शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः २२

विकिस्रोतः तः

तस्मिन्नवसरे व्योम्नि समाविरभवद्रथः ॥ ७.१,२२.१
सहस्रसूर्यसंकाशश्चारुचीरवृषध्वजः ॥ ७.१,२२.१
अश्वरत्नद्वयोदारो रथचक्रचतुष्टयः ॥ ७.१,२२.२
सञ्चितानेकदिव्यास्त्रशस्त्ररत्नपरिष्कृतः ॥ ७.१,२२.२
तस्यापि रथवर्यस्य स्यात्स एव हि सारथिः ॥ ७.१,२२.३
यथा च त्रैपुरे युद्धे पूर्वं शार्वरथे स्थितः ॥ ७.१,२२.३
स तं रथवरं ब्रह्मा शासनादेव शूलिनः ॥ ७.१,२२.४
हरेस्समीपमानीय कृताञ्जलिरभाषत ॥ ७.१,२२.४
भगवन्भद्र भद्रांग भगवानिन्दुभूषणः ॥ ७.१,२२.५
आज्ञापयति वीरस्त्वां रथमारोढुमव्ययः ॥ ७.१,२२.५
रेभ्याश्रमसमीपस्थस्त्र्यंबको ऽंबिकया सह ॥ ७.१,२२.६
सम्पश्यते महाबाहो दुस्सहं ते पराक्रमम् ॥ ७.१,२२.६
तस्य तद्वचनं श्रुत्वा स वीरो गणकुञ्जरः ॥ ७.१,२२.७
आरुरोह रथं दिव्यमनुगृह्य पितामहम् ॥ ७.१,२२.७
तथा रथवरे तस्मिन्स्थिते ब्रह्मणि सारथौ ॥ ७.१,२२.८
भद्रस्य ववृधे लक्ष्मी रुद्रस्येव पुरद्विषः ॥ ७.१,२२.८
ततः शंखवरं दीप्तं पूर्णचंद्रसमप्रभम् ॥ ७.१,२२.९
प्रदध्मौ वदने कृत्वा भानुकंपो महाबलः ॥ ७.१,२२.९
तस्य शंखस्य तं नादं भिन्नसारससन्निभम् ॥ ७.१,२२.१०
श्रुत्वा भयेन देवानां जज्वाल जठरानलः ॥ ७.१,२२.१०
यक्षविद्याधराहीन्द्रैः सिद्धैर्युद्धदिदृक्षुभिः ॥ ७.१,२२.११
क्षणेन निबडीभूताः साकाशविवरा दिशाः ॥ ७.१,२२.११
ततः शार्ङ्गेण चापाङ्कात्स नारायणनीरदः ॥ ७.१,२२.१२
महता बाणवर्षेण तुतोद गणगोवृषम् ॥ ७.१,२२.१२
तं दृष्ट्वा विष्णुमायांतं शतधा बाणवर्षिणम् ॥ ७.१,२२.१३
स चाददे धनुर्जैत्रं भद्रो बाणसहस्रमुक् ॥ ७.१,२२.१३
समादाय च तद्दिव्यं धनुस्समरभैरवम् ॥ ७.१,२२.१४
शनैर्विस्फारयामास मेरुं धनुरिवेश्वरः ॥ ७.१,२२.१४
तस्य विस्फार्यमाणस्य धनुषो ऽभून्महास्वनः ॥ ७.१,२२.१५
तेन स्वनेन महता पृथिवीं समकंपयत् ॥ ७.१,२२.१५
ततः शरवरं घोरं दीप्तमाशीविषोपमम् ॥ ७.१,२२.१६
जग्राह गणपः श्रीमान्स्वयमुग्रपराक्रमः ॥ ७.१,२२.१६
बाणोद्धारे भुजो ह्यस्य तूणीवदनसंगतः ॥ ७.१,२२.१७
प्रत्यदृश्यत वल्मीकं विवेक्षुरिव पन्नगः ॥ ७.१,२२.१७
समुद्धृतः करे तस्य तत्क्षणं रुरुचे शरेः ॥ ७.१,२२.१८
महाभुजंगसंदष्टो यथा बालभुजङ्गमः ॥ ७.१,२२.१८
शरेण घनतीव्रेण भद्रो रुद्रपराक्रमः ॥ ७.१,२२.१९
विव्याध कुपितो गाढं ललाटे विष्णुमव्ययम् ॥ ७.१,२२.१९
