सामग्री पर जाएँ

शिशुपालवधम्/सप्तमः सर्गः

विकिस्रोतः तः
← षष्ठः सर्गः शिशुपालवधम्
सप्तमः सर्गः
माघः
अष्ठमः सर्गः →

अनुगिरमृतुभिर्वितायमानामथ स विलोकयितुं वनान्तलक्ष्मीं ।
निरगमदभिराद्धुमदृतानां भवति महत्सु न निष्फलः प्रयासः ।। ७.१ ।।

दधति सुमनसो वनानि बह्वीर्युवतियुता यदवः प्रयातुमीषुः ।
मनसिमहास्त्रमन्यथामी न कुसुमपञ्चकमलं विसोढुं ।। ७.२ ।।

अवसमधिगम्य तं हरन्तयो हृदयमयत्नकृतोज्वलस्वरूपाः ।
अवनिषु पदमङ्गनास्तदानीं न्यदधत विभ्रमसम्पदोऽङगनासु ।। ७.३ ।।

नखरुचिरचिन्द्रचापं ललितगतेषु गतागतं दधाना ।
मुखरितवलयं पृथौ नितम्बे भुजलतिका मुहुरस्खलत्तरुण्याः ।। ७.४ ।।

अतियपरिणाह्ववान्वितेने बहुतरमर्पितकिङ्किणीकः ।
अलघुनि जघनस्थलेऽपरस्या ध्वनिमधिकं कलमेखलाकलापः ।। ७.५ ।।

गुरुनिबिडनितम्बबिम्बभाराक्रमणनिपीडितमङ्गनाजनस्य ।
चरणयुगमसुस्रुवत्पदेषु स्वरसमसक्तमलक्तकच्छलेन ।। ७.६ ।।

तव सपदि समीपमानये तामहमिति तस्य मयाग्रतोऽभ्यधायि ।
अतिरभसाकृतालघुप्रतिज्ञामनृतगिरं गुणगौरि मा कृथा मां ।। ७.७ ।।

न च सुतनु न वेद्मि यन्महीयानसुनिरसस्तव निश्चयः परेण ।
वितथयति न जानातु मद्वचोऽसाविति च तथापि सखीषु मेऽभिमानः ।। ७.८ ।।

सततमनभिभाषणं मया ते परिणमितं भवतीमनानयन्तया ।
त्वयि तदिति विरोधनिश्चितायां भवति भवत्वसुहृज्जनः सकामः ।। ७.९ ।।

गतधृतिरवलम्बितुं बतासूननलमनालपनादहं भवत्याः ।
प्रणयति यदि न प्रसादबुद्धिर्भव मम मानिनि जीविते दयालुः ।। ७.१० ।।

प्रियमिति वनिता नितान्तमागःस्मरणसरोषषकषायिताक्षी ।
चरणगतसखीवचोऽनुरोधात्किल कथमप्यनुकूलयाञ्चकार ।। ७.११ ।।

द्रुतपदमिति मा वयस्य यासिर्ननु सुतनुं परिपालयानुयान्तीं ।
नहि न विदितखेदमेदतीयस्तनजघनोद्वहने तवापि चेतः ।। ७.१२ ।।

इति वदति सखीजनेऽनुरागाद्दयिततमामपरश्चिरं प्रतीक्ष्य ।
तदनुगमवशादनायतानि न्यधित मिमान इवावनिं पदानि ।। ७.१३ ।।

यदि मयि लघिमानमागतायां तव धृतिरस्ति गतास्मि सम्प्रतीयं ।
द्रुततरपदपातमापपात प्रियमिति कोपपदेन कापि संख्या ।। ७.१४ ।।

अविरलपुलकः सह व्रजन्त्याः प्रतिपदमेकतरः स्तनस्तरुण्याः ।
घटितविघटितः प्रियस्य वक्षस्तटभुवि कन्दुकविभ्रमं बभार ।। ७.१५ ।।

अशिथिलमपरावसज्य कण्ठे दृढपरिरब्धबृहद्बहिस्तनेन ।
हृषिततनुरुहा भुजेन भर्तृर्मृदुममृदु व्यतिविद्धमेकबाहुं ।। ७.१६ ।।

मुहुरसुसममाध्नती नितान्तं प्रणदितकाञ्चि नितम्बमण्डलेन ।
विषमितपृथुहारयष्टि तिर्यक्कुचमितरं तदुरस्थले निपीड्य ।। ७.१७ ।।

गुरुतरकलनूपुरानुनादं सललितनर्तितवामपादपद्मा ।
इतरदतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम ।। ७.१८ ।।

लधुललितपदं तदंसपीठद्वयनिहितोभयपाणिपल्लवान्या ।
सकठिनकुचचूचुकप्रणोदं प्रियमबला सविलासमन्विनाय ।। ७.१९ ।।

