः प्रतिष्ठैकविᳪं᳭शोऽथोऽसौ वा आदित्यो धरुण एकविᳪं᳭शस्तस्य द्वादश मासाः पञ्चर्तव इमे लोका असावेवादित्यो धरुण एकविᳪं᳭शस्तद्यत्तमाह धरुण इति यदा ह्येवैषोऽस्तमेत्यथेदᳪं᳭ सर्वं ध्रियत आदित्यो ह भूत्वा पश्चात्तस्थौ तदेव रूपमुपदधातीति' (८।१।१ । १२) श्रुतेः 'चतुर्दश प्रतिमन्त्रं प्रतूर्तिरष्टादश इति' ( का० १७ । १० । ११)। चतस्र उपधाय चतुर्दशार्धपद्या उदङ्मुख उपदधाति चतुर्दशमन्त्रैरिति सूत्रार्थः । अतः परं संवत्सररूपाण्युपदधाति । प्रकृष्टा तूर्तिस्त्वरा यस्य स प्रतूर्तिः अष्टादशः स्तोमः । यद्वा संवत्सरः प्रतूर्तिरष्टादशावयवः द्वादशमासाः पञ्चर्तवः संवत्सरश्चेत्यवयवाः । 'य एवाष्टादशः स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव प्रतूर्तिरष्टादशस्तस्य द्वादश मासाः पञ्चर्तवः संवत्सर एव प्रतूर्तिरष्टादशस्तद्यत्तमाह प्रतूर्तिरिति संवत्सरो हि सर्वाणि भूतानि प्रतिरति तदेव तद्रूपमुपदधातीति' (८ । ४ । १ । १३) श्रुतेः । तपोरूपो नवदशः स्तोमः । यद्वा संवत्सरस्तपः शीतोष्णवर्षैस्तपतीति स नवदशः । द्वादशमासाः षडृतवः संवत्सर इति तद्रूपासि । य एव नवदशः स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव तपो नवदशस्तस्य द्वादश मासाः षडृतवः संवत्सर एव तपो नवदशस्तद्यत्तमाह तप इति संवत्सरो हि सर्वाणि भूतानि तपति तदेव तद्रूपमुपद०' (८ । ४ । १ । १४) । अभिवर्त्यते आवर्त्यत इत्यभीवर्तः समावृत्तिरूपः स विंशः स्तोमः । यद्वा अभिवर्तयत्यावर्तयति सर्वाणि भूतानीत्यभीवर्तः संवत्सरः । 'उपसर्गस्य घञ्यमनुष्ये बहुलं' (पा. ६ । ३ । १२२ ) इति दीर्घः । द्वादशमाससप्तर्तुसंवत्सररूपविंशतिसंख्यया सहितः सविंशः । 'य एव सविᳪं᳭शस्तोमस्तं तदुपदधातीत्यथो संवत्सरो वा अभीवर्तः सविᳪं᳭शस्तस्य द्वादशमासाः सप्तर्तवः संवत्सर एवाभीवर्तः सविᳪं᳭शस्तद्यत्तमाहाभीवर्त सप्तदश इति' ( का० १७ । १० । १०)। उत्तरानूकान्तविहितयोर्दक्षिणोत्तरपद्ययोर्मध्ये दक्षिणां पद्यां व्योमेति प्रत्यङ्मुख उपदधातीति सूत्रार्थः । विविधमवतीति व्योमा प्रजापतिः सप्तदशः स्तोमः । संवत्सरो वा व्योमा सप्तदशः द्वादशमासपञ्चर्तुरूपसप्तदशावयवत्वात्तद्रूपासि । य एव सप्तदशः स्तोमस्तं तदुपदधाति तद्यत्तमाह व्योमेति प्रजापति व्योमा प्रजापतिः सप्तदशोऽथो संवत्सरो वा व्योमा सप्तदशस्तस्य द्वादश मासाः पञ्चर्तवस्तद्यत्तमाह व्योमेति व्योमा हि संवत्सरः संवत्सरो ह भूत्वोत्तरतस्तस्थौ तदेव तद्रूपमुपदधातीति' ( ८ । ४ । १ । ११) श्रुतेः 'दक्षिणामपरयोर्धरुण एकविᳪं᳭श इति' ( का. १७ । १० । ८) । अपरानूकान्तविहितयोर्दक्षिणोत्तरयोर्मध्ये दक्षिणां जङ्घामात्रीं धरुण इति दक्षिणामुख उपदधातीति सूत्रार्थः । धरुणो धारकः प्रतिष्ठाभूत एकविंशः स्तोमः । यद्वा धरुण आदित्यः स एकविंशावयवत्वादेकविंशः । द्वादश मासाः पञ्चर्तवः त्रयो लोका आदित्य इत्यवयवास्तद्रूपासि । ‘य एवैकविᳪं᳭शः स्तोमस्तं तदुपदधाति तद्यत्तमाह धरुण इति प्रतिष्ठा वै धरुणः प्रतिष्ठैकविᳪं᳭शोऽथोऽसौ वा आदित्यो धरुण एकविᳪं᳭शस्तस्य द्वादश मासाः पञ्चर्तव इमे लोका असावेवादित्यो धरुण एकविᳪं᳭शस्तद्यत्तमाह धरुण इति यदा ह्येवेषोऽस्तमेत्यथेदᳪं᳭ सर्वं ध्रियत आदित्यो ह भूत्वा पश्चात्तस्थौ तदेव रूपमुपदधातीति' (८।१।