ललाटे ऽभिहितो विष्णुः पूर्वमेवावमानितः ॥ ७.१,२२.२०
चुकोप गणपेंद्राय मृगेंद्रायेव गोवृषः ॥ ७.१,२२.२०
ततस्त्वशनिकल्पेन क्रूरास्येन महेषुणा ॥ ७.१,२२.२१
विव्याध गणराजस्य भुजे भुजगसन्निभे ॥ ७.१,२२.२१
सो ऽपि तस्य भुजे भूयः सूर्यायुतसमप्रभम् ॥ ७.१,२२.२२
विससर्ज शरं वेगाद्वीरभद्रो महाबलः ॥ ७.१,२२.२२
स च विष्णुः पुनर्भद्रं भद्रो विष्णुं तथा पुनः ॥ ७.१,२२.२३
स च तं स च तं विप्राश्शरैस्तावनुजघ्नतुः ॥ ७.१,२२.२३
तयोः परस्परं वेगाच्छरानाशु विमुंचतोः ॥ ७.१,२२.२४
द्वयोस्समभवद्युद्धं तुमुलं रोमहर्षणम् ॥ ७.१,२२.२४
तद्दृष्ट्वा तुमुलं युद्धं तयोरेव परस्परम् ॥ ७.१,२२.२५
हाहाकारो महानासीदाकाशे खेचरेरितः ॥ ७.१,२२.२५
ततस्त्वनलतुंडेन शरेणादित्यवर्चसा ॥ ७.१,२२.२६
विव्याध सुदृढं भद्रो विष्णोर्महति वक्षसि ॥ ७.१,२२.२६
स तु तीव्रप्रपातेन शरेण दृढमाहतः ॥ ७.१,२२.२७
महतीं रुजमासाद्य निपपात विमोहितः ॥ ७.१,२२.२७
पुनः क्षणादिवोत्थाय लब्धसंज्ञस्तदा हरिः ॥ ७.१,२२.२८
सर्वाण्यपि च दिव्यास्त्राण्यथैनं प्रत्यवासृजत् ॥ ७.१,२२.२८
स च विष्णुर्धनुर्मुक्तान्सर्वाञ्छर्वचमूपतिः ॥ ७.१,२२.२९
सहसा वारयामास घोरैः प्रतिशरैः शरान् ॥ ७.१,२२.२९
ततो विष्णुस्स्वनामांकं बाणमव्याहतं क्वचित् ॥ ७.१,२२.३०
ससर्ज क्रोधरक्ता क्षस्तमुद्दिश्य गणेश्वरम् ॥ ७.१,२२.३०
तं बाणं बाणवर्येण भद्रो भद्राह्वयेण तु ॥ ७.१,२२.३०
अप्राप्तमेव भगवाञ्चिच्छेद शतधा पथि ॥ ७.१,२२.३१
अथैकेनेषुणा शार्ङ्गं द्वाभ्यां पक्षौ गरुत्मतः ॥ ७.१,२२.३१
निमेषादेव चिच्छेद तदद्भुतमिवाभवत् ॥ ७.१,२२.३२
ततो योगबलाद्विष्णुर्देहाद्देवान्सुदारुणान् ॥ ७.१,२२.३२
शंखचक्रगदाहस्तान् विससर्ज सहस्रशः ॥ ७.१,२२.३३
सर्वांस्तान्क्षणमात्रेण त्रैपुरानिव शंकरः ॥ ७.१,२२.३३
निर्ददाह महाबाहुर्नेत्रसृष्टेन वह्निना ॥ ७.१,२२.३४
ततः क्रुद्धतरो विष्णुश्चक्रमुद्यम्य सत्वरः ॥ ७.१,२२.३४
तस्मिन्वीरो समुत्स्रष्टुं तदानीमुद्यतो ऽभवत् ॥ ७.१,२२.३५
तं दृष्ट्वा चक्रमुद्यम्य पुरतः समुपस्थितम् ॥ ७.१,२२.३५
स्मयन्निव गणेशानो व्यष्टंभयदयत्नतः ॥ ७.१,२२.३६
स्तंभितांगस्तु तच्चक्रं घोरमप्रतिमं क्वचित् ॥ ७.१,२२.३६
इच्छन्नपि समुत्स्रष्टुं न विष्णुरभवत्क्षमः ॥ ७.१,२२.३७
श्वसन्निवैकमुद्धृत्य बाहुं चक्रसमन्वितम् ॥ ७.१,२२.३७
अतिष्ठदलसो भूत्वा पाषाण इव निश्चलः ॥ ७.१,२२.३८
