शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः १९
ऋषय ऊचुः
कथं दक्षस्य धर्मार्थं प्रवृत्तस्य दुरात्मनः ॥ ७.१,१९.१
महेशः कृतवान् विघ्नमेतदिच्छाम वेदितुम् ॥ ७.१,१९.१
वायुरुवाच
विश्वस्य जगतो मातुरपि देव्यास्तपोबलात् ॥ ७.१,१९.२
पितृभावमुपागम्य मुदिते हिमवद्गिरौ ॥ ७.१,१९.२
देवे ऽपि तत्कृतोद्वाहे हिमवच्छिखरालये ॥ ७.१,१९.३
संकीडति तया सार्धं काले बहुतरे गते ॥ ७.१,१९.३
वैवस्वते ऽंतरे प्राप्ते दक्षः प्राचेतसः स्वयम् ॥ ७.१,१९.४
अश्वमेधेन यज्ञेन यक्ष्यमाणो ऽन्वपद्यत ॥ ७.१,१९.४
ततो हिमवतः पृष्ठे दक्षो वै यज्ञमाहरत् ॥ ७.१,१९.५
गंगाद्वारे शुभे देशे ऋषिसिद्धनिषेविते ॥ ७.१,१९.५
तस्य तस्मिन्मखेदेवाः सर्वे शक्र पुरोगमाः ॥ ७.१,१९.६
गमनाय समागम्य बुद्धिमापेदिरे तदा ॥ ७.१,१९.६
आदित्या वसवो रुद्रास्साध्यास्सह मरुद्गणैः ॥ ७.१,१९.७
ऊष्मपाः सोमपाश्चैव आज्यपा धूमपास्तथा ॥ ७.१,१९.७
अश्विनौ पितरश्चैव तथा चान्ये महर्षयः ॥ ७.१,१९.८
विष्णुना सहिताः सर्वे स्वागता यज्ञभागिनः ॥ ७.१,१९.८
दृष्ट्वा देवकुलं सर्वमीश्वरेण विनागतम् ॥ ७.१,१९.९
दधीचो मन्युनाविष्टो दक्षमेवमभाषत ॥ ७.१,१९.९
दधीच उवाच
अप्रपूज्ये चैव पूजा पूज्यानां चाप्य पूजने ॥ ७.१,१९.१०
नरः पापमवाप्नोति महद्वै नात्र संशयः ॥ ७.१,१९.१०
असतां संमतिर्यत्र सतामवमतिस्तथा ॥ ७.१,१९.११
दंडो देवकृतस्तत्र सद्यः पतति दारुणः ॥ ७.१,१९.११
एवमुक्त्वा तु विप्रर्षिः पुनर्दक्षमभाषत ॥ ७.१,१९.१२
पूज्यं तु पशुभर्तारं कस्मान्नार्चयसे प्रभुम् ॥ ७.१,१९.१२
दक्ष उवाच
संति मे बहवो रुद्राः शूलहस्ताः कपर्दिनः ॥ ७.१,१९.१३
एकादशावस्थिता ये नान्यं वेद्मि महेश्वरम् ॥ ७.१,१९.१३
दधीच उवाच
किमेभिरमरैरन्यैः पूजितैरध्वरे फलम् ॥ ७.१,१९.१४
राजा चेदध्वरस्यास्य न रुद्रः पूज्यते त्वया ॥ ७.१,१९.१४
ब्रह्मविष्णुमहेशानां स्रष्टा यः प्रभुरव्ययः ॥ ७.१,१९.१५
ब्रह्मादयः पिशाचांता यस्य कैंकर्यवादिनः ॥ ७.१,१९.१५
प्रकृतीनां परश्चैव पुरुषस्य च यः परः ॥ ७.१,१९.१६
