सामग्री पर जाएँ

शिवराजविजयम्

विकिस्रोतः तः

(द्वितीयनिःश्वासः)

रात्रिर्गमिष्यति भविष्यति सुप्रभातम् भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः । इत्थं विचिन्तयति कोशगते द्विरेफे हा हन्त ! हन्त ! नलिनीं गज उज्जहार ॥ स्फुटकम्॥ (१०२) इतस्तु स्वतन्त्रयवनकुलभुज्यमानविजयपुराधीशप्रेषितः पुण्यनरगस्यसमिप एव प्रक्षालितगण्डशैलमण्डतायाः निर्झरविरिधारापूरपूरितप्रबलप्रवाह्यायाः पश्चिमपारावारप्रान्तप्रसूतगिरिग्रमगुहागर्भनिर्गताया अपि प्राच्यपयोनिधिचुम्बनचञ्चुरायाः रिङ्गतरङ्गभङ्गोद्भूतावर्तनभीमायाः, भीमायाः नद्याः, अनवरत निपतद्वकुलकुलकुसुमकदम्बसुरभीकृतमपि नीरं वगाहमानमत्तमत्तङ्गजमदधाराभिः कटुकुर्वन् हयहेषाध्वनिप्रतिध्वनिलधिरीकृतगव्यतिमध्यगाध्वनिनवर्गः पटकुटीरकूटविहितशारदाम्भोधरविडम्बनः, निरपराधभारताऽभिजनजनपीडनपातकपटलैरिव समुद्धूयम्ननीलध्वजैरुहलक्षितः, विजयपुरेश्वरस्यन्यतमः सेनानीः अपजलखानः प्रतापदुर्गादविदूर एव शिववीरेण सहाऽऽहवद्युतेन चिक्रीडिषुः ससेनतिष्ठति स्म ।

(१०६) अथ जगतः प्रभाजालमाकृष्य, कमलानि सम्मुद्र्य, कोकान् सशोकीकृत्य, सकलचराचरचक्षुः सञ्चारशक्तिं शिथिलीकृत्य, कुण्डलेनेव निजमण्डलेन पश्चिमामाशां भऊषयन्, वारुणीसेवनेन इव माञ्जिष्ठमञ्जिमरञ्जितः अनवरतभ्रमणपरिश्रमश्रान्तः इव सुषुप्सुः, म्लेच्छगणदुराचारदुःखाक्रन्तवसुमतीवेदनामिव समुद्रशायिनि निविवेदयिषु, वैदिकधर्मध्वंससंदर्शनसञ्जातनिर्वेद इव गिरिगहनेषु प्रविष्य तपश्चिकीर्षुः, धर्मतापतप्त इव समुद्रजले शिस्नासुः, सायं समयमवगत्य सन्ध्योपासनामिव विधित्सुः, ‘नास्ति कोऽपि मत्कुले यः सकण्ठाग्रहधर्मध्वमसिनः यवनहतकान् यज्ञियादस्माद् भारतगर्भान्निस्सारयेत्’ इति चिन्ताऽऽक्रान्त इव कन्दरिकन्दरेषु प्रविविक्षुर्भगवान् भास्वान्, क्रमशः क्रूरकरानपहाय, दृश्यपरिपूर्णमण्डलः संवृत्य, श्वेतीभूय, पीतिभूय, रक्तीभूय च, गगनधरातलाभ्याम् उभयतः आक्रम्यमाणः इव अण्डाकृतिम् अङ्गिकृत्य, कलिकौतुकवलीकृतसदाचारप्रचारस्य पातकपुञ्जपिञ्जरितधर्मस्य च यवनगणग्रस्तस्य भारतवर्षस्य च स्मारयन् अन्धतमसे च जगत् पातयन्, चक्षुषाम् अगोचर एवं सञ्जातः ।

(११०) ततः संवृत्ते किञ्चिदन्धकारे धूपधूमेनेव व्याप्तासु हरित्सु भुशुण्डीं स्कन्धे निधाय निपुणं निगीक्षमाणः आगतप्रत्यगतं च विदधानः प्रतापदुर्गदौवारिकः कस्यापि पादक्षेपध्वनिमिवाऽश्रौषित् । ततः स्थिरीभूय पुरतः पश्यन् सत्यपि दीपप्रकाशेऽवतमसवशादागन्तारं समप्यनवलोकयन् गम्भीरस्वरेणैवमवादीत् - “कः कोऽत्र भोः ? कः कोऽत्र भोः ?” इति । अथ क्षणानन्तरं पुनः स एव पादध्वनिरश्रावीति भूयः साक्षेपमवोचत् - “क एष मामनुत्तरयन् मुमूर्षुः समायाति बधिरः ?”

(११२) ततो दौवारिक! शान्तो भव, किमिति व्यर्थं मुमूर्षुरिति बधिर इति च वदसि ?” इति वक्तारमपश्यतैवाऽऽकर्णि मन्द्रस्वरमेदुरा वाणी । अथ “तत् किं नाज्ञायि अद्यापि भवता प्रभुवर्याणानादेशो यद् दौवारिकेण प्रहरिणा वा त्रः पृष्टोऽपि प्रत्युत्तरमददद् हन्तव्य इति” इत्येवं भाषणेन द्वाःस्थेन “क्षन्यतामेष आगच्छामि, आगत्यं च निखिलं निवेदयामि” इति कथयन्, द्वदशवर्षेण केनापि भिक्षुवटुनाऽनुगम्यमानः कोऽपि काषायवासाः, धृततुम्बीपात्रः, भस्मच्छुरितललाटः, रुद्रक्षमालिकासनाथितकण्ठः, ऊव्यमूर्त्तिः, संन्यासी दृष्टः । ततस्चतयोरेवमभूदालापः ।

(११४) संन्यासी- कथमस्मान् सन्यासीनोऽपि कठोरभाषणैस्तिरस्करोषि ? दौवारिकः-भगवन् ! भवान् सन्यासी तूरीयाश्रमस्वीति प्रणम्यते, परन्तु प्रभुणामाज्ञामुल्लङ्ध्य निजपरिचयमदददेवाऽऽयातीत्याक्रुश्यते । संन्यासी- सत्यम्, क्षान्तोऽयमपराधः, परमद्यावधि संन्यसिनः, ब्रह्मचारिणः, पण्डिताः, ,स्त्रियः, बालाश्च न किमपि प्रष्टव्याः, आत्मानमपरचाययन्तोऽपि प्रवेष्टव्याः । दौवारिकः - संन्यासीन् ! संन्यासीन्! बहूक्तं, विरम, न वयं दौवारिकाः ब्रह्मणोऽप्याज्ञां प्रतिक्षामहे । किन्तु वैदिकधर्मरक्षाव्रती, यश्च संन्यासीनां बह्मचारिणां तपस्विनां च सन्यासस्य ब्रह्मचर्यस्य तपसश्चान्तरायणां हन्ता, येन च वीरप्रसविनीयमुच्यते कोङ्कणदेशभूमिः, तस्यैव महाराजशिववीरस्याऽऽज्ञां वयं शिरसा वहामः ।

(११७) संन्यासी - अथ किमप्यस्तु, पन्थानं मिर्दिश, आवां शिववीरनिकटे जिगमिषाव । दौवारिकः - अलमालप्यपि तत्, प्राह्णे महाराजस्य सन्ध्योपासनासमये भवादृशानां प्रवेशसमयो भवति, न तु रात्रौ । संन्यासी - तत् किं कोऽपि न प्रविशति रात्रौ ? दौवारिकः - (साक्षेपम्) कोऽपि कथं न प्रविशति ? ररिचिता वा प्राप्तपरिचयपत्रा वा आहूता वा प्रविशन्ति, न तु भवादृशाः, ये तुम्बीं गृहीत्वा द्वाराद् द्वारं - इति कथयन्नेव तत्तेजसेव धर्षिता मध्य एव विरराम ।

संन्यासी - (स्वगतम्) राजनीतिनिष्णातः शिववीरः । सर्वथा दौवारिकतायोग्य एवायं द्वारपालः स्थापितोऽस्ति । परीक्षतमप्येनमेकस्मिन्विषये पुनः परीक्षिष्ये तावत् । (प्रकटम्) दौवारिक ! इत आयाहि, कामपि कर्णे कथयिष्यामि ।

