शिवसंहिता/तृतीयः पटलः

विकिस्रोतः तः
Jump to navigation Jump to search
← द्वितीयः पटलः शिवसंहिता
[[लेखकः :|]]
चतुर्थः पटलः →

हृद्यस्ति पङ्कज दिव्यं दितयलिहेन भूषितम्
कादिढान्ताक्षतेपेतं द्वादशार्णविभूषितम् १
प्राणो वसति तत्रैव वासनाथिरलकृत.
अनादिकर्मसंश्लिष्ट. प्राप्याहङ्कारसंयुत. २
प्राणस्य वृत्तिभेदेन नामानि विविधानि च
वर्तन्ते तानि सर्वाणि कथितुं नैव शक्यते ३
प्राणोऽपान. समानश्चोदनो व्यानश्च पञ्चम.
नाग. कूर्मश्च कृकरो देवदत्तो धनञ्जय. ४
दश नामानि मुख्यानि मयोक्तानीह शास्त्रके
कुर्वन्ति तेऽत्र कार्याणि प्रेरितानि स्वकर्मभिः ५
अत्रापि वायव. पञ्च मुख्या. ख्युर्दशत. पुनः
तत्रापि श्रेष्ठकर्त्तारौ प्राणापानौ मयोदितौ ६
हृदि प्राणो गुदेऽपान. समानो नाभिमण्डले
उदान. कयउदेशस्थो व्यान. सर्वशरीरगः ७
नागादिवायव. पञ्च ते कुर्वन्ति च विग्रहे
उद्गारोन्मीलनं क्षुत्तृडूजुस्था हिका च पञ्चम. ८
अनेन विधिना यो वै ब्रह्याडं वेत्ति विग्रहम्
सर्वपापविनिर्मुक्तः स याति परमां गतिम् ९
अधुना कथयिष्यामि क्षिप्रं योगस्य सिद्धये
यज्ज्ञात्वा नावसीदन्ति योगिनो योगसाधने १०
भवेद्वीर्यवती विद्या गुरुवक्यसमुत्यवा
अन्यथा फलहीना ख्यान्निर्वीर्याप्यतिदुरवदा ११
गुरुं सन्तोष्य यत्रेन ये वै विद्यामुपासते
अवलम्बेन विद्यायासाख्या. फलमवाप्नुयात् १२
गुरु. पिता गुरुर्माता गुरुर्देवो न संशय.
कर्मणा मनसा वाचा तस्मात्सर्वै प्रसेव्यते १३
गुरुप्रसादत. सर्वं लभ्यते शुभमाल्पन.
तस्मात्सेतयो गुरुर्नित्यमन्यथा न शुभं भवेत् १४
प्रदक्षिणत्रयं कृत्वा स्पृष्ट्वा सव्येन पाणिना
त्र्यष्टांगेन नमस्कुर्यादुरुपादसरोरुहम् १५
श्रद्धयाल्पवता पुंसां सिद्धिर्भवति निश्चिता
अन्येषाञ्च न सिद्धि. ख्यात्तस्माद्यत्रेन साधयेत् १६
न भवेत्संगयुक्तानां तथाऽविश्वासिनामपि
गुरुपूजाविहीनानां तथा च बहुसोगनाम्
मिथ्यावादरतानां च तथा निष्ठुरभाषिणाम्
गुरुसन्तोषहीनानां न सिद्धि. ख्यात्कदाचन १७
फलिष्यतीति विश्वास. सिद्धे. प्रथमलक्षणम्
द्वितीयं श्रद्धया युक्तं तृतीयं गुरुपूजनम्
चतुर्थं समताभावं पञ्चमेन्द्रियनिग्रहम्
षष्ठं च प्रमिताहारं सप्तमं विद्यते १८
योगोपदेशं संप्राप्य लब्ध्वा योगविदं गुरुम्
गुरूपदिष्टविधिना धिया निश्चित्य साधयेत् १६
सुशोभने मढे योगी पद्यासनसमन्वित.
आसनोपरि संविश्य पवनाभ्यासमाचरेत् २०
समकाय. प्राञ्जलिश्च प्रणम्य च गुरून् सुधी.
