शिवसंहिता/पञ्चमः पटलः

विकिस्रोतः तः
Jump to navigation Jump to search
← चतुर्थः पटलः शिवसंहिता
[[लेखकः :|]]

श्री देव्युवाच
ब्रूहि मे वाक्यमीशान परमार्थधियं प्रति
ये विघ्नाः सन्ति लोकानां वद मे प्रिय शङ्कर १
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यथा विघ्नाः स्थिताः सदा
मुक्तिं प्रति नराणाञ्च भोगः परमबन्धनः २

अथ भोगरूपयोगविघ्नकथनम्


नारी शय्यासनं वस्त्रं धनमस्य विडम्बनम्
ताम्बूलग्नयययानानि राज्यैश्वर्यविभूतयः
हैमं रौप्यं तथा ताम्रं रत्रञ्चागुरुधेनवः
पाण्डित्यं वेदशास्त्राणि नृत्यं गीतं विभूषणम्
वंशी वीणा मृदङ्गाश्च गजेद्रश्चाश्ववाहनम्
दारापत्यानि विषया विघ्ना एते प्रकीर्तिताः
भोगरूपा इमे विघ्ना धर्मरूपानिमाच्छुशु ३

अथ धर्मरूपयोगविघ्नकथनम्


स्नानं पूजाविधिर्होमं तथा मोक्षमयी स्थितिः
वतोपवासनियममौनमिन्द्रियनियहः
ध्येयो ध्यानं तथा मन्त्रो दानं ख्यातिर्दिशासु च
वापीकूपतडागादिप्रासादारामकल्पना
यशं चान्द्रायण कच्छूं तीर्थानि विविधानि च
दृश्यन्ते च इमे विघ्ना धर्मरूपेण संस्थिताः ४

अथ ज्ञानरूपविघ्नकथनम्


यत्तु विघ्नं भवेज्ज्ञानं कथयामि वरानने
गोमुखं स्वासनं कृत्वा धौतिप्रक्षालन च तत्
नाडीसञ्चारविज्ञानं प्रत्याहारनिरोधनम्
कुक्षिसंचालनं क्षिप्रं प्रवेश इन्द्रियाध्वना
नाडीकर्माणि कल्याणि भोजनं श्रयतां मम ५
नवधातुरसं छिन्धि शुयिउकास्ताडयेत्पुनः
एककालं समाधिः ख्याञ्जिगभूतमिदं शृणु ६
सङ्गमं गच्छ साधूनां संकोचं भज दुर्जनात्
प्रवेशनिर्गमे वायोर्गुरुलक्षं विलोकयेत् ७
पिण्डस्थं रूपसंस्थञ्च रूपस्थं रूपवर्जितम्
बर्ह्यैतस्मिन्मतावच्छा हृदयञ्च प्रशाम्यति
इत्येते कथिता विघ्ना ज्ञानरूपे व्यवस्थिताः ८

अथ चतुर्विधयोगकथनम्


मन्त्रयोगो हत्वश्चैव लययोगस्तृतीयकः
चतुर्थो राजयोगः स्यात्स द्विधाभाववर्जितः ९
चतुर्धा साधको ज्ञेयो मृदुमध्याधिमात्रकाः
अधिमात्रतमः श्रेष्ठो भवाब्धौ लघनक्षमः १०

अथ मृदुसाधकलक्षणम्


मन्दोत्साही सुसमस्वो व्याधिस्थो गुरुदूषकः
लोभी पापमतिश्चैव बह्वाशी वनिताश्रयः
चपलः कातरो रोगी पराधीनोऽतिनिष्ठुरः
मन्दाचारो मन्दवीर्यो ज्ञातव्यो मृदुमानवः
द्वादशाब्दे भवेत्सिद्धिरेतख्य यत्नतः परम्
मन्त्रयोगाधिकारी स ज्ञातव्यो गुरुणा ध्रुवम् ११
समबुद्धिः क्षमायुक्तः पुययाकाक्षी प्रियंवदः
मध्यस्थः सर्वकार्येषु सामान्यः ख्याव संशयः
एतज्जात्वैव गुरुभिर्दीयते मुक्तितो लयः १२

अथ अधिमात्रसाधकलक्षणम्


स्थिरबुद्धिर्लये युक्तः स्वाधीनो वीर्यवानपि
महाशयो दयायुक्तः क्षमावान् सत्यवानपि
शूरो वयस्थः श्रद्धावान् गुरुपादाज्जपूजकः
योगाभ्यासरतश्चैव ज्ञातव्यश्चाधिमात्रकः
एतस्य सिद्धिः षड्वर्षे भवेदभ्यासयोगतः
एतस्मै दीयते धीरो हढयोगश्च साहतः १३

अथ अधिमात्रतमसाधकलक्षणम्


महावीर्यान्वितोत्साही मनोज्ञः शौर्यवानपि
शास्त्रज्ञोऽभ्यासशीलश्च निर्मोहश्च निराकुलः
नवयौवनसम्पत्रो मिताहारी जितेंद्रियः
निर्भयश्च शुचिर्दक्षो दाता सर्वजनाश्रयः
अधिकारी स्थिरो धीमान् यथेच्छावस्थितः क्षमी
सुशीलो धर्मचारी च गुप्तचेष्टः प्रियंवदः
शास्त्रविश्वाससम्पत्रो देवता गुरुपूजकः
जनसंगविरक्तश्च महाव्याधि विवर्जितः
अधिमात्रवतज्ञश्च सर्वयोगस्य साधकः
त्रिभिः संवत्सरैः सिद्धिरेतस्य नात्र संशयः
सर्वयोगाधिकारी स नात्र कार्या विचारणा

