शिवस्तोत्रम्

विकिस्रोतः तः
शिवस्तोत्रम्
उपमन्युः
१९५३

॥ उपमन्युकृतशिवस्तोत्रम् ॥

जय शङ्कर पार्वतीपते
मृड शम्भो शशिखण्डमण्डन ।
मदनान्तक भक्तवत्सल
प्रियकैलास दयासुधाम्बुधे ॥ १
सदुपायकथास्वपण्डितो
हृदये दुःखशरेण खण्डितः।
शशिखण्डशिखण्डमण्डनं
शरणं यामि शरण्यमीश्वरम् ॥ २
महतः परितः प्रसर्पत- .
स्तमसो दर्शनभेदिनो भिदे।
दिननाथ इव खतेजसा
हृदव्योम्योनि मनागुदेहि नः॥ ३
न वयं तव चर्मचक्षुषा
पदवीमप्युपतीक्षितुं क्षमाः।

कृपयाऽभयदेन चक्षुषा
सकलेनेश विलोकयाशु नः॥ ४
त्वदनुस्मृतिरेव पावनी
स्तुतियुक्ता न हि वक्तुमीश सा ।
मधुरं हि पयः स्वभावतो
ननु कीदृक्सितशर्करान्वितम् ।। ५
सविषोऽप्यमृतायते भवा-
ञ्छवमुण्डाभरणोऽपि पावनः
भव एव भवान्तकः सतां
समदृष्टिर्विषमेक्षणोऽपि सन् ॥ ६
अपि शूलधरो निरामयो
दृढवैराग्यरतोऽपि रागवान् ।
अपि भक्ष्यचरो महेश्वर-
श्चरितं चित्रमिदं हि ते प्रभो ॥ ७
वितरत्यभिवाञ्छितं दृशा
परिदृष्टः किल कल्पपादपः ।

हृदये स्मृत एव धीमते
नमतेऽभीष्टफलप्रदो भवान् ॥ ८
सहसैव भुजङ्गपाशवा-
न्विनिगृह्णाति न यावदन्तकः ।
अभयं कुरु तावदाशु मे
गतजीवस्य पुनः किमौषधैः ॥ ९
सविषैरिव भीमपन्नगै-
र्विषयैरेभिरलं परिक्षतम् ।
अमृतैरिव सम्भ्रमेण मा-
मभिषिञ्चाशु दयावलोकनैः ॥ १०
मुनयो बहवोऽद्य धन्यतां
गमिताः स्वाभिमतार्थदर्शिनः ।
करुणाकर येन तेन मा-
मवसन्नं ननु पश्य चक्षुषा ।। ११
प्रणमाम्यथ यामि चापरं
शरणं कं कृपणाभयप्रदम् ।

विरहीव विभो प्रियामयं
परिपश्यामि भवन्मयं जगत् ॥ १२
बहवो भवताऽनुकम्पिता:
किमितीशान न मानुकम्पसे ।
दधता किमु मन्दराचलं
परमाणुः कमठेन दुर्धरः ॥ १३
अशुचिं यदि मानुमन्यसे
किमिदं मूर्ध्नि कपालदास ते ।
उत शाठ्यमसाधुसङ्गिनं
विषलक्ष्मासि न किं द्विजिह्वधृक्॥ १४
क्व दृशं विदधामि किं करो-
म्यनुतिष्ठामि कथं भयाकुलः ।
क्व नु तिष्ठसि रक्ष रक्ष मा-
मयि शम्भो शरणागतोऽस्मि ते ॥ १५
विलुठाम्यवनौ किमाकुल:
किमुरो हन्मि शिरश्छिनद्मि वा।
किमु रोदिमि रारटीमि किं
कृपणं मां न यदीक्षसे प्रभो ॥ १६

शिव सर्वग शर्व शर्मदं
प्रणतो देव दयां कुरुष्व मे ।
नम ईश्वर नाथ दिक्पते
पुनरेवेश नमो नमोऽस्तु ते ॥ १४
शरणं तरुणेन्दुशेखरः
शरणं मे गिरिराजकन्यका।
शरणं पुनरेव तावुभौ
शरणं नान्यदुपैमि दैवतम् ॥ १५
उपमन्युकृतं स्तवोत्तमं
जपतः शम्भुसमीपवर्तिनः।
अभिवाञ्छितभाग्यसम्पदः
परमायु: प्रददाति शङ्करः॥ १६
उपमन्युकृतं स्तवोत्तमं
प्रजपेद्यस्तु शिवस्य सन्निधौ।
शिवलोकमवाप्य सोऽचिरा-
त्सह तेनैव शिवेन मोदते ॥ १७
इत्युपमन्युकृतं शिवस्तोत्रं सम्पूर्णम् ॥

"https://sa.wikisource.org/w/index.php?title=शिवस्तोत्रम्&oldid=320009" इत्यस्माद् प्रतिप्राप्तम्