शुक्लयजुर्वेदः/सर्वानुक्रमणी

विकिस्रोतः तः

सर्वानुक्रमसूत्रम्।
श्रीवेदपुरुषाय नमः ॥ ॐमण्डलं दक्षिणमक्षि हृदयं चाधिष्ठितं येन शुक्लानि यजू ᳪं᳭षि भगवान्याज्ञवल्क्यो यतः प्राप तं विवस्वन्तं त्रयीमयमर्चिष्मन्तमभिध्याय माध्यन्दिनीये वाजसनेयके यजुर्वेदाम्नाये सर्वे सखिले सशुक्रियऋषिदैवतच्छन्दा ᳪं᳭स्यनुक्रमिष्यामो यजुषामनियताक्षरत्वादेकेषां छन्दो न विद्यते द्रष्टारो ऋषयः स्मर्तारः परमेष्ठ्यादयो देवता मन्त्रान्तर्भूताध्यादिका हविर्भाजः स्तुतिभाजो वाऽनःशाखोखाशभ्योपवेषकपालेध्मोलूखलादयश्च प्रतिमाभूताश्छन्दा ᳪं᳭सि गायत्र्यादीन्येतान्यविदित्वा योऽधीतेऽनुब्रूते जपति जुहोति यजते याजयते तस्य ब्रह्म निर्वीर्यं यातयामं भवत्यथान्तराश्वगर्ते वा पद्यते स्थाणुं वर्च्छति प्रमीयते वा पापीयान्भवत्यथ विज्ञायैतानि योऽधीते तस्य वीर्यवदथ योऽर्थवित्तस्य वीर्यवत्तरं भवति जपित्वा हुत्वेष्ट्वा तत्फलेन युज्यते ॥१॥ इषेत्वादि खंब्रह्मान्तं विवस्वानपश्यत्ततः प्रतिकर्मविभागेन ब्राह्मणानुसारेण ऋषयो वेदितव्याः परमेष्ठी प्राजापत्यो दर्शपूर्णमासमन्त्राणामृषिर्देवा वा प्राजापत्या इषेत्वा शाखानुष्टुब्विनियोगः कल्पकारोक्त एवमूर्जेत्वा वायवे वायव्यं देवोव ऐन्द्रं यजमानस्य शाखा वसोर्वायव्यं द्यौर्मातरिश्वन उखा वसोर्वायव्यं देवस्त्वापयः कामधुक्षः प्रश्नः सा विश्वायुस्त्रीणि गव्यानीन्द्रस्यैन्द्रं विष्णोः पयः ॥ २ ॥ यो अग्न इदमाग्नेये कस्त्वा प्राजापत्यं कर्मणे सुक्शूर्पं प्रत्युष्टं द्वे राक्षसे उरुब्रह्म रक्षोघ्न ᳪं᳭ सर्वत्र धूरसि धूर्दैवानां विष्णुस्त्वान ᳪं᳭ उरु हविष्या अपहत ᳪं᳭रक्षो यच्छन्ता ᳪं᳭हविष्या देवस्य त्वा सावित्र ᳪं᳭सर्बत्राग्नेये लिङ्गोक्ते भूताय त्वा हविः स्वः सूर्यो दृ ᳪं᳭हन्तां गृहाः पृथिव्यास्त्वा हव्यं पवित्रे लिङ्गोक्त ᳪं᳭सवितुर्देवीः प्रोक्षिता आपान्यग्नये लिङ्गोक्ते दैव्याय पात्राणि ॥३॥ शर्मास्यदित्याः कृष्णाजिनमवधूत ᳪं᳭राक्षसमद्रिर्ग्रावोलूखले अग्नेर्हविर्बृहत्स इमं मौसले हविष्कृदधिदैवतं वागधियज्ञं पत्नी कुक्कुटो वाग्वर्षवृद्ध ᳪं᳭ शूर्पं प्रतित्वाहविः परापूतमपहत ᳪं᳭ राक्षसे वायुर्वो देवो वस्तण्डुलाधृष्टिरुपवेषोऽपाग्न आदेवयजमाग्नेये ध्रुवमसिषण्णां कपालान्यग्ने ब्रह्माग्नेयं धिषणासि दार्षदं दिवः शम्याऽधिषवणौपलं धान्यमसि षण्णा ᳪं᳭हविर्महीनामाज्यम् ॥४॥ संवपामि हविः समाप आपं जनयत्त्यै त्वेद ᳪं᳭हविरिषेत्वाज्यं घर्मोसि षण्णां पुरोडाशस्त्रिताय त्रयाणां त्रितो द्वितः क्रमेणादद इन्द्रस्य स्फ्यः पृथिवी वेदिर्र्िजं पुरीषं वर्षतु वेदिर्बधान सावित्रमपाररुमररो आसुरे द्रप्सस्ते वेदिगायत्रेण त्रीणि वैष्णवानि सूक्ष्मा त्रयाणांवेदिः पुराघश ᳪं᳭ सोऽपश्यच्चान्द्रमसी त्रिष्टुभं प्रोक्षणीः प्रैषो द्विषतः आभिचारिकमनिशितः स्रुवो निशिता स्रुगदित्यै विष्णोर्योक्त्रमूर्जे त्रयाणामाज्य ᳪं᳭ सवितुरापं तेजोसि धामाज्यम् ॥५॥ इति० संहितायां प्रथमोऽध्यायः ।

कृष्णोसीध्मो वेदिर्बर्हिर्लिङ्गोक्ते अदित्या आपं विष्णोः प्रास्तरमूर्णम्रदसं वेदिर्भुवपतये त्रीण्याग्नेयानि गन्धर्वस्त्रयाणां परिधयो वीतिहोत्रं विश्वावसुराग्नेयीं गायत्री ᳪं᳭ समिदाग्नेय ᳪं᳭ सूर्यस्त्वालिङ्गोक्त ᳪं᳭ सवितुर्विधृती ऊर्णम्रदसमात्वाप्रास्तरे घृताच्यसि त्रयाणां जुहूपभृद्रुागवाः क्रमेण प्रियेण हविर्ध्रुवा असदन्पाहि मां वैष्णवे अग्नेवाजजिदाग्नेयं नमोदैव ᳪं᳭ स्वधापित्र्य ᳪं᳭सुयमे स्रुचावङ्घ्रिणा वैष्णवं वसुमतीमाग्नेयमित ऐन्द्र ᳪं᳭ संज्योतिषाज्यं मयीदमाशीःप्रतिग्रहणमुपहूता द्यावापृथिव्यम् ॥६॥ ब्रह्मत्वं प्रतिष्ठान्तं बृहस्पतिराङ्गिरसोऽपश्यदग्नेष्ट्वा प्राशित्रमेतं ते वैश्वदेवमेषा तेनुष्टुबाग्नेय्यग्ने वाजजिदाग्नेयमग्नीषोमयोश्चत्वारि लिङ्गोक्तानि वसुभ्यस्त्रयाणां परिधयः संजानाथा व्यन्तु प्रास्तरे मरुतां कपिर्बृहती प्रास्तरीमन्त्यः पाद आग्नेयो यं परिधिं देवल आग्नेयीं त्रिष्टुभं विराड्रूपा यजुरन्तामग्नेः प्रियं यजुः स ᳪं᳭स्रवभागाः सोमसूक्ष्मौ वैश्वदेवीं त्रिष्टुभं यजुरन्ता ᳪं᳭ स्वाहा वाड्यजुर्घृताची स्रुचौ यज्ञनमः शूर्पं यवमान्कृषिरुद्वालवान्धानान्तर्वानिति पञ्चार्षेयो यज्ञो देवताग्नेदब्धा योगार्हपत्योऽग्नये दक्षिणाग्निः सरस्वत्यै लिङ्गोक्तं वेदोसि वेदो देवा मनसस्पतिर्वातदेवत्या विराज ᳪं᳭संबर्हिर्लिङ्गोक्ता त्रिष्टुब्विराड्रूपा कस्त्वा प्राजापत्य ᳪं᳭ रक्षसा ᳪं᳭ राक्षसम् ॥७॥ अथ याजमान ᳪं᳭ संवर्चसा त्वाष्ट्री त्रिष्टुब्दिविविष्णुस्त्रीणि वैष्णवान्यस्माद्भागोऽस्यै भूमिरगन्म दैव ᳪं᳭ संज्योतिषाहवनीयः स्वयंभूः सूर्यस्य सौरे अग्ने गृहपतेगार्हपत्यः सूर्यस्य सौरमग्न इदमाग्नेये ॥८॥ पितृयज्ञः प्रजापतेरार्षमग्नये सोमाय द्वे दैवे स्वाहाकारयश्रुतेरपहता असुरं ये रूपाणि कव्यवाहनोऽग्निस्त्रिष्टुबत्रामीमदन्त पित्र्यै नमो वः षड्लिङ्गोक्तानि परे पित्र्ये आधत्त पित्र्या गायत्र्यूर्जमापि विराट् ॥ ९॥ इति० संहितायां द्वितीयोऽध्यायः ॥ २ ॥

अग्न्याधेयं प्रजापतेरार्षं देवानामग्नेर्गन्धर्वाणां वा समिधाग्नेय्यश्चतस्रो गायत्र्यः समिधाविरूप आङ्गिरसः सुसमिद्धाय वसुश्रुतस्तं त्वा भरद्वाजो भूर्भुवःस्वस्तिस्रो महाव्याहृतयोऽग्निवायुसूर्यदेवत्याः क्रमेण द्यौरिव यजमानाशीर्लिङ्गोक्तदेवतायं गौः सार्पराज्ञ्यस्तृचो गायत्रोऽग्निः परावररूपेण देवता ॥१०॥ अग्निहोत्रं प्रजापतेरार्षमग्निर्ज्योतिः सप्त लिङ्गोक्तदेवता गायत्र्य आद्याः पञ्चैकपदा अग्निर्वर्चो द्वे तक्षापश्यत्परा जीवलश्चैलकिः ॥११॥ यजमानाग्न्युपस्थानं बृहद्देवानामार्षं उपप्रयन्त इत्यनुवाक आद्ये द्वे आग्नेय्यौ गायत्र्यावुपवत्या गोतमो राहूगणो मूर्धन्वत्या विरूप उभा वां भरद्वाज ऐन्द्राग्नीं त्रिष्टुभमयं ते देवश्रवा देववातश्च भारतावाग्नेयीमनुष्टुभमयमिह वामदेवो जगतीमस्य प्रत्नामवत्सारो गव्या वाग्नेयी वा पयोदेवत्या वा गायत्रीं तनूपा आग्नेयानीन्धाना आग्नेयीं महापङ्क्तिस्त्र्यवसाना ॥ १२ ॥ चित्रावसोरात्रिदेवत्यमृषयोऽपश्यन्त्संत्वमाग्नेयमन्धस्थ रेवतीः सᳪं᳭हितेति त्रीणि गव्यान्युपत्वाग्नेयं तृचं गायत्रं मधुच्छन्दा वैश्वामित्रोऽग्ने त्वं चतस्रो द्विपदा आग्नेयीर्बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुरेकैकश इडे काम्या गव्ये सोमानं ब्राह्मणस्पत्यं तृचं गायत्रं ब्रह्मणस्पतिर्मेधातिथिर्वा महित्रीणाᳪं᳭ सत्यधृतिर्वारुणिरादित्यदैवतं तृचं गायत्रं पथि स्वस्त्ययनं कदाचनैन्द्रीं पथ्याबृहतीं मधुच्छन्दास्तत्सवितुर्विश्वामित्रः सावित्रीं गायत्री परिते वामदेव आग्नेयीमनिरुक्तां गायत्रीम् ॥ १३ ॥ क्षुल्लकोपस्थानमासुरेरार्षं भूर्भुवः स्वः प्रवत्स्यदुपस्थानमागतोपस्थानं चादित्यस्यार्षं नर्यगार्हपत्यः शᳪं᳭स्याहवनीयोऽथर्वदक्षिणाग्निरागन्माहवनीयोऽनुष्टुबयमग्निर्न्यङ्कुसारिणीबृहती गार्हपत्योऽयमग्निरन्वाहार्यपचनोऽनुष्टुब्गृहामा त्रिष्टुब्बिराड्रूपा येषामानुष्टुबुपहूता महापङ्क्तिस्त्र्यवसानास्तिस्रोपि वास्तवीः शंयुर्बार्हस्पत्यः॥१४॥ चातुर्मास्यानि प्रजापतेरार्षं प्रघासिनो मारुती गायत्री यद्ग्राममारुत्यनुष्टुबनिरुक्ता मोषूणोऽगस्त्य ऐन्द्रामारुतीं विराजमक्रं न निरुक्ताग्नेय्यनुष्टुबवभृथ यज्ञदैवतं पूर्णादर्वि द्वे और्णवाभ ऐन्द्र्यावनुष्टुभावक्षं द्वे गोतम ऐन्द्र्यौ पङ्क्ती मनोनुमानसं तृचं बन्धुर्गायत्रं वयᳪं᳭ सौमीं गायत्रीं बन्धुरेष ते द्वे रौद्रे अवरुद्रᳪं᳭ रौद्र्यावेकापङ्क्तिरपरा ककुप् त्र्यम्बकं द्वे अनुष्टुभौ पूर्वस्या वसिष्ठ आस्तारपङ्क्तिस्त्र्यायुषं नारायण उष्णिहं यजमानाशीः शिवोनाम क्षौरं निवर्तयामि लिङ्गोक्तदैवतमाशीःप्रायम् ॥ १५ ॥ इति० संहितायां तृतीयोऽध्यायः ॥ ३ ॥