अथ प्रतीकोपासनम्


प्रतीकोपासना कार्या दृष्टादृष्टफलप्रदा
पुनाती दर्शनादत्र नात्र कार्या विचारणा १५
गाढातपे स्वप्रतिविम्बितेश्वरं निरीक्ष्य विस्फारितलोचनद्वयम्
यदा नभः पश्यति स्वप्रतीकं नथोहणे तत्वरगमेव पश्यति १६
प्रत्यहं पश्यते यो वै स्वप्रतीकं नथोहणे
आयुर्भूद्धिर्भवेत्तस्य न मृत्युः ख्यात्कदाचन १७
यदा पश्यति सम्पूर्णं स्वप्रतीकं नथोहणे
तदा जयमवाप्नोति वायुं निर्जित्य सञ्चरेत् १८
यः करोति सदाभ्यासं चात्मानं वन्दते परम्
पूर्णानन्दैकपुरुषं स्वप्रतीकप्रसादतः १६
यात्राकाले विवाहे च शुभे कर्मणि सङ्कटे
पापक्षये पुययवृद्धौ प्रतीकोपासनञ्चरेत् २०
निरनारकृताभ्यासादनारे पश्यति ध्रुवम्
तदा मुक्तिमवाप्नोति योगी नियतमानसः २१
अंगुष्ठाभ्यामुभे श्रोत्रे तर्जनीभ्यां द्विलोचने
नासारन्ध्रे च मध्याभ्यामनामाभ्यां मुखं दृढम्
निरुध्य मारुतं योगी यदैव कुरुते भृशम्
तदा लक्षणमात्सान ज्योतीरूपं स पश्यति २२
तत्तेजो दृश्यते येन क्षणमात्रं निराकुलम्
सर्वपापविनिर्मुक्तः स याति परमां गतिम् २३
निरनारकृताभ्यासाद्योगी विगतकच्चष
सर्वदेहादि विस्मृत्य तदभिन्नः स्वयं गतः २४
यः करोति सदाभ्यासं गुप्ताचारेण मानवः
स वै ब्रह्मविलीनः ख्यात्पापकर्मरतो यदि २५
गोपनीयः प्रयत्नेन सद्यः प्रत्ययकारकः
निर्वाणदायको लोके योगोय मम वल्लभः
नादः संजायते तस्य क्रमेणाभ्यासतश्च वै २६
मलधृहवेणुवीरयासदृशः प्रथमो ध्वनिः
एवमभ्यासतः पश्चात् संसारध्वानानाशनम्
चराटानादसमः पश्चात् ध्वनिर्मेघरवोपमः
ध्वनौ तस्मिन्मनो दत्त्वा यदा तिष्ठति निर्भयः
तदा संजायते तस्य लयस्य मम वल्लभे २७
तत्र नादे यदा चित्तं रमते योगिनो भृशम्
विस्मृत्य सकलं बाह्यं नादेन सह शाम्यति २८
एतदभ्यासयोगेन जित्वा सम्यागुणान्वहून्
सर्वारम्भपरित्यागी चिदाकाशे विलीयते २६
नासनं सिद्धसदृशं न कुस्थसदृशं बलम्
न रवेचरीसमा मुद्रा न नादसदृशो लयः ३०
इदानीं कथयिष्यामि मुक्तस्यानुभवं प्रिये
यज्ज्ञात्वा लभते मुक्तिं पापयुक्तोपि साधकः ३१
समभ्यर्च्येश्वरं सम्यकृत्वा च योगमुत्तमम्
बाह्णीयात्सुस्थितो भूत्वा गुरुं सन्तोष्य बुद्धिमान् ३२
जीवादि सकलं वस्तु दत्त्वा योगविदं गुरुम्
सन्तोष्यातिप्रयत्रेन योगोय गृह्यते बुधैः ३३
विप्रान्मतोष्य मेधावी नानामगलसंयुतः
ममालये शुचिर्भूत्वा प्रजाह्णीयाच्छुथाल्पकम् ३४
संन्यख्यानेन विधिना प्राक्तनं विग्रहादिकम्
भूत्वा दिव्यवपुर्योगी बाह्णीयाद्वययमाणकम् ३५
पद्यासनस्थितो योगी जनसंगविवर्जितः
विज्ञाननाडीद्वितयमहलीभ्यां निरोधयेत् ३६
सिद्धेस्तदाविर्भवति सुखरूपी निरञ्जनः
तस्मिन्यरिश्रमः कार्यो येन सिद्धो भवेत्खलु ३७
यः करोति सदाभ्यासं तस्य सिद्धिर्न दूरतः
वायुसिद्धिर्भवेत्तस्य क्रमादेव न संशयः ३८
सकृद्यः कुरुते योगी पापौघं नाशयेद्ध्रुवम्
तस्य ख्यान्मल नात्र सशयः ३६
एतदभ्यासशीलो यः स योगी देवपूजितः
अरिगमादिगुरगाक्त्यँध्वा विचरेद्धुवनत्रये ४०
यो यथाख्यानिलाभ्यासात्तद्भवेत्तस्य विग्रहः
तिष्ठेदात्सनि मेधावी संयुतः क्रीडते भृशम् ४१
एतद्योगं परं गोप्यं न देयं यस्य कस्यचित्
यः प्रमाणैः समायुक्तस्तमेव कथ्यते ध्रुवम् ४२
योगी पद्मासने तिष्ठेत्कयत्वकूपे यदा स्मरन्
जिह्नां कृत्वा तालुमूले क्षुत्पिपासा निवर्तते ४३
कयउकूपादधः स्थाने कूर्मनाडघस्ति शोभना
तस्मिन् योगी मनो दत्त्वा चित्तस्थैर्यं लभेद्भशम् ४४
शिरः कपाले रुद्राक्षं विवरं चिन्तयेद्यदा
तदा ज्योतिः प्रकाशः ख्याद्विद्युत्पुञ्जसमप्रथः
एतञ्चिनानमात्रेण पापानां संक्षयो भवेत्
दुराचारोऽपि पुरुषो लभते परमं पदम् ४५
अहर्निशं यदा चिन्तां तत्करोति विचक्षणाः
सिद्धानां दर्शनं तस्य भाषणञ्च भवेद्धृध्रुवम् ४६
तिष्ठन् गच्छन् स्वपन् भुञ्जन् ध्यायेच्छून्यमहर्निशम्
तदाकाशमयो योगी चिदाकाशे विलीयते ४७