१ । १२) श्रुतेः 'चतुर्दश प्रतिमन्त्रं प्रतूर्तिरष्टादश इति' ( का० १७ । १० । ११)। चतस्र उपधाय चतुर्दशार्धपद्या उदङ्मुख उपदधाति चतुर्दशमन्त्रैरिति सूत्रार्थः । अतः परं संवत्सररूपाण्युपदधाति । प्रकृष्टा तूर्तिस्वरा यस्य स प्रतूर्तिः अष्टादशः स्तोमः । यद्वा संवत्सरः प्रतूतिरष्टादशावयवः द्वादशमासाः पञ्चर्तवः संवत्सरश्चेत्यवयवाः । 'य एवाष्टादशः स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव प्रतूतिरष्टादशस्तस्य द्वादश मासाः पञ्चर्तवः संवत्सर एव प्रतूर्तिरष्टादशस्तद्यत्तमाह प्रतूर्तिरिति संवत्सरो हि सर्वाणि भूतानि प्रतिरति तदेव तद्रूपमुपदधातीति' (८ । ४ । १ । १३) श्रुतेः । तपोरूपो नवदशः स्तोमः । यद्वा संवत्सरस्तपः शीतोष्णवर्षैस्तपतीति स नवदशः । द्वादशमासाः षडृतवः संवत्सर इति तद्रूपासि । य एव नवदशः स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव तपो नवदशस्तस्य द्वादश मासाः षडृतवः संवत्सर एव तपो नवदशस्तद्यत्तमाह तप इति संवत्सरो हि सर्वाणि भूतानि तपति तदेव तद्रूपमुपद०' (८ । ४ । १ । १४) । अभिवर्त्यते आवर्त्यत इत्यभीवर्तः समावृत्तिरूपः स विंशः स्तोमः । यद्वा अभिवर्तयत्यावर्तयति सर्वाणि भूतानीत्यभीवर्तः संवत्सरः । 'उपसर्गस्य घञ्यमनुष्ये बहुलं' (पा. ६ । ३ । १२२ ) इति दीर्घः । द्वादशमाससप्तर्तुसंवत्सररूपविंशतिसंख्यया सहितः सविंशः । 'य एव सविᳪं᳭शस्तोमस्तं तदुपदधातीत्यथो संवत्सरो वा अभीवर्तः सविᳪं᳭शस्तस्य द्वादशमासाः सप्तर्तवः संवत्सर एवाभीवर्तः सविᳪं᳭शस्तद्यत्तमाहाभीवर्त इति संवत्सरो हि सर्वाणि भूतान्यभिवर्तते तदेतद्रूप०' ( ८।४ ।१।१५)। वर्चः बलविशेषप्रदो द्वाविᳪं᳭शः स्तोमः । यद्वा वर्चः संवत्सरः वर्चस्वितमः द्वादश मासाः सप्तर्तवः द्वे अहोरात्रे संवत्सरश्चेति द्वाविंशतिसंख्योपेतत्वाद् द्वाविंशः तद्रूपासि । 'य एव द्वाविᳪं᳭शः स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव वर्चो द्वाविᳪं᳭शस्तस्य द्वादश मासाः सप्तर्तवो द्वे अहोरात्रे संवत्सर एव वर्चो द्वाविᳪं᳭शस्तद्यत्तमाह वर्च इति संवत्सरो हि सर्वेषां भूतानां वर्चस्वितमस्तदेतद्रूप०' (८।४।१ । १६) इति । संबिभर्ति संभरणः सम्यक् पोषकत्रयोविंशः स्तोमस्त्वमसि । यद्वा संभरत्युत्पादयति संहरति विनाशयति वा संभरणः संवत्सरः त्रयोदशमासाः सप्तर्तवो द्वे अहोरात्रे एकः संवत्सर इति त्रयोविंशावयवः तद्रूपासि । ‘य एव त्रयोविᳪं᳭शः स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव संभरणस्त्रयोविᳪं᳭शस्तस्य त्रयोदश मासाः सप्तर्तवो द्वे अहोरात्रे संवत्सर एव संभरणस्त्रयोविᳪं᳭शस्तद्यत्तमाह संभरण इति संवत्सरो हि सर्वाणि भूतानि संभृतस्तदेव तद्रूप०' ( ८ । ४ । १ । १७)। योनिः प्रजोत्पादकश्चतुर्विंशः स्तोमोऽसि । यद्वा योनिः सर्वस्थानभूतः संवत्सरश्चतुर्विंशतिपक्षात्मकस्तद्रूपासि । ‘य एव चतुर्विᳪं᳭शः स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव योनिश्चतुर्विᳪं᳭शस्तस्य चतुर्विᳪं᳭शतिरर्धमासास्तद्यत्तमाह योनिरिति संवत्सरो हि सर्वेषां भूतानां योनिस्तदेव तद्रूप०' ( ८ । ४ । १ । १८ )। गर्भाः व्यत्ययेन बहुत्वम् । सामगर्भः पञ्चविंशस्तोमोऽसि । यद्वा गर्भः संवत्सरो भूतोत्पादकत्वाच्चतुर्विंशतिः पक्षा एकः संवत्सर इति अधिकमासो भूत्वा ऋतुषु गर्भो भवतीति वा गर्भः । 