दक्षे वामे च विघ्नेशं क्षत्रपालांबिकां पुन. २१
ततश्च दक्षागुष्ठेन निरुद्ध्य ओषगला सुधी.
इडया पूरयेद्वायुं यथाशक्त्या तु कुम्भयेत्
ततस्त्यक्त्वा पिगलयाशनैरेव न वेगतः २२
पुन. पिंगलयाऽऽपूर्य यथाशक्त्या तु कुम्भयेत्
इडया रेचयेद्वायुं न वेगेन शनैःशनैः २३
इदं योगविधानेन कुर्याद्विशतिकुस्थकान्
सर्वद्वन्द्रविनिर्मुक्त. प्रत्यहं विगतालस. २४
प्रातःकाले च मध्याह्ने सूर्यास्ते चार्द्धरात्रके
कुर्यादेवं चतुर्वारं कालेष्वेतेषु कुम्भकान् २५
इत्थं मासत्रयं कुर्यादनालख्यो दिने दिने
ततो नाडीविशुद्धि. ख्यादविलम्बेन निश्चितम् २६
यदा तु नाडीशुद्धि. स्याद्योगिनस्तत्त्वदर्शिनः
तदा विध्वस्तदोषश्च भवेदारम्मसस्थव. २७
चिह्नानि योगिनो देहे दृश्यन्ते नाडिशुद्धित.
कथ्यन्ते तु समस्तान्यहानि संक्षेपतो मया २८
समकाय. सुगन्धिश्च सुकान्तिः स्वरसाधक.
आरम्मघटकश्चैव यथा परिचयस्तदा
निष्पत्तिः सर्वयोगेषु योगावस्था भवन्ति ता. २९
आरस्थ. कथितोऽस्माग्निरधुना वायुसिद्धये
अपर. कथ्यते पश्चात्सर्वदुरवौघनाशन. ३०
प्रौढवह्नि. सुभोगी च सुरवीसर्वाहसुन्दर.
संपूरर्गहृदयो योगी सर्वोत्साहबलान्वित.
जायते श्रोगिनोऽवश्यमेतत्सर्वं कलेवरे ३१
अथ वर्ज्यं प्रवक्ष्यामि योगविघ्नकरं परम्
येन संसारदुरवाद्यिधं तीर्त्वा याख्यन्ति योगिन ३२
आच्च रूक्षं तथा तीक्ष्णं लवणं सार्षपं कटुम्
बहुलं भ्रमणं प्रात. स्नानं तैलविदाहकम्
स्तेयं हिंसां जनद्वेषञ्चाहङ्कारमनार्जवम्
उपवासमसत्यञ्च मोक्षञ्च प्राणिपीडनम्
स्त्रीसहमयिसेवा च बह्नालापं प्रियाप्रियम्
अतीव भोजनं योगी त्यजेदेतानि निश्चितम् ३३
उपायं च प्रवक्ष्यामि क्षिप्रं योगस्य सिद्धये
गोपनीयं साधकानां येन सिद्धिर्भवेतवलु ३४
घृतं क्षीरं च मिष्टान्नं ताम्बूलं चूर्णवर्जितम्
कर्पूरं निष्तुष मिष्टं सुमउ सूक्ष्मरन्धकम्
सिद्धान्तश्रवणं नित्यं वैरावयजाहसेवनम्
नामसङ्कीर्तनं विष्णोः सुनादश्रवणं परम्
धृतिः क्षमा तप. शौचं ह्रीर्मतिर्गुरुसेवनम्
सदैतानि परं योगी नियमानि समाचरेत् ३५
अनिलेऽर्कप्रवेशे च भोक्तव्यं योगिभिः सदा
वायौ प्रविष्टे शशिनि शयनं साधकोत्तमैः ३६
सद्यो भुक्तेऽपि क्षुधिते नाध्यास. क्रियते बुधैः
अभ्यासकाले प्रथमं कुर्याच्चतिज्यभोजनम् ३७
ततोऽभ्यासे स्थिरीभूते न तादृङ्नियमयह.