दौवारिकः - (तथा कृत्वा) कथ्यताम् ।

(११९) संन्यासी - निरीक्षस्व, त्वमधुना दौवारिकोऽसि, प्राणानगणयन् जीविकां निर्वहसि, त्वं सहस्रं वा अयुतं वा मुद्रा राशिकृताः कदापि प्राप्स्यसीति न कथमपि सम्भाव्यते । दौवारिकः - आम्, अग्रे कथ्यताम् । संन्यासी - वयं च सन्यसिनो वनेषु गिरिकन्दरेषु विचरामः, सर्वं रसायनतत्वं विद्मः । दौवारिकः - स्यादेवम्, अग्रे, अग्रे ? संन्यासी - तद् यदि त्वं मां प्रविशन्तं न प्रतिरुन्धेः, तदधुनैव परिष्कृतं पारदभस्म तुभ्यं दद्याम्, यथा त्वं गुञ्जामात्रेणापि द्वापञ्चाशत्सङ्ख्याकतुलापरिमितं ताम्रं जाम्बुनदं विधातुं शक्नुयाः ।

(१२१) दौवारिकः -हं हो ! कपटसन्यसिन् ! कथं विश्वासघातं स्वामिवञ्चनं च शिक्षयसि ? ते केचनान्ये भवन्ति जारजाताः, ये उत्कोचलोभेन स्वामिनं वञ्चयित्वा आत्मानमन्धतमसे पातयन्ति, न वयं शिवगणास्तादृशाः । (संन्यासिनो हस्तं धृत्वा) इतस्तु सत्यं कथय कस्त्वम् ? कुत आयातः ? केन वा प्रेषितः ? संन्यासी - (स्मित्वेव) अथ त्वं मां कं मन्यसे ? दौवारिकः - अहं तु त्वामस्यैव ससेनस्याऽऽयातस्य अपजलखानस्य - संन्यासी - (विनिवार्य मध्य एव) धिग् धिग् । दौवारिकः - कस्याप्यन्यस्य वा गूढतरं मन्ये । तदादेशं पालयिष्यामि प्रभुवर्यस्य । (हस्तमाकृस्य) आगच्छ दुर्गाध्यक्षसमीपे, स एवाभिज्ञाय त्वया यथोचितं व्यवहरिष्यति ।

ततः संन्यासी तु ‘त्यज, नाहं पुनरायास्यमि, नाहं पुनरेवं कथयिष्यामि, महाशयोऽसि, दयस्व’ इति सहस्रधा समचकथत्. तथापि दौवारिकस्तु तमाकृष्य नयन्नेव प्रचलितः ।

(१२४) अथ यावत् द्वारस्थस्तम्भोपरि संस्थापितायां काचमञ्जुषायां जाज्वल्यमानस्य प्रबलप्रकाशस्य दीपस्य समीपे समायातः, तावत् संन्यसिनोक्तम् - दौवारिक ! अपि मां पूर्वमपि कदाप्यद्रक्षीः? ततो दौवारिकः पुनस्तं निपुणं निरीक्षमाणो मन्द्रेण स्वरेण, अरुणापाङ्गाभ्यां लोचनाभ्यां, गौरतरेण वर्णेन, चुम्बितयौवनेन वयसा, निर्भीकेन हारिणा च मुखमण्डलेन पर्यचिनोत् । भुशुणडीसमुत्तोलनकिणकर्कशकरग्रहमपहाय, सलज्ज इव च नम्रीभूय, प्रणमन्नुवाच - “आः ! कथं श्रीमान् गौरसिंह आर्यः ? क्षम्यतामनुचितव्यवहार एतस्य ग्राम्यवराकस्य” । तदवधार्य तस्य पृष्ठे हस्तं विन्यसन् संन्यसीरूपो गौरसिंहः समावोचत् -

“दौवारिक ! मया बहुशः परीक्षितोऽसि, ज्ञातोऽसि यथायोग्य एव पदे नियुक्तोऽसि चेति । त्वादृक्षा एव प्रभूणां पुरस्कारभाजनानि भवन्ति, लोकद्वयं च विजयन्ते । तव प्रामाणिकतां जानीत एवाऽत्रभवान् प्रभुवर्यः परमहमपि विशिष्य कीर्तयिष्यामि । निर्दिश तावत्, कुत्र श्रीमान् ? किं चानुतिष्ठति ? (१२७) ततः पुनर्बद्धाञ्जलेर्दौवारिकस्य किमपि कर्णे कथितमाकर्ण्य प्रधानद्वारमुलङ्घ्य, नेदीयस्यामेकस्यां निम्बतरुतलवेदिकायां सहचरं समुपवेश्य, तुम्बीमेकतः संस्थाप्य, स्वाङ्गरक्षिकावरणकाषायवसनं चैकतो निम्बशाखायामवलम्बय्य, पटखण्डेन पक्ष्मणोः, कपोलयोः कर्णयोर्भुवोश्चिबुके नासायां केशप्रान्तेषु च छुरितामिव विभूतिं प्रोञ्छ्य, स्कन्धयोः पृष्ठे च लम्बमानान् मेचकान् कुञ्चितान् कचानावध्य, सहचरपोटलिकात उष्णीषमादाय, शिरसि चाऽऽधाय सुन्दरमुत्तरीयं चैकं स्कन्धयोर्निक्षिप्य, दौवारिकनिर्देशानुसारं श्रीशिववीरालंकृतामट्टालिकां प्रति प्रातिष्ठत ।

(१२१) शिववीरः कस्यांचित् चन्द्रचुम्बितायां, सान्द्रसुधासारलंलिप्तभित्तिकायां, धूपधूपितायां, गजदन्तिक-अवलम्बितविधिवत्-च्छुरिकाखड्गरिष्टिकायां, सुवर्मपिञ्जरपरिलम्बमान-शुक-पिक-चकोर-सारिका-कलकूजितपूजितायामट्टालिकायां, सन्ध्यामुपास्यः उपविष्टः आसीत् ।

परितः तस्यैव खर्वामप्यमखर्वपराक्रमां, श्यामामपि यशःसमूहश्वेतीकृतत्रिभुवनां, कुशासनाश्रयामपि सुशासनश्रयां, पठनपाठनपरिश्रमान् अनभिज्ञमपि नीतिनिष्णातां, स्थूलदर्शनामपि सूक्ष्मदर्शनां, ध्वंसकाण्डव्यसनीनिम् अपि धर्मधौरेयीं, कलितगौरवाम् अपि कलितलाघवां, विशाललाटां, प्रचण्डवाहुदण्डां, शोणपाङ्गां, कम्बुगीवां, सुनद्धस्नायु, धारिताकृतमिव वीरतां, विग्रहिणीम् इव धीरतां, समासादितसमरस्फूर्तिं मूर्तिं दर्शं दर्शं परं प्रमादमासदायन्तः तस्य वयस्याः कटान् अध्यवसन् ?

(१३३) तेषु च अपजलखानदमनविषयकवार्तामारिप्सुष्वेव कश्चित् वेत्रहस्तः प्रतीहारः प्रविश्य, वेत्रं कक्ष्ये संस्थाप्य शितो नमयित्वा, अञ्जलिं वद्ध्वा, न्यवीविदत् - “ प्रभो ! श्रीमान् गौरसिंहो दिदृक्षते अत्रभवतम् ।” तदाकर्ण्य “आम् ! प्रवेशय, प्रवेशय” इति सानन्दं सोत्साहं च कथितवति महाराष्ट्रमण्डलाऽऽखण्डले, प्रतीहारो निवृत्य, सपद्येव तं प्रावीविशत् ।

(१३५)

तमवलोक्यैव “इतः, इतः गौरसिह ! उपविश, उपविश । चिराय दृष्टोऽसि, अपि कुशलं कलयसि ? अपि कुशलिनस्वव सहवासिनः ? अपि अङ्गिकृतमहाव्रतं निर्वहथ यूयम् ? अपि कश्चित् नूतन वृतान्तः ?” इति कुसुमानीव वर्षता पीयूषप्रवाहेणेव सीञ्चता मृदुना वचनजातेन तत्रभवता शिववीरेणाऽऽद्रियमाणः, आपृच्छ्यमानश्च, त्रिः प्रणम्य अन्तरङ्गमण्डलीजुष्टकटे समुपविश्य, करौ सम्पुटीकृत्य “भगवन् ! अखिलं कुशलं प्रभुणाम् अनुग्रहेण अस्माकम् अखिलानाम् अङ्गिकृतमहाव्रते च मा स्म पदं धात् कश्चन अन्तरायः इत्येव सदा प्रार्थयते भगवान् भूतनाथः । नूतनः प्रत्नश्च को नामाद्यतनसमये वक्तव्यः श्रोतव्यश्च वृतान्तः - ऋते दुराचारान् स्वच्छन्दानामुच्छृङ्कलानामुच्छिन्नसच्छिलानां म्लेच्छहतकानाम्” इति कथयामास । ततश्च तेषामेवमभूदालापः ।

(१३७)

शिववीरः - अथ कथ्यतां को वृत्तान्तः ? का च व्यवस्था अस्मन्महाव्रताश्रमपरम्परायाः ?