अग्निष्टोमः प्रजापतेरार्षभेदं द्वे अत्यष्टी त्र्यवसाने आद्यावर्धर्चौ देवयजनदेवत्याविमा आप ओषधे कुशतरुणᳪं᳭ स्वधिते क्षौरमापो अस्मानापं दीक्षातपसोर्वासो महीनां नवनीतं वृत्रस्याजनं चित्पतिर्द्वे प्राजापत्ये देवो मा सावित्रमावोदैव्यनुष्टुबाशीःस्वाहायज्ञं चतुर्णां यज्ञ आकूत्यै चतुर्णामौद्ग्रभणानामग्निरापोदेवीर्लिङ्गोक्तदेवता विराट् ॥१६॥ विश्वो देवस्य स्वस्त्यात्रेयः सावित्रीमनुष्टुभमृक्सामयोः कृष्णाजिने शर्मासि कृष्णाजिनमूर्गस्याङ्गिरोभिर्दृष्टं मैखलᳪं᳭ सोमस्य नीविर्विष्णोर्वास इन्द्रस्य सुसस्याः कृष्णविषाणोच्छ्रयस्व दण्डो व्रतं यज्ञो दैवीं धीर्ये देवा वाक्प्राणोदानौ चक्षुःश्रोत्रमध्यात्ममग्निर्मित्रावरुणावादित्यो विश्वेदेवा अधिदैवतᳪं᳭ श्वात्रा आपो जगतीयं ते लोष्टमपो मूत्रं पृथिव्या लोष्टमग्ने त्वमाग्नेय्यनुष्टुप्पुनर्मन आग्नेयं त्वमग्ने वत्स आग्नेयीं गायत्रीᳪं᳭ रास्वेयत्सौम्यमेषा ते हिरण्याज्यदैवतं जूरसि वाग्दैवतᳪं᳭ शुक्रमसि हिरण्यं चिदसि गौः सोमक्रयणी वाग्रूपाध्यारोपकल्पनया ॥ १७॥ वस्व्यस्यनुष्टुब्बृहती सोमक्रयण्याः स्तुतिरदित्या आज्यमस्मे षण्णां लिङ्गोक्ता देवताः समख्ये पत्न्याशीरास्तारपङ्क्तिरेष ते लिङ्गोक्तदेवतमास्माकोऽसि सौम्यमभित्यᳪं᳭ सावित्र्यष्टिः प्रजाभ्यस्त्वा प्रजास्त्वा शुक्रं त्वा सौम्यानि सग्मेऽस्मे लिङ्गोक्ते तपसोर्धेजार्धे सोमो मित्रो न इन्द्रस्य सौम्ये स्वानादीनि धिष्ण्यानामानि परिमाग्नेयी पुरस्ताद्बृहती प्रतिपन्थामनुष्टुप्पथिदेवत्यादित्याः कृष्णाजिनमदित्यै सौम्यमस्तभ्नात्त्रिष्टुभौ वारुण्यौ सूर्यस्यानुष्टुप् कृष्णाजिनमुस्रावूर्ध्वबृहत्यानडुही भद्रो मे सौम्यं नमो मित्रस्याभितपनः सूर्यः सौरीं जगतीं वरुणस्य पञ्च वारुणानि या ते सौमीं त्रिष्टुभं गौतमः ॥ १८ ॥ इति० संहितायां चतुर्थोऽध्यायः ॥ ४ ॥

अग्नेस्तनूरसि पञ्च वैष्णवान्यग्नेः शकलं वृषणा दर्भतरुणैके उर्वश्यसि त्रयाणां लिङ्गोक्ता देवता गायत्रेण त्रीण्याग्नेयानि भवतं नः पङ्क्तीरग्नावग्निर्विराडेतयोर्निर्मथ्याहवनीयावग्नी देवते आपतये वायव्यमनाधृष्टमाज्यमग्नेव्रतपा आग्नेयमᳪं᳭शुरᳪं᳭शुः प्रकृतिश्चतुरवसाना सौम्यन्त्योर्धर्चो लिङ्गोक्तदैवतो याते त्रीण्याग्नेयानि तप्तायनी चत्वारि पार्थिवानि विदेदाग्नेयमग्ने अङ्गिरोऽस्यामनुत्वा लिङ्गोक्तानि सिᳪं᳭ह्यसि त्रयाणां वेदिरिन्द्रघोषश्चतुर्णामुत्तरवेदिरिदमहमापᳪं᳭ सिᳪं᳭ह्यसि पञ्चानां वाग्भूतेभ्यः स्रुग्ध्रुवोऽसि परिधयस्त्रयाणामग्नेः संभारा गुल्गुल्वादयः ॥ १९॥ युञ्जते श्यावाश्वः सावित्रीं जगतीमिदं विष्णुर्मेधातिथिर्वैष्णवीं गायत्रीमिरावती वसिष्ठस्त्रिष्टुभं देवश्रुतावक्षधुरौ प्राचीस्वं गोष्ठमत्र हविर्धाने विष्णोर्नु तिस्रो वैष्णव्यस्त्रिष्टुभ आद्ये द्वे यजुरन्ते विष्णोर्नु प्रदीर्घतमा ओतथ्यो विष्णोरराटं पञ्च वैष्णवान्याददेऽभ्रिरिदमहᳪं᳭रक्षोघ्नं बृहन्नौ पर्वाणीदमहं पञ्च लिङ्गोक्तानि स्वराडस्यौपर्वाणि चत्वारि रक्षोहणो वः सप्त वैष्णवानि यवोऽसि यवो दिवेत्वौदुम्बरी शुन्धन्तां पित्र्ये उद्दिवं पञ्चानामौदुम्बरी घृतेन द्यावापृथिव्यमिन्द्रस्यैन्द्रं परि त्वा मधुच्छन्दा अनिरुक्तामैन्द्रीमनुष्टुभमिन्द्रस्यैन्द्राणि त्रीणि चतुर्थं वैश्वदेवम् ॥ २० ॥ विभूरत्यष्टानां धिष्ण्या अग्नयः सम्राडाहवनीयः परिषद्यो बहिष्पवमानदेशो नभोऽसि चात्वालो मृष्टोऽसि शामित्र ऋतधामौदुम्बरी समुद्रोऽसि ब्रह्मासनमजोऽसि शालाद्वार्योऽहिरसि प्राजहितो वागसि सद ऋतस्य द्वार्ये अध्वनाᳪं᳭ सूर्यो मित्रस्यर्त्विजोऽग्नयो धिष्ण्याः ॥ २१ ॥ ज्योतिरसि वैश्वदेवं त्वᳪं᳭ सोमक्रतुर्भार्गवः सौमीं गायत्रीमनवसानां जुषाणो अप्तुदेवत्यैकपदा विराड्यजुरन्ताग्नेनयाऽगस्त्य आग्नेयीं त्रिष्टुभमयंनस्त्रिष्टुब्यजुरन्ताग्नेय्युरुविष्णो वैष्णव्यनुष्टुब्यजुरन्ता देवसवितः सावित्रमेतत्वᳪं᳭ सौम्यᳪं᳭ स्वाहा निर्लिङ्गोक्तदेवतामग्ने व्रतपा आग्नेयमत्यन्यान्वनस्पतिरोषधे कुशतरुणᳪं᳭ स्वधिते परशुर्द्यां मातस्त्वं वनस्पतिः ॥ २२ ॥ इति० संहितायां पञ्चमोऽध्यायः ॥ ५॥

अग्रेणीः शकलं देवस्त्वा यूपः सुपिप्पलाभ्यश्च बालंद्यामग्रेण यूपो याते दीर्घतमा यूपदेवत्या त्रिष्टुभं ब्रह्म दृᳪं᳭ह यूपदेवत्ये विष्णोः कर्माणि द्वे मेधातिथिर्वैष्णव्यौ गायत्र्यौ परिवीर्यूपो दिवस्वरुरेष ते यूप उपावीस्तृणमुपदेवा लिङ्गोक्तमृतस्य त्वा पशुरग्नीषोमाभ्यां लिङ्गोक्तमद्भ्योऽपां पशुरापोदेवीरापᳪं᳭सं ते पशुर्घृतेन स्वरुशासौ रेवती वाग्वर्षो तृणᳪं᳭ स्वाहा दैवे ॥ २३ ॥ माहिर्भूरज्जुर्नमस्ते यज्ञो देवीरापोर्धमापमर्धमाशीर्वाचं ते मनस्ते पशुशं लिङ्गोक्तमोषधे तृणᳪं᳭ स्वधितेऽसी रक्षसां लिङ्गोक्तं निरस्तमिदमहᳪं᳭, रक्षोहणी घृतेन द्यावापृथिव्यं वायो वायव्यमग्निराज्यस्याग्नेयᳪं᳭ स्वाहाकृते वपाश्रपण्याविदमाप आपी महापङ्क्तिस्त्र्यवसाना पावमानश्चान्त्यः पादः सं ते हृदयᳪं᳭ रेडसि वसाप्रयुतं लिङ्गोक्तं घृतं वैश्वदेवं दिशः पञ्चदिश्यान्यैन्द्रः प्राणः पश्वङ्गः प्राणदानं लिङ्गोक्तं देवत्वाष्ट्री त्रिष्टुप् ॥ २४ ॥ समुद्रं लिङ्गोक्तानि द्वादश दिवं ते स्वरुर्मापो हृदयशूलं धाम्नो वारुणं यदाहुर्वारुणी गायत्र्यनवसाना सुमित्रिया न आपᳪं᳭ हविष्मतीर्लिङ्गोक्तदेवतानुष्टुबग्नेर्वश्चत्वार्यपां न्यमूरापीं गायत्रीं मेधातिथिर्हृदे त्वा सौम्यनुष्टप् सोमराजन्त्सौम्ये शृणोतु लिङ्गोक्तदेवता त्रिष्टुब्देवीराप आपी पङ्क्तिः कार्षिराज्यमनुष्टुप्समुद्रस्य समाप आपो यमग्ने मधुच्छन्दा आग्नेयीं गायत्रीमाददे ग्रावा निग्राभ्या आपमिन्द्राय त्वा पञ्च सौम्यानि यत्ते सौमी विपरीता बृहती श्वात्राः पथ्याबृहती माभेः सौम्यमर्धं द्यावापृथिव्यमर्धं प्रागपाक्सौम्युष्णिक् त्वमङ्ग गोतम ऐन्द्रीं पथ्याबृहतीम् ॥ २५॥ इति संहितायां षष्ठोऽध्यायः ॥ ६॥

वाचस्पतये प्राणदेवत्या विराट् मधुमतीर्लिङ्गोक्तं यत्ते सौम्यᳪं᳭ स्वाहोरुयजुषी लिङ्गोक्ते स्वांकृतोस्युपाᳪं᳭ शुर्देवेभ्यस्त्वा दैवं देवाᳪं᳭शो लिङ्गोक्तमाभिचारिकं प्राणायग्रहो व्यानाय उपाᳪं᳭शुसवन उपयामगृहीतोस्यन्तरैन्द्रमन्तस्ते मघवदेवत्या त्रिष्टुबुदानाय ग्रह आवायो वसिष्ठो वायव्यां त्रिष्टुभमिन्द्रवायू मधुच्छन्दा ऐन्द्रवायवीं गायत्रीमयं वा गृत्समदो मैत्रावरुणीᳪं᳭ रायावयं त्रसदस्युस्त्रिष्टुभं यावां मेधातिथिराश्विनीं गायत्रीं तं प्रत्नथावत्सारः काश्यपो वैश्वदेवीं जगतीमच्छिन्नस्य सौम्यᳪं᳭ सा प्रथमैन्द्री त्रिष्टुप्तृपं त्वयाडग्नी लिङ्गोक्ते ॥ २६॥ अयं वेनो वेनस्य त्रिष्टुप् सोमस्तुतिरधिदैवतमधियज्ञं च मनोन त्रिष्टुप्सोमस्तुतिरधियज्ञानुवादिन्यपमृष्टः शण्डोऽपमृष्टो मर्क आभिचारिके देवास्त्वा शुक्रामन्थिनावनाधृष्टासि दक्षिणोत्तरवेदिश्रोण्यौ सुवीरः सुप्रजाः शुक्रामन्थिनौ निरस्तो द्वे आभिचारिके शुक्रस्य मन्थिनः शकलं ये देवासः परुच्छेपो वैश्वदेवीं त्रिष्टुभमाग्रयणोसि लिङ्गोक्तदैवतम् ॥२७॥ सोमः पवते वैश्वदेवमिन्द्राय त्वा पञ्च लिङ्गोक्तानि मूर्धानं भरद्वाजो वैश्वानरीं त्रिष्टुभं ध्रुवोसि ध्रुवो ध्रुवं ध्रुवेण बृहती पूर्वोऽर्धर्चो ध्रौव उत्तर ऐन्द्रो यस्ते देवश्रवाः सौमीं त्रिष्टुभं यजुरन्ता देवानां चात्वालदैवतं प्राणाय मे लिङ्गोक्तदेवतान्येकादश कोऽसि प्राजापत्योष्णिग्वर्धमाना मधवे त्वा लिङ्गोक्तदेवतानि त्रयोदश ॥ २८ ॥ इन्द्राग्नीं विश्वामित्र ऐन्द्राग्नी गायत्रीमाघात्रिशोक आग्नैन्द्रीमोमासो मधुच्छन्दा वैश्वदेवीं विश्वेदेवासो गृत्समद इन्द्रमरुत्वश्चतस्रो । विश्वामित्र ऐन्द्रामारुतीस्त्रिष्ट्रभो मरुतात्वा यजुर्मरुत्वतीयं महाँइन्द्रो भरद्वाजो माहेन्द्री त्रिष्टुभमोजसा वत्सो गायत्रीमुदुत्यं प्रस्कण्वः सौरीं गायत्री चित्रं कुत्स आङ्गिरसस्त्रिष्टुभᳪं᳭रूपेण वो दक्षिणाश्चतुर्णां ब्राह्मणमद्य लिङ्गोक्तदेवतान्यष्टौ ॥ २९ ॥ इति० संहितायां सप्तमोऽध्यायः ॥ ७ ॥