एतज्ज्ञानं सदा कार्यं योगिना सिद्धिमिच्छता
निरनारकृताभ्यासान्मम तुल्यो भवेद्धृध्रुवम्
एतज्जानबलाद्योगी सर्वेषां वल्लभो भवेत् ४८
सर्वान् भूतान् जयं कृत्वा निराशीरपरिग्रहः
नासाग्रे दृश्यते येन पद्यासनगतेन वै
मनसो मरण तस्य खेचरत्वं प्रसिद्ध्यति ४६
ज्योतिः पश्यति योगीन्द्रः शुद्धं शुद्धाचलोपमम्
तत्राभ्यासबलेनैव स्वयं तद्रक्षको भवेत् ५०
उत्तानशयने भूमौ सुप्त्वा ध्यायन्निरनारम्
सद्यः श्रमविनाशाय स्वयं योगी विचक्षणः
शिरः पश्चात्तु भागस्य ध्याने मृत्युञ्जयो भवेत्
भ्रूमध्ये दृष्टिमात्रेण ह्यपरः परिकीर्तितः ५१
चतुर्विधस्य चान्नस्य रसस्त्रेधा विभज्यते
तत्र सारतमो लिंगदेहस्य परिपोषकः
सप्तधातुमय पिण्डमेती पुष्णाति मध्या, ५२
याति वियमूत्ररूपेण तृतीयः सप्ततो बहिः
आद्यभागद्वय नाड्यः प्रोक्तास्ताः सकला अपि
पोषयन्ति वपुर्वायुमापादतलमस्तकम् ५३
नाडीभिराभिः सर्वाभिर्वायुः सञ्चरते यदा
तदैवात्ररसो देहे साम्येनेह प्रवर्तते ५४
चतुर्दशानां तत्रेह व्यापारे मुरतयथागतः
ता अनुप्रत्वहीनाश्च प्राणसञ्चारनाडिकाः ५५
गुदाद्वयंगुलतश्चोर्ध्वं मेतैकागुलतस्त्वधः
एवञ्चास्ति समं कन्दं समताञ्चतुरंगुलम् ५६
पश्चिमाभिमुखीः योनिर्गुदमेढ्रान्तरालगा
तत्र कन्दं समाख्यातं तत्रास्ति कुण्डली सदा
संवेष्ट्य सकला नाडीः सार्द्धत्रिकुटलाकृतीः
मुखे निवेश्य सा पुच्छं सुषुम्यगाविवरे स्थिता ५७
सुप्ता नागोपमा ह्येषा स्फुरन्ती प्रभया स्वया
अहिवत्सन्धिसंस्थाना वावदेवी बीजसंज्ञिका ५८
ज्ञेया शक्तिरियं विष्ययोर्निर्थरा स्वरर्गभास्वरा
सत्त्वं रजस्तमश्चेति गुणत्रयप्रसूतिका ५६
तत्र बन्धूकपुष्पाभं कामबीजं प्रकीर्तितम्
कलहेमसमं योगे प्रयुक्ताक्षररूपिणम् ६०
सुषुम्यगापि च संश्लिष्टा बीजं तत्र वरं स्थितम्
शरञ्चद्रनिभं तेजञ्जयमेतक्त्युरोक्त्यतम्
सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम्
एतत्त्रयं मिलित्वैव देवी त्रिपुरथैरवी
बीजसंज्ञं परतेजस्तदेव परिकीर्तितम् ६१
क्रियाविज्ञानशक्तिभ्यां युतं यत्परितो भ्रमत्
उत्तिष्ठद्विशतस्त्वस्थः सूक्ष्मं शोणशिखायुतम्
योनिस्थं तत्परं तेजः स्वयंभूलिंगसंज्ञितम् ६२
आधारपद्यमेतद्धि योनिर्यख्यास्ति कन्दतः
परिस्फुरद्वादिसान्तचतुर्वर्णं चतुर्दलम् ६३
कुलाभिधं सुवर्णाभं स्वयस्थूलिहसंगतम्
द्विरयडो यत्र सिद्धोस्ति डाकिनी यत्र देवता
तत्पद्यमध्यगा योनिस्तत्र कुडूणलिनी स्थिता
तस्या ऊर्ध्वे स्फुरत्तेजः कामबीजं भ्रमन्मतम्
यः करोति सदा ध्यानं मूलाधारे विचक्षणाः
तस्य ख्याद्दार्दुरी सिद्धिर्भूमित्यागक्रमेण वै ६४
चपुष कान्तिरुत्कृष्टा जढराग्निविवर्धनम्
आतोयञ्च पटुत्वञ्च सर्वज्ञत्वञ्च जायते ६५
भूतं भव्यं भविष्यञ्च वेत्ति सर्वं सकारणम्
अश्रुतान्यपि शास्त्राणि सरहस्यं भवेद्धृध्रुवम् ६६
वक्त्रे सरस्वती देवी सदा नृत्यति निर्भरम्
मन्त्रसिद्धिर्भवेत्तख्य जपादेव न संशयः ६७
जरामरणदुरवौघान्नाशयति गुरोर्वचः
इदं ध्यानं सदा कार्यं पवनाभ्यासिना परम्
ध्यानमात्रेण योगीन्द्रो मुच्यते सर्वकिल्विषात् ६८
मूलपद्यं यदा ध्यायेद्योगी स्वयम्मुलिहकम्
तदा तत्वणमात्रेण पापौघं नाशयेद्ध्रुवम् ६९
यं यं कामयते चित्ते तं तं फलमवाप्नुयात्
निरनारकृताभ्यासात्तं पश्यति विभुक्तिदम्
बहिरभ्यन्तरे श्रेष्ठं पूजनीयं प्रयत्नतः
ततः श्रेष्ठतमं ह्येतत्रान्यदस्ति मतं मम ७०
आत्मसंस्थं शिवं त्यक्त्या बहिस्थं यः समर्चयेत्
हस्तस्थं पिण्डमुत्सृज्य भ्रमते जीविताशया ७१
आत्सलिंगार्चनं कुर्यादनालस्यं दिने दिने
तस्य ख्यात्सकला सिद्धिर्नात्र कार्या विचारणा ७२
निरनारकृताभ्यासात्पयमासैः सिद्धिमाप्नुयात्
तस्य वायुप्रवेशोपि सुषुम्यगायास्थवेदध्रुवम् ७३
मनोजयञ्च लभते वायुविन्दुविधारणात्
ऐहिकामुष्ट्यिकीसिद्धिर्भवेन्नैवात्र संशयः ७४