गौरसिंहः - “भगवन् ! सर्वं सुसिद्धं, प्रतिगव्युन्तरालम् अङ्गीकृतसनातनधर्मरक्षामहाव्रतानां धारितमुनिवेषाणां वीरवराणाम् आश्रमाः सन्ति । प्रत्याश्रमं च वलीकेषु गोपयित्वा स्थापिताः परश्शताः खड्गाः, पटलेषु तिरोभाविताः शक्तयः, कुशपुञ्जान्तः स्थापिताः भुशुण्डयश्च समुल्लसन्ति । उञ्छस्य, शिलस्य, समित आहरणस्य, इङ्गुदिपर्यवेक्षणस्य, भूर्जपत्रपरिमार्गणस्य, कुसुमावचयनस्य, तीर्थाटनस्य, सत्सङ्गस्य च व्याजेन केचन जटिलाः, परे मुण्डवः, इतरे काषायिणः अन्ये मौनिनः, अपरे ब्रह्मचारिणः च बहवः पटवः बटवः चराः सञ्चरन्ति । विजयपुरात् उड्डीय अत्र आगच्छन्त्या मक्षिकायाः अपि अन्तस्थितं वयं विद्मः किं नाम एषां यवनहतकानाम् ?”

(१४०) शिववीरः - साधु, साधु, कथं न स्यादेवम् ? भारतवर्षीया यूयम्, तत्रापि महोच्चकुलजाताः, अस्ति चेदं भारतं वर्षम्, भवति च स्वाभाविक एवानुरागः सर्वस्यापि स्वदेशे, पवित्रतमश्च यौष्माकीणः सनातनो धर्मः, तमेते जाल्माः समूलमुच्छिन्दन्ति, अस्ति च ‘प्राणाः यान्तु न च धर्मः’ इति आर्याणां दृढः सिद्धान्तः । महान्तो हि धर्मस्य कृते लुण्ठ्यन्ते, पात्यन्ते, हन्यन्ते न धर्मं त्यजन्ति किन्तु धर्मस्य रक्षायै सर्वसुखानपि त्यक्त्वा निशिथेषु अपि, वर्षासु अपि, ग्रीष्मधर्मेषु अपि, महारण्येषु अपि, कन्दरिकन्दरेषु अपि, व्यालवृन्देषु अपि, सिंहसङ्गेषु अपि, वारणवारेषु अपि, चन्द्रहासचमत्कारेषु अपि च निर्भयाः विचरन्ति । तद्धन्याः स्थ यूयं आर्यवंशीयाः वस्तुतः भरतवर्षीयाः” ।

(१४२) अथ कथ्यतां कोऽपि विशेषोऽवगतो वा अपजलखानस्य विषये ? गौरसिंहः - ‘अवगतः, तत्पत्रमेव दर्शयामि’ इति व्याहृत्य, उष्णीषसन्धौ स्थापितं कन्यापहारकयवनयुवकमृतशरीरवस्त्रान्तः प्राप्तं पत्रं बहिश्चकार ।

सर्वे च विजयपुराधीशमुद्रामवलोक्य ‘किमेतत् ? कुत एतत् ? कथमेतत् ? कस्मादेतत् ?’ इति जाज्ञासमानाः सोत्कण्ठा वितस्थिरे । गौरसिंहस्तु शिववीरस्यापि तत्प्राप्तिचरितशुश्रूषामवगत्य संक्षिप्य सर्वं वृत्तान्तमवोचत् । ततस्तु ‘दर्शताम्, प्रसार्यतां, पठ्यतां, कथ्यतां, किमिदम्’ इति पृच्छति शिववीरे गौरसिंहो व्याजहार ।

(१४४) भगवन् ! सर्पाकारैरक्षरैः पारस्यभाषायां लिखितं पत्रमेतदस्ति । एतस्य सारांशोऽयमस्ति - ‘विजयपुराधीशः स्वप्रेषितमपजलखानं सेनापतिं सम्बोध्य लिखति यत् - वीरवर ! महाराष्ट्रराजेन सह योद्धुं प्रस्थितोऽसीति मा स्म भूत् कश्चनान्तरायस्तव विजये । शिवं युद्धे योस्यसि चेत्, पद्भ्यां सिंहं जितवानसीति मंस्ये, किन्तु सिंहहनन्पेक्षया जीवतः सिंहस्य वशीकारः एव अदिकं प्रशस्यः । तद् यदि छलेन जीवन्तं सिंहमानयेः तद् वीरपुङ्गवोपाधिदानसहकारेण तव महतीं पदवृद्धिं कुर्याम् । गोपीनाथपण्डितोऽपि मया तव निकटे प्रस्थापितोऽस्ति, स मम तात्पर्यं विषदीकृत्य तव निकटे कथयिष्यति । प्रयोजनवशेन शिवमपि साक्षात्करिष्यति’ इति ।

(१४६) इत्याकर्णयत एव शिववीरस्य अरुणकौशेयजालनिबद्धौ मीनाविव नयने सञ्जाते मुखं च बालभास्करबिम्बविडम्बनामाललम्बे, अधरं च धीरताधुरामधरीकृतवान् ।

अथ स दक्षिणकरपल्लवेन श्मश्रु परामृशन्नाकाशे दृष्टिं बद्ध्वा ‘अरे रे विजयपुरकलङ्क ! स्वयमेव जीवन् शिवः तव राजधानीमाक्रम्य, वीरपुङ्गवोपाधिसहकीरेण तव सहतीं पदवृद्धिमङ्गीकरिष्यति, तत् किं प्रेषयसि मृत्योः क्रीडनकानेतान् कदर्य्यहतकान् ।’ इति साम्रेडमवोचत् । अपृच्छच्च ‘ज्ञायते वा कश्चिद् वृत्तान्तो गोपीनाथपण्डितस्य ?’

(१४८) यावत् गौरसिंहः किमपि विवक्षति तावत् प्रतिहारः प्रविश्य ‘विजयतां महाराजः’ इति त्रिव्याहृत्य, करौ सम्पुटीकृत्य, शिरो नमयित्वा कथितवान् - ‘भगवन् ! दुर्गद्वारि कश्चन गोपीनाथनामा पण्डितः श्रीमन्तं दिदृक्षुरुपतिष्ठते । नायं समयः प्रभूणां दर्शनस्य, पुनरागम्यताम्’ इति बहुशः कथ्यमानोऽपि ‘किञ्चनाऽत्यावश्यककार्यम्’ इति प्रतिजानामि । तदत्र प्रभुचरणा एव प्रमाणन्’ इति ।

(१५०) तदवगत्य ‘सोऽयं गोपीनाथः, सोऽयं गोपीनाथः’ इति साम्रेडं सतर्कं सोत्साहं च व्याहृतवत्सु निखिलेषु, शिववीरेण निजबाल्यप्रियो माल्यश्रीकनामा सम्बोध्य कथितो यद् ‘गम्यतां दुर्गान्तर एव महावीरमन्दिरे तस्मै वासस्थानं दीयताम्, भोज्यपर्यङ्कादिसुखदसामग्रीजातेन च सत्क्रियतां, ततोऽहमपि साक्षात्करिष्यामि’ इति ।

(१५१) ततो बाढमित्युक्त्वा प्रयाते माल्यश्रीके, ‘महाराज ! आज्ञा चेदहमद्यैव अपजलखानं कथमपि साक्षात्कृत्य, तस्याखिलं व्यवसितं विज्ञाय प्रभुचरणेषु विनिवेदयामि, नाधुना मम क्षान्तिः, शान्तिश्च, यतः संन्यासिवेशोऽहं समागच्छन् द्वयोर्यवनभटयोर्वार्तयाऽवागमम्, यत् श्वः एवैते युयुत्सन्ते’ इति गौरसिंहो मन्दं कर्णान्तिकं व्याहार्षीत् ।

