शिवभुजङ्गम् (मूलसहितम्)

विकिस्रोतः तः
शिवभुजङ्गम्
शङ्कराचार्यः
१९१०

॥ श्रीः॥

॥ शिवभुजंगम् ॥



गलद्दानगण्डं मिलद्भुङ्गषण्डं
 चलच्चारुशुण्डं जगत्त्राणशौण्डम् ।
कनद्दन्तकाण्डं विपद्भङ्गचण्डं
 शिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥ १ ॥

अनाद्यन्तमाद्यं परं तत्त्वमर्थं
 चिदाकारमेकं तुरीयं त्वमेयम् ।
हरिब्रह्ममृग्यं परब्रह्मरूपं
 मनोवागतीतं महःशैवमीडे ॥ २ ॥

स्वशक्त्यादिशक्त्यन्तसिंहासनस्थं
 मनोहारिसर्वाङ्गरत्नोरुभूषम् ।
जटाहीन्दुगङ्गास्थिशम्याकमौलिं
 पराशक्तिमित्रं नुम: पञ्चवक्रम् ॥ ३ ॥

शिवेशानतत्पूरुषाघोरवामा-
 दिभिः पञ्चभिर्हृन्मुखैः षड्भिरङ्गैः ।
अनौपम्य पट्त्रिंशतं तत्त्वविधा-
 मतीतं परं त्वां कथं वेत्ति को वा ॥ ४ ॥

प्रवालप्रवाहप्रभाशोणमर्धं
 मरुत्वन्मणिश्रीमहःश्याममर्धम् ।
गुणस्यूतमेतद्वपुः शैवमन्तः
 स्मरामि स्मरापत्तिसंपत्तिहेतोः ॥ ५ ॥

स्वसेवासमायातदेवासुरेन्द्रा-
 नमन्मौलिमन्दारमालाभिषक्तम् ।
नमस्यामि शंभो पदाम्भोरुहं ते
 भवाम्भोधिपोतं भवानीविभाव्यम् ॥ ६ ॥

जगन्नाथ मन्नाथ गौरीसनाथ
 प्रपन्नानुकम्पिन्विपन्नातिहारिन् ।
महःस्तोममूर्ते समस्तैकबन्धो
 नमस्ते नमस्ते पुनस्ते नमोऽस्तु ॥ ७ ॥

विरूपाक्ष विश्वेश विश्वादिदेव
 त्रयीमूल शंभो शिव त्र्यम्बक त्वम् ।
प्रसीद स्मर त्राहि पश्यावमुक्त्यै
 क्षमां प्राप्नुहि त्र्यक्ष मां रक्ष मोदात् ॥ ८ ॥

महादेव देवेश देवादिदेव
 स्मरारे पुरारे यमारे हरेति ।
ब्रुवाण: स्मरिष्यामि भक्त्या भवन्तं
 ततो मे दयाशील देव प्रसीद ॥ ९ ॥

त्वदन्यः शरण्य: प्रपन्नस्य नेति
 प्रसीद स्मरन्नेव हन्यास्तु दैन्यम् ।
न चेत्ते भवेद्भक्तवात्सल्यहानि-
 स्ततो मे दयालो सदा संनिधेहि ॥ १० ॥

अयं दानकालस्त्वहं दानपात्रं
 भवानेव दाता त्वदन्यं न याचे ।
भवद्भक्तिमेव स्थिरां देहि मह्यं
 कृपाशील शंभो कृतार्थोऽस्मि तस्मात् ॥ ११ ॥

पशुं वेत्सि चेन्मा तमेवाधिरूढः
 कलङ्कीति वा मूर्ध्नि धत्से तमेव ।
द्विजिह्वः पुनः सोऽपि ते कण्ठभूषा
 त्वदङ्गीकृताः शर्व सर्वेऽपि धन्याः ॥ १२ ॥

न शक्नोमि कर्तुं परद्रोहलेशं
 कथं प्रीयसे त्वं न जाने गिरीशं ।
तथाहि प्रसन्नोऽसि कस्यापि कान्ता-
 सुतद्रोहिणो वा पितृद्रोहिणो वा ॥ १३ ॥