'य एव पञ्चविᳪं᳭शस्तोमस्तं तदुपदधात्यथो संवत्सरो वाव गर्भाः पञ्चविᳪं᳭शस्तस्य चतुर्विᳪं᳭शतिरर्धमासाः संवत्सर एव गर्भाः पञ्चविᳪं᳭शस्तद्यत्तमाह गर्भा इति संवत्सरो ह त्रयोदशो मासो गर्भो भूत्वर्तून् प्रविशति तदेव तद्रूप०' ( ८ । ४ । १ । १९)। | ओजः मतुब्लोपः ओजस्वी तेजस्वी वज्रो वा ओजः तद्रूपस्त्रिणवः स्तोमोऽसि । यद्वा ओजः संवत्सरश्चतुर्विंशतिपक्षाहोरात्रसंवत्सरात्मकत्वात् त्रिणवः त्रिगुणा नव यत्र । य एव त्रिणवः स्तोमस्तं तदुपदधाति तद्यत्तमाहौज इति वज्रो वा ओजो वज्रस्त्रिणवः संवत्सरो वा ओजस्त्रिणवस्तस्य चतुर्विंशतिरर्धमासा द्वे अहोरात्रे संवत्सर एवौजस्त्रिणवस्तद्यत्तमाहौज इति संवत्सरो हि सर्वेषां भूतानामोजस्वितमस्तदेव तद्रूप०' ( ८ । ४ । १ । २०)। क्रतुर्यज्ञोपयोगी एकत्रिंशः स्तोमोसि । यद्वा संवत्सर एव करोतीति क्रतुः पक्षर्तुसंवत्सरात्मकत्वादेकत्रिंशः । ‘य एवेकत्रिᳪं᳭शस्तोमस्तं तदुपदधात्यथो संवत्सरो वाव क्रतुरेकत्रिᳪं᳭शस्तस्य चतुर्विᳪं᳭शतिरर्धमासाः षडृतवः संवत्सर एव क्रतुरेकविᳪं᳭शस्तद्यत्तमाह क्रतुरिति संवत्सरो हि सर्वाणि भूतानि करोतीति' [ ८।४।१।२१ । ] श्रुतेः । प्रतिष्ठा स्थितिहेतुस्त्रयस्त्रिᳪं᳭शः स्तोमोऽसि । यद्वा संवत्सरः प्रतिष्ठा संवत्सरे सर्वस्य प्रतिष्ठितत्वात् पक्षर्त्वहोरात्रसंवत्सरात्मकत्वात्त्रयस्त्रिंशः । य एव त्रयस्त्रिᳪं᳭शः स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव प्रतिष्ठा त्रयस्त्रिᳪं᳭शस्तस्य चतुर्विᳪं᳭शतिरर्धमासाः षडृतवो द्वे अहोरात्रे संवत्सर एव प्रतिष्ठा त्रयस्त्रिᳪं᳭शस्तद्यत्तमाह प्रतिष्ठेति संवत्सरो हि सर्वेषां भूतानां प्रतिष्ठा तदेतद्रूप०(८।४।१।२२)। ब्रध्नः सूर्यः । 'असौ वा आदित्यो ब्रध्नः' इति श्रुतेः । विष्टपं निवासस्थानं 'भुवनं विष्टपं लोकः' इति कोशात् ब्रध्नस्य विष्टपं स्वाराज्यं स्वतन्त्रत्वं तद्रूपस्तत्तत्प्रदो यश्चतुस्त्रिᳪं᳭शः स्तोमस्तद्रूपासि । यद्वा संवत्सरो ब्रध्नस्य विष्टपं रविणैव कालनिर्माणत्वात् चतुर्विंशतिपक्षसप्तर्त्वहोरात्रसंवत्सरात्मकत्वाच्चतुस्त्रिंशः । य एव चतुस्त्रिᳪं᳭शः स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव ब्रध्नस्य विष्टपं चतुस्त्रिᳪं᳭शस्तस्य चतुर्विᳪं᳭शतिरर्धमासाः सप्तर्तवो द्वे अहोरात्रे संवत्सर एव ब्रध्नस्य विष्टपं चतुस्त्रिᳪं᳭शस्तद्यत्तमाह ब्रध्नस्य विष्टपमिति स्वाराज्यं वै ब्रध्नस्य विष्टपं तदेतद्रूप०.' ( ८ । ४ । १। २३ ) । नाकः स्वर्गप्रदः षट्त्रिंशः स्तोमोऽसि संवत्सरो वा नाकः काम्यत इति कं सुखं न कमकं दुःखं तन्नास्ति यत्र स नाकः षट्त्रिंशः पक्षमासात्मकत्वात् । य एव षट्त्रिᳪं᳭शः स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव नाकः षट्त्रिᳪं᳭शस्तस्य चतुर्विᳪं᳭शतिरर्धमासा द्वादश मासास्तद्यत्तमाह नाक इति । नहि तत्र गताय कस्मै च नाकं भवत्यथो संवत्सरः संवत्सरो वाव नाकः स्वर्गो लोकस्तदेव तद्रूप०' (८।४।१।२४) । विवर्त्यन्ते आवर्त्यन्ते सामानि यत्रेति विवर्तः अष्टाचत्वारिंशः स्तोमस्तद्रूपासि । यद्वा विविधं वर्तन्ते भूतानि यत्रेति विवर्तः संवत्सरः अधिमासत्वेन षड्विंशतिः पक्षाः सप्तर्तवः त्रयोदश मासाः द्वे अहोरात्रे इत्यष्टाचत्वारिंशः य एवाष्टाचत्वारिᳪं᳭शः स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव विवर्तोऽष्टाचत्वारिᳪं᳭शस्तस्य षड्विᳪं᳭शतिरहोरात्राणि त्रयोदश मासाः सप्तर्तवो द्वे अहोरात्रे तद्यत्तमाह विवर्त इति संवत्सराद्धि सर्वाणि भूतानि विवर्तन्ते तदेतद्रूप०' ( ८।४।