ततो ‘वीर ! कुशलोऽसि, सर्वं करिष्यसि, जाते तव चातुरीम्, तद् यथेच्छं गच्छ, नाहं व्ाहन्मि तवोत्साहं, नीतिमार्गान् वेत्सि, किन्तु परिपन्थिनः एते अत्यन्तनिर्दयाः, अतिकदर्य्याः, अतिकूटनीयतश्च सन्ति । एतैः सह परमसावधानतया व्यवहरणीयम्’ इति कथयित्वा िववीरस्तं विससर्ज ।

(१५३) गौरसिंहस्तु त्रिप्रणम्य, उत्थाय, निवृत्य, निर्गत्य, अवतीर्य सपदि तस्या एव निम्बतरुतलवेदिकायाः समीप आगत्य, स्वसहचरं कुमारमिङ्गितेनाऽऽहूय कस्मिंश्चित् स्वसङ्केतितभवने प्रविश्य, आत्मनः कुमारस्यापि च केशान् प्रसाधनक्रियां प्रसाध्य मुखमाद्रपटेन प्रोच्छ्य ललाटे सिन्दूरविन्दुतिलकं विरचय, उष्णीषमपहाय, शिरसि सूचिस्युतां सौवर्णकुसुमलतादिचित्रविचित्रितामुष्णीषिकां सन्धार्य, शरीरे हरितकौशेयकञ्चुकिकामायोज्य, पादयौः शोणपट्टनिर्मितमघोवसनामाकलय्य, दिल्लीनिर्मित महार्हे उपानहौ धारयित्वा, लघीयसीं तानपूरिकां सह नेतुं सहचरहस्ते समर्प्य, गुप्तच्छुरिकां दन्ताबलमुष्ठिकां यष्टिकां मुष्टौ गृहीत्वा, पटवासैर्दिगन्तं दन्तुरयन्, करस्थपटखण्डेन च मुहुर्मुहुराननं प्रोच्छन् गायकवेषेण अपजलखानशिविराभिमुखं प्रतस्थे ।

(१५६) अथ तौ त्वरितं गच्छन्तौ, सपद्येव परशतस्वेतपटकुटीरौः शारदमेघमण्डलायितं दीपमालाविहीतबहुलचाकतक्यम् अपजलखानशिविरं दूरत एव पश्यन्तौ यावत् समीपमागच्छतस्तवत् कश्चन कोकनदच्छविवस्त्रखण्जवेष्टितमूर्द्धा, कटिपर्यन्तसुनद्धकाकश्यामाङ्गरक्षिकः, कर्बुराधोवसनः, शोणश्मश्रुः, विजयपुराीधीशनामाङ्कितवर्तुलपित्तलपट्टिकापरिकलितवामवक्षःस्थलः, स्कन्धे भुशुण्डीं निधाय, इतस्ततो गतागतं कुर्वन् सावष्टम्भमुर्दुभाषयाउवाच - ‘कोऽयं, कोऽयम्’ इति; ततो गौरसिंहेनापि ‘गायकोऽहं श्रीमन्तं दिदृक्षे’ इति समार्दवं व्याख्यायि । ततो ‘गम्यतामन्येऽपि गायका वादकाश्च सम्प्रत्येव गताः सन्ति’ इति खथयति प्रहरिणि, ‘घृतेन स्नातु भवद्रसना’ इति व्याहरन् शिविरमण्डलं प्राविवेश ।

(१५९) तत्र च क्वचित् खट्वासु पर्यङ्केषु चोपविष्टन्, सगडगडाशब्दं ताम्रकधूममाकृष्य, मुखात् कालसर्पानिव श्यमलनिःश्वासानुद्गिरतः, स्वहृदयकालिमानमिव प्रकटयतः, स्वपूर्वपुरुषोपार्जितपुण्यलोकानिव फुत्कारैरग्निसात्कुर्वतः, मरणोत्तरमतिदुर्लभं मुखाग्निसंयोगं जीवनदशायामेवाऽऽकलयतः, प्राप्ताधिकारकलिताखर्वगर्वान्, क्वचित् हरिद्रा हरिद्रा, लशुनं लशुनं, मरिचं मरिचं, चुक्रं चुक्रं, वितुन्नकं वितुन्नकं, शृङ्गवेरं शृङ्गवेरं, रामठं रामठं, मत्स्यण्डी मत्स्यण्डी, मत्स्या मत्स्याः, कुक्कुटाण्डं कुक्कुटाण्डं, पललं पललम्, इति कलकलैर्बालानां निद्रां विद्रावयतः, समीपसंस्थापितकुतुकूतुपकर्करीकण्डोलकटकटाहकम्बिकडम्बान्, उग्रगन्धीनि मांसानि शूलाकुर्वतः, नखम्पचा यवागुः स्थालिकासु प्रसारयतः, हिङ्गुगनिधीनि तेमनानि तिन्तिढिरसैर्मिश्रयतः, परिपिष्टेषु कलम्बेषु जम्बीरनीरं निश्चोतयतः, मध्ये मध्ये समागच्छतस्ताम्रचूडान् व्यजनताडनैः पराकुर्वतः, त्रपुलिप्तेषु ताम्रभाजनेषु आरनालं परिवेषयतः सूदान्, क्वचिद् वक्रप्रसाधितकाकपक्षान्, मदव्याघूर्णितशोणनयनान्, सपारस्पारिककण्ठग्रहं पर्य्यटतः, यौवनचुम्बितशरीरान्, स्वसौन्दर्यगर्वभारेणेव मन्दगतीन्, अनवरताक्षिप्तकुसुमेषुवाणैरिव कुसुमैर्भूषितान्, वसनातिरोहिताङ्गच्छटान्, विविधपटवासवासितानपि चिरास्नानमहामलिनमहोत्कटस्वेदपूतिगन्धप्रकटीकृतास्पृश्यतान् यवनयुवकान्;


(१६३) क्वचिद् - अहो ! दुर्गमता महाराष्ट्रदेशस्य ! अहो ! दुराधर्षता महाराष्ट्राणाम् ! अहो ! वीरता शिववीरस्य ! अहो निर्भयता एतत्सेनानीनाम्, अहो ! त्वरिद्वेगता एतद् घोटकानाम्, आः ! किं कथ्यतामः? दृष्ट्वैव चमत्कारम् शिववीरचन्द्रहासस्य न वयं पारयामः धैर्यं धर्तुम्, न च शक्नुमो युद्धस्थाने स्थातुम्, को न्म द्विशिरा यः शिवेन योद्धुं गच्छेत्? कश्च द्विपृष्ठः यस्तद्भचैरपि छलालपं विदध्यात्? वयं वलीनः, आस्माकीनां महती सेना, तथाऽपि न जानीमः किमिति कम्पत इव क्षुभ्यतीव च हृदयम् । ‘यवनानां परजयो भविष्यति, अपजलखानो विनङ्क्षति’ इति न विद्मः को जपतीव कर्णे, लिखतीव सम्मुखे, क्षिपतीव च अन्तःकरणे । मा सेम भोः ! मैवं स्यात्, रक्ष भो ! रक्ष जगदीश्वर ! अथवा सम्बोभवीतितमामेवमपि, योऽयमपजलखानः सेनापतिपदविडम्बनोऽपि ‘शिवेन योत्स्ये हनिष्यामि ग्रहिष्यामि वा इति सप्रौढि विजयपुराधीशमहासभायांप्रतिज्ञाय समायातोऽपि, शिवप्रतापं च वदन्नपि ‘अद्य नृत्यम्, अद्य वाद्यम्, अद्य गानम्, अद्य लास्यम्, अद्य मद्यम्, अद्य वाराङ्गना, अद्य भ्रुकुंसकः अद्य वीणावादनम्’ इति स्वच्छन्दैरुच्छृङ्खलाऽऽचरणैर्दिनानि गमयति ।

(१६७) न च यः कदापि विचारयति यत् - कदाचित् परिपन्थिभिः प्रेषिता काचन वारवधुरेव मामासवेन मह विषं पाययेत्, कोऽपि नट एव ताम्बूलेन सह गरलं ग्रासयेत्, कोऽपि गायक एव वा वीणया सह खड्गमानीय खण्डयेदित्यादि, ध्रुव एव तस्य विनाशः, ध्रुवमेव पतनम्, ध्रुवमेव च पशुमार मारणम् । तत्र वयं तेन सह जीवनरत्नं हारयिष्यामः - इति व्याहरतः, इतरांश्च -