अथ स्वाधिष्ठानचक्रविवररगम्


द्वितीयन्तु सरोजञ्च लिंगमूले व्यवस्थिम्
बादिलान्तं च षड्वरय परिभास्वरषड्दलम्
स्वाधिष्ठानाभिधं तत्तु पंकजं शोणरूपकम्
बालाख्यो यत्र सिद्धोऽस्ति देवी यत्रास्ति राकिणी ७५
वो ध्यायति सदा दिव्यं स्वाधिष्ठानारविन्दकम्
तस्य कामाहनाः सर्वा भजन्ते काममोहिताः ७६
विविधञ्चाश्रुतं शास्त्रं निःशङ्को वै भवेदधुवम्
सर्वरोगविनिर्मुक्तो लोके चरति निर्भयः ७७
मरणं खाद्यते तेन स केनापि न खाद्यते
तस्य स्यात्परमा सिद्धिरणिमादिगुणप्रदा
वायुः सञ्चरते देहे रसवृद्धिर्भवेदध्रुवम्
आकाशपङ्कजगलत्पीयूषमपि वर्द्धते ७८

अथ मणिपूरचक्रविवरणम्


तृतीयं पङ्कज नाभौ मणिपूरकसंज्ञकम्
दशारडादिफानाणि शोभितं हेमवर्णकम् ७६
रुद्राख्यो यत्र सिद्धोऽस्ति सर्वमहलदायकः
तत्रस्था लाकिनी नाम्री देवी परमधार्मिका ८०
तस्मिन् ध्यानं सदा योगी करोति मणिपूरके
तस्य पातालसिद्धिः स्राविरन्तरसरवावहा
ईप्सितञ्च भवेल्लोके दुरवरोगविनाशनम्
कालस्य वञ्चनञ्चापि परदेहप्रवेशनम् ८१
जाम्बूनदादिकरणं सिद्धानां दर्शनं भवेत्
ओषधीदर्शनञ्चापि निधीनां दर्शनं भवेत् ८२
हृदयेऽनाहतं नाम चतुर्थं पङ्कज भवेत्
कादिढान्तार्णसंस्थानं द्वादशारसमन्वितम्
अतिशोण वायुबीजं प्रसादस्थानमीरितम् ८३
पद्मस्थं तत्परं तेजो बाणलिगं प्रकीर्तितम्
यस्य स्मररगमात्रेण दृष्टादृष्टफलं लभेत् ८४
सिद्धः पिनाकी यत्रास्ते काकिनी यत्र देवता
एतस्मिन्मततं ध्यानं हृत्पाथोजे करोति यः
क्षुभ्यन्ते तस्य कान्ता वै कामार्ता दिव्ययोषित ८५
ज्ञानञ्चाप्रतिम तस्य त्रिकालविषयस्थवेत्
दूरश्रुतिर्दूरदृष्टिः स्वेच्छया स्वगता वजेत् ८६
सिद्धानां दर्शनञ्चापि योगिनी दर्शनं तथा
भवेतवेचरसिद्धिश्च खेचराणां जयन्तथा ८७
यो ध्यायति परं नित्यं बाणलिगं द्वितीयकम्
खेचरी भूचरी सिद्धिर्भवेत्तस्य न संशयः ८८
एतद्धघानस्य माहात्म्यं कथितं नैव शक्यते
ब्रह्माद्याः सकला देवा गोपयन्ति परञ्जिदम् ८९

अथ विशुद्धचक्रविवररगम्


कयउस्थानस्थितं पद्यं वुशुद्धं नामपञ्चमम्
सुहेमाभं स्वरोपेतं षोडशस्वरसंयुतम्
छगलायडोऽस्ति सिद्धोत्र शाकिनी चाधिदेवता ९०
ध्यानं करोति यो नित्यं स योगीश्वरपण्डितः
किन्त्वस्य योगिनोऽन्यत्र विशुद्धाख्ये सरोरुहे
चतुर्वेदा विभासन्ते सरहस्या निधेरिव ९१
रहस्थाने स्थितो योगी यदा क्रोधवशो भवेत्
तदा समस्त १ ल नात्र सशयः ९२
इह स्थाने मनो यस्य दैवाद्यातिलयं यदा
तदा बाह्यं परित्यज्य स्वान्तरे रमते ध्रुवम् ६३
तस्य न क्षतिमायाति स्वशरीरस्य शक्तितः
संवत्सरसहस्रेऽपि वज्रातिकोढनख्य वै ६४
यदा त्यजति तद्ध्यानं योगीद्रोऽवनिमण्डले
तदा वर्षसहस्राणि मन्यते तत्क्षणं कृती ९५