१ । २५)। धर्त्रं धारकश्चतुरुत्तरः स्तोमश्चतुष्टोमः। मध्यमपदलोपी समासः। त्रिवृत्पञ्चदशसप्तदशैकविंशानां समूहस्तद्रूपासि । वायुर्वा धर्त्रं जगदाधारत्वाच्चतुर्दिग्भिः स्तूयमानत्वाच्चतुष्टोमः । य एव चतुष्टोमस्तं तदुपदधाति तद्यत्तमाह धर्त्रमिति प्रतिष्ठा वै धर्त्रं प्रतिष्ठा चतुष्टोमोऽथो वायुर्वाव धर्त्र चतुष्टोमः स आभिश्चतसृभिर्दिग्भिः स्तुते वायुर्वै सर्वेषां भूतानां प्रतिष्ठा तदेतद्रूपमुपदधातीति' ( ८ । ४ । १ । २६ ) श्रुतेः । आदावन्ते च वायूपधानेन वायुना सर्वभूतानि वशीकरोतीति भावः । तदुक्तं श्रुत्या ‘स वै वायुमेव प्रथममुपदधाति वायुमुत्तमं वायुनैव तदेतानि सर्वाणि भूतान्युभयतः परिगृह्णातीति' (८ । ४ । १ । २७) एतैरष्टादशमन्त्रैः स्तोमवादिभिः स्तोमरूपत्वं नीता अष्टादशेष्टका उपधेया इत्यर्थः ॥२३॥

चतुर्विंशी।
अ॒ग्नेर्भा॒गो॒ऽसि दी॒क्षाया॒ आधि॑पत्यं॒ ब्रह्म॑ स्पृ॒तं त्रि॒वृत्स्तोम॒
इन्द्र॑स्य भा॒गो॒ऽसि॒ विष्णो॒राधि॑पत्यं क्ष॒त्रᳪं᳭ स्पृ॒तं प॑ञ्चद॒शः स्तोमो॑
नृ॒चक्ष॑सां भा॒गो॒ऽसि धा॒तुराधि॑पत्यं ज॒नित्र॑ᳪं᳭ स्पृ॒तᳪं᳭ स॑प्तद॒शः स्तोमो॑
मि॒त्रस्य॑ भा॒गो॒ऽसि॒ वरु॑ण॒स्याधि॑पत्यं दि॒वो वृष्टि॒र्वात॑: स्पृ॒त ए॑कवि॒ᳪं᳭शः स्तोम॑: ।। २४ ।।
उ० स्पृतं दश इष्टका उपदधाति दशभिर्मन्त्रैः अग्नेर्भागोसीत्यादिभिः । तत्रार्थवादः । प्रजापतिर्गर्भमेकेभ्यो देवेभ्य आधिपत्यमेकेभ्यः कल्पयित्वा ब्रह्मप्रभृतीनि भूतानि पाप्मनो व्यवृधत् त्रिवृदादिभिः स्तोमैः । इष्टकोच्यते । या त्वम् अग्नेः भागोसि । यस्यां च त्वयि दीक्षाया आधिपत्यं जातम् । यया च त्वया ब्रह्म ब्राह्मण्यं स्पृतं पाप्मनो मृत्यैरपनीतम् । त्रिवृत्सोमः । त्रिवृत्स्तोमेनेति विभक्तिव्यत्ययः। तां त्वामुपदधामीति शेषः । यद्वा । या त्वमग्नेर्भागोऽसि यस्याश्च तव त्रिवृत्स्तोमः यस्यां च त्वयि दीक्षाया आधिपत्यम् यया च त्वया ब्रह्म मृत्योर्मोचितम् । तां त्वामुपदधामीति शेषः । एवमन्यदपि व्याख्येयम् । जनित्रम् आश्चर्येण जायत इति जनित्रम् ॥ २४ ॥
म० 'दक्षिणां पूर्वयोरग्नेर्भाग इति' ( का० १७ । १० । १२) पूर्वानूकान्ते विहितयोर्जङ्घामात्र्योर्मध्ये दक्षिणामुपदधात्युदङ्मुखः उत्तरा पूर्वमुपहिता । दश यजूंषि चतुर्भिर्मृत्युमोहिन्युपधानं षड्भिः षट्पद्योपधानं दशेष्टकाः स्पृत्संज्ञाश्च । तत्रार्थवादः श्रुत्युक्तः । उत्पन्नेन सृष्ट्यादौ प्रजापतिना सर्वाणि भूतानि स्रष्टुं गर्भे कृतानि गर्भस्थान्येव भूतानि पाप्मा मृत्युरगृह्णात् । ततः प्रजापतिर्देवानुवाच युष्माभिः सहाहमिमानि भूतानि पापरूपान्मृत्योर्मोचयामीति देवैरुक्तं तत्रास्माकं को लाभः । प्रजापतिनोक्तं वृणुत । तैः कैश्चिदुक्तमस्माकं भागोऽस्तु । अन्यैरुक्तमस्माकमाधिपत्यमस्त्विति तथेत्युक्त्वैकेभ्यो भागमपरेभ्य आधिपत्यं दत्त्वा तैः सह भूतानि मृत्योरस्पृणोत्ततः स्पृत इष्टका इति । तथाच श्रुतिः 'अथ स्पृत उपदधात्येतद्वै प्रजापतिरेतस्मिन्नात्मनः प्रतिहि ते सर्वाणि भूतानि गर्भ्यभवत्तान्यस्य गर्भ एव सन्ति पाप्मा मृत्युरगृह्णात् ॥१॥ स देवानब्रवीद्युष्माभिः सहेमानि सर्वाणि भूतानि पाप्मनो मृत्योः स्पृणवानीति किं नस्ततो भविष्यतीति वृणीध्वमित्यब्रवीत्तं भागो नोऽस्वित्येकेऽब्रुवन्नाधिपत्यं नोऽस्त्वित्येके स भागमेकेभ्यः कृत्वाधिपत्यमेकेभ्यः सर्वाणि भूतानि पाप्मनो मृत्योरस्पृणोद्यदस्पृणोत्तस्मात्स्पृतस्तथैवैतद्यजमानो भागमेकेभ्यः कृत्वाधिपत्यमेकेभ्यः सर्वाणि भूतानि पाप्मनो मृत्योः स्पृणोतीति' ( ८ । ४ । २।१।