विशरीरो यथाजीवो विशृङ्गो वा यथा वृषः ॥ ७.१,२२.३८
विदंष्ट्रश्च यथा सिंहस्तथा विष्णुरवस्थितः ॥ ७.१,२२.३९
तं दृष्ट्वा दुर्दशापन्नं विष्णुमिंद्रादयः सुराः ॥ ७.१,२२.३९
समुन्नद्धा गणेन्द्रेण मृगेंद्रेणेव गोवृषाः ॥ ७.१,२२.३९
प्रगृहीतायुधा यौद्धुंक्रुद्धाः समुपतस्थिरे ॥ ७.१,२२.४०
तान्दृष्ट्वा समरे भद्रःक्षुद्रानिव हरिर्मृगान् ॥ ७.१,२२.४०
साक्षाद्रुद्रतनुर्वीरो वरवीरगणावृतः ॥ ७.१,२२.४१
अट्टहासेन घोरेण व्यष्टं भयदनिंदितः ॥ ७.१,२२.४१
तथा शतमखस्यापि सवज्रो दक्षिणः करः ॥ ७.१,२२.४२
सिसृक्षोरेव उद्वज्रश्चित्रीकृत इवाभवत् ॥ ७.१,२२.४२
अन्येषामपि सर्वेषां सरक्ता अपि बाहवः ॥ ७.१,२२.४३
अलसानामिवारंभास्तादृशाः प्रतियांत्युत ॥ ७.१,२२.४३
एवं भगवता तेन व्याहताशेषवैभवात् ॥ ७.१,२२.४४
अमराः समरे तस्य पुरतः स्थातुमक्षमाः ॥ ७.१,२२.४४
स्तब्धैरवयवैरेव दुद्रुवुर्भयविह्वलाः ॥ ७.१,२२.४५
स्थितिं च चक्रिरे युद्धे वीरतेजोभयाकुलाः ॥ ७.१,२२.४५
विद्रुतांस्त्रिदशान्वीरान्वीरभद्रो महाभुजः ॥ ७.१,२२.४६
विव्याध निशितैर्बाणैर्मघो वर्षैरिवाचलान् ॥ ७.१,२२.४६
बहवस्तस्य वीरस्य बाहवः परिघोपमाः ॥ ७.१,२२.४७
शस्त्रैश्चकाशिरे दीप्तैः साग्निज्वाला इवोरगाः ॥ ७.१,२२.४७
अस्त्रशस्त्राण्यनेकानिसवीरो विसृजन्बभौ ॥ ७.१,२२.४८
विसृजन्सर्वभूतानि यथादौ विश्वसंभवः ॥ ७.१,२२.४८
यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम् ॥ ७.१,२२.४९
तथा वीरः क्षणादेव शरैः प्राच्छादयद्दिशः ॥ ७.१,२२.४९
खमंडले गणेन्द्रस्य शराः कनकभूषिताः ॥ ७.१,२२.५०
उत्पतंतस्तडिद्रूपैरुपमानपदं ययुः ॥ ७.१,२२.५०
महांतस्ते सुरगणान्मंडूकानिवडुंडुभाः ॥ ७.१,२२.५१
प्राणैर्वियोजयामासुः पपुश्च रुधिरासवम् ॥ ७.१,२२.५१
निकृत्तबाहवः केचित्केचिल्लूनवराननाः ॥ ७.१,२२.५२
पार्श्वे विदारिताः केचिन्निपेतुरमरा भुवि ॥ ७.१,२२.५२
विशिखोन्मथितैर्गात्रैर्बहुभिश्छिन्नसन्धिभिः ॥ ७.१,२२.५३
विवृत्तनयनाः केचिन्निपेतुर्भूतले मृताः ॥ ७.१,२२.५३
गां प्रवेष्टुमिवेच्छंतः खं गंतुमिव लिप्सवः ॥ ७.१,२२.५३
अलब्धात्मनिरोधानां व्यलीयंतः परस्परम् ॥ ७.१,२२.५४
भूमौ केचित्प्रविविशुः पर्वतानां गुहाः परे ॥ ७.१,२२.५४
अपरे जग्मुराकाशं परे च विविशुर्जलम् ॥ ७.१,२२.५५
तथा संछिन्नसर्वांगैस्स वीरस्त्रिदशैर्बभौ ॥ ७.१,२२.५५
परिग्रस्तप्रजावर्गो भगवानिव भैरवः ॥ ७.१,२२.५६