मैव भोः ! श्व एव आहवक्रीडा अस्माकं भविष्यति तत् श्रुयते सन्धिवार्ताव्याजेन शिव एकत आकारयिष्यते, यावच्च स स्वसेनामपहाय एकाकी अस्मत्स्वामिना सहाऽऽलपितुमेकान्तस्थाने यास्यति, तावद् वयं श्यना इव शकुनिमण्डले महाराष्ट्रसेनायां छिन्ध, भिन्धि - इति कृत्वा युगपदेव पतिष्यामः, वसन्तवाताहतनीरसच्छदानिव च क्षणेन विद्रावयिष्यामः ।

(१६९) इतस्तु छलेनाऽस्मत्स्वामिसहचराः शिवं पाशैर्बद्ध्वा पिञ्दरे स्थापयित्वा तं जीवन्तमेव वशंवदं करिष्यन्ति । परन्तु गोप्यतमोऽयं विषयो मा स्म भूत् कस्याऽपि कर्णगतः’ - इति कर्णान्तिकं मुखमानीयोत्तरतः सांग्रमिकऊटावलोकयन्, ‘धन्या भवन्तो येषां गोप्यतमा अपि विषया एवं वीथिषु विकीर्यन्ते । महाराष्ट्रा धूर्ताचार्याः, नैतेषु भवतां धूर्तता सफला भवति’, इत्यात्मन्येवात्मना कथयन्, स्वप्रभाधर्षितसकलरक्षकगणः स्वसौन्दर्येणाऽऽकर्षयन्निव विश्वेषां मनसि,सपदेव प्रधानपटकुटीरद्वारमाससाद । तत्र च प्रहरिणमालोकयदुक्तवांश्च यत् पुण्यनगरनिवासी गायकोऽहमत्रभवन्तं गानरसरसायनैरमन्दमानन्दयितुमिच्छामिति । तदवरत्य स भ्रूसञ्चारेण कञ्चित् निवेदकं सूचितवान् । स चान्तः प्रविश्य, क्षणानन्तरं पुनः बहिःनिर्गत्य गायकमपृच्छत् - किं न्म भवतः ? पूर्वं च कदापि समायातो न वा ? अथ स आह - तानरङ्ग नामाऽहं कदाचन युष्मत्कर्णमस्पृशम् । न पूर्वं कदापि ममात्रोपस्थातुं संयोगोऽभूत्, अद्य भाग्यान्यन्कुलानि चेत् श्रीमन्तमवलोकयिष्यामि इति । स च ‘आम्’ इत्युदीर्य पुनः प्रविश्य क्षणानन्तरं निर्गत्य च, विचित्रगायकममुं सह निनाय ।

(१७३) तानरङ्गस्तु तानपूरिकाहस्तेन बालकेनाऽनुगम्यमानः शनैः शनैः प्रविश्य, प्रथमं द्वितीयं तृतीयं च द्वारमतिक्रम्य, कांश्चित् मृदङ्गस्वरान् संदधतः, कांश्चिद् वीणावरणमुन्मुच्य, प्रवालं प्रोञ्च्छ्य, कोणं कलयतः, कांश्चित् कलितनेपथ्यान्, पादयोःर्नूपुरं बध्नतः, कांश्चित् स्कन्धावतम्बिगुटिकातः करतालिकामुत्तोलयतः, कांश्चिच्च कर्णे दक्षकरं निधाय, चक्षुषी सम्मील्य, नासामाकुञ्च्य, पातितोभयजानु उपविश्य, वामहस्तं प्रसार्य, तन्त्रीस्वरेण स्वकाकलीं मेलयतः सम्मुखे च पृष्ठतः पार्शतश्चोपविष्टैः कैश्चित् ताम्बूलवाहकैः, अपरैर्निष्ठ्युतादानभाजनहस्तैः, अन्यैरनवरतचालितचामरैः, इतरैर्बद्धाञ्जलिभिर्लालाटिकैः परिवृत्तं, रत्नजटितोष्णिकामस्तकं, सुवर्णसूत्ररचितविविधकुसुमकुड्मललताप्रतानाङ्कितकञ्चुकं महोपबर्हमेकं क्रोडे संस्थाप्य, तदुपरि सन्धारितभुजद्वयं, रजतपर्यङ्के विविधफेनफेनिलक्षीरधिजलतलच्छविमङ्गीकुर्वत्यां तूलिकायामुपविष्टमपजलखानं च ददर्श ।

(१७६) ततस्तु तानरङ्गप्रभाववशीभूतेषु सर्वेषु ‘आगम्यतामागम्यतामास्यतामास्यताम्’ इति कथयत्सु, तानरङ्गोऽपि सादरं दक्षिणहस्तेनादरसूचकसङ्केकसहकारेण यथामिर्दिष्टस्थानमलञ्चकार ।

ततस्तु इतरगायकेषु सगर्वं सासूयं सक्षोभं सचक्षुर्विस्फारणं सशिरः परिवर्तनं च तमालोकयत्सु अपजलखानेन सह तस्यैवमभूदालापः -

अपजलखानः - किंदेशवास्तव्यो भवान् ? तानरङ्गः - श्रीमन् ! राजपुत्रदेशीयोऽहमस्मि । अपजलखानः - ओ ! राजपुत्रदेशीयः ? तानरङ्गः - आम् ! श्रीमन् ! अपजलखानः - तत् कथमत्र महाराष्ट्रदेशे ? तानरङ्गः - सेनापते ! मम देशाटनव्यसनं मां देशाद् देशं पर्याटयति । अपजलखानः - आः ! एवम् ! तत् किं प्राय पर्यटति भवान् ? तानरङ्गः - एवं चमूपते ! नव्यान्देशानवतोकयितुं, नवा नवा भाषा अवगन्तुं नूतना नूतना गानपरिपाटीश्च कलयितुम् एव एधमानमहाभिलाष एष जनः । अपजलखानः - आहो ! ततस्तु वहुदर्शी वहुज्ञश्च भवान् । अथ वङ्गदेशे गतो भवान् ? श्रूयते अति वैलक्षण्यं तद् देशस्य ।

(१७९) सेनापते ! वर्षत्रयात् पूर्वमहं काश्यां गङ्गायां संस्नाय उज्जयिनीदेशीयक्षत्रियकुलालंकृतं भोजपुरदेशमालोक्य, गङ्गागण्डकतटोपविष्टं हरिहरनाथं प्रणम्य विलासिकुलनिलासितं पाटलिपुत्र-पुरमुलङ्ध्य सीताकुण्डविक्रमचण्डिकादिपीठपटलपूजितं विक्रमयशःसूचकदुर्गावशेषशोभितं देवधुनितरङ्गक्षालितप्रान्तं मुद्गलपुरं निरीक्ष, कर्णदुर्गस्थानेन तद्यशोमहासमुद्रयेवाङ्कितमङ्गदेशं दिनत्रयमझ्युष्य, अतिवर्द्धमानवैभवं वर्द्धमाननगरं च सम्यक्समालोक्य यथाचितसम्भरैः तारकेश्वरमुपस्थाय, ततोऽपि पूर्वं वङ्गदेशे पूर्ववङ्गोऽपि च चिरमहमटाच्यामकार्षम् ।

(१८२) अपजलखानः - किं किं किं पूर्ववङ्गोऽपि ? तानरङ्गः - आम् ! श्रीमन् ! पूर्ववङ्गमपि सम्यवालुलोकदेष जनः, यत्र प्रान्तप्ररूढां पद्मावलीं परिमर्दयन्ती पद्मेव द्रवीभूता पयः पीरप्रवाहपरम्पराभिः पद्मा प्रवहन्ति, यत्र ब्रह्मपुत्र इव शत्रुसेनानाशनकुशलः ब्रह्मदेशं विभजन् ब्रह्मपुत्रो नाम नदो भूभागं क्षालयति, यत्र साम्लसुमधुररसपूरितानि फुत्कारोद्धुतभूतिज्वलदङ्गारविजित्वरवर्णानि जगत्प्रसिद्धानि नारङ्गाण्युद्धवन्ति यद्देशीयानां जम्बीराणां रसालानां तालानां नारिकेलानां खर्जुराणां च महिमा सर्वदेशरसज्ञानां साम्रेडं कर्णं स्पृशति यत्र च भयङ्कराऽऽवर्तसहस्राऽऽकुलासु स्रोतस्वतीषु सहोहोकारं क्षेपणीः क्षिपन्तः, अरित्रं चालयन्तः, बडिशं योजयन्तः, कुवेणीस्थम्रियमाणमत्स्यपरीवर्त्तानालोकमालोकमानन्दतः, अदृष्टतटेषु अपि महाप्रवाहेषु स्वल्पया कूष्माण्डफक्किकाकारया नौकया भिन्नाञ्जनलिप्ता इव मसीस्नाता इव साकारा अन्धकारा इव काला धीवरबाला निर्भयाः क्रीडन्ति ।