२)। अथ मन्त्रार्थः । हे इष्टके, या त्वमग्नेर्भागो विभागोऽसि यस्यां च त्वयि दीक्षाया वाच आधिपत्यं स्वामित्वं । यया च त्वया त्रिवृत्स्तोमः । विभक्तिव्यत्ययः । त्रिवृता स्तोमेन ब्रह्म ब्राह्मण्यं स्पृतं पाप्मनो मृत्योरपनीतम् रक्षितम् । यस्यां त्वयि त्रिवृत्स्तोम इति वा । तां त्वामुपदधामीति शेषः । एवं सर्वत्र व्याख्येयम् । 'स्पृ प्रीतिरक्षाप्राणनेषु' स्वादिः । 'वाग्वै दीक्षा (८ । ४ । २ । ३) इति श्रुतेः । 'उत्तरामुत्तरयोरिन्द्रस्य भाग इति' ( का० १७ । १० । १५) । उदगनूकान्तविहितयोर्दक्षिणोत्तरयोः पद्ययोर्मध्ये उत्तरामुपदधाति दक्षिणा तूपहितेति सूत्रार्थः । हे इष्टके, त्वमिन्द्रस्य भागोऽसि । यस्यां त्वयि विष्णोराधिपत्यं पञ्चदशेन क्षत्रं क्षत्रजातिः स्पृतं मृत्योर्मोचितम् 'इन्द्राय भागं कृत्वा विष्णव आधिपत्यमकरोत्' ( ८ । ४ । २। ४ ) इति श्रुतेः । 'उत्तरां दक्षिणयोर्नृचक्षसां भाग इति' ( का० १७ । १० । १४ ) । दक्षिणानूकान्तविहितयोर्दक्षिणोतरयोः पद्ययोरुत्तरां निदधाति दक्षिणोपहिता । नॄन् शुभाशुभकर्तॄन चक्षते जानन्ति ते नृचक्षसो देवास्तेषां भागोऽसि । त्वयि धातुराधिपत्यं त्वया सप्तदशस्तोमेन जनित्रं वैश्यजातिः स्पृतम् । 'देवा वै नृचक्षसो देवेभ्यो भागं कृत्वा धात्र आधिपत्यमकरोद्विड्वै जनित्रम्' ( ८ । ४ । २ । ५) इति श्रुतेः । 'उत्तरामपरयोर्मित्रस्य भाग इति' ( का० १७ । १०। १३) अपरानूकान्तविहितयोर्दक्षिणोत्तरयोर्जङ्घामात्र्योर्मध्ये उत्तरां जङ्घामात्रीं दक्षिणामुख उपदधाति दक्षिणा तूपहितेति सूत्रार्थः । हे इष्टके, त्वं मित्रस्य प्राणस्य भागोऽसि त्वयि वरुणस्यापानस्याधिपत्यं यया त्वयेकविंशेन स्तोमेन दिवः संबन्धिनी वृष्टिर्वातश्च स्पृतस्तां सादयामि । 'प्राणो वै मित्रोऽपानो वरुणः प्राणाय भागं कृत्वापानायाधिपत्यमकरोदिति' ( ८ । ४ । २ । ६) श्रुतेः ॥ २४ ॥

पञ्चविंशी।
वसू॑नां भा॒गो॒ऽसि रु॒द्राणा॒माधि॑पत्यं॒ चतु॑ष्पात् स्पृ॒तं च॑तुर्वि॒ᳪं᳭शः स्तोम॑
आदि॒त्यानां॑ भा॒गो॒ऽसि म॒रुता॒माधि॑पत्यं॒ गर्भा॑: स्पृ॒ताः प॑ञ्चवि॒ᳪं᳭श: स्तोमो
ऽदि॑त्यै भा॒गो॒ऽसि पू॒ष्ण आधि॑पत्य॒मोज॑: स्पृ॒तं त्रि॑ण॒व: स्तोमो॑
दे॒वस्य॑ सवि॒तुर्भा॒गो॒ऽसि बृह॒स्पते॒राधि॑पत्यᳪं᳭ स॒मीची॒र्दिश॑: स्पृ॒ताश्च॑तुष्टो॒म: स्तोम॑: ।। २५ ।।
म०. 'षट् प्रतिमन्त्रं वसूनां भाग इति' (का० १७ । १०। १६)। चतुर्दशभ्योऽपराः षण्मन्त्रैः षट् पद्या उपदध्यादिति सूत्रार्थः । हे इष्टके, त्वं वसूनां भागोऽसि । त्वयि रुद्राणामाधिपत्यं त्वया चतुर्विंशेन स्तोमेन प्रजानां चतुष्पात् गवाश्वादिकं स्पृतं पापान्मोचितम् । 'वसुभ्यो भागं कृत्वा रुद्रेभ्य आधिपत्यमकरोत्' (८ । ४ । २ । ७) इति श्रुतेः । आदित्यानां या त्वं भागोऽसि । त्वयि मरुतामाधिपत्यं त्वया पञ्चविंशेन स्तोमेन प्रजानां गर्भाः मृत्योः रक्षिताः । 'आदित्येभ्यो भागं कृत्वा मरुद्भ्य आधिपत्यमकरोत्' ( ८ । ४ । २ । ८ ) इति श्रुतेः। त्वमदित्यै अदित्या भूमेर्भागोऽसि । पूष्ण आधिपत्यं त्वयि त्वया त्रिणवेन स्तोमेन प्रजानामोजः बलमष्टमो धातुर्वा स्पृतम् । 'इयं वा अदितिरस्यै भागं कृत्वा पूष्ण आधिपत्य०' ( ८ । ४ । २ । ९)। त्वं देवस्य सवितुर्भागोऽसि त्वयि बृहस्पतेराधिपत्यं त्वया चतुष्टोमेन स्तोमेन समीचीः समीच्यः सम्यगञ्चन्ति जना यासु ता ,दिशः स्पृताः । 'देवाय सवित्रे भागं कृत्वा बृहस्पतय आधिप०' (८।४।२।१०) इति ॥ २५ ॥

षड्विंशी।
यवा॑नां भा॒गोऽस्यय॑वाना॒माधि॑पत्यं प्र॒जा स्पृ॒ताश्च॑तुश्चत्वारि॒ᳪं᳭शः स्तोम॑