जघनमेलघपीवरोरु कृच्छ्रादुरुनिबिरीसनितम्बभारखेदि ।
दयिततमशिरोधरावलम्बिस्वभुजलताविभवेन काचिदूहे ।। ७.२० ।।

अनुवपुरपरेण बाहुमूलप्रहितभुजाकलितस्तनेन निन्ये ।
निहितदशनवाससा कपोले विषमवितीर्णपदं बलादिवान्या ।। ७.२१ ।।

अनुवनमसितभ्रुवः सखीभिः सह पदवीमपरः पुरोगतायाः ।
उरसि सरसरागपदलेखाप्रतिमतयानुययावसंशयानः ।। ७.२२ ।।
मदनरसमहौघपूर्णनाभीह्रदपरिवाहितर्ॐअराजयस्ताः ।
सरित इव सविभ्रमप्रयातप्रणदितहंसकभूषणा विरेजुः ।। ७.२३ ।।

श्रुतिपथमधुराणि सारसानामनुनदि सुश्रुविरे रुतानि ताभिः ।
विदधति जनतामनःशरव्यव्यधपटुमन्मथचापनादशङ्कां ।। ७.२४ ।।

मधुमथनवधूरिवाह्वयन्ति भ्रमरकुलानि जगुर्यदुत्सुकानि ।
तदभिनयमिवावलिर्वनानामतनुत नूतनपल्लवाङुगुलीभिः ।। ७.२५ ।।

असकलकलिकाकुलीकृतालिस्खलनविकीर्णविकासिकेशराणां ।
मरुदवनिरुहां रजो वधूभ्यः मुपहरन्विचकार कोरकाणि ।। ७.२६ ।।

उपवनपवनानुपातदक्षैरलिभिरलाभि यदङ्गनाजनस्य ।
परिमलविषयस्तदुन्नतानामनुगमने खलु सम्पदोऽग्रतःस्थाः ।। ७.२७ ।।

रथचरणधराङ्गनाकराब्जव्यतिकरसम्पदुपात्तस्ॐअनस्याः ।
जगति सुमनसस्तदादि नूनं दधति परिस्फुटमर्थतोऽभिधानं ।। ७.२८ ।।

अभिमुखपतितैर्गुणप्रकर्षादवजितमुद्धतिमुज्वलां दधानैः ।
तरुकिसलयजालमग्रहस्तैः प्रसभमनीयत भङ्गमङ्गनानां ।। ७.२९ ।।

मुदितमधुभुजो भुजेन शाखाश्चलितविशृङ्खलशङ्खकं धुवत्याः ।
तरुरतिशायितापराङ्गनायाः शिरसि मुदेव मुमोच पुष्पवर्षं ।। ७.३० ।।

अनवरतरसेन रागभाजा करजपरिक्षतिलब्धसंस्तवेन ।
सपदि तरुणपल्लवेन वध्वा विगतदयं खलु खण्डितेन मम्ले ।। ७.३१ ।।

प्रियमभिकुसुमोद्यतस्य बाहोर्नवनखमण्डनचारु मूलमन्या ।
मुहुरितरकराहितेन पीनस्तनतटरोधि तिरोदधेऽंशुकेन ।। ७.३२ ।।

विततवलिविभाव्यपाण्डुलेखाकृतपरभाघविलीनर्ॐअराजिः ।
कृशमपि कृशतां पुनर्नयन्ती विपुलतरोन्मुखलोचनावलग्नं ।। ७.३३ ।।

प्रसकलकुचबन्धुरोद्धुरोरःप्रसभविभिभिन्नतनूत्तरीयबन्धा ।
अनमवदुदरोच्छ्वसद्दुकूलस्फुटतरलक्ष्यगभीरनाबिमूला ।। ७.३४ ।।

व्यवहितमविजानाती किलान्तवर्णभुवि वल्लभमाभिमुख्यभाजं ।
अधिविटपि सलीलमग्रपुष्पग्रहणपदेन चिरं विलम्ब्य काचिथ् ।। ७.३५ ।।

अथ किल कथिते सखीभिरत्र क्षणमपरेव ससंभ्रमा भवन्ती ।
शिथिलितकुसुमाकुलाग्रपाणिः प्रतिपदसंयमितांशुकावृताङ्गी ।। ७.३६ ।।

कृतभयपरितोषसन्निपातं सचकितसस्मितवक्त्रवारिजश्रीः ।
मनसिजगुरुतत्क्षणोपदिष्टं किमपि रासेन रसन्तरं भजन्ती ।। ७.३७ ।।

अवनदवदनेन्दुरिच्छतीव व्यवधिमधीरतया यदस्थितास्मै ।
अहरत सुतरामतोऽस्य चेतः स्फुटमभिभूषयति स्त्रियस्त्रपैव ।। ७.३८ ।।

