सामग्री पर जाएँ

शिवस्तुतिः

विकिस्रोतः तः

श्रीशिवस्तुतिः नारायणपंडिताचार्यकृत

स्फुटं स्फटिकसप्रभं स्फुटितहाटकश्रीजटं शशांकदलशेखरं कपिलफुल्लनेत्रत्रयम् । तरक्षुवरकृत्तिमद्भुजगभूषणं भूतिमत् कदा नु शितिकंठ ते वपुरवेक्षते वीक्षणम् ।।१।।

त्रिलोचन विलोचने लसति ते ललामायिते स्मरो नियमघस्मरो नियमिनामभूद्भस्मसात् । स्वभक्तिलतया वशीकृतवती सतीयं सती स्वभक्तवशगो भवानपि वशी प्रसीद प्रभो ।।२।।

महेश महितोऽसि तत्पुरुष पूरुषाग्र्यो भवान् अघोर रिपुघोर तेऽनवम वामदेवांजलिः । नमः सपदिजात ते त्वमिति पंचरूपोंऽचितः प्रपंचय च पंचवृन्मम मनस्तमस्ताडय ।।३।।

रसाघनरसानलानिलवियद्विवस्वद्विधु-प्रयष्टृषु निविष्टमित्यज भजामि मूर्त्यष्टकम् । प्रशांतमुत भीषणं भुवनमोहनं चेत्यहो वपूंषि गुणपुंषि तेऽहमहमात्मनोऽहं भिदे ।।४।।

विमुक्तिपरमाध्वनां तव षडध्वनामास्पदं पदं निगमवेदिनो जगति वामदेवादयः । कथंचिदुपशिक्षिता भगवतैव संविद्रते वयं तु विरलांतराः कथमुमेश तन्मन्महे ।।५।।

कठोरितकुठारया ललितशूलया बाहया रणड्डमरया स्फुरद्धरिणया सखट्वांगया । चलाभिरचलाभिरप्यगणिताभिरुन्नृत्यतः चतुर्दश जगंति ते जय जयेत्ययुर्विस्मयम् ।।६।।

पुरत्रिपुररंधनं विविधदैत्यविध्वंसनं पराक्रमपरंपरा अपि परा न ते विस्मयः । अमर्षबलहर्षितक्षुभितवृत्तनेत्रत्रयो-ज्ज्वलज्वलन हेलया शलभितं हि लोकत्रयम् ।।७।।

सहस्रनयनो गुहः सहसहस्ररश्मिर्विधुः बृहस्पतिरुताप्पतिः ससुरसिद्धविद्याधराः । भवत्पदपरायणाः श्रियमिमामगुः प्रार्थिनां भवान् सुरतरुर्दृशं दिश शिवां शिवावल्लभ ।।८।।

तव प्रियतमादतिप्रियतमं सदैवांतरं पयस्युपहितं घृतं स्वयमिव श्रियो वल्लभम् । विभिद्य लघुबुद्धयः स्वपरपक्षलक्षायितं पठंति हि लुठंति ते शठहृदः शुचा शुंठिताः ।।९।।

निवासनिलयश्चिता तव शिरस्ततिर्मालिका कपालमपि ते करे त्वमशिवोऽस्यनंतर्धियाम् । तथाऽपि भवतः पदं शिव शिवेत्यदो जल्पतां अकिंचन न किंचन वृजिनमस्त्यभस्मीभवत् ।।१०।।

नमः शिव शिवाशिवाशिव शिवार्ध कृंताशिवं नमो हर हराहराहरहरांतरीं मे दृशम् । नमो भव भवाभव प्रभव भूतये संपदां नमो मृड नमो नमो नम उमेश तुभ्यं नमः ।।१२।।

सतां श्रवणपद्धतिं सरतु सन्नतोक्तेत्यसौ शिवस्य करुणांकुरात् प्रतिकृतात् सदा सोदिता । इति प्रथितमानसो व्यधित नाम नारायणः शिवस्तुतिमिमां शिवां लिकुचसूरिसूनुः सुधीः ।।१३।।

॥ इति श्री नारायणपंडिताचार्यविरचिता श्री शिवस्तुतिः ॥

"https://sa.wikisource.org/w/index.php?title=शिवस्तुतिः&oldid=408314" इत्यस्माद् प्रतिप्राप्तम्