ऋ॑भू॒णां भा॒गो॒ऽसि विश्वे॑षां दे॒वाना॒माधि॑पत्यं भू॒तᳪं᳭ स्पृ॒तं त्र॑यस्त्रि॒ᳪं᳭शः स्तोम॑: ।। २६ ।।
उ० यवाः पूर्वपक्षाः । अयवा अपरपक्षाः ॥ २६ ॥
म० यवानां पूर्वपक्षाणां त्वं भागोऽसि । अयवानामपरपक्षाणां त्वय्याधिपत्यं चतुश्चत्वारिंशेन स्तोमेन त्वया प्रजाः स्पृताः रक्षिताः । 'पूर्वपक्षा वै यवा अपरपक्षा अयवास्ते हीदᳪं᳭ सर्वं युवते चायुवते च पूर्वपक्षेभ्यो भागं कृत्वापरपक्षेभ्य आधिप०' (८ । ४ । २ । ११)। ऋभूणां देवविशेषाणां त्वं भागोऽसि त्वयि विश्वेषां देवानामाधिपत्यं त्रयस्त्रिंशेन स्तोमेन त्वया भूतं प्राणिमात्रमनुक्तं स्पृतं पाप्मनो मृत्योः रक्षितम् । तथा यजमानोऽपि सर्वभूतानि मृत्योः स्पृणोति । 'ऋभुभ्यो भागं कृला विश्वेभ्यो देवेभ्य आधिपत्यमकरोत्' (८ । ४ । २ । १२) इति श्रुतेः ॥ २६ ॥

सप्तविंशी।
सह॑श्च सह॒स्य॒श्च हैम॑न्तिकावृ॒तू अ॒ग्नेर॑न्तः श्ले॒षो॒ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धय॒: कल्प॑न्ताम॒ग्नय॒: पृथ॒ङ्मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः।
ये अ॒ग्नय॒: सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे। है॑मन्तिकावृ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ।। २७ ।।
उ० ऋतव्ये सहश्च सहस्यश्चेति ॥ २७ ॥
म० 'ऋतव्ये सहश्च सहस्यश्चेति' ( का० १७ । १० । १८)। अनूकमभितो द्वे पद्ये उपदधाति । ऋतुदेवत्यं यजुः । सहो मार्गशीर्षः सहस्यः पौषः एतौ हैमन्तिकौ हेमन्तावयवौ । शिष्टं पूर्वतुल्यम् [अ० १३ क० २५] ॥ २७ ॥

अष्टाविंशी।
एक॑यास्तुवत प्र॒जा अ॑धीयन्त प्र॒जाप॑ति॒रधि॑पतिरासीत् ति॒सृभि॑रस्तुवत॒ ब्रह्मा॑सृज्यत॒ ब्रह्म॑ण॒स्पति॒रधि॑पतिरासीत् प॒ञ्चभि॑रस्तुवत भू॒तान्य॑सृज्यन्त भू॒तानां॒ पति॒रधि॑पतिरासीत् स॒प्तभि॑रस्तुवत सप्त ऋ॒षयो॑ऽसृज्यन्त धा॒ताऽधि॑पतिरासीत् ।। २८ ।।
म० रेतःसिग्वेलायां च सप्तदश सर्वतो नव दक्षिणेनानूकᳪं᳭सृष्टीरेकयास्तुवतेति प्रतिमन्त्रम्' (का० १७ । १० । १८) । सर्वासु दिक्षु रेतस्सिग्वेलायां सृष्टिसंज्ञाः सप्तदशेष्टका उपदधाति तन्मध्ये प्रागनूकं दक्षिणेन नव अर्थादष्टावुत्तरेणेति सूत्रार्थः । सप्तदश यजूंषि सृष्टीष्टकादेवत्यानि । अत्र निदानम् प्रजापतिर्भूतानि मृत्योरेव मुक्त्वा प्रजाः सृजेय प्रजायेयेति । विचिन्त्य प्राणाधिष्ठातृदेवान् दिगादीनूचे युष्माभिः सह परमात्मानं स्तुत्वेमाः प्रजा जनयामीति । देवा ऊचुः केन स्तोष्यामः। स ऊचे मया युष्माभिश्चेति । तथेत्युक्त्वा प्राणैः प्रजापतिना चास्तुवतेति । तथाच श्रुतिः 'तद्वै प्रजापतिः सर्वाणि भूतानि पाप्मनो मृत्योर्मुक्त्वाकामयत प्रजाः सृजेय प्रजायेयेति ॥१॥ स प्राणानब्रवीद्युष्माभिः सहेमाः प्रजाः प्रजनयानीति ते वै केन स्तोष्यामह इति मया चैव युष्माभिश्चेति तथेति ते प्राणै- श्चैव प्रजापतिना चास्तुवत' (८ । ४ । ३ । १।२) इति । प्रजापतिरेकया वाचा सहात्मानमस्तुवत स्तुतवान् । वचनव्यत्ययः । 'वाग्वा एका वाचैव तदस्तुवत' ( ८ । ४ । ३ । ३) इति श्रुतेः । प्रजा अधीयन्त उदपाद्यन्त, प्रजापत्यर्थमस्थाप्यन्तेति वा । सृष्टानां प्रजानां प्रजापतिरेवाधिपतिरासीत्स्वाम्यभूत् । एवं षोडश मन्त्रा व्याख्येयाः । 'तिसृभिः प्राणोदानव्यानैरस्तौत् ब्रह्म ब्राह्मणजातिः स्रष्टा ब्रह्मणस्पतिर्ब्राह्मणजातेः स्वाम्यभूत् । 'त्रयो वै प्राणाः प्राणोदानव्यानास्तैः' ( ८ । ४ । ३ । ४) इति श्रुतेः । पञ्चभिः प्राणैरस्तुवत पञ्च भूतानि सृष्टानि भूतानां पतिर्देवस्तेषां स्वाम्यभूत् । 'य एवेमे मनःपञ्चमाः प्राणास्तैरेव तदस्तुवत' ( ८ । ४ । ३ । ५) इति श्रुतेः । सप्तभिः श्रोत्रचक्षुर्नासावाग्रूपैः सप्तशीर्षण्यप्राणैरस्तुवत । ततः सप्त ऋषयः सृष्टाः धाता जगत्स्रष्टाद्यो देवः स्वाम्यभूत् । ‘य एवेमे सप्त शीर्षन् प्राणास्तैरेव' ( ८ । ४ । ३ । ६ ) इति श्रुतेः ॥ २८ ॥