अथ आज्ञाचक्रविवररगम्


आज्ञापद्य भ्रुवोर्मध्ये हक्षोपेतं द्विपत्रकम्
शुक्लाभं तन्महाकालः सिद्धो देव्यत्र हाकिनी ९६
शरञ्चद्रनिभं तराक्षरबीजं विजंभितम्
पुमान् परमहसोऽयं यज्जात्वा नावसीदति ९७
एतदेव परन्तेजः सर्वतन्त्रेषु मन्त्रिणः
चिन्तयित्वा परां सिद्धिं लभते नात्र संशयः ९८
तुरीयं त्रितयं लिंगं तदाहं मुक्तिदायकः
ध्यानमात्रेण योगीन्द्रो मत्समो भवति ध्रुवम् ९९
इडा हि ओषगला ख्याता वरणासीति होच्यते
वाराणसी तयोर्मध्ये विश्वनाथोत्र भाषितः १००
एतत्वेत्रस्य माहात्म्यभूषिभिस्तत्त्वदर्शिभिः
शास्त्रेषु बहुधा प्रोक्तं परं तत्त्वं सुभाषितम् १०१
सुषुम्यगा मेरुणा याता बह्यरञ्ज यतोऽस्ति वै
ततश्चैषा पराहत्य तदाज्ञापद्यदक्षिणे
वामनासापुटं याति ७गेति परिगीयते १०२
ब्रह्यरन्धे हि यत्पद्य सहस्रारं व्यवस्थितम्
तत्र कन्देहि या योनिस्तन्त्वा चन्द्रो व्यवस्थितः
त्रिकोणाकारतस्तख्याः सुधा क्षरति सन्ततम्
इडायाममृतं तत्र समं स्रवति चन्द्रमाः
अमृतं वहति धारा धारारूपं निरन्तरम्
वामनासापुटं याति गंगेत्युक्ता हि योगिभिः १०३
आज्ञापङ्कजदक्षासाद्वामनासापुटगता
उदावहेति तत्रेडा वरणा समुदाहृता १०४
ततो द्वयोर्हि मध्ये तु वाराणसीति चिन्तयेत्
तदाकारा ओषगलापि तदाज्ञाकमलानारे
दक्षनासापुटे याति प्रोक्तास्माभिरसीति वै १०५
मूलाधारे हि यत्पद्य चतुष्पत्रं व्यवस्थितम्
तत्र मध्येहि या योनिस्तन्त्वा सूर्यो व्यवस्थितः १०६
तत्सूर्यमयडलद्वाराद्विष क्षरति सन्ततम्
ओषगलायां विषं तत्र समर्पयति तापनः १०७
विषं तत्र वहन्ती या धारारूपं निरन्तरम्
दक्षनासापुटे याति कल्पितेयन्तु पूर्ववत् १०८
आज्ञापङ्कजवामाख्याद्दक्षनासापुटं गता
उदावहा ओषगलापि पुरासीति प्रकीर्तिता १०९
आज्ञापद्यमिदं प्रोक्तं यत्र देवो महेश्वरः
पीउत्रयं ततश्चोर्ध्वं निरुक्तं योगचिन्तकैः
तद्विन्दुनादशक्त्याख्यं भालपद्ये व्यवस्थितम् ११०
यः करोति सदाध्यानमाज्ञापद्यख्य गोपितम्
पूर्वजन्मकृतं कर्म विनश्येदविरोधतः ११९
इह स्थिते यदा योगी ध्यानं कुर्यात्रिरन्तरम्
तदा करोति प्रतिमां पूजाजपमनर्थवत् ११२
यक्षराक्षसगन्धर्वा अष्मरोगरवकिन्नराः
सेवन्ते चरणौ तस्य सर्वे तस्य वशानुगाः ११३
करोति रसनां योगी प्रविष्टां विपरीतगाम्
लम्बिकोर्ध्वेषु गर्तेषु धृत्वा ध्यानं भयापहम्
अस्मिन् स्थाने मनो यस्य क्षणार्धं वर्ततेऽचलम्
तस्य सर्वाणि पापानि संक्षयं यान्ति तत्त्वात् ११४
यानि यानि हि प्रोक्तानि पंचपद्ये फलानि वै
तानि सर्वाणि सुतरामेतज्जानाव्यवन्ति हि ९१५
यः करोति सदाभ्यासमाज्ञा पद्ये विचक्षणः
वासनाया महाबन्धं तिरस्कृत्य प्रमोदते ११६
प्राणप्रयाणसमये तत्पद्यं यः स्मरन्मुधीः
त्यजेत्पारगं स धर्मात्मा परमात्मनि लीयते ११७
तिष्ठन् गच्छन् स्वपन् जाग्रत् यो ध्यानं कुरुते नरः
पापकर्मविकुर्वाणो हनि मज्जति किल्विषे ११८
योगी बन्धाद्विनिर्मुक्ताः स्वीयया प्रभया स्वयम्
द्विदलध्यानमाहात्म्यं कथितुं नैव शक्यते
बह्यादिदेवताश्चैव किञ्चिन्मत्तो विदन्ति ते ११९
अत ऊर्ध्वं तालुमूले सहस्रारंसरोरुहम्
अस्ति यत्र सुषुम्यगाया मूलं सविवरं स्थितम् १२०
तालुमूले सुषुम्यगा सा अधोवक्या प्रवर्तते
मूला धारेणयोन्यस्ताः सर्वनाड्यः समाश्रिताः
ता बीजभूतास्तत्त्वख्य बह्यमार्गप्रदायिकाः १२१
तालुस्थाने च यत्पद्य सहस्रारं पुराहितम्
तत्कन्दे योनिरेकास्ति पश्चिमाग्निमुखी मता १२२
तस्या मध्ये सुषुम्यगाया मूलं सविवरं स्थितम्
ब्रह्यरन्धं तदेवोक्तमामूलाधारपङ्कजम् १२३