चिंत्यते योगविद्वद्भि ऋषिभिस्तत्त्वदर्शिभिः ॥ ७.१,१९.१६
अक्षरं परमं ब्रह्म ह्यसच्च सदसच्च यत् ॥ ७.१,१९.१७
अनादिमध्यनिधनमप्रतर्क्यं सनातनम् ॥ ७.१,१९.१७
यः स्रष्टा चैव संहर्ता भर्ता चैव महेश्वरः ॥ ७.१,१९.१८
तस्मादन्यं न पश्यामि शंकरात्मानमध्वरे ॥ ७.१,१९.१८
दक्ष उवाच
एतन्मखेशस्य सुवर्णपात्रे हविः समस्तं विधिमंत्रपूतम् ॥ ७.१,१९.१९
विष्णोर्नयाम्यप्रतिमस्य भागं प्रभोर्विभज्यावहनीयमद्य ॥ ७.१,१९.१९
दधीच उवाच
यस्मान्नाराधितो रुद्रस्सर्वदेवेश्वरेश्वरः ॥ ७.१,१९.२०
तस्माद्दक्ष तवाशेषो यज्ञो ऽयं न भविष्यति ॥ ७.१,१९.२०
इत्युक्त्वा वचनं क्रुद्धो दधीचो मुनिसत्तमः ॥ ७.१,१९.२१
निर्गम्य च ततो देशाज्जगाम स्वकमाश्रमम् ॥ ७.१,१९.२१
निर्गते ऽपि मुनौ तस्मिन्देवा दक्षं न तत्यजुः ॥ ७.१,१९.२२
अवश्यमनुभावित्वादनर्थस्य तु भाविनः ॥ ७.१,१९.२२
एतस्मिन्नेव काले तु ज्ञात्वैतत्सर्वमीश्वरात् ॥ ७.१,१९.२३
दग्धुं दक्षाध्वरं विप्रा देवी देवमचोदयत् ॥ ७.१,१९.२३
देव्या संचोदितो देवो दक्षाध्वरजिघांसया ॥ ७.१,१९.२४
ससर्ज सहसा वीरं वीरभद्रं गणेश्वरम् ॥ ७.१,१९.२४
सहस्रवदनं देवं सहस्रकमलेक्षणम् ॥ ७.१,१९.२५
सहस्रमुद्गरधरं सहस्रशरपाणिकम् ॥ ७.१,१९.२५
शूलटंकगदाहस्तं दीप्तकार्मुकधारिणम् ॥ ७.१,१९.२६
चक्रवज्रधरं घोरं चंद्रार्धकृतशेखरम् ॥ ७.१,१९.२६
कुलिशोद्योतितकरं तडिज्ज्वलितमूर्धजम् ॥ ७.१,१९.२७
दंष्ट्राकरालं बिभ्राणं महावक्त्रं महोदरम् ॥ ७.१,१९.२७
विद्युज्जिह्वं प्रलंबोष्ठं मेघसागरनिःस्वनम् ॥ ७.१,१९.२८
वसानं चर्म वैयाघ्रं महद्रुधिरनिस्रवम् ॥ ७.१,१९.२८
गण्डद्वितयसंसृष्टमण्डलीकृतकुण्डलम् ॥ ७.१,१९.२९
वरामरशिरोमालावलीकलितशेखरम् ॥ ७.१,१९.२९
रणन्नूपुरकेयूरमहाकनकभूषितम् ॥ ७.१,१९.३०
रत्नसंचयसंदीप्तं तारहारावृतोरसम् ॥ ७.१,१९.३०
महाशरभशार्दूलसिंहैः सदृशविक्रमम् ॥ ७.१,१९.३१
प्रशस्तमत्तमातंगसमानगमनालसम् ॥ ७.१,१९.३१
शंखचामरकुंदेन्दुमृणालसदृशप्रभम् ॥ ७.१,१९.३२
सतुषारमिवाद्रीन्द्रं साक्षाज्जंगमतां गतम् ॥ ७.१,१९.३२
ज्वालामालापरिक्षिप्तं दीप्तमौक्तिकभूषणम् ॥ ७.१,१९.३३