अभ्यासिना विभोक्तव्यं स्तोकं स्तोकमनेकधा
पूर्वोक्तकाले कुर्यात्तु कुस्थकाल्पतिवासरे ३८
ततो यथेष्टा शक्ति. स्याद्योगिनो वायुधारणे
यथेष्टं धारणाद्वायो. कुम्भकः सिध्यति ध्रुवम्
केवले कुम्भके सिद्धे किं न स्यादिह योगिनः ३६
स्वेद. संजायते देहे योगिनः प्रथमोद्यमे
यदा संजायते स्वेदो मर्दनं कारयेत्सुधीः
अन्यथा विग्रहे धातुर्नष्टो भवति योगिनः ४०
द्वितीये हि भवेल्कम्पो दार्दुरी मध्यमे मता
ततोऽधिकतराभ्यासाक्त्वानेचरसाधक. ४१
योगी पद्यासनस्थोऽपि भुवमुत्सृज्य वर्तते
वायुसिद्धिस्तदा ज्ञेया संसारध्वान्तनाशिनी ४२
तावत्कालं प्रकुर्वीत योगोक्तनियमयहम्
अल्पनिद्रा पुरीषं च स्तोकं मूत्रं च जायते ४३
अगौगत्वमदीनत्वं न्ध्योगिनस्तत्त्वदर्शिनः
स्वेदो लाला कृमिश्चैव सर्वथैव न जायते ४४
कफपित्तानिलाश्चैव साधकस्य कलेवरे
तस्मिन्काले साधकस्य भोज्येष्वनियमयह. ४५
अत्यल्पं बहुधा भुक्त्या योगी न व्यथते हि स.
अथाभ्यासवशाद्योगी भूचरीं सिद्धिमाप्नुयात्
यथा ददुरजनूनां गति. ख्यात्पारिगताडनात् ४६
सन्त्यत्र बहवो विध्रा दारुणा दुर्निवारणा.
तथापि साधयेद्योगी प्राप्तैः कउगतैरपि ४७
ततो रहख्युपाविष्ट. साधक. संयतेन्द्रियः
प्रणव प्रजपेद्दीर्घ विघ्नानां नाशहेतवे ४८
पूर्वार्जितानि कर्माणि प्राणायामेन निश्चितम्
नाशयेत्साधको धीमानिहलोकोव्यवानि च ४९
पूर्वाजितानि पापानि पुययानि विविधानि च
नाशयेत्पोडशप्राणायामेन योगि पुंगवः ५०
पापतूलचयानाहोप्रदहेत्पलयायिना
तत. पापविनिर्मुक्तः पश्चात्पुययानि नाशयेत् ५१
प्राणायामेन योगीन्द्रो लब्ध्वैश्वर्याष्टकानि वै
पापपरायोदधि तीर्त्वा त्रैलोक्यचरतामियात् ५२
ततोऽल घटिकात्रितयं भवेत्
येन स्यात्सकलासिद्भियोगिनः स्वेप्सिता ध्रुवम् ५३
वाक्त्यिद्धि. कामचारित्वं दूरदृष्टिस्तथैव च
दूरश्रुति. सूक्ष्मदृष्टि. हपरकायप्रवेशनम्
वियमूत्रलेपने स्वर्णमदृश्यकरणं तथा
भवन्त्येतानि सर्वाणि खेचरत्वं च योगिनाम् ५४
यदा भवेद्धटावस्था पवनाभ्यासने परा
तदा संसारचक्रेऽस्मिन्नास्ति यत्र सधारयेत् ५५
प्रारगापाननादबिदुजीवाल्पपरामाल्पन.
मिलित्वा घटते यस्मात्तस्माद्वै घट उच्यते ५६
याममात्रं यदा धर्त्तुं समर्थ. ख्यात्तदात्युत.
प्रत्याहारस्तदैव ख्यात्रांतरा भवति ध्रुवम् ५७
यं यं जानाति योगीन्द्रस्तं तमाल्पेति भावयेत्
यैरिन्द्रियैर्यद्विधानस्तदिन्द्रियजयो भवेत् ५८
याममात्रं यदा पूर्ण भवेदभ्यासयोगत.
एकवारं प्रकुर्वीत तदा योगी च कुम्भकम्
दयडाष्टकं यदा वायुर्निश्चलो योगिनो भवेत्
स्वसामर्थ्यात्तदांगुष्ठे तिष्ठेद्वातुलबत्सुधी. ५९
तत. परिचयावस्था श्रोगिनोऽभ्यासतो भवेत्
यदा वयुश्चद्रसूर्य त्यक्त्या तिष्ठति निश्चलम्
वायु. परिचितो वायु. सुषुम्ना तयोम्रि संचरेत् ६०
क्रियाशक्तिं गृहीत्वैव चक्रान्मित्त्वा सुनिश्चितम्
यदा परिचयावस्था भवेदभ्यासयोगत.