एकोनत्रिंशी।
न॒वभि॑रस्तुवत पि॒तरो॑ऽसृज्य॒न्तादि॑ति॒रधि॑पत्न्यासीदेकाद॒शभि॑रस्तुवत ऋ॒तवो॑ऽसृज्यन्तार्त॒वा अधि॑पतय आसँस्त्रयोद॒शभि॑रस्तुवत॒ मासा॑ असृज्यन्त संवत्स॒रोऽधि॑पतिरासीत् पञ्चद॒शभि॑रस्तुवत क्ष॒त्रम॑सृज्य॒तेन्द्रो॑ऽधि॑पतिरासीत् सप्तद॒शभि॑रस्तुवत ग्रा॒म्याः प॒शवो॑ऽसृज्यन्त॒ बृह॒स्पति॒रधि॑पतिरासीत् ।। २९ ।।
म० नवभिः सप्त शिरःप्राणा द्वावध इति नवप्राणैः प्रजापतिरस्तौत् । ततः पितरः अग्निष्वात्तादयः सृष्टाः । अदितिः अखण्डिता प्रजापतिशक्तिः सृष्टानां पितॄणामधिपत्नी स्वामित्वेनाधिकं पालयित्र्यासीत् । 'नव वै प्राणाः सप्त शीर्षन्नवाञ्चौ द्वौ तैः' ( ८।४ । ३ । ७) इति श्रुतेः । एकादशभिः दश प्राणा आत्मैकादशस्तैरस्तुवत । ऋतवः वसन्ताद्याः सृष्टाः आर्तवाः ऋतुपालका देवविशेषाः स्वामिनोऽभूवन् । 'दश प्राणा आत्मैकादशः' ( ८ । ४ । ३ । ८) इति श्रुतेः । त्रयोदशभिः दश प्राणाः द्वौ पादौ एक आत्मेति तैरस्तौत् । ततो मासाः चैत्रादयः सृष्टाः । मासाभिमान्ययनद्वयात्मकः संवत्सरः तेषामधिपतिरासीत् । 'दश प्राणा द्वे प्रतिष्ठे आत्मा त्रयोदशः' ( ८ । ४ । ३ । ९) इति श्रुतेः । पञ्चदशभिः दश हस्ताङ्गुलयः करौ बाहू नाभेरूर्ध्वभागश्च तैरस्तुवत । ततः क्षत्रं क्षत्रियजातिः सृष्टा । इन्द्रः ऐश्वर्यशाली तदभिमानी देवः स्वाम्यभूत् । 'दश हस्त्या अङ्गुलयश्चत्वारि दोर्बाहवाणि यदूर्ध्वं नाभेस्तत्पञ्चदशम्' ( ८।४ । ३ । १०) इति श्रुतेः । सप्तदशभिः दश पादाङ्गुलयः ऊरू जानुनी पादौ नाभेरधोभाग- श्चेति तैरस्तौत् तदा ग्राम्याः पशवः गवादयः सृष्टाः बृहस्पतिस्तेषां स्वाम्यभूत् । 'दश पाद्या अगुलयश्चत्वार्यूर्वष्ठीवानि द्वे प्रतिष्ठे यदवाङ्नाभेस्तत्सप्तदशम्' (८।९।३।११) इति श्रुतेः २९

त्रिंशी।
न॒वद॒शभि॑रस्तुवत शूद्रा॒र्याव॑सृज्येतामहोरा॒त्रे अधि॑पत्नी आस्ता॒मेक॑विᳪं᳭शत्यास्तुव॒तैक॑शफाः प॒शवो॑ऽसृज्यन्त॒ वरु॒णोऽधि॑पतिरासी॒त् त्रयो॑विᳪं᳭शत्यास्तुवत क्षु॒द्रा: प॒शवो॑ऽसृज्यन्त पू॒षाऽधि॑पतिरासी॒त् पञ्च॑विᳪं᳭शत्यास्तुवतार॒ण्याः प॒शवो॑ऽसृज्यन्त वा॒युरधि॑पतिरासीत् स॒प्तवि॑ᳪं᳭शत्याऽस्तुवत॒ द्यावा॑पृथि॒वी व्यै॑तां॒ वस॑वो रु॒द्रा आ॑दि॒त्या अ॑नु॒व्या॒यँ॒स्त ए॒वाधि॑पतय आसन् ।। ३० ।।
म० नवदशभिः दश हस्ताङ्गुलयः ऊर्ध्वाधःस्थच्छिद्ररूपा नव प्राणास्तैरस्तौत् । ततः शूद्रार्यौ शूद्रवैश्यावसृज्येतां सृष्टौ । अर्यः स्वामिवैश्ययोः । अहोरात्रे तयोः स्वामित्वेनास्ताम् । - 'दश हस्त्या अङ्गुलयो नव प्राणाः' (८।४।३। १२) इति श्रुतेः । एकविंशत्या विंशतिः करपादाङ्गुलयः आत्मा चेति एकविंशत्यास्तौत् । ततः एकशफाः पशवोऽश्वादयः सृष्टाः । एकं शफं खुरः प्रतिपादं येषां ते एकशफाः । 'शफं क्लीबे खुरः पुमान्' इत्यमरः । वरुणस्तेषामधिपतिरासीत् । 'दश हस्त्या अङ्गुलयो दश पाद्या आत्मैकविᳪं᳭शः ' ( ८ । ४ । ३ । १३ ) इति श्रुतेः। त्रयोविंशत्या विंशतिः करपादाङ्गुलयः पादावात्मा चेति तैस्तु ते क्षुद्राः पशवोऽजादयः सृष्टाः तेषां पूषा स्वाम्यभूत् । 