किसलयशकलेष्ववाचनीयाः पुलकिनि केवलमङ्गकेनिधेयाः ।
नखपदलिपयोऽपि दीपितार्थाः प्रणिदधिरे दयितैरनङ्गलेखाः ।। ७.३९ ।।

कृतकृतकरुषा सखीमपास्य त्वमकुशलेति कयाचिदात्मनैव ।
अभिमतमभि साभिलाषमाविष्कृतभुजमूलमबन्धि मूर्ध्नि माला ।। ७.४० ।।

अभिमुखमुपयाति मा स्म किञ्चित्त्वमभिदधाः पटले मधुव्रतानां ।
मधुसुरभिमुखाब्जगन्धलब्धेरधिकमधित्वदनेन मा निपाति ।। ७.४१ ।।

सरजसमकरन्दनिर्भरासु प्रसवविभूतिषु भूरुहां विरक्तः ।
ध्रुवममृतपनामवाञ्छयासावधरममुं मधुपस्तवाजिहीते ।। ७.४२ ।।

इति वदति सखीजने निमीलद्विगुणितसान्द्रतराक्षिपक्ष्ममाला ।
अपदतलिभयेन भर्तुरङ्गं भवति हि विक्लवता गुणोऽङ्गनानां ।। ७.४३ ।।

मुखकमलकमुन्नमय्य यूना यदभिनवोढवधूर्बलादचुम्बि ।
तदपि न किल बालपल्लवाग्रग्रहयापरया विविदे विदग्धसक्या ।। ७.४४ ।।

व्रततिविततिभिस्तिरोहितायां प्रतियुवतौ वदनं प्रियः प्रियायाः ।
यदधयदधरावलोपनृत्यत्करवलयस्वनितेन तद्विवव्रे ।। ७.४५ ।।

विलसितमनुकुर्वती पुरस्ताद्धरणिरुहाधिरुहो वधूर्लतायाः ।
रमणमृजुतया पुरः सखीनामकलितचापलदोषमालिलिङ्ग ।। ७.४६ ।।

सललिकमवलम्ब्य पाणिनांसे सहचरमुच्छ्रतगुच्छवाञ्छयान्या ।
सकलकलभकुम्भविभ्रमाभ्यामुरसि रसादवतस्तरे स्तनाभ्यां ।। ७.४७ ।।

मृदुचरणतलाग्रदुःस्थितत्वादसहतरा कुचकुम्भयोर्भरस्य ।
उपरिनिरवलम्बनं प्रियस्य न्यपतदथोच्चतरोच्चिचीषयान्या ।। ७.४८ ।।

उपरिजतरुजानि याजमानां कुशलतया परिरम्भलोलुपोऽन्यः ।
प्रथितपृथुपयोधरां गृहाण स्वयमिति मुग्धवधूमुदास दोर्भ्यां ।। ७.४९ ।।

इदमिदमिति भूरुहां प्रसूनैर्मुहुरतिलोभयता पुरःपुरोऽन्या ।
अनुरहसमनायि नायकेन त्वरयति रन्तुमहो जनं मनोभूः ।। ७.५० ।।

विजनमिति बलादमुं गृहीत्वा क्षणमथ वीक्ष्य विपक्षमन्तिकोऽन्या ।
अभिपतितुमना लघुत्वभीतेरभवदमुञचति वल्लभेऽतिगुर्वी ।। ७.५१ ।।

अधिरजनि जगाम धाम तस्याः प्रियतमयेति रुषा स्रजावनद्धः ।
पदमपि चलितुं युवा न सेहे किमिव न शक्तिहरं ससाध्वसानां ।। ७.५२ ।।

न खलु वयममुष्य दानयोग्याः पिबति च पाति च यासकौ रहस्त्वां ।
व्रज विचपममुं ददस्व तस्यै भवतु यतः सदृशोश्चिराय योगः ।। ७.५३ ।।

तव कितव किमाहितैर्वृथा नः क्षितिरुहपल्लवपुष्पकर्णपूरैः ।
ननु जनविदितैर्भवद्व्यलीकैश्चिरपरिपूरितमेव कर्णयुग्मं ।। ७.५४ ।।

मुहुरुपहसितामिवालिनादैर्वितरसि नः कालिकां किमर्थमेनां ।
वसतिमुपगतेन धाम्नि तस्याः शठ कलिरेष महांस्त्वयाद्य दत्तः ।। ७.५५ ।।

इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेशरेण ।
श्रवणनियमितेन कान्तमन्या सममसिताम्बुरुहेण चक्षुषा च ।। ७.५६ ।।

विनयति सुदृशो दृशः परागं प्रणयिनि कौसुममाननानिलेन ।
तदहितयुवतेरभीक्ष्णमक्ष्णोर्द्वयमपि रोषरझोभिरापुपूरे ।। ७.५७ ।।