त्रिकूटं कर्मणा योगी तदा पश्यति निश्चितम् ६१
ततश्च कर्मकूटानि प्रणवेन विनाशयेत्
स योगी कर्मभोगाय कायव्यूहं समाचरेत् ६२
अस्मिन्काले महायोगी पंचधा धारण चरेत्
येन भरादिसिद्धि. स्यात्ततो भूतभयापहा ६३
आधारे घटिका. पंच लिंगस्थाने त च
तदूर्ध्वं घटिका. पञ्च नाभिहृन्मध्यके तथा
भ्रूमध्योर्ध्वं तथा पंच घटिका धारयेत्सुधी.
तथा भूरादिना नष्टो योगिन्द्रो न भवेत्खलु ६४
मेधावी सर्वभूतानां धारणा य. समभ्यसेत्
शतब्रह्यमृतेनापि मृत्युस्तस्य न विद्यते ६५
ततोऽभ्यासक्रमेणैव निष्पत्तिर्योगिनो भवेत्
अनादिकर्मबीजानि येन तीर्त्वाऽमूत पिबेत् ६६
यदा निष्पत्तिर्भवति समाधेः स्वेनकर्मणा
जीवन्मुक्तस्य शांतस्य भवेद्धीरस्य योगिनः
यदा निष्पत्तिसंपन्न. समाधि. स्वेच्छया भवेत्
गृहीत्वा चेतनां वायु. क्रियाशक्तिं च वेगवान्
सर्वांश्चक्रान्विजित्वा च ज्ञानशक्तौ विलीयते ६७
इदानीं क्त्येशहान्यथ वक्तव्यं वायुसाधनम्
येन संसारचक्रेस्मिन् भोगहानिर्भवेदध्रुवम् ६८
रसनां तालुमूले य. स्थापयित्वा विचक्षणाः
पिबेत्प्राणानिलं तस्य योगानां संक्षयो भवेत् ६६
काकचंच्चा पिबेद्वायुं शीतलं यो विचक्षणाः
प्राणापानविधानज्ञ. स भवेन्मुक्तिभाजन. ७०
सरसं य. पिबेद्वायुं प्रत्यहं विधिना सुधी.
नश्यंति योगिनस्तस्य श्रमदाहजरामया. ७१
रसनामूर्ध्वगां कृत्वा यश्चन्द्रे सलिलं पिबेत्
मासमात्रेण योगिन्द्रो मृत्युं जयति निश्चितम् ७२
राजदंतबिलं गाढं संपीड्य विधिना पिबेत्
ध्यात्वा कुण्डलिनीं देवीं षण्मासेन कविर्भवेत् ७३
काकचंच्चा पिबेद्वायुं सन्ध्ययोरुभयोरपि
कुण्डलिन्या मुखे ध्यात्वा क्षयरोगस्य शान्तये ७४
अहर्निशं पिबेद्योगी काकचंच्चा विचक्षण.
पिबेत्प्राणानिलं तस्य रोगाणां संक्षयो भवेत्
दूरश्रुतिर्दूरदृष्टिस्तथा ख्याद्दर्शनं खलु ७५
दन्तैर्दन्तान्ममत्पीड्य पिबेद्वायुं शनै. शनै.