विष्णो वैष्णवं कदाचनादित्यदेवत्ये बृहत्यौ यज्ञो देवानां कुत्सस्त्रिष्टुभं विवस्वन्यजुः श्रदस्मै जगत्याशीर्वाममद्य भरद्वाजो बार्हस्पत्यः सावित्रीं त्रिष्टुभᳪं᳭ सावित्रोऽसि सावित्रᳪं᳭ सुशर्मासि वैश्वदेवं बृहस्पतिसुतस्य लिङ्गोक्तमहं प्रजापतिरूपेणात्मादेवतात्रिष्टुबग्नाँ ३ इ पत्नीवन्नाग्नेयं प्रजापतिः प्राजापत्यᳪं᳭ हरिरस्यृक्सामे हर्योर्यस्ते लिङ्गोक्ते देवकृतस्याग्नेयानि षट् ॥ ३० ॥ समिन्द्रात्रिर्वैश्वदेवीं त्रिष्टुभं धाता लिङ्गोक्तबहुदेवत्या सुगावो देवीयाँ २ आवहो वयमाग्नेय्यौ यज्ञायज्ञमेष ते लिङ्गोक्ते यजुषी उरुᳪं᳭ हि शुनःशेपो वारुणीं त्रिष्टुभं नमो वारुणमग्नेरनीकमाग्नेयी त्रिष्टुप् समुद्रे ते सौमी विराड्देवीरापः पङ्क्तिर्बृहती वा पूर्वोऽर्धर्च आप उत्तरः सौम्यो देवानामाग्नेयमेजतु त्र्यवसाना महापङ्क्तिर्यस्यै ते वशा पुरुदस्मोगर्भो मरुतो यस्य गोतमो मारुतीं गायत्रीं महीद्यौर्मेधातिथिर्द्यावापृथिव्यामित्यग्निष्टोमः ॥ ३१ ॥ अथ षोडश्यातिष्ठ गोतम ऐन्द्रीमनुष्टुभं युक्ष्वाहि मधुच्छन्दा इन्द्रमिद्गोतमो यस्मान्नैन्द्री त्रिष्टुप्परब्रह्मरूपेण षोडशिनस्तुरिन्द्रश्चैन्द्रावारुणी षोडशिदेवत्या वा यजुरन्ताग्नेपवस्व वैखानस आग्नेयीं गायत्रीमुत्तिष्ठन्कुरुस्तुतिरैन्द्रीमदृश्रं प्रस्कण्वः सौरीं तिस्रोऽपि यजुरन्ता उदुत्यं देवानामार्षमाजिघ्रेडे कुसुरुबिन्दुर्गव्ये महापङ्क्तिप्रस्तारपङ्क्ती विनः शासो भारद्वाज ऐन्द्रीमनुष्टुभं वाचस्पतिं वैश्वकर्मणीं त्रिष्टुभं विश्वकर्मन्नैन्द्री वैश्वकर्मण्यग्नये त्वा देवार्षाण्यदाभ्यदेवत्यानि व्रेशीनां त्वा सौम्यानि ॥३२॥ सत्रोत्थानं देवानामार्षमिह रतिः पशुदैवतमुपसृजन्नुष्णिगाग्नेयी सत्रस्य बृहती यजमानानामात्मस्तुतिर्युवन्तं परुच्छेप ऐन्द्रीमत्यष्टिं त्र्यवसानामाद्योऽर्धर्च ऐन्द्रापार्वतः परमेष्ठी नैमित्तिकान्याध्यायाद्वसिष्ठस्यार्षं लिङ्गोक्तदेवतानि चतुस्त्रिᳪं᳭शद्ययोर्वैष्णववारुणीं त्रिष्टुब्देवा दिवमाशीर्लिङ्गोक्तदेवताश्चतुस्त्रिᳪं᳭शद्वर्मदेवत्या पङ्क्तिस्त्रिष्टुब्वा यज्ञस्य यज्ञदेवत्या त्रिष्टुबापवस्व सौमीं गायत्रीं नैध्रुविः कश्यपः ॥ ३३ ॥ इति० संहितायामष्टमोऽध्यायः ॥ ८॥

अथ वाजपेयो बृहस्पतेरार्षमिन्द्रस्य च देवसवितः सावित्री त्रिष्टुप् ध्रुवसदमैन्द्राणि त्रीण्यपाᳪं᳭रसदेवत्यानुष्टब् ग्रहा लिङ्गोक्तदेवतानुष्टुप्संपृचौ यजुषीन्द्रस्य रथो वाजस्य पार्थिव्यतिजगत्यन्त्यः पादः सावित्रोऽप्स्वन्तरश्वदेवत्यानवसाना पुरउष्णिग्वातो वा तिस्रोऽश्वस्तुतय उष्णिक्त्रिष्टुब्जगत्यो वाजिनोऽश्वा देवस्याहं लिङ्गोक्तानि वाजिनोऽश्वा एषस्य द्वे दधिक्रावावामदेव्योक्तदेवत्ये जगत्यौ शंनो वसिष्ठो विराजं तेनो नाभानेदिष्ठो जगतीं वाजेवाजे वसिष्ठस्त्रिष्टुभमामा प्राजापत्यां वाजिनोक्ताः ॥३४॥ आपय आयुर्यज्ञेन प्राजापत्यानि प्रजापतेः स्वरमृता यजमानोस्मे दिशो नमः पृथिवीयमासंदीयं तासुन्वन्वाजस्य प्राजापत्यं तृचं त्रैष्टुभᳪं᳭ सोमं तृचं तापस आद्या वैश्वदेव्यनिरुक्तानुष्टुब्द्वितीया लिङ्गोक्तदेवता तृतीयाग्नेयी प्रनो लिङ्गोक्ता गायत्री सरस्वत्यै सुन्वन्नग्निः सप्तदश लिङ्गोक्तदेवतानि ॥३५॥ अथ राजसूयो वरुणस्यार्षमेष ते पार्थिवमग्निनेत्रेभ्यो देवार्षाण्याध्यायाद्दशाद्यानि दैवान्यग्ने सहस्व देवश्रवा देववातश्च भारतावाग्नेयीमनुष्टुभमुपाᳪं᳭शोस्त्रीणि रक्षोघ्नानि सविता द्वे यजमानः ॥ ३६॥ इति० संहितायां नवमोध्यायः ॥ ९ ॥

अपोदेवा आपत्रिष्टुप् वृष्ण ऊर्मिर्लिङ्गोक्तानि मधुमतीरनाधृष्टा आपः सोमस्य चर्माग्नये लिङ्गोक्तान्यनिभृष्टमापसधमादो वारुणी त्रिष्टुप् क्षरस्य चतुर्णां तार्प्यपाण्ड्वाधीवासोष्णीषाणीन्द्रस्य धनुर्मित्रस्य बाहू त्वयायं धनुर्द्वातिसृणामिषव आविः प्राजापत्यं पराणि लिङ्गोक्तानि ॥३७॥ अवेष्टा मृत्युनाशनं प्राचीं पञ्चानां यजमानः प्रत्यस्तमासुरं मृत्योरोजोऽसि रुक्मो हिरण्यरूपौ मैत्रावारुणी त्रिष्टुब्यजुरन्ता सोमस्य सुन्वन्प्रपर्वतस्यापी त्रिष्टुब् विष्णोस्त्रीणि लिङ्गोक्तानि सुन्वन्प्रजापतेन प्राजापत्या त्रिष्टुब्यजुर्मध्योयममुष्यजू रुद्रयद्रौद्रम् ॥३८॥ इन्द्रस्य लिङ्गोक्तानि मा ते संवरणः प्राजापत्य ऐन्द्रीं त्रिष्टुभमग्नये लिङ्गोक्तानि पृथिवि मातर्भूमिर्हᳪं᳭सो वामदेवः सौरीᳪं᳭ सप्रपञ्चपरब्रह्माभिधायिनीमतिजगतीमियच्छतमानावूर्गसि शाखेन्द्रस्य बाहू स्योनास्यासंदी क्षत्रस्याधीवासᳪं᳭ स्योनाᳪं᳭, सुन्वन्निषसाद शुनःशेपो वारुणीं गायत्रीमभिभूरस्यक्षा यजमानो वा ब्रह्मᳪं᳭स्त्वमामन्त्रणानि पञ्च लिङ्गोक्तानीन्द्रस्य स्फ्योऽग्निः पृथुराग्नेयᳪं᳭ स्वाहाकृता अक्षाः सवित्रा लिङ्गोक्तदैवतम् ॥ ३९ ॥ अथ चरकसौत्रामण्यश्विनोरार्षमश्विभ्यां त्रीणि लिङ्गोक्तानि वायुः सौमी गायत्री कुवित्तृचᳪं᳭ सुकीर्तिः काक्षीवत आद्या सौम्यनिरुक्ता त्रिष्टुब्युवमनुष्टुप् पुत्रमिव त्रिष्टुबश्विसरस्वतीन्द्रदेवत्ये अश्विसरस्वतीन्द्रदेवत्ये ॥ ४० ॥ इति० संहितायां दशमोऽध्यायः ॥ १० ॥

इति सर्वानुक्रमणिकायां प्रथमोऽध्यायः ॥ १॥

अथाग्निं प्रजापतिरपश्यत्साध्या वापश्यन्सोऽग्निः पञ्चचितिकः प्रथमा चितिः प्रजापतेर्द्वितीया देवानां तृतीयेन्द्राग्न्योविश्वकर्मणश्चतुर्थ्यृषीणां पञ्चमी परमेष्ठिनोऽथ प्रतिकर्मदर्शिनो युञ्जानोष्टौ सावित्राणि सवितापश्यदाद्या तृतीया चानुष्टुप् चतुर्थीषष्ठ्यौ जगत्यौ द्वितीया गायत्री पञ्चमी त्रिष्टुबिमं नो यजुरन्ता गायत्र्यनवसानाददेऽभ्रिर्हस्तेऽनुष्टुब्यजुरन्ता ॥ १॥ प्रतूर्तं नाभानेदिष्ठ आश्वीमास्तारपङ्क्तिर्युञ्जाथां कुश्रिर्गार्दभीं गायत्रीं योगेयोगे शुनःशेप आजीं प्रतूर्वस्त्रिष्टुब्विराड्रूपा यजुर्गर्भोरुयजुः पृथिव्यास्त्रीण्याग्नेयान्यन्वग्निराग्नेयीं त्रिष्टुभं पुरोधस आगत्य मयोभुव आश्वीनमनुष्टुभमाक्रम्यानुष्टुप् द्यौस्ते बृहत्युत्क्राम विराडुदक्रमीत्त्रिष्टुबात्वा द्वे गृत्समद आग्नेय्यौ परिसोमको गायत्रीं परित्वा पायुरानुष्टुभं त्वमग्ने गृत्समदो जगतीम् ॥२॥ पृथिव्या आग्नेयमपां पुष्करपर्णᳪं᳭ स्वराट्पङ्क्तिः शर्म द्वे अनुष्टुभौ कृष्णाजिनपुष्करपर्णे पुरीष्योऽग्निस्त्वामग्ने तृचं भारद्वाज आग्नेयं गायत्रᳪं᳭ सीद होतर्देवश्रवा देववातश्च त्रिष्टुभं निहोता गृत्समदः सᳪं᳭सीदस्व प्रस्कण्वो बृहतीम् ॥ ३ ॥ अपोदेवीः सिन्धुद्वीप आपीं न्यङ्कुसारिणीᳪं᳭संते त्रिष्टुप्पार्थिवोऽर्धो वायव्योऽर्धः सुजातोऽनुष्टुबाग्नेय्युदुतिष्ठ विश्वमनाः पथ्याबृहतीमूर्ध्वः कण्व उपरिष्टाद्बृहतीᳪं᳭, सजातस्त्रितस्त्रिष्टुभᳪं᳭, स्थिरो रासभेय्यनुष्टुबुष्णिग्वा शिवोभवाजी पथ्याबृहती प्रैतु लिङ्गोक्तमहापङ्क्तिस्त्र्यवसानाग्नेगायव्येकपदाग्नेय्यं तमग्निमाग्नेये ओषधयस्त्रिष्टुबनुष्टुभावोषधिदेवत्ये व्यस्यन्नाग्नेयोऽर्धर्चो विपाजसोत्कीलः कात्य आग्नेयीं त्रिष्टुभम् ॥ ४ ॥ आपो ह्यापᳪं᳭, सिन्धुद्वीपस्तृचं गायत्रं मित्र उपरिष्टाद्बृहती मैत्री रुद्रा अनुष्टुब् रौद्री सᳪं᳭सृष्टां द्वे सिनीवालीदेवत्ये उखामादित्या मखस्य मृत्पिण्डो वसवस्त्वा लिङ्गोक्तानि सर्वत्रादित्यै रास्नादितिरौषं कृत्वायादित्योष्णिगदितिरावटं देवानां पञ्चौखानि मित्रस्य विश्वामित्रो मैत्रीं देवस्त्वा सावित्री बृहत्युत्थाय पूर्वोर्धर्च औष उत्तरो मैत्रः ॥५॥ आकूतिं लिङ्गोक्तान्यौद्ग्रभणानि मास्वौख्यौ गायत्रीत्रिष्टुभावग्निश्च पाद आग्नेयो द्र्वंनः सोमाहुतिराग्नेयीं गायत्रीं परस्या विरूप आङ्गिरसः परमस्या आरुणिरनुष्टुभं यदग्ने द्वे जमदग्निरहरहर्नाभानेदिष्ठस्त्रिष्टुभौ याः सेना अनुष्टुभः सर्वा आग्नेय्योऽन्त्योपरिष्टाद्बृहती ॥ इति० संहितायां एकादशोऽध्यायः ॥ ११॥