ततस्तम्भधे तच्छक्तिः सुषुन्यया कुण्डली सदा
सुषुम्यगायां सदा शक्तिश्चित्रा स्यान्मम वल्लभे
तस्यां मम मते कार्या बह्यरञ्जादिकल्पना १२४
यस्याः ख्यररगमात्रेण ब्रह्यज्ञत्वं प्रजायते
पापक्षयश्च भवति न भूयः पुरुषो भवेत् १२५
प्रवेशितं चलाहष्ठं मुखे स्वस्य निवेशयेत्
तेनात्र न वहत्येव देहचारी समीरणः १२६
तेन संसारचक्रेस्मिन् भ्रमतीत्येव सर्वदा
तदर्थं ये प्रवर्तन्ते योगी न प्राणधारणे
तत एवाखिला नाडी विरुद्धा चाष्टवेष्टनम्
इयं कुण्डलिनी शक्ती रन्ध्रं त्यजति नान्यथा १२७
यदा पूर्णासु नाडीषु सत्रिरुद्धानिलास्तदा
बन्धत्यागेन कुण्डल्या मुखं स्नधात् बहिर्भवेत् १२८
सुषुम्यगायां सदैवायं वहेत्प्राणसमीरणः
मूलपद्यास्थिता योनिर्वामदक्षिणकोणतः
इडापिंगलयोर्मध्ये सुषुम्यगा योनिमध्यगा १२६
बह्यरन्ध्रतु तत्रैव सुषुम्यगाधारमण्डले
यो जानाति स मुक्तः ख्यात्कर्मबन्धाद्विचक्षणः १३०
बह्यरन्धमुखे तासां संगमः ख्यादसंशयः
तस्मिन्त्राने स्नातकानां मुक्तिः ख्यादविरोधतः १३१
गंगायमुनयोर्मध्ये वहत्येषा सरस्वती
तासां तु संगमे स्नात्वा धन्यो याति परां गतिम् १३२
इडा गंगा पुरा प्रोक्ता ओषगला चार्कपुत्रिका
मध्या सरस्वती प्रोक्ता तासां सगोऽतिदुर्लभः १३३
सितासिते संगमे यो मनसा स्नानमाचरेत्
सर्वपापविनिर्मुक्तो याति बह्य सनातनम् १३४
त्रिवेरायां संगमे यो वै पितृकर्म समाचरेत्
तारयित्वा ओपसृभ्यवन्मि याति परमां गतिम् १३५
नित्यं नैमित्तिकं काम्यं प्रत्यहं यः समाचरेत्
मनसा चिन्तयित्वा तु सोऽक्षयं फलमाप्नुयात् १३६
सकृद्यः कुरुते स्रानं स्वर्गे सौख्य भुनक्ति सः
दग्ध्वा पापानशेषान्वै योगी शुद्धमतिः स्वयम् १३७
अपवित्रः पवित्री वा सर्वावस्थां गतोपि वा
स्रानाचररगमात्रेण पूतो भवति नान्यथा १३८
मृत्युकाले प्लुतं देहं त्रिवेरायाः सलिले यदा
विचिन्त्य यस्त्वजेत्पारगान्म तदा मोक्षमाप्नुयात् १३९
नातपरतरं गुह्यं त्रिषु लोकेषु विद्यते
गोप्तव्यं तत्प्रयत्नेन न व्याख्येयं कदाचन १४०
ब्रह्यरन्धे मनो दत्त्वा क्षणार्धं यदि तिष्ठति
सर्वपापविनिर्मुक्तः स याति परमां गतिम् १४१
अस्मिञ्जँनिं मनो यस्य स योगी मयि लीयते
आनिमादिगुणान्मुक्त्या स्वेच्छया पुरुषोत्तमः १४२
एतदञ्जध्यानमात्रेण मर्त्यः संसारे स्मिन्वञ्जथो मे भवेत्सः
पापाञ्जित्वा मुक्तिमार्गाधिकारी शानं दत्त्वा तारयत्यद्भुतं वै १४३
चतुर्मुखादित्रिदशैरगम्यं योगिवल्लभम्
प्रयत्रेन सुगोप्यं तद्बह्यरन्ध्रं मयोदितम् १४४
पुरा मयोक्ता या योनिः सहस्रारे सरोरुहे
तख्याऽधो वर्तते चन्द्रस्तद्धधानं क्रियते बुधैः १४५
यस्य स्मरणमात्रेण योगीन्द्रोऽवनिमण्डले
पूज्यो भवति देवानां सिद्धानां सम्मतो भवेत् १४६
शिरकपालविवरे ध्यायेद्दग्धमहोदधिम्
तत्र स्थित्वा सहस्रारे पद्ये चन्द्रं विचिन्तयेत् १४७
शिरकपालविवरे द्विरष्टकलया युतः
पीयूषभानुहसारतयं भावयेत्तं निरंजनम्
निरनारकृताभ्यासाविदिने पश्यति ध्रुवम्
दृष्टिमात्रेण पापौघं दहत्येव स साधकः १४८
अनागतञ्च स्फुरति चित्तशुद्धिर्भवेतवलु
सद्यः कृत्वापि दहति महापातकपञ्चकम् १४६
आनुकूल्यं ग्रहा यान्ति सर्वे नश्यन्त्युपद्रवाः
उपसर्गाः शम यान्ति युद्धे जयमवाप्नुयात्
रवेचरीथूचरीसिद्धिर्भवेच्चीरेन्दुदर्शनात्
ध्यानादेवभवे त्सर्वं नात्र कार्या विचारणा
सतताभ्यासयोगेन सिद्धो भवति नान्यथा
सत्यं सत्यं पुनः सत्यं मम तुल्यो भवेद्ध्रुवम्
योगशास्त्रेऽप्यभिरतं योगिनां सिद्धिदायकम् १५०

