शुक्लयजुर्वेदः/प्रतिज्ञासूत्रम्

विकिस्रोतः तः

प्रतिज्ञासूत्रम्
श्रीवेदपुरुषाय नमः। अथ प्रतिज्ञा मन्त्रब्राह्मणयोर्वेदनामधेयं तस्मिञ्छुक्ले याजुषाम्नाये माध्यन्दिनीयके मन्त्रे स्वरप्रक्रिया हृद्यनुदात्तो मूर्ध्न्युदात्तः श्रुतिमूले स्वरितः एवं जात्यादयोऽभिहिता ब्राह्मणे तूदात्तानुदात्तौ भाषिकस्वारौ तानस्वराणि छन्दोवत्सूत्राणि ॥ १ ॥ अथान्तस्थानामाद्यस्य पदादिस्थस्थान्यहलसंयुक्तस्य संयुक्तस्यापि रेफोष्मान्त्याभ्यामृकारेण चाविशेषेणादिमध्यावसानेषूच्चारणे जकारोचारणं द्विर्भावेऽप्येवमथापरान्तस्थस्यायुक्तान्यहलसंयुक्तस्योष्मsऋकारैरेकारसहितोच्चारणमेवं तृतीयान्तस्थस्य क्वचिदृकारस्य तु संयुक्तासंयुक्तस्याविशेषेण सर्वत्रैवमथान्त्यस्यान्तस्थानां पदादिमध्यान्तस्थस्य त्रिविधं गुरुमध्यमलघुवृत्तिभिरुच्चारणमथो मूर्धन्योष्मणोऽसंयुक्तस्य टुमृते संयुक्तस्य च खकारोच्चारणमध्ययनादिकर्मस्वर्थवेलायां प्रकृत्या ॥ २॥ अथानुस्वारस्यᳪ इत्यादेशः शषसहरेफेषु तस्य त्रैविध्यमाख्यातम् । हस्वदीर्घगुरुभेदैर्दीर्घात्परो ह्रस्वो हस्वात्परो दीर्घो गुरौ परे गुरुः परसवर्णेषत्प्रकृत्या चान्यत्र विसर्गेष्वीषद्विरामः पदाद्यस्य संयुक्ताकारस्येषद्दीर्घता च भवतीषद्दीर्घता च भवतीति ॥ ३ ॥
इति कात्यायनपरिशिष्टप्रतिज्ञासूत्रं समाप्तम् ॥