स्फुचमिदमभिचारमन्त्र एव प्रतियुवतेरभिधानमङ्गनानां ।
वरतनुरमुनोपहूय पत्या मृदुकुसुमेन यदाहताप्यमूर्च्छथ् ।। ७.५८ ।।

समदनमवतंसितेऽद्कर्णं प्रणयवता कुसुमे सुमध्यमायाः ।
व्रजदपि लघुतां बभूव भारः सपदि हिरण्मयमण्डनं सपत्न्याः ।। ७.५९ ।।

अवजितमधुना तवाहमक्ष्णो रुचितयेत्यवनम्य लज्जयेव ।
श्रवणकुवलयं विलासवत्या भ्रमररुतैरुपकर्णमाचचक्षे ।। ७.६० ।।

अवचितकुसुमा विहाय वल्लीर्युवतीषु क्ॐअलमाल्यमालिनीषु ।
पदमुपदधिरे कुलान्यलीनां न परिचयो मलिनात्मनां प्रधानं ।। ७.६१ ।।

श्लथशिरसिजपातभारादिव नितरां नतिमद्भिरंसभागैः ।
मुकुलितनयनैर्मुखारविन्दैर्घनमहतामिव पक्ष्मणां भरेण ।। ७.६२ ।।

अदिकमरुणिमानमुद्वहद्भिर्विकसदशीतमरीचिरशमिजालैः ।
परिचितपरिचुम्बनाभियोगादपगतकुङ्कुमरेणुभिः कपोलैः ।। ७.६३ ।।

अवसितललितक्रियेण बाह्वोर्ललिततरेण तनीयसा युगेन ।
सरसकिसलयानुरञ्जितैर्वा करकमलैः पुनरुक्तभाभिः ।। ७.६४ ।।

स्मरसरसमुरःस्थलेन पत्युर्विनिमयसंक्रमिताङ्गरागरागैः ।
भृशमतिशयखेदसम्पदेव स्तनयुगलैरितरेतरं निषण्णैः ।। ७.६५ ।।

अतनुकुचभरानतेन भूयः श्रमजनितानतिना शरीरकेण ।
अनुचितगतिसादनिःसहत्वं कलभकरोरुभिरूरुभिर्दधानैः ।। ७.६६ ।।

अपगतनवयावकैश्चिराय क्षितिगमनेन पुनर्वितीर्णरागैः ।
कथमपि चरणोत्पलैश्चलद्भिर्भृशाविनिवेशात्परस्परस्य ।। ७.६७ ।।

मुहुरिति वनविभ्रमाभिषङ्गादतमि तदा नितरां नितम्बिनीभिः ।
मृदुतरतनवोऽनलसाः प्रकृत्या चिरमपि ताः किमुत प्रयासभाजः ।। ७.६८ ।।

प्रतममलघुमौक्तकाभमासीच्छ्रमजलमुज्ज्वलगण्डमण्डलेषु ।
कठिनकुचतटाग्रपाति पश्चादथ शतसर्करतां जगाम तासां ।। ७.६९ ।।

विपुलकमपि यौवनोद्धतानां घनपुलकोदयक्ॐअलं चकाशे ।
परिमलितमपि प्रियैः प्रकामं कुचयुगमुज्ज्वलमेष कामिनीनां ।। ७.७० ।।

अविरतकुसुमावचायखेदान्निहितभुजालतयैकयोपकण्ठं ।
विपुलतरनिरन्तरालग्नस्तनपिहितप्रियवक्षसा ललम्बे ।। ७.७१ ।।

अभिमतमभितः कृताङ्गभङ्गा कुचयुगमुन्नतिवित्तमुन्नमय्य ।
तनुरभिलषितं क्लमच्छलेन व्यवृणुत वेल्लितबाहुवल्लरीका ।। ७.७२ ।।

हिमलतसदृशः श्रमोदबिन्दूनुपनयता किल नूतनोढवध्वाः ।
कुचकलशकिशोरकौ कथञ्चित्तरलतया तरुणेन पस्पृशाते ।। ७.७३ ।।

गत्वोद्रेकं जघनपुलिने रुद्धमध्यप्रदेशः क्रमन्नूरुद्रुमभुजलताः पूर्णनाभीह्रदान्ताः ।
उल्लङ्घ्योच्चैः कुचतटभुवं प्लावयन्रोकूपान्स्वेदपूरो युवतिसरितां व्याप गण्डस्थलानि ।। ७.७४ ।।

प्रियकरपरिमार्गदङ्गनानां यदाभूत्पुनरधिकतरैव स्वेदतोयोदयश्रीः ।
अथ वपुरभिषेक्तुं तास्तदाम्भोभिरीषुर्वनविहरणखेदम्लानमम्लानशोभाः ।। ७.७५ ।।