शिवापराधक्षमापणस्तोत्रम् (बृहत्स्तोत्ररत्नाकरान्तर्गतम्))

विकिस्रोतः तः
शिवापराधक्षमापणस्तोत्रम्
शङ्कराचार्यः
१९५३

॥ अथ शिवापराधक्षमापणस्तोत्रम् ।।

आदो कर्मप्रसङ्गात् कलयति
कलुषं मातृकुक्षौ स्थितं मां
विण्मूत्रामेध्यमध्ये क्वथयति
नितरां जाठरो जातवेदाः।
यद्यद्वै तत्र दुःखं व्यथयति
नितरां शक्यते केन वक्तुं
क्षन्तव्यो मेऽपराधः शिव शिव
शिव भोः श्रीमहादेव शम्भो ॥ १
बाल्ये दुःखातिरेकान्मललुलित-
वपुः स्तन्यपाने पिपासा
नो शक्तश्चेन्द्रियेभ्यो भवगुण-
जनिता जन्तवो मां तुदन्ति ।
नानारोगादिदुःखाद्रुदनपरवशः
शङ्करं न स्मरामि क्षन्त ...॥ २

प्रौढोऽहं यौवनस्थो विषयविष-
धरैः पञ्चभिर्मर्मसन्धौ
दष्टो नष्टो विवेकः सुतधन-
युवतिस्वादसौख्ये निषण्णः।
शैवीचिन्ताविहीनं मम हृदय-
महो मानगर्वाधिरूढं क्षन्त ...॥ ३
वार्धक्ये चेन्द्रियाणां विगत-
गतिमतिश्चादिदैवाधितापैः
पापै रोगैर्वियोगैस्त्वनसित-
वपुः प्रौढिहीनं च दीनम् ।
मिथ्यामोहाभिलाषैर्भ्रमति
मम मनो धूर्जटेर्ध्यानशून्यं क्षन्त ...॥ ४
नो शक्यं स्मार्तकर्म प्रतिपद-
गहनप्रत्यवायाकुलाख्यं
श्रौते वार्ता कथं मे द्विजकुल-
विहिते ब्रह्ममार्गेऽसुरारे।

ज्ञातो धर्मो विचारैः श्रवण-
मननयोः किं निदिध्यासितव्यं क्षन्त ...
स्नात्वा प्रत्यूषकाले स्नपनविधि-
विधौ नाहृतं गाङ्गतोयं
पूजार्थं वा कदाचिद्बहुतर-
गहनात्खण्डबिल्वीदलानि ।
नानीता पद्ममाला सरसि विक-
सिता गन्धपुष्पैस्त्वदर्थं क्षन्त ॥ ६
दुग्धैर्मध्वाज्ययुक्तैर्दधिसित-
सहितैः स्नापितं नैव लिङ्गं
नो लिप्तं चन्दनाद्यैः कनक-
विरचितैः पूजितं न प्रसूनैः।
धूपैः कर्पूरदीपैर्विविधरसयुतै-
र्नैव भक्ष्योपहारैः क्षन्त ...॥ ७
ध्यात्वा चित्ते शिवाख्यं प्रचुर-
तरधनं नैव दत्तं द्विजेभ्यो

हव्यं ते लक्षसंख्यैर्हुतवह-
वदने नार्पितं बीजमन्त्रैः।
नो तप्तं गाङ्गतीरे व्रतजप-
नियमै रुद्रजाप्यैर्न वेदैः क्षन्त ... ॥ ८
स्थित्वा स्थाने सरोजे प्रणव-
मयमरुत्कुण्डले सूक्ष्ममार्गे
शान्ते स्वान्ते प्रलीने प्रकटित-
विभवे ज्योतिरूपे पराख्ये।
लिङ्गज्ञे ब्रह्मवाक्ये सकल-
तनुगतं शङ्करं न स्मरामि क्षन्त ...॥ ९
नमो निस्सङ्गशुद्धस्त्रिगुण-
विरहितो ध्वस्तमोहान्धकारो
नासाग्रे न्यस्तदृष्टिर्विदित-
अवगुणो नैव दृष्टः कदाचित् ।
उन्मत्ताऽवस्थया त्वां विगत-
कलिमलं शङ्करं न स्मरामि क्षन्त... ॥१०

चन्द्रोद्भासितशेखरे स्मरहरे गङ्गाधरे शङ्करे
सर्पैर्भूषितकण्ठकर्णविवरे नेत्रोत्थवैश्वानरे ।
दन्तितत्वक्कृतसुन्दराम्बरधरे त्रैलोक्यसारे हरे
मोक्षार्थं कुरु चित्तवृत्तिमखिलामन्यैस्तु किं कर्मभिः॥
किं वाऽनेन धनेन वाजि-
करिभिः प्राप्तेन राज्येन किं
किंवा पुत्रकलत्रमित्रप-
शुभिर्देहेन गेहेन किम् ।
ज्ञात्वैतत्क्षणभङ्गुरं सपदि
रे त्याज्यं मनो दूरतः
स्वात्मार्थं गुरुवाक्यतो
भज भज श्रीपार्वतीवल्लभम् ।।
आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं
प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः।
लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितं
तस्मान्मां शरणागतं शरणद त्वं रक्ष रक्षाधुना ॥

करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वाऽपराधम् ।
विहितमविहितं वा सर्वमेतत्क्षमस्व
जय जय करुणाब्धे श्रीमहादेव शम्भो ॥१४
इति श्रीमत्परमहंस परिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ
॥शिवापराधक्षमापणस्तोत्रं सम्पूर्णम् ॥