अथ राजयोगकथनम्


अत ऊर्ध्वं दिव्यरूपं सहस्रारं सरोरुहम्
बह्यायडारतयस्य देहस्य बाह्ये तिष्ठति मुक्तिदम् १५१
कैलासो नाम तस्यैव महेशो यत्र तिष्ठति
नकुलारलयोऽविनाशी च क्षयवृद्धिविवर्जितः १५२
स्थानस्यास्य ज्ञानमात्रेण नृणां संसारेऽस्मिन्मस्थवो नैव भूयः
भूतग्रामं सन्तताभ्यासयोगात्कर्तुं हर्तुं स्यान्न शक्तिः समया १५३
स्थाने परे हंसनिवासभूते कैलासनाम्रीह निविष्टचेताः
योगी हृततयाधिरधः कृताधिवरायुश्चिरं जीवति मृत्युमुक्तः १५४
चित्तहत्तिर्यदा लीना कुलाख्ये परमेश्वरे
तदा समाधिसाम्येन योगी निश्चलतां वजेत् १५५
निरनारकृते ध्याने जगद्विस्मरणं भवेत्
तदा विचित्रसामर्थ्यं योगिनो भवति ध्रुवम् १५६
तस्माद्गलितपीयूषं पिबेद्योगी निरन्तरम्
मृत्योर्मृत्युं विधायाशु कुलं जित्वा सरोरुहे
अत्र कुण्डलिनी शक्तिर्लयं याति कुलाभिधा
तदा चतुर्विधा सृष्टिर्लीयते परमात्मनि १५७
यज्ज्ञात्वा प्राप्य विषयं चिअत्तहत्तिर्विलीयते
तस्मिन् परिश्रमं योगी करोति निरपेक्षकः १५८ः
चित्तहोत्तयदालीना तस्मिन् योगी भवेदधुवम्
तदा विज्ञायतेऽरवयडज्ञानरूपो निरञ्जनः १५९
बह्यायडबाह्ये संचिंत्य स्वप्रतीकं यथोदितम्
तमावेश्य महच्छून्यं चिन्तयेदविरोधतः १६०
आद्यन्तमध्यशून्यं तल्कोटिसूर्यसमप्रभम्
चन्द्रकोटिप्रतीकाशमभ्यस्य सिद्धिमाप्नुयात् १६१
एतद्ध्यानं सदा कुर्यादनालस्यं दिने दिने
तस्य ख्यात्सकला सिद्धिर्वत्सरान्नात्र संशयः १६२
क्षणार्धं निश्चलं तत्र मनो यस्य भवेदधुवम्
स एव योगी सव्यक्तः सर्वलोकेषु पूजितः १६३
तस्य कञ्जषसंघातस्तत्वरगादेव नश्यति १६४
यं दृष्ट्वा न प्रवर्तंते मृत्युसंसारवर्त्मनि
अभ्यसेत्तं प्रयत्नेन स्वाधिष्ठानेन वर्त्मना १६५
एतद्धघानस्य माहात्म्यं मया वक्तुं न शक्यते
यः साधयति जानाति सोस्माकमपि सम्मतः १६६
ध्यानादेव विजानाति विचित्रेक्षणसस्थवम्
अरिगमादिगुणोपेतो भवत्येव न संशयः १६७
राजयोगो मयाख्यातः सर्वतन्त्रेषु गोपितः
राजाधिराजयोगोऽयं कथयामि समासतः २६८
स्वस्तिकञ्चासनं कृत्वा सुमत्वे जन्तुवर्जिते
गुरुं संपूज्य यत्रेन ध्यानमेतत्समाचरेत् १६६
निराच्चधं भवेज्जीवं ज्ञात्वा वेदान्तयुक्तितः
निरालम्बं मनः कृत्वा न किञ्चिञ्चिनायेत्सुधीः १७०
एतद्ध्यानान्यहासिद्धिर्भवत्येव न संशयः
वृत्तिहीनं मनः कृत्वा पूर्णरूपं स्वयं भवेत् १७१
साधयेत्सततं यो वै स योगी विगतस्पृहः
अहंनाम न कोप्यस्ति सर्वदाल्पैव विद्यते १७२
को कथः कस्य वा मोक्ष एकं पश्येत्सदा हि सः
एतल्करोति यो नित्यं स मुक्तो नात्र संशयः १७३
स एव योगी सव्यक्तः सर्वलोकेषु पूजितः
अहमस्मीति यन्मत्वा जीवात्मपरमात्मनोः
अहं त्वमेतदुभयं त्यक्त्यारवयड विचिन्तयेत्
अध्यारोपापवादाभ्यां यत्र सर्वं विलीयते
तद्वीजमाश्रयेद्योगी सर्वसंगविवर्जितः १७४
अपरोक्षं चिदानन्दं पूर्ण त्यक्त्वा भ्रमाकुलाः
परोक्षं चापरोक्षं च कृत्वा मूढा भ्रमन्ति वै १७५
चराचरमिदं विश्वं परोक्षं यः करोति च
अपरोक्षं परं बह्य त्यक्तं तस्मिन् प्रलीयते १७६
ज्ञानकाररगमज्ञानं यथा नोत्पद्यते भृशम्
अभ्यासं कुरुते योगी सदा सहविवर्जितम् १७७
सर्वेन्द्रियाणि संयम्य विषयेभ्यो विचक्षणः
विषयेभ्यः सुषुप्त्यैव तिष्ठेत्सगविवर्जितः १७८
एवमभ्यसतो नित्यं स्वप्रकाशं प्रकाशते
श्रोतुं बुद्धिसमर्थार्थं निवर्तन्ते गुगौर्गरः
तदभ्यासवशादेकं स्वतो ज्ञानं प्रवर्तते १७९
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह
साधनादमलं शानं स्वयं स्फुरति तद्ध्रुवम् १८०
हलं विना राजयोगो राजयोगं विना हठः
तस्मात्पवर्तते योगी हले सदुरुमार्गतः १८१
स्थिते देहे जीवति च योग न श्रियते भृशम्
इन्द्रियार्थोपभोगेषु स जीवति न संशयः १८२
अभ्यासपाकपर्यन्तं मितान्नं स्मरण भवेत्
अनाथा साधनं धीमान् कर्तुं पारयतीहन १८३
अतीवसाधुसंलापोवदेत् संसदिबुद्धिमान्
करोति पिण्डरक्षार्थं बह्नालापविवर्जितः
त्यज्यते त्यज्यते सहं सर्वथा त्यज्यते भृशम्
अन्यथा न लग्नेन्मुक्तिं सत्यं सत्यं मयोदितम् १८४