ऊर्ध्वजिह्न. सुमेधावी मृत्युं जयति सोचिरात् ७६
षयमासमात्रमभ्यास य. करोति दिने दिने
सर्वपापविनिर्मुक्तो रोगान्नाशयते हि स. ७७
संवत्सरकृताऽभ्यासात्यैरवो भवति ध्रुवम्
अरिगमादिगुणाक्त्यँध्वा जितभूतगण. स्वयम् ७८
रसनामूर्ध्वगां कृत्वा क्षणार्धं यदि तिष्ठति
क्षणेन मुच्यते योगी व्याधिमृत्युजरादिभिः ७९
रसनां प्राणसंयुक्तां पीड्यमाना विचिंतयेत्
न तस्य जायते मृत्यु. सत्यं सत्यं मयोदितम् ८०
एवमभ्यासयोगेन कामदेवो द्वितीयकः
न क्षुधा न तृषा निद्रा नैव मूर्च्छा प्रजायते ८१
अनेनैव विधानेन योगीन्द्रोऽवनिमण्डले
भवेक्त्यच्छन्दचारी च सर्वापत्परिवर्जित. ८२
न तस्य पुनरावृत्तिर्मोदते ससुरैरपि
पुययपायैर्न लिप्येत एतदाचरणेन स. ८३
चतुरशीत्यासनानि सन्ति नानाविधानि च
तेभ्यश्चतुष्कमादाय मयोकानि ब्रवीम्यहम्
सिद्धासनं तत. पद्यासनञ्चयि च स्वस्तिकम् ८४
योनिं संपीड्य यत्रेन पादमूलेन साधक.
मेढोपरि पादमूलं विन्यसेद्योगवित्सदा
ऊर्ध्वं निरीक्ष्य भ्रूमध्यं निश्चल. संयतेन्द्रियः
विशेषोऽवक्रकायश्च रहस्युक्त्वोवर्जित.
एतत्सिद्धासनं ज्ञेयं सिद्धानां सिद्धिदायकम् ८५
येनाभ्यासवशाच्छीघ्नं योगनिष्पत्तिमाप्रुयात्
सिद्धासनं सदा सेव्यं पवनाभ्यासिना परम् ८६
येन संसारमुत्सृज्य लभते परमां गतिम्
नात. परतरं गुह्यमासनं विद्यते भुवि
येनानुध्यानमात्रेण योगी पापाद्विमुच्यते ८७
उत्तानौ चरणौ कृत्वा ऊरुसस्थौ प्रयत्नतः
ऊरुमध्ये तथोत्तानौ पाणी कृत्वा तु तादृशौ
नासाग्रे विन्यसेद्दष्टिं दन्तमूलञ्च जिह्नया
उत्तोल्य चिबुकं वक्ष उत्थाप्य पवनं शनै.
यथाशक्त्या समाकृष्य पूरयेदुदरं शनै.
यथा शक्त्यैव पश्चात्तु रेचयेदविरोधत.
इदं पद्मासनं प्रोक्तं सर्वव्याधिविनाशनम् ८८
दुर्लभं येन केनापि धीमता लभ्यते परम् ८९
अनुष्ठाने कृते प्राण. समश्चलति तत्त्वात्
भवेदभ्यासने सम्यक्त्याधकस्य न संशय. ६०
पद्मासने स्थितो योगी प्राणापानविधानत.
पूरयेत्स विमुक्त. ख्यात्सत्यं सत्यं वदाम्यहम् ६१
प्रसार्य चरणद्वन्द्रं परस्परमसंयुतम्
स्वपाणिभ्यां दृढं धृत्वा जानूपरि शिरो न्यसेत्
आसनोयमिदं प्रोक्तं भवेदनिलदीपनम्
देहावसानहरणं पश्चिमोत्तानसंज्ञकम्
य एतदासनं श्रेष्ठं प्रत्यहं साधयेत्सुधी.
वायु. पश्चिममार्गेण तस्य सञ्चरति ध्रुवम् ६२
एतभ्यासशीलानां सर्वसिद्धिः प्रजायते
तस्माद्योगी प्रयत्रेन साधयेत्सिद्धमाल्पन. ६३
गोपनीयं प्रयत्रेन न देयं यस्य कस्यचित्
येन शीधं मरुत्सिद्धिर्भवेद दुखौघनाशिनी ६४
जानूर्वोरन्तरे सम्याधृत्वा पादतले उभे
समकाय. सुखासीन. स्वस्तिकं तत्प्रचक्षते ६५
अनेन विधिना योगी मारुतं साधयेत्सुधी.
देहे न क्रमते व्याधिस्तस्य वायुश्च सिद्ध्यति ६६
सुखासनमिदं प्रोक्तं सर्वदुरवप्रणाशनम्
स्वस्तिकं योगिभिर्गोज्यं स्वस्तीकररगमत्तमम् ६७
इति तृतीय. पटलः