'दश हस्त्या अङ्गुलयो दश पाद्या द्वे प्रतिष्ठे आत्मा त्रयोविᳪं᳭शः' (८।४।३।१४) इति श्रुतेः। पञ्चविंशत्या विंशतिः करपादाङ्गुलयः करौ पादावात्मेति तैरस्तुवत तदारण्या वनस्थाः पशवः कृष्णमृगादयः सृष्टास्तेषां वायुः स्वाम्यभूत् । 'दश हस्त्या अङ्गुलयो दश पाद्याश्चत्वार्यङ्गान्यात्मा पञ्चविᳪं᳭शः ' ( ८ । ४ । ३ । १५) इति श्रुतेः । सप्तविंशत्या करपादाङ्गुलयः द्वौ भुजावूरू चात्मेति तैरस्तुवत ततो द्यावापृथिवी द्युभूलोकौ व्यैतां विशेषेणागच्छतामित्यर्थः । विपूर्वादिण् गताविति धातोर्लङि प्रथमाद्विवचनम् । वसवोऽष्टौ रुद्रा एकादश आदित्या द्वादशानुव्यायन् अन्वगच्छन् अनुगताः त एव स्वामिनोऽभूवन् । 'दश हस्त्या अङ्गुलयो दश पाद्याश्चत्वार्यङ्गानि द्वे प्रतिष्ठे आत्मा सप्तविᳪं᳭शः' ( ८ । ४ । ३ । १६) इति श्रुतेः ॥ ३० ॥

एकत्रिंशी।
नव॑विᳪं᳭शत्याऽस्तुवत॒ वन॒स्पत॑योऽसृज्यन्त॒ सोमोऽधि॑पतिरासी॒देक॑त्रिᳪं᳭शताऽस्तुवत प्र॒जा अ॑सृज्यन्त॒ यवा॒श्चाय॑वा॒श्चाधि॑पतय आसँ॒त्रय॑स्त्रिᳪं᳭शताऽस्तुवत भू॒तान्य॑शाम्यन् प्र॒जाप॑तिः परमे॒ष्ठ्यधि॑पतिरासील्लो॒कं ता इन्द्र॑म् ।। ३१ ।।
इति श्रीवाजसनेयसंहितायां चतुर्दशोऽध्यायः ।
उ० सृष्टीरुपदधाति सप्तदशेष्टकाः सप्तदशभिर्मन्त्रैः । एकया स्तुवतेत्यादिभिः तत्र निदानभूता श्रुतिः । 'एतद्वै प्रजापतिः' इत्युपक्रम्य 'ते वै केन स्तोष्यामह' इति । मया चैव युष्माभिश्चेति तथेतरे प्राणैश्चैव प्रजापतिना । एकयास्तुवतेति । एकया वाचा अस्तुवत स्तुतवान् । कः सामर्थ्यात्प्रजापतिः । इदानीं फलमाह । प्रजा अधीयन्त । याः गर्भीभूताः प्रजाः प्रजापतेरासन् ताः प्रजापत्यर्थम् अस्थाप्यन्त स्थिताः । प्रजापतिरधिपतिरासीत् अस्यां स्तुतौ। एवं षोडशानामिष्टकानां मन्त्रा एकव्याख्यानाः ॥ २८ ॥ ॥ २९ ॥ ३० ॥ ३१ ॥
इति उवटकृतौ मन्त्रभाष्ये चतुर्दशोऽध्यायः ॥ १४ ॥
म०. नवविंशत्या करपादाङ्गुलयो नव छिद्ररूपाः प्राणास्तैरस्तुवत ततो वनस्पतयोऽश्वत्थवटाद्याः सृष्टाः तेषां स्वामी सोमोऽभूत् । 'दश हस्त्या अङ्गुलयो दश पाद्या नव प्राणाः' (८।४।३।१७) इति श्रुतेः । एकत्रिंशता करपादाङ्गुलयः दशेन्द्रियाणि आत्मेति तैरस्तौत् । ततः प्रजाः सृष्टाः यवाः पूर्वपक्षा अयवाः अपरपक्षास्तांसां प्रजानां स्वामिनोऽभूवन् 'दश हस्त्या अङ्गुलयो दश पाद्या दश प्राणा आत्मैकत्रिᳪं᳭शः' (८।४ । ३ । १८) इति श्रुतेः । पूर्वपक्षापरपक्षा एवात्राधिपतय आसन् (१८) इति च । त्रयस्त्रिंशता अङ्गुलयः इन्द्रियाणि पादौ आत्मेति तैरस्तुवत स्तौतिस्म प्रजापतिर्देवैः सह । ततो भूतानि अशाम्यन् सर्वे प्राणिनः शान्ताः सुखिनोऽभूवन् । परमे सत्यलोके तिष्ठतीति परमेष्ठी प्रजापतिः प्रजापालकः सर्वेषां भूतानामधिपतिः स्वाम्यासीत् । 'दश हस्त्या अङ्गुलयो दश पाद्या दश प्राणा द्वे प्रतिष्ठे आत्मा त्रयस्त्रिᳪं᳭शः ' (८ । ४ । ३ । १९) इति श्रुतेः । अत्र या येष्टका येन मन्त्रेणोपधेया सा सा तत्तन्मन्त्रोक्तदेवतारूपेण ध्यातव्येत्यर्थः । 'उत्तराᳪं᳭सादधि लोकंपृणाः पूर्ववत्' (का० १७ । १०।१९) उत्तरांसादारभ्य प्रथमचितिवल्लोकंपृणा उपदधातीति सूत्रार्थः । ततः पुरीषनिर्वापः सप्तर्चोपस्थानं च बोध्यम् । तन्मन्त्रप्रतीकानि लोकंपृण ता अस्य इन्दं विश्वा इति तास्तिस्रोऽपि व्याख्याताः ( १२ । १४-१६) ॥ ३१ ॥
इति चतुर्थी चितिः पूर्णा ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
वेदचन्द्रमितोऽध्यायो वर्ण्यद्वित्रिचतुश्चितिः ॥ १४ ॥



टिप्पणी