दग्धत्रिपुरसंव्यूहस्त्रिपुरारिर्यथाभवत् ॥ ७.१,२२.५६
एवं देवबलं सर्वं दीनं बीभत्सदर्शनम् ॥ ७.१,२२.५७
गणेश्वरसमुत्पन्नं कृपणं वपुराददे ॥ ७.१,२२.५७
तदा त्रिदशवीराणामसृक्सलिलवाहिनी ॥ ७.१,२२.५८
प्रावर्तत नदी घोरा प्राणिनां भयशंसिनी ॥ ७.१,२२.५८
रुधिरेण परिक्लिन्ना यज्ञभूमिस्तदा बभौ ॥ ७.१,२२.५९
रक्तार्द्रवसना श्यामा हतशुंभेव कैशिकी ॥ ७.१,२२.५९
तस्मिन्महति संवृत्ते समरे भृशदारुणे ॥ ७.१,२२.६०
भयेनेव परित्रस्ता प्रचचाल वसुन्धरा ॥ ७.१,२२.६०
महोर्मिकलिलावर्तश्चुक्षुभे च महोदधिः ॥ ७.१,२२.६१
पेतुश्चोल्का महोत्पाताः शाखाश्च मुमुचुर्द्रुमाः ॥ ७.१,२२.६१
अप्रसन्ना दिशः सर्वाः पवनश्चाशिवो ववौ ॥ ७.१,२२.६२
अहो विधिविपर्यासस्त्वश्वमेधोयमध्वरः ॥ ७.१,२२.६२
यजमानस्स्वयं दक्षौ ब्रह्मपुत्रप्रजापतिः ॥ ७.१,२२.६२
धर्मादयस्सदस्याश्च रक्षिता गरुडध्वजः ॥ ७.१,२२.६३
भागांश्च प्रतिगृह्णंति साक्षादिंद्रादयः सुराः ॥ ७.१,२२.६३
तथापि यजमानस्य यज्ञस्य च सहर्त्विजः ॥ ७.१,२२.६४
सद्य एव शिरश्छेदस्साधु संपद्यते फलम् ॥ ७.१,२२.६४
तस्मान्नावेदनिर्दिष्टं न चेश्वरबहिष्कृतम् ॥ ७.१,२२.६५
नासत्परिगृहीतं च कर्म कुर्यात्कदाचन ॥ ७.१,२२. ६५
कृत्वापि सुमहत्पुण्यमिष्ट्वा यज्ञशतैरपि ॥ ७.१,२२.६६
न तत्फलमवाप्नोति भक्तिहीनो महेश्वरे ॥ ७.१,२२.६६
कृत्वापि सुमहत्पापं भक्त्या यजति यश्शिवम् ॥ ७.१,२२.६७
मुच्यते पातकैः सर्वैर्नात्र कार्या विचारणा ॥ ७.१,२२.६७
बहुनात्र किमुक्तेन वृथा दानं वृथा तपः ॥ ७.१,२२.६८
वृथा यज्ञो वृथा होमः शिवनिन्दारतस्य तु ॥ ७.१,२२.६८
ततः सनारायणकास्सरुद्राः सलोकपालास्समरे सुरौघाः ॥ ७.१,२२.६९
गणेंद्रचापच्युतबाणविद्धाः प्रदुद्रुवुर्गाढरुजाभिभूताः ॥ ७.१,२२.६९
चेलुः क्वचित्केचन शीर्णकेशाः सेदुः क्वचित्केचन दीर्घगात्राः ॥ ७.१,२२.७०
पेतुः क्वचित्केचन भिन्नवक्त्रा नेशुः क्वचित्केचन देववीराः ॥ ७.१,२२.७०
केचिच्च तत्र त्रिदशा विपन्ना विस्रस्तवस्त्राभरणास्त्रशस्त्राः ॥ ७.१,२२.७१
निपेतुरुद्भासितदीनमुद्रा मदं च दर्पं च बलं च हित्वा ॥ ७.१,२२.७१
सस्मुत्पथप्रस्थितमप्रधृष्यो विक्षिप्य दक्षाध्वरमक्षतास्त्रैः ॥ ७.१,२२.७२
बभौ गणेशस्स गणेश्वराणां मध्ये स्थितः सिंह इवर्षभाणाम् ॥ ७.१,२२.७२

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्खण्डे दक्षयज्ञविध्वंसवर्णनं नाम द्वाविंशो ऽध्यायः