दृशानो वत्सप्री त्रिष्टुभᳪं᳭ रौक्मीं नक्तोषासा कुत्स आग्नेयीं विश्वा श्यावाश्वः सावित्रीं जगतीᳪं᳭, सुपर्णः कृतिश्चतुरवसाना गारुत्मती विषघ्नी विष्णोर्लिङ्गोक्ता न्यक्रन्दद्वत्सप्रीराग्नेयीं त्रिष्टुभमग्न ऊर्ध्वबृहती पुनर्गायत्र्यावात्वाध्रुवोऽनुष्टुभमुदुत्तमᳪं᳭ शुनःशेपो वारुणीं त्रिष्टुभमग्रे त्रित आग्नेयीᳪं᳭ हᳪं᳭स उक्ता जगतीह यजुरन्तान्ते बृहद्यजुः सीदत्वमाग्नेयी त्रिष्टुभमन्तरग्नेऽनुष्टुभौ ॥ ७ ॥ दिवस्पर्याग्नेयं त्रैष्टुभं द्वादशर्चं वत्सप्रीर्भालन्दनः समिधाग्निं विरूपाक्ष आङ्गिरस आग्नेयं गायत्रमुदुत्वा तापसोऽनुष्टुभं प्रेदनुष्टुप्प्रप्रायमाग्नेयीं वसिष्ठस्य त्रिष्टुभमापोदेवीराप्यस्वग्ने विरूप आग्नेयीं गायत्री गर्भो असि तिस्रोऽनुष्टुभो बोधा मे दीर्घतमास्त्रिष्टुभᳪं᳭ सबोधि सोमाहुतिराग्नेयीं यजुरन्ता गायत्री यजुर्वैश्वकर्मणं पुनस्त्वा त्रिष्टुबाग्नेयी ॥ ८ ॥ अपेत लिङ्गोक्तबहुदेवत्या संज्ञानमूषदेवत्यमग्नेः सिकताश्चितः परिश्रितोऽयᳪं᳭सः पञ्चर्चमाग्नेयं त्रैष्टुभं विश्वामित्रश्चतुर्थ्यनुष्टुबयं तेऽनुष्टुप्चिदैष्टके लोकं लिङ्गोतानुष्टुप् ता अस्यापीन्द्रियमेध ऐन्द्र इन्द्रं जेतामाधुच्छन्दस ऐन्द्रीᳪं᳭ समितंचतस्रो द्व्यग्निदेवत्या उष्णिगुपरिष्टाद्बृहत्युष्णिक्पङ्क्तयो मातेवोखास्तुतिस्त्रिष्टुप् ॥ ९॥ असुन्वन्तं नैर्ऋतं तृचं त्रैष्टुभं यं ते यजमानदेवत्या नमोविराड्भूतिदेवत्येकपदा निवेशन आग्नेयीं त्रिष्टुभं विश्वावसुर्देवगन्धर्वः सीरा द्वे सीरदेवत्ये बुधः सौम्यो गायत्रीत्रिष्टुभौ शुनं चतस्रः सीतादेवत्याः कुमारहरितो द्वे त्रिष्टुभौ तृतीयापङ्क्तिश्चतुर्थ्यनुष्टुब्विमुच्यध्वमानडुही गायत्री सजूर्लिङ्गोक्तदेवतम् ॥१०॥ या ओषधीः सप्तविᳪं᳭शतिरनुष्टुभ ओषधिस्तुतिमाथर्वणो भिषङ्मुञ्चन्तु बन्धुर्द्वादशानारभ्याधीतामामाहिरण्यगर्भः कायीं त्रिष्टुभमभ्यावर्तस्वोष्णिगाग्नेय्यग्नेयद्गायत्रीयं त्रिष्टुबग्न्नेतव पावकोऽग्निराग्नेयᳪं᳭ षडृचं प्रथमे विष्टारपङ्क्ती तिस्रः सतोबृहत्य उपरिष्टाज्ज्योतिः षष्ठ्याप्यायस्वगोतमः सोमो गायत्री त्रिष्टुबुष्णिह आतेऽवत्सारस्तुभ्यंता द्वे विरूपस्तिस्रो गायत्र्य आग्नेय्यः॥ ११ ॥ इति० संहितायां द्वादशोऽध्यायः॥१२॥ मयिककुबाग्नेयी ब्रह्मादित्यदेवत्या त्रिष्टुब्भिरण्यगर्भः कायीं त्रिष्टुभं द्रप्सो देवश्रवा आदित्यो नमोस्तु सार्पं तृचमानुष्टुभं कृणुष्वपञ्चप्रतिसरा राक्षोघ्ना देवानामार्षᳪं᳭ सर्वास्त्रिष्टुभ आग्नेयीर्वामदेवश्चापश्यदग्नेष्ट्वा यजुराग्नेयमिन्द्रस्यैन्द्रं भुवस्त्रिशिरा आग्नेयीं त्रिष्टुभम् ॥ १२ ॥ ध्रुवास्यूर्ध्वबृहती प्रजापतिरनुष्टुप् भूरसि प्रस्तारपङ्क्तिरसाᳪं᳭ स्वयमातृण्णादेवता विश्वस्मा इत्येतस्य च यजुषः काण्डात्काण्डादानुष्टुभं द्व्यृचमग्निना दृष्टं दूर्वेष्टुकादेवतं यास्त आग्नेयं द्व्यृचमानुष्टुभमिन्द्राग्निभ्यां दृष्टं विराडयं लोकः स्वराडसौ लोकः प्रजापतिष्ट्वा विश्वज्योतिषं मधुश्चतुर्दैवतमषाढासि सवितापश्यद्देवावापश्यन्निष्टकादैवतम् ॥ १३ ॥ मधुवाता वैश्वदेवं तृचं गायत्रं गोतमोपां गम्भन्पङ्क्तिस्त्रीन्समुद्रांस्त्रिष्टुप्कौर्म्यं द्व्यृचं ध्रुवासि त्रिष्टुबिपेबृहत्यौरवं द्व्यृचमग्ने युक्ष्वाग्नेयं द्व्यृचं गायत्रमाद्यायां भरद्वाजो द्वितीयस्यां विरूपः सम्यक्त्रिष्टुब्लिङ्गोक्तदेवतर्चेत्वाबृहत्यग्निर्ज्योतिषोष्णिगादित्यं गर्भं पञ्चर्चमाग्नेयं त्रैष्टुभमिमंमा पञ्चर्चमाग्नेयं त्रैष्टुभमेव द्वेद्वेचाते यजुषी त्वंयविष्ठोशनाः काव्य आग्नेयीमनिरुक्तां गायत्रीमपात्वा विᳪं᳭शतिरैष्टकान्ययं पुरः पञ्चाशत्प्राणभृद्देवत्यानि लोकं ता इन्द्रं तिस्रः प्रतीकोक्ता एवᳪं᳭ सर्वत्र ॥१४॥ इति० संहितायां त्रयोदशोऽध्यायः॥१३॥

अथ द्वितीयाचितिः । ध्रुवक्षितिः पञ्चाश्विन्यस्तासां प्रथमा विराट्चतस्रस्त्रिष्टुभो यजुरन्ताः शुक्रश्चर्तव्यᳪं᳭, सजूः पञ्च विश्वेषां देवानामार्षं ता एव देवताः प्राणं मे पञ्च वायव्यान्यपः पञ्चापानि मूर्धावय एकोनविᳪं᳭शतिर्लिङ्गोक्तदेवतानि ॥१५॥ अथ तृतीयेन्द्राग्नी अनुष्टुप् पूर्वोर्धर्च ऐन्द्राग्न उत्तरः , स्वयमातृण्णादेवतो विश्वकर्मा वायव्यᳪं᳭ राज्ञ्यसि पञ्च दिग्देवत्यानि विश्वकर्मा वायव्यं नभश्चेषश्चर्तव्ये आयुर्मे दश लिङ्गोक्तदेवतानि माच्छन्दश्च षट्त्रिᳪं᳭शन्मूर्धानुष्टुब्यत्त्री परोष्णिक्चतुर्दश यजूᳪं᳭षि प्राणदेवत्यानि ॥१६॥ अथ चतुर्थ्याशुरष्टादशाग्नेर्दशैकया सप्तदश सर्वाणि लिङ्गोक्तदेवतानि सहश्चर्तव्यम् ॥ १७ ॥ इति० संहितायां चतुर्दशोऽध्यायः ॥ १४ ॥

अथ पञ्चम्यग्नेजातानाग्नेय्यौ त्रिष्टुभौ षोडशीचतुश्चत्वारिᳪं᳭शल्लिङ्गोक्ते अग्नेस्त्रिष्टुप् एवश्चत्वारिᳪं᳭शद्रश्मिनैकान्नत्रिᳪं᳭शद्राज्ञ्यसि पञ्चायंपुरः पञ्चैतानि सर्वाणि लिङ्गोक्तदेवतानि ॥ १८ ॥ अग्निर्मूर्धाग्नेयोऽनुवाकः प्रथमस्तृचो गायत्रो द्वितीयस्त्रैष्टुभो भुवस्तृतीयो जागतोऽयमिह चतुर्थ आनुष्टुभः सखायः सं पञ्चमः प्रगाथ एनावस्तत्र पूर्वा बृहती सतोबृहत्युत्तरा ताभ्यां तिस्रो बृहत्यः संपादिताः षष्ठ औष्णिहोऽग्नेवाजस्य गोतमः सप्तमः पुनः ककुभः प्रगाथो भद्रो नस्तत्र पूर्वा ककुप्सतोबृहत्युत्तराभ्यां तिस्रः ककुभः संपादिता अष्टमः पाङ्क्तोऽग्निं तं पदपाङ्क्तो नवमोऽग्ने तमग्निᳪं᳭ होतारतिछन्दा स्त्र्यवसानाग्नेत्वं द्वैपदस्तृचः ॥ १९ ॥ अयमग्निर्विरूपोऽबोधिबुधगविष्ठिरो जनस्य सुतंभरः सखाय इषः सᳪं᳭समित्संवननस्त्वां प्रस्कण्व एनावो वसिष्ठोऽग्नेवाजस्य गोतमो भद्रो नः सौभरिरग्निं तं कुमारवृषौ येनाष्टावाग्नेय्यः षट्त्रिष्टुभो द्वे अनुष्टुभौ तदश्चर्तव्यं परमेष्ठी सौरं प्रोथदश्वी वसिष्ठस्त्रिष्टुभमाग्नेयीमायोर्द्वे स्वयमातृण्णदेवत्ये सहस्रस्य पञ्चाग्नेयानि ॥२०॥
इति० संहितायां पञ्चदशोऽध्यायः ॥ १५ ॥

रौद्रोध्यायः । परमेष्ठिन आप देवानां वा प्रजापतेर्वाद्योऽनुवाकः षोडशर्च एकरुद्रदेवत्यः प्रथमा गायत्री तिस्रोऽनुष्टुभस्तिस्रः पङ्क्तयः सप्तानुष्टुभो द्वे जगत्यौ मानो द्वे कुत्सः ॥२१॥ अन्त्यानुवाके सप्तैकरुद्रस्तुतिराद्योपरिष्टाद्बृहती द्वितीया जगती कुत्सस्य तृतीयानुष्टुब्द्वे त्रिष्टुभौ द्वे अनुष्टुभावसंख्याता बहुरुद्रदेवत्या दशानुष्टुभो मन्त्रा अवतानसंज्ञकास्ततोऽन्त्यानि त्रीणि यजूᳪं᳭षि बहुरुद्रदेवत्यानि प्रत्यवरोहसंज्ञका मन्त्राः ॥२२॥ मध्ये सर्वाणि यजूᳪं᳭षि हिरण्यबाहव इति तिस्रोऽशीतयो रुद्राणां तेषामुभयतोनमस्कारा अन्येऽन्यतरतोनमस्कारा अपरे जातानामरुद्राः सभाभ्य इत्यादयो नमो वः किरिकेभ्य इत्यग्निवायुसूर्यहृदयभूताः पञ्च व्याहृतयो बहुरुद्रदेवत्याः ॥२३॥ इति० संहितायां षोडशोऽध्यायः ॥१६॥