स्तुतिं ध्यानमर्चां यथावद्विधातुं
 भजन्नप्यजानन्महेशावलम्बे ।
त्रसन्तं सुतं त्रातुमग्रे मृकण्डो-
 र्यमप्राणनिर्वापणं त्वत्पदाब्जम ॥ १४ ॥

शिरोदृष्टिहृद्रोगशूलप्रमेह-
 ज्वरार्शोजरायक्ष्महिक्काविषार्तान् ।
त्वमाद्यो भिषग्भेषजं भस्म शंभो
 त्वमुल्लाघयास्मान्वपुर्लाघवाय ॥ १५ ॥

दरिद्रोऽस्म्यभद्रोऽस्मि भग्नोऽस्मि दूये
 विषण्णोऽस्मि सन्नोऽस्मि खिन्नोऽस्मि चाहम् ।
भवान्प्राणिनामन्तरात्मासि शंभो
 ममाधिं न वेत्सि प्रभो रक्ष मां त्वम् ॥ १६ ॥

त्वदक्ष्णो: कटाक्षः पतेत्त्र्यक्ष यत्र
 क्षणं क्ष्मा च लक्ष्मी: स्वयं तं वृणाते ।
किरीटस्फुरच्चामरच्छत्रमाला-
 कलाचीगजक्षौमभूषाविशेषैः ॥ १७ ॥

भवान्यै भवायापि मात्रे च पित्रे
 मृडान्यै मृडायाप्यघघ्न्यै मखघ्ने ।
शिवाङ्गयै शिवाङ्गाय कुर्मः शिवायै
 शिवायाम्बिकायै नमस्त्र्यम्बकाय ॥ १८ ॥

भवद्गौरवं मल्लघुत्वं विदित्वा
 प्रभो रक्ष कारुण्यदृष्ट्यानुगं माम् ।
शिवात्मानुभावस्तुतावक्षमोऽहं
 स्वशक्त्या कृतं मेऽपराधं क्षमस्व ॥ १९ ॥

यदा कर्णरन्ध्रं व्रजेत्कालवाह-
 द्विषत्कण्ठघण्टाघणात्कारनादः ।
वृषाधीशमारुह्य देवौपवाह्यं
 तदा वत्स मा भीरिति प्रीणय त्वम् ॥ २० ॥

यदा दारुणाभाषणा भीषणा मे
 भविष्यन्त्युपान्ते कृतान्तस्य दूताः ।
तदा मन्मनस्त्वत्पदाम्भोरुहस्थं
 कथं निश्चलं स्यान्नमस्तेऽस्तु शंभो ॥ २१ ॥

यदा दुर्निवारव्यथोऽहं शयानो
 लुठन्निःश्वसन्निःसृताव्यक्तवाणिः ।
तदा जह्नुकन्याजलालंकृतं ते
 जटामण्डलं मन्मनोमन्दिरं स्यात् ॥ २२ ॥

यदा पुत्रमित्रादयो मत्सकाशे
 रुदन्त्यस्य हा कीदृशीयं दशेति ।
तदा देवदेवेश गौरीश शंभो
 नमस्ते शिवायेत्यजस्रं ब्रवाणि ॥ २३ ॥

यदा पश्यतां मामसौ वेत्ति नास्मा-
 नयं श्वास एवेति वाचो भवेयुः ।
तदा भूतिभूषं भुजंगावनद्धं
 पुरारे भवन्तं स्फुटं भावयेयम् ॥ २४ ॥

यदा यातनादेहसंदेहवाही
 भवेदात्मदेहे न मोहो महान्मे ।
तदा काशशीतांशुसंकाशमीश
 स्मरारे वपुस्ते नमस्ते स्मराणि ॥ २५ ॥

यदापारमच्छायमस्थानमद्भि-
 र्जनैर्वा विहीनं गमिष्यामि मार्गम् ।
तदा तं निरुन्धन्कृतान्तस्य मार्गं
 महादेव मह्यं मनोझं प्रयच्छ ॥ २६ ॥