(१८५) अपजलखानः - (स्वयं हसन्, सर्वांश्च हसतः पश्यन्) सत्यं सत्यम् !! धन्यो भवान्, योऽल्पेनैव वयसैव विदेशभ्रमणैश्चातुरीं कलयति । तानरङ्गः - धन्य एव यदि युष्मादृशैरभिनन्द्ये ! अपजलखानः - (क्षणानन्तरम्) अथ भवान् मूर्च्छनाप्रधानं गायति, तानप्रधानं वा ? तानरङ्गः - ईदृक्षं तादृशं च । अपजलखानः - (क्षणानन्तरम्) अस्तु, आलप्यतां कश्चन रागः । तानरङ्गः - (किञ्चिद् विचार्य) आज्ञा चेदेकां रागमालागीतिं गायामि, यत्र प्रत्याभोगं नवीन एव रागो भवेदेकेनैव च ध्रुवेण सङ्गच्छेत्, तत्तद्रागनामानि च तत्रैव प्राप्येरन् । अपजलखानः - आः ! किमेवम् ! ईदृशं तु गानं न प्रायः श्रूयते, तद् गीयताम् ।

(१८८) ततस्तानपूरिकायाः स्वरान् सम्मेल्य पातितवामजानुस्तानपूरिकातुम्बं क्रोडे निधाय दक्षपादयोत्थितजानुनि च दक्षहस्तकूर्परस्थापनपुरःसरं तेनैव हस्तेन तर्जन्यङ्गुल्या तानपूरिकां रणयन् स्वकण्ठेनापि त्रीन् ग्रमान् सप्तस्वरान् च समधात् ।

(१८९)

तन्मात्रश्रवणेनैव मुग्धेष्विवाऽखिलेषु इमां रागमालागीतिमगायत -

(गीतम्)

(१९१) अथ एतावदेव श्रुत्वा अतितरां प्रसन्नेषु पारिषदेषु, ससाधुवादं वितीर्ण्यकङ्कणे च अफजलखाने, तानरङ्गोऽपि सप्रसादं तानपूरिकां भूमौ संस्थाप्य अपजलखानस्य गुणग्रहितां प्रशशंस ।

अथ अपजलखानः क्रमशः मैरेयमदपरवशतां वहन् उवाच यत् - कथ्यतामस्मिन् प्रान्ते भवादृशानां गुणग्राहकाः के सन्ति ? के वा कवितायाः सङ्गीतस्य च मर्मावगच्छन्ति ?

(१९३) ततस्तानगङ्गोऽचकथत् - को नामाऽपरः शिववीरात् ? स एव राजनीतौ निष्णातः, स एव सैन्धवाऽऽरोहविद्यासिन्धुः, स एव चन्द्रहासचालने चतुरः, स एव मल्लविद्यामर्मज्ञः, स एव बाणविद्यावारिधिः, स एव पण्डितमण्डलमण्डनः, स एव धैर्यधारिधौरेयः, स एव वीरवारवरः, स एव पुरुषपौरुषपरीक्षकः, स एव दीनदुःखदावदहनः, स एव स्वधर्मरक्षणसक्षणः, स एव विलक्षणविचक्षणः, स एव च मादृशगुणिगणगुणग्रहणाऽऽग्रही वर्तते ।

अथ अपजलखाने - तत् किं शिव एष एवंगुणगणविश्ष्टोऽस्ति ? एवं वा वीरवरोऽस्ति ? इति सचकितं सभयं सतर्कं सरोमोद्गमं च कथयति, किञ्चिद् विचार्येव नीतिकौशलपुरःसरं गौरः पुनरवादीत् ।

(१९५) भगवन् ! सामान्यराजभृत्यस्य पुत्रः शिववीरो यदि नाम नाऽभविष्यत् स्वयनीदृश ऊर्जस्वलः, तत् कथं स्वर्णदेवसदृशसहचरं प्राप्स्यत् ? तद्द्वारा समस्तं कल्याणप्रदेशं कल्याणदुर्गं च स्वहस्तगतकरिष्यत् ? कथं तोरणदुर्गभोगभाजनतामकलयिष्यत् ? कथं तोरणदुर्गात् दक्षिणपूर्वस्यां पर्वतस्य शिखरे महेन्द्रमन्दरखण्डमिव धर्षितारिवर्गं डमरुहुहुक्कारतोषितभर्गं रायगढनामकं महादुर्गं व्यरचयिष्यत् ? कथं वा तपनीयभीत्तिकाजटितमहारत्नकिरणावलीवितन्यमानमहावितानविततिविरोचितप्रतापतापित-परिपन्थिनिवहं चन्द्रचुम्वनचतुरचारुशिखरनिकरं भुशुण्डिकाकिणाङ्कितप्रचण्डभुजदण्डरक्षककुल-विधीयमानपरस्सहस्रपरिक्रमं धमद्धमद्दोधूयमानाऽनेकध्वजपटलनिर्मथितमहाकाशं प्रतापदुर्गं निरमापयिष्यत् ? कथं वा ‘आगत एष शिववीरः’ इति भ्रमेणापि सम्भाव्य अस्य विरोधिषु केचन मूर्च्छिता निपतन्ति, अन्ये विस्मृतशस्त्रास्त्राः पलायन्ते, इतरे महात्रासाऽऽकुञ्चितोदरा विशिथिलोवाससो नग्ना भवन्ति, अपरे च शुष्कमुखा दशनेषु तृणं संधाय साम्रेडं प्रणिपातपरम्परा रचयन्तो जीवनं याचन्ते ।

(१९९) ततस्तस्य महाप्रतापमवगत्य किञ्चिद् भीते इव तच्छतृणां चावहेलामाकलय्य किञ्चिुरुणनयने इव, दक्षिणहस्ताङ्गुष्ठतर्जनीभ्यां श्मश्र्वग्रं परिमृजन्ति यवनसेनापतौ, तानरङ्गः पुनर्न्यव्दत् -

परन्त्वद्य सिंहेन सह शिवस्य साम्मुक्यमस्ति, तन्मन्ये इयमस्तमनवेला तत्प्रतापसूर्यस्य ।

तत् कर्णे कृत्वा सन्तुष्टः इव सकन्धराकम्पं सेनापतिरुवाच-‘अथाऽत्र संग्रामे कस्य विजयः सम्भाव्यते?

स उवाच - श्रीमन् ! यदि शिवस्य साहाय्यं साक्षाच्छिव एव न कुर्यात्, तद् विजयपुरस्यैव विजयः ।

अथ सहासं सोऽब्रवित् - को न्म स्वपुष्पायितः शशशृङ्गायितः कमठीस्तनायितः सरीसृपश्रवणायितः भेकरसनायितः वन्ध्यापुत्रायितश्च शिवोऽस्ति ? य एनं रक्षिष्यति, दृश्यतां श्व एवैर्बद्ध्वा चपेटैस्ताड्यमानो विजयपुरं नीयते ।

(२०२) इति सकष्तमाकर्ण्य, ‘स्यादेवं भगवन् !’ इति कथयति तानरङ्गे अभिमानपरवशः सः स्वसहचरान् सम्बोध्य पुनरादिशत् - भो भो योद्धारः ! सूर्योदयात् प्रागेव भवन्तः पञ्चापि सहस्राणि सादिनां दशापि च सहस्राणि पत्तीनां सज्जीकृत्य युद्धाय तिष्ठत । गोपिनाथपण्डितद्वारा आहूतोऽस्ति मया शिववराकः । तद् यदि विश्वस्य स समागच्छेत्, ततस्तु बद्ध्वा जीवन्तं नेष्यामः अन्यथा तु सदुर्गमेनं धूलीकरिष्यामः । यद्यप्येवं स्पष्टमुदीरणं राजनीतिविरुद्धं, तथापि मदावेशस्तु न प्रतीक्षते विवेकम् ।