गुप्तथैव क्रियतेऽभ्यासः संगं त्यक्त्या तदन्तरे
व्यवहाराय कर्तव्यो बाह्ये संगानुरागतः
स्वे स्वे कर्मणि वर्तंते सर्वे ते कर्मसस्थवाः
निमित्तमात्रं करणे न दोषोस्ति कदाचन १८५
एवं निश्चित्य सुधिया बाहस्थोपि यदाचरेत्
तदा सिद्धिमवाप्नोति नात्र कार्या विचारणा १८६
पापपूययविनिर्मुक्तः परित्यक्ताहसाधकः
यो भवेत्स विमुक्तः ख्याद्गृहे तिष्ठन्मदा गृही
न पापपुरायैर्लिप्येत योगयुक्तो सदा गृही
कुर्वन्नपि तदा पापाञ्जकार्ये लोकसंयहे १८७
अधुना संप्रवक्ष्यामि मन्त्रसाधनमुत्तमम्
ऐहिकामुध्मिकसुरव येन ख्यादविरौधतः १८८
यस्मिन्मन्त्रे वरे ज्ञाते योगसिद्धिर्भवेतवलु
योगेन साधकेन्द्रस्य सर्वैश्वयेसुखप्रदा १८९
मूलाधारेस्ति यत्पद्य चतुर्दलसमन्वितम्
तन्मध्ये वावभव बीजं विस्फुरन्तं तडित्यथम् १९०
हृदये कामबीजंतु कधूककुसुमप्रभम्
आज्ञारविन्दे शक्त्याख्य चन्द्रकोटिसमप्रभम्
बीजत्रयमिदं गोप्यं भुक्तिमुक्तिफलप्रदम्
एतन्मन्त्रत्रयं योगी साधयेत्सिद्धिसाधकः १९१
एतन्मन्त्रं गुरोर्क्वद्यध्वा न द्रुतं न विलम्बितम्
अक्षराक्षरसन्धानं निसन्दिग्धमना जपेत् १९२
तद्गतश्चैकचित्तश्च शास्त्रोक्तविधिना सुधीः
देव्यास्तु पुरतो लक्षं हुत्वा लक्षत्रयं जपेत् १९३
करवीरप्रसूननुा गुडक्षीराज्यसंयुतम्
कुण्डे योन्याकृते धीमाञ्जपान्ते जुहुयात्सुधीः १९४
अनुष्ठाने कृते धीमान्यूर्वसेवा कृता भवेत्
ततो ददाति कामान्वै देवी त्रिपुरभैरवी १९५
गुरुं सन्तोष्य विधिवक्त्यध्वा मन्त्रवरोत्तमम्
अनेन विधिना युक्तो मन्दभावयोऽपि सिद्ध्यति १९६
लक्षमेकं जपेद्यस्तु साधको विजितेन्द्रियः
दर्शनात्तस्य क्षुभ्यन्ते योषितो मदनातुराः
पतन्ति साधकस्याये निर्लज्जा भयवर्जिताः १९७
जप्तेन चेद्द्विलक्षेण ये यस्मिन्विषये स्थिताः
आगच्छन्ति यथातीर्थं विमुक्तकुलवियहाः
ददति तस्य सर्वस्वं तस्यैव च वशे स्थिताः १९८
त्रिभिर्लक्षैस्तथाजप्तैर्मण्डलीकाः समण्डलाः
वशमायान्ति ते सर्वे नात्र कार्या विचारणा १६६
षड्भिर्लक्षैर्महीपालं सभृत्यबलवाहनम् २००
ललैर्द्वादशभिर्जसैर्यचरक्षोरश्वराः
वशमायान्ति ते सर्वे आशां कुर्वन्ति नित्यशः २०१
त्रिपञ्चलक्षजप्तैस्तु साधकेन्द्रस्य धीमतः
सिद्धविद्याधराश्चैव गन्धर्वाष्मरसागणाः
वशमायान्ति ते सर्वे नात्र कार्या विचारणा
हढाच्छ्रवणविज्ञानं सर्वज्ञत्वं प्रजायते २०२
तथाष्टादशभिर्लक्षैर्देहेनानेन साधकः
उत्तिष्ठेन्मेदिनीं तत् यस्त्वा दिव्यदेहस्तु जायते
भ्रमते स्वेच्छया लोके छिद्रां पश्यति मेदिनीम् २०३
अष्टाविंशतिभिर्लक्षैर्विद्याधरपतिर्भवेत्
साधकस्तु भवेद्धीमाच्छामरूपो महाबलः
त्रिंशक्त्यक्षैस्तथाजप्तैर्ब्रह्मविस्तुसमो भवेत्
रुद्रत्वं षष्टिभिर्लक्षैरमरत्वमशीतिभिः
कोटथैकया महायोगी लीयते परमे पदे
साधकस्तु भवेद्योगी त्रैलोक्ये सोऽतिदुर्लथः २०४
त्रिपुरे त्रिपुरन्त्येकं शिवं परमकारणम्
अक्षयं तत्पदं शानामप्रमेयमनामयम् ।।
लभतेऽसौ न सन्देहो धीमान्मर्वमभीप्सितम् २८५
शिवविद्या महाविद्या गुप्ता चाग्रे महेश्वरी
मन्वाषितमिदं शास्त्रं गोपनीयमतो बुधैः २०६
हउविद्या परंगोप्या योगिना सिद्धिमिच्छता
भवेद्वीर्यवती गुप्ता निर्वीर्या च प्रकाशिता २०७
य इदं पठते नित्यमाद्योपान्तं विचक्षणः
योगसिद्धिर्भवेत्तस्य क्रमेणैव न संशयः
समोक्षं लभते धीमान्य इदं नित्यमर्चयेत् २०८
मोक्षार्थिभ्यश्च सर्वेभ्यः साधुभ्यः श्रावयेदपि
क्रियायुक्तस्य सिद्धिः ख्यादक्रियस्य कथस्थवेत् २०९
तस्मात्कियाविधानेन कर्तव्या योगिपुंगवैः
यदृच्छालाभसन्तुष्टः सन्त्यक्त्यानारसंज्ञकः
बाहस्थश्चाप्यनासक्तः स मुक्तो योगसाधनात् २१०
गृहस्थानां भवेत्सिद्धिरीश्वराणां जपेन वै
योगक्रियाभियुक्तानां तस्मात्संयतते गृही २११
गेहे स्थित्वा पुत्रदारादिपूर्णः
सहं त्यक्त्वा चान्तरे योगमार्गे
सिद्धेश्चिह्नं वीक्ष्य पश्चाद् गृहस्थ-
क्रीडेत्सो वै मम्मतं साधयित्वा २१२

इति श्रीशिवसंहितायां हरगौरीसंवादे योगशास्त्रे
पंचमः पटल समाप्तः ५
शुभम्