शिवमङ्गलाष्टकम्

विकिस्रोतः तः
शिवमङ्गलाष्टकम्
अज्ञातः
१९५३

॥ शिवमङ्गळाष्टकम् ॥

भवाय चन्द्रचूडाय निर्गुणाय गुणात्मने ।
कालकालाय रुद्राय नीलग्रीवाय मङ्गळम् ॥ १
वृषारूढाय भीमाय व्याघ्रचर्माम्बराय च ।
पशूनां पतये तुभ्यं गौरीकान्ताय मङ्गळम् ॥ २
भस्मोद्धूळितदेहाय व्याळयज्ञोपवीतिने ।
रुद्राक्षमालाभूषाय व्योमकेशाय मङ्गळम् ॥ ३
सूर्यचन्द्राग्निनेत्राय नमः कैलासवासिने ।
सच्चिदानन्दरूपाय प्रमथेशाय मङ्गलम् ॥ ४
मृत्युञ्जयाय साम्बाय सृष्टिस्थित्यन्तकारिणे
त्रियम्बकाय शान्ताय त्रिलोकेशाय मङ्गलम् ॥ ५
गङ्गाधराय सोमाय नमो हरिहरात्मने ।
उग्राय त्रिपुरनघ्नाय वामदेवाय मङ्गळम् ॥ ६
सद्योजाताय शर्वाय भव्यज्ञानप्रदायिने ।
ईशानाय नमस्तुभ्यं पञ्चवक्त्राय मङ्गळम् ॥ ७

सदाशिवस्वरूपाय नमस्तत्पुरुषाय च ।
अघोराय च घोराय महादेवाय मङ्गळम् ॥ ८
श्रीचामुण्डाप्रेरितेन रचितं मङ्गळास्पदम् ।
तस्याभीष्टप्रदं शम्भोः यः पठेन्मङ्गळाष्टकम् ॥ ९
॥ इति श्रीशिवमङ्गलाष्टकम् ॥

"https://sa.wikisource.org/w/index.php?title=शिवमङ्गलाष्टकम्&oldid=320211" इत्यस्माद् प्रतिप्राप्तम्