अश्मन्मारुतमश्मᳪं᳭स्तेऽश्मा मय्याशीर्यं द्विष्म आभिचारिकमिमाम आग्नेयमृतवो बृहती पङ्क्तिर्वा समुद्रस्य द्वे गायत्र्यावुपज्मं जगती त्रिष्टुब्वापामिदं बृहत्यग्ने पावक व सूयवः स नो मेधातिथिराग्नेय्यौ गायत्र्यौ पावकया जगतीं भरद्वाजो नमस्ते बृहतीमाग्नेयीमृषिसुता लोपामुद्रा ॥ २४ ॥ नृषदे पञ्चाग्नेयानि ये देवा जगत्यौ प्राणदेवत्ये प्राणदा बृहती पङ्क्तिर्वाग्नेय्याग्निस्तिग्मेनाग्नेयीं गायत्रीं भरद्वाजो य इमा वैश्वकर्मणीस्त्रिष्टुभो विश्वकर्मा भौवनः ॥ २५॥ आशुरैन्द्रीर्द्वादश त्रिष्टुभोऽप्रतिरथोऽवसृष्टानुष्टुबिषुदेवत्या प्रेतायोद्धृन्त्स्तौत्यनुष्टुबसौ या मारुती त्रिष्टुब्यत्र लिङ्गोक्तदेवता पङ्क्तिर्मर्माणि लिङ्गोक्तैव त्रिष्टुबुदेनं तिस्रोऽनुष्टुभ आद्याग्नेयी द्वितीयैन्द्री तृतीया लिङ्गोक्तदेवता पञ्चदिशः पञ्चयज्ञाग्निसाधनवादिन्य आद्ये द्वे त्रिष्टुभौ तृतीया पङ्क्तिर्बृहती वा चतुर्थी बृहत्येवान्त्यात्रिष्टुब्विमानो द्वे आदित्यदेवत्ये आद्या विश्वावसोर्द्वितीयाऽप्रतिरथस्य देवहूर्विधृतिरनुष्टुब्यज्ञदेवत्या वाजस्यैन्द्र्यनुष्टुबुद्ग्राभमैन्द्राग्न्यनुष्टुबेव ॥ २६ ॥ क्रमध्वं पञ्चाग्नेय्य आद्यानुष्टुप् ततस्त्रिष्टुप् ततो बृहतीपिपीलिकमध्या ततोऽनुष्टुप्त्रिष्टुबन्त्याग्नेसहस्राक्ष विराडाग्नेयी सुपर्णो द्वे पङ्क्तित्रिष्टुभौ ताᳪं᳭सवितुः सावित्रीं त्रिष्टुभं पुरस्ताज्ज्योतिषं कण्वो ददर्श विधेमाग्नेयीं गृत्समदस्त्रिष्टुभमस्यास्त्रिस्थानोऽग्निर्देवता प्रेद्धो विराडाग्नेयी वसिष्ठस्य चित्तिं वैश्वकर्मण्यतिजगती सप्तत आग्नेयीत्रिष्टुप्सप्तऋषीणाम् ॥ २७ ॥ शुक्रज्योतिः षण्मारुत्य आद्या चतुर्थी चोष्णिग्द्वितीया तृतीया च गायत्री पञ्चमी जगती षष्ठी गायत्र्युष्णिग्वेन्द्रं दैवीर्मारुतमिमं त्रयोदशर्च आग्नेयस्त्रैष्टुभोऽनुवाको यज्ञस्तुतिर्घृतस्तुतिर्वा वसोर्धाराभिवादिनी वा घृतं मिमिक्षे गृत्समदः समुद्राद्वामदेवश्चत्वारिशृङ्गाः यज्ञपुरुषदेवत्य ऋषभो मन्त्रः ॥ २८ ॥ इति संहितायां सप्तदशोऽध्यायः ॥ १७ ॥

वाजश्चमे देवानामार्षमेतैर्यजुर्भिर्यजमानोऽग्नेः कामान्याचते वाजप्रसवीयᳪं᳭ सप्तर्चं विश्वेत्रैष्टुभं वैश्वदेवं लुशोधानाको वाजोनस्तिस्रोऽन्नदेवत्या आद्यानुष्टुब्द्वे त्रिष्टुभौ संमा विराजावाग्नेय्यो सरस्वत्यै लिङ्गोक्तदेवतम् ॥ २९॥ ऋताषाङ्गन्धर्वाप्सरसः सनः प्राजापत्या प्रस्तारपङ्क्तिः समुद्रोऽसि वायव्यानि त्रीणि रुचमाग्नेय्यनुष्टुप्तत्त्वा वारुणीं त्रिष्टुभᳪं᳭ शुनःशेपः स्वर्णाग्नेयानि पञ्चाग्निं युनज्म्याग्नेय्यस्तिस्र आद्ये द्वे त्रिष्टुभौ पङ्क्तिस्तृतीया दिवो द्वे आग्नेय्यौ परोष्णिङ्महापदपङ्क्ती इष्टो यज्ञो द्व्यृचं यजमानाग्निदेवत्यं गालव आद्योष्णिग्द्वितीया गायत्री ॥ ३०॥ यदाकूतादष्टर्चमाग्नेयं विश्वकर्मणस्तृतीया दैवी वाद्या जगती तिस्रस्त्रिष्टुभश्चतस्रोऽनुष्टुभोऽग्निरस्म्यद्वैतवादिनीं त्रिष्टुभं देवश्रवा देववातश्च भारतावृचो यजुर्ये अग्नयोऽनुष्टुबाग्नेयी ॥ ३१ ॥ वार्त्रहत्याय सप्तमिन्द्रोऽपश्यदाद्ये द्वे वार्त्रघ्न्यौ गायत्रीत्रिष्टुभौ विश्वामित्रस्य च विनोऽनुष्टुम्मृगो न त्रिष्टुप्प्रथमाᳪं᳭शासो भारद्वाजो द्वितीयां जय ऐन्द्रो द्वे वैश्वानर्यौ गायत्रीत्रिष्टुभौ पृष्ठोदिवि कुत्सस्य चाश्याम द्वे त्रिष्टुभावाग्नेय्यौ कामवत्यावश्याम भरद्वाजस्य च वयं ते कात्यस्योत्कीलस्य च धामच्छदनुष्टुब् वैश्वदेवी ॥३२॥ इति० संहितायामष्टादशोऽध्यायः ॥ १८॥

अथ सौत्रामणी प्रजापतेरार्षमश्विनोः सरस्वत्याश्च स्वाद्वींत्वानुष्टुप्सुरासोमदेवत्या सोमोऽसि चत्वारि सौराणि परितो भारद्वाजः सौमीं बृहतीं वायोस्तृचो गायत्रः सौम्य आभूतेर्ब्रह्म क्षत्रं त्रिष्टुप्सुरासोमदेवत्या नाना हि जगती सुरासोमदेवत्या तेजोसि पयोदेवत्यान्योजोसि सुरादेवत्यानि याव्याघ्रᳪं᳭ हैमवर्चेरनुष्टुब्विषूचिकास्तुतिर्यदा पिपेषाग्नेयी बृहती संपृचस्थ पयोग्रहा विप्रचस्थ सुराग्रहा देवा यज्ञं ब्राह्मणानुवाको विᳪं᳭शतिरनुष्टुभः सोमसंपत् ॥ ३३॥ सुरावन्तं चतुर्ऋचं त्रैष्टुभमश्विसरस्वतीन्द्रदेवत्यं पितृभ्यः सप्त पित्र्याणि पुनन्तुमा नवर्चं पवमानमाद्ये द्वे पित्र्ये अनुष्टुभौ प्रजापतिस्तृतीया वैखानस आग्नेयीं गायत्रीं चतुर्थी लिङ्गोक्तदेवतानुष्टुप्पञ्चम्याग्नेयी गायत्री षष्ठ्याग्नेयी ब्राह्मी च गायत्री ब्राह्मस्तृतीयः पादः सौमी सावित्र्यष्टमी नवमी त्रिष्टुब्वैश्वदेवी ये समाना अनुष्टुभौ पित्र्याद्या द्वितीया यजमानाशीर्द्वे सृती त्रिष्टुब्देवयानपितृयाणौ पन्थानौ ब्रवीतीदᳪं᳭हविस्त्र्यवसानाष्टिर्यजमानाशीः ॥ ३४ ॥ उदीरतां त्रयोदशर्चं पैत्र्यं त्रैष्टुभᳪं᳭, शङ्ख एकादशी तु जगत्याच्याजानु दशर्चोऽनुवाको नव पित्र्यो दशम्यैन्द्री गायत्री तृतीयाचतुर्थीनवम्योऽनुष्टुभस्त्रिष्टुभ इतराः सोमो राजाष्टर्चमश्विसरस्वतीन्द्रा अपश्यन्नाद्यास्तिस्रो महाबृहत्य उपान्त्या च चतुर्थ्यन्ते अतिजगत्यौ शेषे अतिशक्वर्यौ त्र्यवसाने सीसेन तन्त्रमश्विसरस्वतीन्द्रदेवत्याः षोडश जगत्यः ॥३५॥ इति० संहितायामेकोनविंशोऽध्यायः ॥ १९॥

क्षत्रस्य योनिर्द्विपदा गायत्री आसन्दीदेवतका मात्वा कृष्णाजिनं मृत्योरुक्मावश्विनोर्भैषज्येन लिङ्गोक्तदेवतानि त्रीणि कोऽसि प्राजापत्या गायत्री शिरो मे पञ्चर्चमिन्द्रशरीरावयवदेवताकं तृतीया गायत्र्यन्त्या महापङ्क्तिस्त्र्यवसानानुष्टुभोन्त्याः प्रतिक्षत्रे वैश्वदेवं त्रया देवा दैवीपङ्क्तिस्त्र्यवसाना प्रथमा द्वितीयैर्वैश्वदेवमाशीर्लिङ्गं लोमान्यनुष्टुब्लिङ्गोक्तदेवता ॥३६ ॥ यद्देवास्तिस्रोऽग्निवायुसूर्यदेवत्या अनुष्टुभः कूष्माण्डीर्यद्ग्रामे लिङ्गोक्तदेवतᳪं᳭ समुद्रेते द्विपदा विराडापी द्रुपदादिवानुष्टुबाप्युद्वयᳪं᳭ सौर्यनुष्टप्प्रस्कण्वस्याप आद्याग्नेयी पङ्क्तिरेधोसि समिद्देवत्ये यजुषी समाववर्त्यनिरुक्ता गायत्री वैश्वानरज्योतिर्यजुरभ्यादध्याग्नेयं तृचमानुष्टुभमाश्वतराश्विरᳪं᳭शुना सौर्यनुष्टुप् सिञ्चन्ति परि सौर्यैन्द्री चानुष्टुब्धानावन्तमैन्द्री गायत्री विश्वामित्रस्य च बृहदिन्द्राय बृहती नृमेधपुरुमेधयोरध्वर्यो गायत्री ॥ ३७ ॥ यो भूतानामात्मप्रवादा पङ्क्तिर्नारायणीया कौण्डिन्यस्य प्राणपा मे द्वे अनुष्टुबुपरिष्टाद्बृहत्यौ लिङ्गोक्तदेवते समिद्ध इन्द्र एकादशाप्रीत्रिष्टुभ आङ्गिरस इध्मस्तनूनपान्नराशᳪं᳭स इडो बर्हिर्द्वार उषासानक्ता दैव्या होतारा तिस्रो देवीस्त्वष्टा वनस्पतिः स्वाहाकृतय इत्येता आप्रीदेवता आयातु सप्त त्रिष्टुभ ऐन्द्र्य आमन्द्रैर्बृहत्यायातु वामदेवस्त्रातारं गर्ग आमन्द्रैर्विश्वामित्र एवेद्वसिष्ठः ॥ ३८॥ अथ होत्रं त्रिपशोः समिद्धो अग्निराप्रीर्द्वादश विदर्भिरश्विसरस्वतीन्द्रदेवत्या अनुष्टुभोऽश्विना हविस्तिस्रोऽनुष्टभ एकैकाश्विसरस्वतीन्द्रदेवत्या य इन्द्र सवितृवरुणदेवत्यास्तिस्रोऽनुष्टुभोऽविश्वना गोभिस्तिस्रोऽनुष्टुभो युवं पुत्रमिवानुष्टुप्त्रिष्टुभौ यस्मिन्नश्वास आग्नेय्यौ जगतीत्रिष्टुभावश्विनातेजसैकादर्चᳪं᳭ शस्त्रं गोमद्गृत्समदस्तृचमाश्विनं गायत्रं पावका नो मधुच्छन्दाः सारस्वतमिन्द्रायाह्यैन्द्रं मधुच्छन्दा एवानुक्ततमानुष्टुभमश्विसरस्वतीन्द्रदेवत्यम् ॥ ३९॥ इति० संहितायां विंशोऽध्यायः ॥ २० ॥

इमंमे गायत्रीत्रिष्टुभौ वारुण्यौ शुनःशेपस्त्वंनस्त्रिष्टुभावाग्निवारुण्यौ वामदेवो महीमूषु त्रिष्टुबादित्या सुत्रामाणं गयःप्लातः सुनावत्रैस्वर्ग्या गायत्र्यानो मैत्रावरुणीं गायत्रीं विश्वामित्रः प्रबाहवा वसिष्ठस्त्रिष्टुभᳪं᳭ समिद्धो अग्निरेकादशाप्रमानुष्टुभᳪं᳭ स्वस्त्यात्रेयस्यार्षं वयोधा इन्द्रो देवता वसन्तेन ऋतुना षडृचमानुष्टुभं लिङ्गोक्तदेवतᳪं᳭ होता यक्षद्द्वादशाप्रीः प्रैषा अश्विसरस्वतीन्द्रदेवत्या अश्विनौ छागस्य सप्त लिङ्गोक्तदेवताः प्रैषा वनस्पतिमभियूपोऽग्निᳪं᳭स्विष्टकृदग्निर्देवं बर्हिरेकादशानुयाजप्रैषा अश्विसरस्वतीन्द्रदेवत्या अग्निमद्य सूक्तवाकप्रैषो लिङ्गोक्तदेवतो लिङ्गोक्तदेवतः ॥ ४० ॥ इति० संहितायामेकविंशोऽध्यायः ॥२१॥
इति सर्वानुक्रमणिकायां द्वितीयोऽध्यायः ॥ २॥