( २०३) तदवधार्य समस्तककूर्चान्दोलनं - ‘यदाज्ञाप्यते यदाज्ञाप्यते’ इति वाचां धारासम्पातैरिव स्नापयत्सु परषदेषु ‘गोपनीयोऽयं वृतान्तः कथं स्पष्टं कथ्यते ?’ इति दुर्मनायमानेष्विव च अकस्मादेव प्रविश्य सूदेनोक्तं - ‘श्रीमन् ! व्यत्येति भोजनसमयः’ तत् श्रुत्वा ‘आः! एवं किलैतत्’ इति सोत्प्रासं सविनयं सकूर्चोद्धूननं सोपबर्हताडनमुच्चार्य सपद्युत्थाय, ‘पुनरागम्यताम्’ इति तानरङ्गं विसृज्य सेनापतिरन्तः प्रविवेश । तानरङ्गश्च यथागतं निववृते ।

इतस्तु प्रतापदुर्गे विहिताहारव्यापारे रजतपर्यङ्किकामेकामधिष्ठिते काञ्चित् तन्द्रापरवशे इव गोपीनाथे, शिववीरः शनैरुपसृत्य प्रणम्य, उपविशदवोचच्च - ‘अहो! भाग्यमस्माकं यदालयं युष्मादृशा भूदेवाः स्वचरणरजोभिः पावयन्ति’ इति ।

(२०६) अथ तयोरेवमभून्नालापाः - गोपीनाथः - राजन् ! कोऽत्र सन्देहः सर्वथा भाग्यवानसि, परं साम्प्रतं नाहं पण्डितत्वेन कवित्वेन वा समायातोस्मि, किन्तु यवनराजदूतत्वेन । तत् श्रूयतां यदहं निवेदयामि ।

शिववीरः - शिव! शिव! खलु खलु खल्विदमुक्त्वा, येषां श्रीमतां चरणेनाऽङ्कितं विष्णोरपि वक्षःस्थलमैश्वर्यमुद्रयेव मुद्रितं विभाति, न तेषां ब्राह्मणकुलकमलदिवाकराणां यवनकैङ्कर्यकलङ्कपङ्को युज्यते, यं शृण्वतोऽपि मम स्फुटत इव कर्णौ । तथापि कुलीना निरभिमाना भवन्ति - इति आनीतश्चेत् कश्चित् सन्देशः, तदेष आज्ञापेतां श्रीमच्चरणकमलचञ्चरीकः ।

गोपीनाथः - वीर! कलिरेव कालः, यवनाऽऽक्रान्तोऽयं भीरतभूभागः, तन्नाऽस्माकं तथा तानि तेजांसि, यथा वर्णयसि । साम्प्रतं तु विजयपुराधीशविस्तीर्णां भृतिं भुञ्जे इति तदाज्ञामेव परिपालयामि । तत् शृयतां तदादेशः ।

शिववीरः - आर्य! अवदधामि ।

(२०९) गोपीनाथः - कथयति विजयपुराधीशः यद् - वीर! परित्यज नवामिमां चञ्चलतामस्माभिः सह युद्धस्य, त्वदपेक्षया अत्यन्तमधिकं बलिनो वयम्, प्रवृद्धोऽत्र कोषः, महती सेना, बहूनि दुर्गाणि, बहवश्चवीराः सन्ति । तच्छुभमात्मनः इच्छसि चेत्, त्यक्त्वा निखिलां चञ्चलतां, शस्त्रं दूरतः परित्यज्य, करप्रदत्तामङ्गीकृत्य, समागच्छ मत्सभायाम् । मत्तः प्राप्तपदश्चिरं जीविष्यसि, अन्यथा तु सदुर्दशं निहतः कथावशेषः संवर्त्स्यसि । तत् केवलं त्वयि दययैव सन्देशं प्रेषयामि, अङ्गीकुरु । मा स्म वृद्धायाः प्रसविन्याः रजतश्वेतां पक्ष्मपङ्किमश्रुतप्रवाहदुर्दिने पातय - इति ।

(२११) शिववीरः - भगवन् ! कथयेदेवं कश्चिद् यवनराजः, परं किं भवानपि मामनुमन्यते - यद् ये अस्मदिष्टदेवमूर्तीर्भङ्क्त्वा, मन्दिराणि समुन्मूल्य, तीर्थस्थानानि पक्कणीकृत्य, पुराणानि पिष्ट्वा, वेदपुस्तकानि विदार्य च आर्यवंशीयान् बलाद् यवनीकुर्वन्ति, तेषामेव चरणयारञ्जलिं बद्ध्वा लालाटिकतामङ्गीकुर्याम् ? एवं चेद् धिङ् मां कुलकलङ्कं क्लीबम्, यः प्राणभयेन सनातनधर्मद्वेषिणां दासेरकतां वहेत् । यदि चाहं आहवे म्रियेय, वध्येय ताड्येय वा तदैव धन्योऽहं, धन्यो च मम पितरौ । कथ्यतां भवादृशां विदुशामत्र का सम्मतिः ?

गोपीनाथः - (विचार्य) राजन् ! धर्मस्य तत्वं जानासि, तन्नाहं स्वसम्मतिं कामपि दिदर्शयिष्यमि । महती ते प्रतिज्ञा, महत्तवोद्देश्यमिति प्रसीदामितमाम् । नारायणस्तव साहाय्यं विदधातु ।

शिववीरः - करुणानिधान ! नारायणः स्वयं प्रकटीभूय न प्रायेण साहाय्यं विदधाति, किन्तु भवादृशमहाशयद्वारैव । तत् प्रतिज्ञायतां काऽपि सहायता ।

गोपीनाथः - राजन् ! कथ्यतां किमहं कुर्याम्, परं यथा न मामधर्मः स्पृशेत् तथैव विधास्यामि ।

शिववीरः - शान्तं पापम् । कोऽत्राधर्मः ? केवलं श्वोऽस्मिन्नुद्यानप्रान्तस्थपटकुटीरे यवनसेनापतिरपजलखान आनेयः, यथा तेनैकाकिनाऽहमेकाकी मिलित्वा किमप्यालपामि ।

गोपीनाथः - तत् सम्भवति ।

(२१५)

ततः परं गोपीनाथेन सह शिववीरस्य बहुविधा आलापा अभूवन्, यैः शिववीरस्य उदारहृदयतां धार्मिकतां शूरतां चाऽवगत्य गोपीनाथोऽतितरां पर्य्यतुष्यत् ।

अथ त तमाशीर्भिरनुयोज्य यावत् प्रतिष्ठते, तावदुपातिष्ठत्व ससहचरस्तानरङ्गः । गोपीनाथस्तु तमनवलोकयन्निव तस्मिन्नेव निशीथे दुर्ग्गादवतरत् । कपटगायको गौरसिंहस्तु शिववीरेण सह बहुश आलप्य, सेनाभिनिवेशविषया च सम्मन्त्र्य, तदाज्ञातः स्ववासस्थानं जगाम ।

शिववीरोऽप्यन्यसेनापतिन् यथोचितमादिश्य, स्वशयनागारं प्रविश्य होरात्रयं यावत् किञ्चन नुद्रासुखमनुभूय, अल्पशेषायामेव रजन्यामुदतिष्ठत् ।

शिववीरसेनास्तु यथासङ्केतं प्रथममेव इतस्ततो दुर्गप्राचीरान्तरालेषु गहनलताजातेषु उच्चावचभूभागव्यवधानेषु सज्जाः पर्यवातिष्ठन्त । बहवः अश्वारोहा यवनपटकुटीरपदम्बकं परिक्रम्य ततः पश्चादागम्य अवसरं प्रतिपालयन्ति स्म ।


(२१९) इतश्च सूर्यप्रभाबिररुणीक्रीयमाणे भूभागे अरुणश्मश्रवोऽपि सेनाः सज्जीकृतवन्तः ।

बहवो - ‘वयमद्य शिवमवश्यमेव विजेष्यामहे, परं तथापि न जानीमहे किमिति कम्पत इव हृदयम्, अहो ! विलक्षणः प्रताप एतस्य, पवनेऽपि प्रवहति, पतत्रेऽपि पतति, पत्रेऽपि मर्मरीभवति, स एवागत इत्यभिशङ्क्यते अस्माभिः ।अहह !! विचित्रोऽयं वीरो, यो दुर्गप्रचीरमुल्लङ्ध्य, प्रहरिपरिवारमविगणय्य, लोहार्गलशृङ्खलासहस्रनद्धानि करिकुम्भधातसहानि द्वाराणि प्रविश्य, विकोशचन्द्रहासाऽसिधेनुकारिष्टितोमरशक्तित्रिशुलमुद्ररभुशुण्डीकराणां रक्षकाणां मण्डलमवहेल्य, प्रियाभिः सह पर्य्यङ्केषु सुप्तानामपि प्रत्यर्थिनां वक्षढस्थलमारोहति निद्रस्वपि तान् न जहाति, स्वप्नेष्वपि च विदारयति । कथमेतस्य चञ्चच्चन्द्रहासचमत्कारचाकचक्यचिल्लीभूतचक्षुकाः समराङ्गणे स्थास्यामः ?’ इति चिन्ताचक्रमारूढा अपि कथं कथमपि कैश्चित् वीरवरैर्वर्धितोत्साहाः समरभूमिमवातरन् ।