यदा रौरवादि स्मरन्नेव भीत्या
 व्रजाम्यत्र मोहं महादेव घोरम् ।
तदा मामहो नाथ कस्तारयिष्य-
 त्यनाथं पराधीनमर्धेन्दुमौले ॥ २७ ॥

यदा श्वेतपत्रायतालङ्घ्यशक्तेः
 कृतान्ताद्भयं भक्तवात्सल्यभावात् ।
तदा पाहि मां पार्वतीवल्लभान्यं
 न पश्यामि पातारमेतादृशं मे ॥ २८ ॥

इदानीमिदानीं मृतिर्मे भवित्री-
 त्यहो संततं चिन्तया पीडितोऽस्मि ।
कथं नाम मा भून्मृतौ भीतिरेषा
 नमस्ते गतीनां गते नीलकण्ठ ॥ २९ ॥

अमर्यादमेवाहमाबालवृद्धं
 हरन्तं कृतान्तं समीक्ष्यास्मि भीतः ।
मृतौ तावकाङ्घ्र्यब्जदिव्यप्रसादा-
 द्भवानीपते निर्भयोऽहं भवानि ॥ ३० ॥

जराजन्मगर्भाधिवासादिदुःखा-
 न्यसह्यानि जह्यां जगन्नाथ देव ।
भवन्तं विना मे गतिर्नैव शंभो
 दयालो न जागर्ति किं वा दया ते ॥ ३१ ॥

शिवायेति शब्दो नसःपूर्व एष
 स्मरन्मुक्तिकृन्मृत्युहा तत्त्ववाची ।
महेशान मा गान्मनस्तो वचस्तः
 सदा मह्यमेतत्प्रदानं प्रयच्छ ॥ ३२ ॥

त्वमप्यम्ब मां पश्य शीतांशुमौलि-
 प्रिये भेषजं त्वं भवव्याधिशान्तौ ।
बहुक्लेशभाजं पदाम्भोजपोते
 भवाब्धौ निमग्नं नयस्वाद्य पारम् ॥ ३३ ॥

अनुद्यल्ललाटाक्षिवह्निप्ररोहै-
 रवामस्फुरच्चारुवामोरुशोभैः ।
अनङ्गभ्रमद्भोगिभूषाविशेषै-
 रचन्द्रार्धचूडैरलं दैवतैर्नः ॥ ३४ ॥

अकण्ठेकलङ्कादनङ्गेभुजङ्गा-
 दपाणौकपालादफालेनलाक्षात् ।
अमौळोशशाङ्कादवामेकलत्रा-
 दहं देवमन्यं न मन्ये न मन्ये ॥ ३५ ॥

महादेव शंभो गिरीश त्रिशूलिं-
 स्त्वयीदं समस्तं विभातीति यस्मात् ।
शिवादन्यथा दैवतं नाभिजाने
 शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ॥ ३६ ॥

यतोऽजायतेदं प्रपञ्चं विचित्रं
 स्थितिं याति यस्मिन्यदेकान्तमन्ते ।
स कर्मादिहीनः स्वयंज्योतिरात्मा
 शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ॥ ३७ ॥

किरीटे निशेशो ललाटे हुताशो
 भुजे भोगिराजो गले कालिमा च ।
तनौ कामिनी यस्य तत्तुल्यदेवं
 न जाने न जाने न जाने न जाने ॥ ३८ ॥

अनेन स्तवेनादरादम्बिकेशं
 परां भक्तिमासाद्य यं ये नमन्ति ।
मृतौ निर्भयास्ते जनास्तं भजन्ते
 हृदम्भोजमध्ये सदासीनमीशम् ॥ ३९ ॥

भुजंगप्रियाकल्प शंभो मयैवं
 भुजंगप्रयातेन वृत्तेन क्लृप्तम् ।
नरः स्तोत्रमेतत्पठित्वोरुभक्त्या
 सुपुत्रायुरारोग्यमैश्वर्यमेति ॥ ४० ॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

शिवभुजंगं संपूर्णम्