ॐ अथाश्वमेधश्चतुरोऽध्यायान्प्रजापतिरपश्यत्तेजोसि सौवर्णं निष्कमिमामगृभ्णन्संवत्सरो यज्ञपुरुषस्त्रिष्टुभमभिधा लिङ्गोक्तानि यो अर्वन्तं गायत्र्यर्धेनाश्वस्तुतिः परोर्धे लिङ्गोक्तोऽग्नये लिङ्गोक्तान्येव हिंकारायेत्यश्वस्यैकान्नपञ्चाशञ्चेष्टितानि हिरण्यपाणिं पञ्चर्चᳪं᳭ सावित्रं गायत्रमाद्या मेधातिथिरग्निᳪं᳭स्तोमेनाग्नेयं तृचं गायत्रᳪं᳭ सुतंभरो विश्वामित्रो विरूपो यथासंख्यमजीजनो हि पावमानी कृतिं पिपीलिकमध्यामनुष्टुभं त्र्यरुणत्रसदस्यू विभूरश्वदेवतं देवा दैवमिहरन्तिराग्नेयानि चत्वारि कायौद्ग्रभणानि लिङ्गोक्तान्याब्रह्म लिङ्गोक्तान्येवाध्यायात् ॥ १ ॥ इति० संहितायां द्वाविंशोऽध्यायः ॥२२॥

प्रजापतये प्राजापत्यं यस्ते देवं यः प्राणतस्त्रिष्टुप् कायी हिरण्यगर्भस्य युञ्जन्ति मधुच्छन्दा आदित्यदेवत्यां गायत्रीं युञ्जन्त्यस्याश्वस्तुतिर्यद्वातो बृहतीमौ वसवस्त्वा लिङ्गोक्तानि लाजी २ नश्वदेवत्यं कःस्विच्चतस्रोऽनुष्टुभः प्रश्नप्रतिप्रश्नभूतब्रह्मोद्ये होतुर्ब्रह्मणश्च वायुष्ट्वा लिङ्गोक्तानि सᳪं᳭शितस्तिस्रोऽश्वदेवत्या अनुष्टुब्विराट्त्रिष्टुभोऽग्निः पशुराश्वानि त्रीण्यम्बेनुष्टुबश्वस्तुतिर्गणानां त्वा चत्वारि लिङ्गोक्तानि ॥३॥ उत्सक्थ्या गायत्र्याश्वी एकादशर्चमानुष्टुभं द्वितीया तूपरिष्टाद्बृहत्यध्वर्य्वादीनां कुमार्यादिभिरश्लीलभाषणं ता एव देवता दधिक्राव्णो दधिक्रावा वामदेव्यः सुरभिमतीमनुष्टुभमाश्वीं गायत्रीᳪं᳭षडृचमाश्वमुष्णिगाद्याश्चतस्रोऽनुष्टुभोन्त्यात्रिष्टुप् कस्त्वा षडृचमाश्वमाद्या गायत्री पञ्चानुष्टुभः कःस्विदष्टादशर्चं ब्रह्मोद्यᳪं᳭ होत्रादीनां प्रश्नप्रतिप्रश्नभूतमाद्याश्चतस्रोऽनुष्टुभः कास्विदाद्याश्चतस्रश्चान्त्या दश त्रिष्टुभः सुभूरनुष्टुब्लिङ्गोक्तदेवता होतायक्षत्प्राजापत्यः प्रैषः प्रजापतेर्हिरण्यगर्भः प्राजापत्या त्रैष्टुभम् ॥४॥ इति० संहितायां त्रयोविंशोऽध्यायः ॥ २३ ॥

अश्वस्तूपर इत्यादयः पशवोऽध्याये नोक्ता देवता वा पर्यङ्ग्यास्तथा रोहितादयो गुणयुक्ता आरण्याश्च कपिञ्जलादय आध्यायाच्छादं दद्भिरित्यादित्वगित्येतदन्तं द्रव्यदैवतमुक्तमश्वस्तूपरो ब्राह्मणोऽध्यायः ॥ ४ ॥ इति० संहितायां चतुर्विंशोऽध्यायः ॥ २४ ॥

शादं दद्भिस्त्वचान्तश्च जुम्बकाय वारुणीं द्विपदां मुण्डिभ ओदन्य एषा चाघनाशन्यन्तर्जले यस्येमे काव्यौ त्रिष्टुभौ हिरण्यगर्भः प्राजापत्य आनो दशर्चं जागतं वैश्वदेवं गोतमः स्वस्तिनो विराट्स्थाना भद्रंकर्णेभिस्तृचं त्रैष्टुभं मानोऽश्वस्तोमीयं दीर्घतमास्त्रैष्टुभं द्वाविᳪं᳭शत्यृचमश्वस्तुतिस्तृतीयाषष्ठ्यौ जगत्याविमानु द्वैपदं वैश्वदेवं तृचं भौवन आप्त्यो वा साधनभौवनो वा ॥५॥ इति० संहितायां पञ्चविंशोऽध्यायः॥२५॥

अग्निश्च सप्त लिङ्गोक्तानि प्रियो देवानां लौगाक्षिरनुष्टुभमनवसानां बृहस्पते गृत्समदो ब्राह्मीं त्रिष्टुभमिन्द्रगोमन्नैन्द्र्यौ गायत्र्यौ रम्याक्षिर्ऋतावानं प्रादुराक्षिर्वैश्वानरीयां वैश्वानरस्य त्रिष्टुभं कुत्सोऽग्निर्ऋषिराग्नेयीं गायत्रीं वसिष्ठभरद्वाजौ महां२ऽइन्द्रो माहेन्द्री वसिष्ठस्तंव ऐन्द्रीं पथ्या
बृहतीं नोधा गोतमो यद्वाहिष्ठं वसूयव आग्नेयीमनुष्टुभमेहि भरद्वाजो गायत्रीमृतवस्ते बृहत्युपह्वरे वत्सो गायत्रीम् ॥ ६ ॥ उच्चा ते गायत्रं तृचᳪं᳭ सौम्यमामहीयवोऽनुवीरैर्मुद्गलो यज्ञपुरुषस्त्रिष्टुभमग्नेपत्नीर्मेधातिथिराग्नेयीं गायत्रीमभियज्ञं द्व्यृचमृतुदैवतं मेधातिथिस्तवायमैन्द्री त्रिष्टुभं विश्वामित्रोऽमेवनो जगतीं गृत्समदः स्वादिष्ठया मधुच्छन्दाः सौम्यावनुक्तानां गायत्रम् ॥ ७ ॥ इति० संहितायां षड्विंशोऽध्यायः ॥ २६ ॥

समास्त्वाग्निकोऽध्यायः प्रजापतेरार्षᳪं᳭, सामिधेन्यो नवाग्नेय्यस्त्रिष्टुभोऽग्निना दृष्टा अग्निर्ऋषिः कर्माङ्गभूतमग्निᳪं᳭ स्तौत्यूर्ध्वा द्वादशर्चमाप्रियमौष्णिहं विषमपदं प्राजापत्यमाग्नेयमग्निरपश्यदग्निर्हि प्रजापतित्वेन संस्तूयते तेन प्राजापत्यम् ॥८॥ पीवो अन्नां द्वे वायव्ये त्रिष्टुभौ वसिष्ठ आपोह द्वे प्राजापत्ये हिरण्यगर्भः प्राजापत्यः प्रयाभिर्द्वे वायव्ये वसिष्ठो नियुत्वान्वायव्याः षड्वायोशुक्रोऽनुष्टुबेकया च त्रिष्टुबन्त्या गायत्र्यो नियुत्वान्वायो गृत्समदो वायो शुक्रः पुरुमीढाजमीढौ तववायो व्यश्व आङ्गिरसोऽभित्वा वसिष्ठ ऐन्द्रं प्रगाथं प्रथमा बृहती द्वितीया सतोबृहती त्वामिदेवᳪं᳭ शंयुर्बार्हस्पत्यः कयान ऐन्द्रं तृचं गायत्रं वामदेवोऽन्त्या तु पादनिचृद्यज्ञा ऊर्जोनपातᳪं᳭ शंयुः पाहि नो गर्भः प्रागाथ एतं तृचं प्रागाथमाग्नेयं द्वे बृहत्यौ तृतीया सतोबृहती संवत्सरोऽस्याग्नेयम् ॥ ९॥ इति० संहितायां सप्तविंशोऽध्यायः ॥ २७ ॥

इन्द्रमिडः सौत्रामणिकोऽध्याय एकादश प्रयाजप्रैषा ऐन्द्रा आप्रीदेवत्या आद्येऽनुवाके देवंबर्हिरनुयाजप्रैषा ऐन्द्रा एकादशैवाग्निमद्येन्द्रः सूक्तवाकप्रैषस्त्वामद्य प्रतीक उभयत्रापि समिधानं महद्वायोधस आप्रिय एकादश प्रयाजप्रैषास्तथैव देवंबर्हिरनुयाजप्रैषा अग्निमद्य वायोधसः सूक्तवाकप्रैषः ॥ १० ॥ इति० संहितायामष्टाविंशोऽध्यायः ॥२८॥

समिद्धो अञ्जनाश्वमेधिकोऽध्याय आद्या आप्रीस्त्रिष्टुभ एकादशाश्वस्तुतिर्बृहदुक्थो वामदेव्यो ददर्शाश्वो वा सामुद्रिर्यदक्रन्दस्त्रयोदशाश्वस्तुतिस्त्रिष्टुभो भार्गवो जमदग्निर्ददर्श दीर्घतमाश्च समिद्धो अद्य द्वादशाप्रीस्त्रिष्टुभो जमदग्निः ॥११॥ केतुं कृण्वन्नाग्नेयीमनिरुक्तां गायत्रीं मधुच्छन्दा जीमूतस्येव पायुर्भारद्वाजः संग्रामाङ्गान्यृक्षोस्तौषीत्सन्नाहं कार्मुकं गुणमार्त्नीतूणं जगत्यर्धेन सारथिमर्धेन रश्मीन्हरीन्रथगोपायितॄन्जगत्या लिङ्गोक्तदेवता द्वाभ्यां त्रिष्टुबनुष्टुब्भ्यामिषुमनुष्टुभा कशां ततो हस्तघ्नं ततस्तृचौ रथदुन्दुभिदेवत्यावैन्द्रोऽर्धर्चोन्त्याः सर्वास्त्रिष्टुभोऽनुक्ता आग्नेय्यः कृष्णग्रीव इत्याद्या एकादशिन्योर्द्वयोः पशुदेवता अग्नये गायत्रायेति दश हविषोवेष्टेर्दैवता ॥१२॥ इति० संहितायामेकोनत्रिंशोऽध्यायः ॥ २९ ॥

देवसवितर्द्वावध्यायौ पुरुषमेधो नारायणः पुरुषो ददर्श विश्वानि देवगायत्रीᳪं᳭ सावित्रीᳪं᳭ श्यावाश्वो विभक्तारं मेधातिथिर्ब्रह्मणे ब्राह्मणमिति द्वे कण्डिके तपसेऽनुवाकश्च ब्राह्मणम् ॥ १३ ॥ इति० संहितायां त्रिंशोऽध्यायः ॥ ३० ॥

सहस्रशीर्षा षोडशर्चमानुष्टुभं त्रिष्टुबन्तं पुरुषो जगद्बीजमन्त्रदेवताद्भ्यः षडृच उत्तरनारायणो मन्त्र आद्यास्तिस्रस्त्रिष्टुभो द्वे अनुष्टुभावन्त्या त्रिष्टुप् ॥ १४ ॥ इति० संहितायामेकत्रिमशोऽध्यायः ॥ ३१ ॥

तदेव सर्वमेधोऽध्याय आत्मदैवतः सप्तमेहनि सर्वहोमे विनियुक्तः सर्वमेधं ब्रह्म स्वयंभ्वैक्षत तदीयं मन्त्रगणं प्रवायुमच्छेत्येतस्मादाद्ये द्वे अनुष्टुभौ नतस्य द्विपदागायत्री हिरण्यगर्भश्चतस्रो मामाहिᳪं᳭सीद्यस्मान्नद्वे एताः प्रतीकचोदिता ब्रह्मयज्ञे ध्येयाः सर्वत्रैवमेपोह चतस्रस्त्रिष्टुभ आपोह यश्चित्प्रतीकचोदिते ॥१५॥ वेनस्तत्पञ्च त्रिष्टुभः सदसस्पतिं तृचेन मेधाकामो मेधां याचते प्रथमा गायत्री लिङ्गोक्तदेवता द्वितीयाग्नेय्यनुष्टुप् तृतीया लिङ्गोक्तदेवतानुष्टुबिदं मे मान्त्रवर्णिक्यनुष्टबेतया देवेभ्यः श्रीकामो याचते श्रियम् ॥ १६ ॥ इति० संहितायां द्वात्रिंशोऽध्यायः ॥ ३२ ॥