(२२२) अथ कथञ्चित् प्रकाशबहुले संवृते नभःस्थले, परस्परं परिचीयमानासु आकृतिषु कमलेष्विव विकचतामासादयत्सु वीरवदनेषु, भ्रमरालिष्विव परितः प्रस्फुरन्तिषु असिपङ्क्तिषु, चाटकैरचकचकायितेषु कवचचमत्कारेषु, गोपीनाथपण्डितो वारमेकं शिववीरदिशि परतश्च यवनसेनापतिदिशि गतायतं विधाय, सेनाद्वयस्य मध्य एव कस्मिंश्चित् पटकुटीरे अपजलखानमानेतुं प्रबबन्ध ।

शिववीरोऽपि कौशेयककञ्चुकस्याऽन्तर्लोहवर्म परिधाय, सुवर्णसूत्रग्रथितोष्णीषस्याऽप्यधस्तादायसं शिरस्त्राणं संस्थाप्य, सिंहनखनामकं शस्त्रविशेषं करयोरारोप्य, दृढबन्धकटिरपजलखानसाक्षात्काराय सज्जस्तिष्ठति स्म ।

(२२४) अपयलखानोऽपि च - यदाऽहमेनं साक्षात्कृत्य, करताडनमेकं कुर्यां, तदैव तालिकाध्वनिसमकालमेव अमुकामुकैः श्येनैरिवाऽभिपत्य पाशैरेष बन्धनीयः सेनया च क्षणात् तत्सेना झञ्झया घनघटेवाऽनपेया - इति सङ्केत्य, सूक्ष्मवसनपरिधानः वज्रकजटितोष्णीषिकः, गलविलुलितपद्मरागमालः, मुक्तागुच्छचोचुम्ब्यमानभालः, निःश्वासप्रश्वासपरिमथितमद्यगन्धपरिपूरितपार्श्वदेशान्तरालः, शोणश्मश्रुकूर्चविजितनूतनप्रवालः, कञ्चुकस्युतकाञ्चनकुसुमजालः, विविधवर्णवर्णनीयशिबिकामारुह्य निर्दिष्टपटकुटीराभिमुखं प्रतस्थे । इतस्तु कुरङ्गमिव तुरङ्गं नर्त्तयन् रश्मिग्राहवेषेण गौरसिंहेन अनुगम्यमानः माल्यश्रीकप्रभृतिभिर्वीरवरैर्युद्धसज्जैः सतर्क निरीक्ष्यमाणः शिववीरोऽपि तस्यैव सङ्केतितसमये समागमस्थनस्य निकटे एवसव्यकरेण वल्गामाकृष्य अश्वमवारुधत् ।

(२२८) ततस्तु, इतोऽश्वात् शिववीरः, ततस्तु शिविकान्तोऽपजलखानः अपि युगपदेवा अवातरताम् परस्परं साक्षात्कृत्य च उभावप्युत्सुकाभ्यां नयनाभ्यां, सत्वराभ्यां पादाभ्यां, स्वागताऽऽम्रे़नतत्परेण वदनेन आश्लेशाय प्रसारिताभ्यां च हस्ताभ्यां कौशेयास्तरणरोचितायां बहिर्वेदिकायां धावमानौ परस्परमालिलिङ्गतुः ।

शिववीरस्तु आलिङ्गनच्छलेनैव स्वहस्ताभ्यां तस्य स्कन्धौ दृढं गृहीत्वा सिंहनखैर्जत्रुणी कन्धरां च व्यपाटयत् । रुधिरदिग्धं च तच्छरीरं कटिप्रदेशे समुत्तोल्य भूपृष्ठे अपोथयत् ।

(२३०) तत्क्षणादेव च शिववीरध्वजिन्यां महाद्वजः एकः समुच्छ्रितः । तत्समकालमेव यवनशिविरस्य पृष्ठस्थिता शिववीरसेनाः शिविरमग्निसात्कृतवती, पुरःस्थितसेनासु च अकस्मादेव महाराष्ट्रकाशरिणः समपतत् । तेषां हर हर महादेव गर्जन पुरःसरं ‘छिन्धि-भिन्धि-मारय-विपोथय’ इति कोलाहलः, प्रत्यर्थिनां च खुदा-तोबा-अल्लादि पारस्यपदमयः कलकलो रोदसी समपूरयत् ।

(२३१) ततो यवनसेनासु शतशः सादिनः, गगनं चोचुम्ब्यमानाः, कृतदिगन्तप्रकाशाः कडकडाध्वनिधर्षितप्रान्तप्रजाः उड्डीयमानदन्दह्यमानपरस्सहस्रपटखण्डविहितहैमविहङ्गमविभ्रमाः ज्योतिरिङ्गणायितपरस्कोटिस्फुलिङ्गराङ्गितपिङ्गिकृतप्रान्ताः, दोधूयमानधूमधटापटलपरिपात्यमानभसितसीतिकृतानोकहाः, सकलसलध्वनि पलायमानैः पतत्रिपटलैरिव सोसूच्यमाना, केचन ‘त्रायस्व-त्रायस्व’ इति साम्रेडं व्याहरमाणाः पलायमानाः, अन्ये धीरा वीराश्च - ‘तिष्ठत रे धूर्तधुरिणाः ! महाराष्ट्रहतकाः ! किमिति चौरा इव लुण्ठका इव दस्यव इव च यवनसेनापतीनाक्राम्यथ ? समागच्छत सम्मुखम्, यथा शाम्येदस्मच्चन्द्रहासानां चिरप्रवृद्धा महाराष्ट्ररुधिराऽऽस्वादतृषा’ इति सक्ष्वेडं सङ्गर्ज्ज्य युद्धाय सज्जाः समतिष्ठन्त ।

तेषां च अश्वानां सव्यापसव्यमार्गेः खुरक्षुण्णा व्यदीर्यत वसुधा । खड्गखटखटाशब्दैः सह च प्रादुरभूत् स्फुलिङ्गाः । रुधिरधाराभिः जपासुमनस्समाच्छन्नमिवाऽभूतद् रणाङ्गणम् ।

(२३५) तदवलोक्य गौरसिंहो मृतस्यापजलखानस्य शोणितशोणं शोणशरीरं प्रलम्बवेणुदण्डाग्रेषु बद्ध्वा समुत्तोल्य सर्वान् सन्दर्श्य सभेरीनादं घोषितवान् - ‘दृश्यतां दृश्यतामितो हतोऽयं यवनसेनापतिः, ततश्चाग्निसात्कृतानि ससकलसामग्रीजातानि शिबिराणि, परितश्च बहूनि विनाशितानि यवनवीरकदम्बकानि, तत् किमिति अवशिष्टा यूयं मुधा बकगृधशृगालानां भोज्याः संवर्तध्वे ? शस्त्राणि त्यक्त्वा पलायध्वं पलायध्वं, यथा नेयं भूः कदुष्णैर्भवतां सद्यश्छिन्नकन्धरागलद्रुधिरप्रवाहैर्भवद्रमणीनां च कज्जलमलिनैर्बाष्पपूरैराद्रा भवेत्’ इति । तदवधार्य दृष्ट्वा च रुधिरदिग्धं क्रीडापुत्तलायितं स्वस्वामिशरीरं, सर्वे ते हतोत्साहा विसृज्य शस्त्राणि कान्दीशीका दिशो भेजुः ।

ससेनः शिववीरश्च विजयशङ्खनादै रोदसी सम्पूर्य, रणाङ्गणशोधनाधिकारं माल्यश्रीकाय समर्प्य, प्रतापदुर्गं प्रविश्य मातुश्चरणौ प्रणनाम ।

"https://sa.wikisource.org/w/index.php?title=शिवराजविजयम्&oldid=231727" इत्यस्माद् प्रतिप्राप्तम्