अस्याजरासः सप्तदशाग्निष्टुत्याग्निष्टोमिके प्रथमेहनि पुरोरुच आग्नेय्य आद्ये द्वे ऐन्द्रवायवस्यास्याजरासो वत्सप्रीर्हरयो धूमकेतवो विरूपो यजमानो द्वे मैत्रावरुणस्य यजमानो गोतमो द्वे विरूपे शुक्रस्य कुत्सोऽयमिह मन्थिनो वैश्वदेवग्रहग्रहणे त्रीणि शता विश्वामित्र ऐन्द्राग्नस्याग्निर्वृत्राणि भरद्वाजो वैश्वदेवस्य विश्वेभिः सोम्यं मेधातिथिरायन्मरुत्वतीययोर्द्वे आयत्पराशरः शाक्त्योऽग्नेशर्धाऽत्रिदुहिता विश्ववारा त्वाᳪं᳭हि भरद्वाजस्त्वे अग्ने द्वे बृहत्यावादित्यस्य त्वे अग्ने वसिष्ठः श्रुधि प्रस्कण्व आदित्यग्रहग्रहणे विश्वेषामदितिर्वामदेवो गोतमो महो अग्नेः सावित्रस्य लुशो धानाकोऽनुक्तं गायत्रं त्रैष्टुभम् ॥ १७ ॥ इन्द्रस्तुत्युक्थ्ये द्वितीयेहनि ऐन्द्र्यः पुरोरुचो द्वादश प्रतीकचोदिते च द्वे तिस्रश्चापश्चिद्वसिष्ठो गाव उप पुरुमीढाजमीढौ यदद्य वसिष्ठ आसुते सुनीतिरातिष्ठतं विश्वामित्रः प्रवः सुचीको बृहन्नित्रिशोक इन्द्रेहि मधुच्छन्दा इन्द्रो वृत्रविश्वामित्रः कुतस्त्वमगस्त्य आतद्गौरिवीतिः शाक्त्य इमांते कुत्सो जगतीमनुक्तं गायत्रं त्रैष्टुभम् ॥ १८ ॥ सूर्यस्तुत्युक्थ्ये तृतीयेहनि सौर्यश्चतुर्दश पुरोरुचस्तिस्रश्च प्रतीकोक्ता विभ्राड्बृहज्जगतीं विभ्राट्सौर्य उदुत्यं तिस्रः प्रस्कण्व आनोऽगस्त्यो यदद्य श्रुतकक्षः सुतकक्षौ तरणिः प्रस्कण्वस्तत्सूर्यस्य द्वे कुत्सो बण्महाँ२ऽद्वे जमदग्निर्बृतीसतोबृहत्यौ श्रायन्त इव नृमेधो बृहती मत्याद्या (१) देवाः कुत्स आकृष्णेन हिरण्यस्तूप आङ्गिरसोऽनाख्यातᳪं᳭ सौर्यं गायत्रं त्रैष्टुभम् ॥ १९ ॥ वैश्वदेवस्तुतिश्चतुर्थेहनि वैश्वदेव्यः पुरोरुच एकादश षट् च प्रतीकोक्ताः प्रवावृजे वसिष्ठस्त्रिष्टुभमिन्द्रवायू बृहस्पतिं द्वे मेधातिथिरधिनः कुसीदीकाण्वोऽग्नइन्द्रप्रतिक्षत्र इन्द्राग्नी मित्रावरुणा जगतीं काश्यपोऽवत्सारोऽस्मेरुद्राः प्रगाथोऽर्वांचो अद्य कूर्मो गार्त्समदो विश्वे अद्य लुशो धानाको विश्वेदेवाः सुहोत्रो देवेभ्यो हि वामदेवो जगतीमनुक्तं गायत्रं त्रैष्टुभम् ॥२०॥ अथानारभ्याधीतं मन्त्रगणमर्वाक् पितृमेधादादित्ययाज्ञवल्क्यौ ददृशतुः प्रवायुं पञ्चदशर्चः पुरोरुग्गणो द्वे च प्रतीकोक्ते प्रवायुमृजिश्वो मित्रᳪं᳭ हुवे द्वे मधुच्छन्दा मित्रं लिङ्गोक्ता दस्रायुवाकव आश्विनीं विदद्यद्यैन्द्रीं कुशिको नहिस्पशं विश्वामित्रो वैश्वानरीमुग्राविधनि ऐन्द्राग्नीं भरद्वाज उपास्मै सौमीं देवलोसितो वा ये त्वा विश्वामित्रो जनिष्ठा उग्रो गौरिवीतिरातु वामदेवस्तृचमैन्द्रं त्वमिन्दैन्द्र्यौ नृमेधः पथ्याबृहतीसतोबृहत्यौ यज्ञो देवानां कुत्सोऽदब्धेभिः सावित्रीं जगतीं भरद्वाजः ॥२१॥ प्रवीरया पञ्चदशर्चः पुरोरुग्गणो द्वेच प्रतीकोक्ते प्रवीरया वसिष्ठो वायव्याकाव्ययोराजानेषु दक्षस्तिरश्चीनः परमेष्ठीं प्रजापतिर्भाववृत्तं तृचमारोदसीं जगतीं विश्वामित्र उक्थेभिर्वृत्रहन्तमा वसिष्ठ उपनः सुहोत्रो वैश्वदेवीं ब्रह्माणि मेऽगस्त्यो द्वे इन्द्रमरुत्संवादे तदिदाथर्वणो बृहद्दिव इमाउत्वा द्वे बृहत्यौ मेधातिथिरयᳪं᳭ सहस्रं मेधातिथिः सतोबृहतीम् ॥ २२ ॥ आनस्त्रयोदशर्चः पुरोरुग्गणश्चतुर्ऋचं प्रतीकचोदितं चानो वायव्यां जमदग्निरिन्द्रवायू सुसंदृशैन्द्रवायव्या तापस ऋधगित्था मैत्रावरुणीं जमदग्निरायातमाश्विनीं वसिष्ठः प्रैतु वैश्वदेवीं कण्वश्चन्द्रमा अपस्वैन्द्रीमारुती परिणामवादिनीं त्रितआप्त्यो देवंदेवं वो मनुर्वैवस्वतो वैश्वदेवीं दिविपृष्ठो मृध ऐन्द्र इन्द्राग्नी अपात्सुहोत्रो देवासो हि मनुरपाधम द्वे नृमेधोऽस्येन्मेधातिथिर्दशम्येकादश्यन्त्या च सतोबृहत्यः शेषा बृहत्यः शेषा बृहत्यः ॥ २३ ॥ इति० संहितायां त्रयस्त्रिंशोऽध्यायः॥३३॥
इति०सर्वानुक्रमणिकायां तृतीयोऽध्यायः॥३॥

यज्जाग्रतः षडृचं मानसं त्रैष्टुभᳪं᳭ शिवसंकल्पः पितुं नूष्णिहमगस्त्योऽन्नस्तुतिमन्विञ्चतुर्ऋचमानुष्टुभं द्वयोरनुमितिर्द्वयोः सिनीवालीसरस्वत्यौ सिनीवालिपृथुष्टुके द्वे गृत्समदस्त्वमग्ने द्वे आग्नेय्यौ जगत्यौ हिरण्यस्तूप आङ्गिरस उत्तानायां द्वे देवश्रवा देववातश्च भारतावाद्या त्रिष्टुब्द्वितीयानुष्टुप्प्रमन्महे नोधा द्व्यृचमैन्द्रं त्रैष्टुभमिच्छन्तित्वा द्व्यृचमैन्द्रं त्रैष्टुभमेव देवश्रवा देववातश्च भारतौ ॥ १॥ अषाढं युत्सु गोतमश्चतुर्ऋचं त्रैष्टुभᳪं᳭ सौम्यमष्टौव्यख्यच्चतुर्ऋचं त्रैष्टुभᳪं᳭ सावित्रमाङ्गिरसो हिरण्यस्तूपो द्वितीया जगत्युभापिबतमाश्विनं तृचमुभापिबतं प्रस्कण्वो गायत्रीमप्नस्वतीमश्विनात्रिष्टुभौ कुत्स आरात्रि पथ्याबृहतीᳪं᳭ रात्रिदेवत्या कशिपा भरद्वाजदुहितोषस्तदुषस्या परोष्णिहं गोतमः प्रातरग्निं वसिष्ठः सप्तर्चमाद्या जगती बहुदेवत्या पञ्च भगदेवत्यास्त्रिष्टुभोऽन्त्योषस्याः ॥ २ ॥ पूषन्तव सुहोत्रः पथस्पथः परिपतिमृजिश्वैते पौष्ण्यौ गायत्रीत्रिष्टुभौ त्रीणिपदा वैष्णव्यौ गायत्र्यौ मेधातिथिर्घृतवती भुवनानां भरद्वाजो द्यावापृथिव्यां जगतीं येनो लिङ्गोक्तदेवतां त्रिष्टुभं विहव्य आनासत्या हिरण्यस्तूप आश्विनीमेष वो मारुतीं त्रिष्टुभमगस्त्यः सहस्तोमा ऋषिसृष्टिप्रतिपादिका त्रिष्टुभं यज्ञः प्राजापत्य आयुष्यं वर्चस्यं तृचं दक्ष उष्णिक्शक्करीत्रिष्टुभो हिरण्यस्तुतिरुतन ऋत्विजो बहुदेवत्या त्रिष्टुभमिमागिरः कूर्मो गार्त्समद आदित्यदेवत्यां त्रिष्टुभᳪं᳭ सप्तऋषयोऽध्यात्मवादिनी जगत्युत्तिष्ठं तृचो ब्राह्मणस्पत्य आद्ये बृहत्यौ कण्वो घौरोऽन्त्यां त्रिष्टुभं गृत्समदो यइमा चतुर्ऋचं प्रतीकोक्तम् ॥ ३ ॥ इति० संहितायां चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥

अपेतोऽध्यायः पित्र्य आदित्यस्य देवानां वाद्यागायत्री परं यजुः सविताते गायत्री वायुः पुनातु चत्वारि लिङ्गोक्तानि सविताते गायत्री परंमृत्यो संकसुकस्त्रिष्टुभं मृत्युदेवत्याᳪं᳭, शंवातोऽनुष्टुब्बृहत्यौ वैश्वदेव्यावश्मन्वतीं सुचीकस्त्रिष्टुभं वैश्वदेवीमपाघं, लिङ्गोक्तदेवतामनुष्टुभᳪं᳭ शुनःशेपो दुःस्वप्ननाशनीमनड्वाहमानडुह्यनुष्टुबिमं जीवेभ्यः संकसुको मृत्युदेवत्यां त्रिष्टुभमायुष्मानग्न आग्नेयीं त्रिष्टुभं वैखानसः परीमेऽनुष्टुभमैन्द्रीं भारद्वाजः शिरिंबिठः क्रव्यादमग्निं त्रिष्टुभमाग्नेयीं दमनो वहवपांजातवेदसी त्रिष्टुप् स्योनापृथिवी मेधातिथिः पार्थिवीं गायत्रीमस्मात्त्वमाग्नेयी गायत्र्यनिरुक्ता ॥ ४ ॥ इति० संहितायां पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥

ऋचंवाचं पञ्चाध्यायीं दध्याङ्ङाथर्वणो ददर्शाग्निकाश्वमेधिकवर्जमाद्योऽध्यायः शान्त्यर्थो वैश्वदेव आद्यानि यजूᳪं᳭षि यन्मे बार्हस्पत्या पङ्क्तिः कयात्वमैन्द्र्यनिरुक्ता गायत्रीन्द्रोविश्वस्य विराड् द्विपदा शंनो द्वे अनुष्टुभावहानि द्विपदागायत्री शंनइन्द्राग्नी त्रिष्टुब्गायत्र्यावन्त्याशीर्द्यौः शान्तिर्यजूᳪं᳭षि नमस्ते अस्त्वनुष्टभौ तच्चक्षुः पुरउष्णिक्सौरी ॥५॥ इति० षट्त्रिंशोऽध्यायः ॥ ३६॥

आददे नारिरस्यभ्रिदैवतं देवी द्यावापृथिव्यं देव्यो वश्यो वल्मीकवपेयत्यग्नेवराहविहतमिन्द्रस्यौज आदाराः प्रैतु मखस्याश्वस्यर्जवे यमाय देवस्त्वार्चिरसि घर्मदेवत्यानि यो घर्मः स आदित्यो य एष तपत्यनाधृष्टा पुरस्तात्सप्त पार्थिवानि यजमानाशीर्मधुप्राणदेवत्यानि गर्भो देवानामवकाशा मामाहिᳪं᳭सीरित्येतदन्ता घर्मदेवत्या धर्तादिव ऊर्ध्वबृहत्यपश्यंगोपां त्रिष्टुभं दीर्घतमा हृदेत्वा परोष्णिक्त्वष्ट्रमन्तः पत्न्याशीरहःकेतुना यजुषी घर्मदेवत्ये ॥६॥ इति० संहितायां सप्तत्रिंशोध्यायः ॥३७॥

आददेऽदित्यै रज्जुरिडएहि गौर्यस्ते त्रिष्टुभं दीर्घतमा इन्द्राश्विना वैश्वदेवानि समुद्रायत्वा वातनामानि स्वाहाघर्माय घर्मदेवत्ये विश्वाआशा आश्विन्यनुष्टुब् दिविधा घर्मदेवत्यमश्विना घर्ममुष्णिगपातां ककुबमेन्यस्मे खरः स्वाहापूष्णे सप्त लिङ्गोक्तदेवतानि स्वाहासं पयोदेवत्यं मधुहुतं घर्मो भीमं गायत्रीबृहत्यावनवसाने अतिशक्वरी वाग्नेयी समस्ता त्र्यवसाना या ते घर्म क्षत्रस्य बृहती चतुःस्रक्तिर्महाबृहती घर्मैतदनुष्टबचिक्रदत्परोष्णिग्यावती द्यावापृथिवी दधिघर्मो मयित्यत्पङ्क्तिर्यजमानाशीः पयसोरेतो गायत्र्यनवसाना त्विषः संवृग्दधिघर्मोऽनुक्तं घर्मदैवतम् ॥ ७ ॥ इति० संहितायां अष्टत्रिंशोध्यायः ॥ ३८ ॥

स्वाहा प्राणेभ्यो मान्त्रवर्णिक्यो देवता मनसःकाममनुष्टुब्यजमानाशीः श्रीर्देवता प्रजापतिः संभ्रियमाणो यथाकालं प्रायश्चित्तदेवताः सविता प्रथमेऽहन्त्यहं क्रमेणोग्रश्च मारुती गायत्री विमुखाख्यो मनोऽग्नौ विनियुक्तस्तस्मादाग्निक एवास्य ऋषिः परमेष्ठी प्राजापत्यो वाग्निᳪं᳭ हृदयेनाश्वमेधिकानि त्रीणि तत्रोक्त एव ऋषिर्लोमभ्यः स्वाहेति प्रायश्चित्ताहुतयो द्विचत्वारिᳪं᳭शत् ॥८॥ इति० एकोनचत्वारिंशोऽध्यायः ॥३९॥

ईशावास्यमात्मदेवत्य आनुष्टुभोऽध्याय अनेजदेकं त्रिष्टुप् सपरि जगती वायुरनिलं यजुषी ॐ३मिति परमाक्षरस्य योगिनामालम्बभूतस्य परस्य ब्रह्मणः प्रणवाख्यस्यास्थूलादिगुणयुक्तस्य ब्रह्मऋषिश्छन्दोगायत्रं परमात्मा देवता ब्रह्मारम्भे विरामे च यागहोमादिषु शान्तिपुष्टिकर्मसु चान्येष्वपि काम्यनैमित्तिकादिषु सर्वेषु विनियोगोऽस्य क्रतो त्रिभिर्यजुर्भिरन्ते यज्ञान्योगी स्मारयत्यनेनयान्तनमस्कारोक्तिर्हिरण्मयेनादित्योपासनमो ३ मिति नामनिर्देशो ब्रह्मणः खंब्रह्मेत्याकाशरूपमन्ते ब्रह्म ध्यायेत् ॥ ९॥ इति चत्वारिंशोsध्यायः ॥ ४० ॥

अथातश्छन्दोदेवता गायच्या अग्निरुष्णिहः सवितानुष्टुभः सोमो बृहत्या बृहस्पतिः पङ्क्तेर्वरुणस्त्रिष्टुभ इन्द्रो जगत्या विश्वेदेवा विराजो मित्रः स्वराजोऽरुणोऽतिच्छन्दसः प्रजापतिर्विच्छन्दसो वायुर्द्विपदायाः पुरुष एकपदाया ब्रह्मा सर्वा च आग्नेय्यः सर्वाणि यजूᳪं᳭षि वायव्यानि सर्वाणि सामानि सौराणि सर्वाणि ब्राह्मणानि च स्वाहाकारस्याग्निर्वषट्कारस्य विश्वेदेवाः कर्मारम्भे मन्त्राणां देवता वेदितव्याः संन्यस्तमनसि देवतां ततो हविर्हूयते देवतामविज्ञाय यो जुहोति देवास्तस्य हविर्न जुषन्ते स्वाध्यायमपि योऽधीते मन्त्रदेवतज्ञः; सोमुष्मिंल्लोके देवैरपीड्यते तस्माच्च देवता वेद्या मन्त्रे मन्त्रे प्रयत्नतो मन्त्राणां देवताज्ञानान्मन्त्रार्थमधिगच्छति मन्त्रार्थज्ञानात्तु विधूतपाप्मा नाकमभ्येति नहि कश्चिदविज्ञाय याथातथ्येन देवताः श्रौतानां कर्मणां विप्रः स्मार्तानां चाश्नुते फलम् ॥ १० ॥ अनादिष्टमध्वरादौ सर्वान्तकर्मणि परिभाषितं मन्त्रगणं वक्ष्यामः सर्वमाग्नेयं गायत्रं गौतमीयᳪं᳭ सर्वᳪं᳭ सावित्रमौष्णिहं भारद्वाजीयᳪं᳭ सर्वᳪं᳭ सौम्यमानुष्टुभमाथर्वणिकᳪं᳭ सर्वं बार्हस्पत्यं बार्हतमाङ्गिरसᳪं᳭ सर्वं वारुणं पाङ्क्तमालम्बायनीयᳪं᳭ सर्वमैन्द्रं त्रैष्टुभं याज्ञवल्कीयᳪं᳭ सर्वमादित्यदैवतं जागतं कौत्सम् ॥ ११ ॥ ज्योतिष्टोमे दीक्षाप्रभृति वक्ष्यामो दीक्षायां भृगुरग्नाविष्णू गायत्री प्रायणीय आङ्गिरसोऽदितिरुष्णिक्त्रये विश्वामित्रः सोमोऽनुष्टुबातिथ्ये वसिष्ठो विष्णुर्बृहती प्रवर्ग्ये कश्यप आदित्यपङ्क्तिरुपसत्स्वात्रेय उपसद्देवता त्रिष्टुबग्नीषोमीयेऽगस्त्योऽग्नीषोमौ जगती प्रायणीयेऽतिरात्र आग्निवेश्योऽहोरात्रे अतिजगती चतुर्विᳪं᳭शत्यहे सौकरायणः संवत्सरः शक्वर्यभिप्लवे षडहे सौपर्णोर्धमासा मासाश्चातिशक्वरी पृष्ठ्ये षडहे सांयकायन ऋतवोष्टिरभिजितिप्रियघृतोऽग्निरत्यष्टिः स्वरसामसु सरस्वत्यापोधृतिर्विषुवति रौहिणायन आदित्योऽतिधृतिर्विश्वजिति सौभर इन्द्रः कृतिर्गो आयुषो बाष्कलिर्मित्रावरुणौ प्रकृतिर्दशरात्र आचार्यो विश्वेदेवा आकृतिर्द्वादशरात्रिके पृष्ठ्ये षडहे भाल्लवेयो दिशो विकृतिश्छन्दोमेषु शौल्वायन इमे लोकाः संकृतिर्दशमेऽहनि पराशरः संवत्सरोऽभिकृतिर्महाव्रते शैलिनः प्रजापतिरुत्कृतिरुदयनीयेऽतिरात्रे भौवायनो वायुश्छन्दाᳪं᳭सि सर्वाणि ॥ १२ ॥ ऋषिभिरुपलक्षितं वाक्यं ऋषयश्छन्दोभिरुपलक्षिता देवता मन्त्रवर्णादृग्यजुषोर्विनियोगतश्व विज्ञेया सर्वमेतच्छन्दोदेवतमार्षं च विज्ञाय यत्किंचिज्जपहोमादि करोति तस्य फलमश्नुते ब्रह्मयज्ञारम्भे यथाविधि स्नात्वा छन्दःपुरुषमेनोनिर्णोदनᳪं᳭ शरीरं न्यसेत्तिर्यग्बिलश्चमस ऊर्ध्वबुध्नस्तस्याक्षिणी गोतमभरद्वाजौ श्रोत्रे विश्वामित्रजमदग्नी नासिके वसिष्ठकश्यपौ वागत्रिर्गायत्रीं छन्दोऽग्निर्देवताᳪं᳭ शिरसि विन्यसेदेवमेवोष्णिहᳪं᳭ सवितारं ग्रीवास्वनूके बृहतीं बृहस्पतिं बाह्वोर्बृहद्रथन्तरे द्यावापृथिवीमध्ये त्रिष्टुभमिन्द्रᳪं᳭ श्रोण्योर्जगतीमादित्यं मेढ्रेऽतिच्छन्दसं प्रजापतिं पायौ यज्ञायज्ञियं वैश्वानरमूर्वोरनुष्टुभं विश्वान्देवानष्ठीवतोः पङ्क्तिं मरुतः पादयोर्द्विपदाविष्णुं प्राणेषु विच्छन्दसं वायुं न्यूनातिरिक्तेष्वङ्गेषु न्यूनाक्षरं छन्द आपोदेवतेत्येवᳪं᳭ सर्वाङ्गेषु योजयित्वा वेदमयः संपद्यते शापानुग्रहसमर्थो भवति ब्राह्मं तेजश्व वर्धते न कुतश्चिद्भयं विन्दते ऋङ्मयो यजुर्मयः साममयस्तेजोमयो ब्रह्ममयोऽमृतमयः संभूय ब्रह्मैवाभ्येति तस्मादेतन्नाब्रह्मचारिणे नातपस्विने नासंवत्सरोषिताय नाप्रवक्त्रेऽनुब्रूयादनेनाधीतेन चान्द्रायणाब्दफलमवाप्नोत्यनेन च सम्यग्ज्ञातेन ब्रह्मणः सायुज्यᳪं᳭ सलोकतामाप्नोत्याप्नोति ॥ १३ ॥

इति० सर्वानुक्रमणिकायां चतुर्थोऽध्यायः ॥ ४॥

अथ छन्दाᳪं᳭सि गायत्र्युष्णिगनुष्टुब्बृहतीपङ्क्तित्रिष्टुब्जगत्यतिजगतीशक्वर्यतिशक्वर्यष्ट्यत्यष्टी धृत्यतिधृतयः कृतिप्रकृत्याकृतिविकृतिसंकृत्यभिकृत्युत्कृतयश्चतुर्विᳪं᳭शत्यक्षरादीनि चतुरुत्तराण्यूनाधिकेनैकेननिचृद्भुरिजौ द्वाभ्यां विराट्स्वराजौ पादपूरणार्थं तु क्षैप्रसंयोगैकाक्षरीभावान्व्यूहेदाद्ये तु सप्तवर्गे पादविशेषात्संज्ञाविशेषास्ताननुक्रामन्त एवोदाहरिष्यामो विराड्रूपा विराट्स्थानाश्च बहूनामपि त्रिष्टुभ एवेत्युद्देशस्तत्र दशैकादशद्वादशाक्षराणां वैराजत्रैष्टुभजागता इति संज्ञा अनादेशेऽष्टाक्षराः पादाश्चतुष्पदाश्चर्चः ॥ १ ॥ प्रथमं छन्दस्त्रिपदागायत्री पञ्चकाश्चत्वारः षट्कश्चैकश्चतुर्थश्चतुष्को वा पदपङ्क्तिः षट्सप्तैकादशा उष्णिग्गर्भास्त्रयः सप्तकाः पादनिचृन्मध्यमः षट्कश्चेदतिनिचृद्दशकश्चेद्यवमध्या यस्यास्तु षट्कसप्तकाष्टकाः सा वर्धमाना विपरीता प्रतिष्ठा द्वौषट्कौ सप्तकश्चेति ह्रसीयसी ॥२॥ द्वितीयमुष्णिक्त्रिपदान्त्यो द्वादशक आद्यश्चेत्पुरउष्णिङ्मध्यमश्चेत्ककुप्त्रैष्टुभजागतचतुष्काः ककुम्न्यङ्कुशिरैकादशिनोः परः षट्कस्तनुशिरा मध्ये चेत्पिपीलिकमध्याद्यः पञ्चकस्त्रयोऽष्टका अनुष्टुब्गर्भा चतुःसप्तकोष्णिगेव ॥ ३॥ तृतीयमनुष्टुप्चतुष्पदाथ पञ्चपञ्चकाः षट्कश्चैको महापदपङ्क्तिर्जागतावष्टकश्च कृतिर्मध्ये चेदष्टकः पिपीलिकमध्या नवकयोर्मध्ये जागतः काविराण्नववैराजत्रयोदशैर्नष्टरूपादेकास्त्रयोविराडेकादशका वा ॥ ४ ॥ चतुर्थं बृहती तृतीयो द्वादशक आद्यश्चेत्पुरस्ताद्बृहती द्वितीयश्चेन्न्यङ्कुसारिण्युरोबृहती स्कन्धोग्रीवी वान्त्यश्चेदुपरिष्टाद्बृहत्यष्टिनोर्मध्ये दशकौ विष्टारबृहती त्रिजागतोर्ध्वबृहती त्रयोदशिनोर्मध्येऽष्टकः पिपीलिकमध्या नवकाष्टकैकादशाष्टिनो विषमपदा चतुर्नवका बृहत्येव ॥५॥ पञ्चमं पङ्क्तिः पञ्चपदाथ चतुष्पदा विराट्दशका अयुजौ जागतौ सतोबृहती युजौ चेद्विपरीताद्यौ चेत्प्रस्तारपङ्क्तिरन्त्यौ चेदास्तारपङ्क्तिराद्यान्त्यौ चेत्संस्तारपङ्क्तिर्मध्यमौ चेद्विष्टारपङ्क्तिः ॥ ६ ॥ षष्ठं त्रिष्टुप् त्रैष्टुभपदा द्वौ तु जागतौ यस्याः सा जागते जगती त्रिष्टुभेत्रिष्टुब्वैराजौ जागतौ चाभिसारिणी नवकौ वैराजस्त्रिष्टुभश्च द्वौ वा वैराजौ नवकस्त्रैष्टुभश्च विराट्स्थानैकादशिनस्त्रयोऽष्टकश्च विराड्रूपा द्वादशिनस्त्रयोऽष्टकश्च ज्योतिष्मती यतोऽष्टकस्ततो ज्योतिश्चत्वारोऽष्टका जागतश्च महाबृहती मध्ये जागतश्चेद्यवमध्याद्यौ दशकावष्टकास्त्रयः पङ्क्यु्वत्तरा विराट्पूर्वा वा ॥ ७ ॥ सप्तमं जगती जागतपदाष्टिनस्त्रयः स्वौ च द्वौ महासतोबृहत्यष्टको सप्तकः षट्को दशको नवकश्च षडष्टका वा महापङ्क्तिर्माध्यंदिनीये वाजसनेयके सर्वानुक्रमणिकैषा कृतिर्भगवतः कात्यायनस्यैषा कृतिर्भगवतः कात्यायनस्य ॥ ८॥
इति सर्वानुक्रमणिकायां पञ्चमोऽध्याय ॥५॥
कण्डिकासंख्या ॥ १२४ ॥
समाप्ता सर्वानुक्रमणी ॥