तेजसा चैव दीव्यंतं युगांत इव पावकम् ॥ ७.१,१९.३३
स जानुभ्यां महीं गत्वा प्रणतः प्रांजलिस्ततः ॥ ७.१,१९.३४
पार्श्वतो देवदेवस्य पर्यतिष्ठद्गणेश्वरः ॥ ७.१,१९.३४
मन्युना चासृजद्भद्रां भद्रकालीं महेश्वरीम् ॥ ७.१,१९.३५
आत्मनः कर्मसाक्षित्वे तेन गंतुं सहैव तु ॥ ७.१,१९.३५
तं दृष्ट्वावस्थितं वीरभद्रं कालाग्निसन्निभम् ॥ ७.१,१९.३६
भद्रया सहितं प्राह भद्रमस्त्विति शंकरः ॥ ७.१,१९.३६
स च विज्ञापयामास सह देव्या महेश्वरम् ॥ ७.१,१९.३७
आज्ञापय महादेव किं कार्यं करवाण्यहम् ॥ ७.१,१९.३७
ततस्त्रिपुरहा प्राह हैमवत्याः प्रियेच्छया ॥ ७.१,१९.३८
वीरभद्रं महाबाहुं वाचा विपुलनादया ॥ ७.१,१९.३८
देवदेव उवाच
प्राचेतसस्य दक्षस्य यज्ञं सद्यो विनाशय ॥ ७.१,१९.३९
भद्रकाल्या सहासि त्वमेतत्कृत्यं गणेश्वर ॥ ७.१,१९.३९
अहमप्यनया सार्धं रैभ्याश्रमसपीपतः ॥ ७.१,१९.४०
स्थित्वा वीक्षे गणेशान विक्रमं तव दुःसहम् ॥ ७.१,१९.४०
वृक्षा कनखले ये तु गंगाद्वारसमीपगाः ॥ ७.१,१९.४१
सुवर्णशृंगस्य गिरेर्मेरुमंदरसंनिभाः ॥ ७.१,१९.४१
तस्मिन्प्रदेशे दक्षस्य युज्ञः संप्रति वर्तते ॥ ७.१,१९.४२
सहसा तस्य यज्ञस्य विघातं कुरु मा चिरम् ॥ ७.१,१९.४२
इत्युक्ते सति देवेन देवी हिमगिरीन्द्रजा ॥ ७.१,१९.४३
भद्रं भद्रं च संप्रेक्ष्य वत्सं धेनुरिवौरसम् ॥ ७.१,१९.४३
आलिंग्य च समाघ्राय मूर्ध्नि षड्वदनं यथा ॥ ७.१,१९.४४
सस्मिता वचनं प्राह मधुरं मधुरं स्वयम् ॥ ७.१,१९.४४
देव्युवाच
वत्स भद्र महाभाग महाबलपराक्रम ॥ ७.१,१९.४५
मत्प्रियार्थं त्वमुत्पन्नो मम मन्युं प्रमार्जक ॥ ७.१,१९.४५
यज्ञेश्वरमनाहूय यज्ञकर्मरतो ऽभवत् ॥ ७.१,१९.४६
दक्षं वैरेण तं तस्माद्भिंधि यज्ञं गणेश्वर ॥ ७.१,१९.४६
यज्ञलक्ष्मीमलक्ष्मीं त्वं भद्र कृत्वा ममाज्ञया ॥ ७.१,१९.४७
यजमानं च तं हत्वा वत्स हिंसय भद्रया ॥ ७.१,१९.४७
अशेषामिव तामाज्ञां शिवयोश्चित्रकृत्ययोः ॥ ७.१,१९.४८
मूर्ध्नि कृत्वा नमस्कृत्य भद्रो गंतुं प्रचक्रमे ॥ ७.१,१९.४८
अथैष भगवान्क्रुद्धः प्रेतावासकृतालयः ॥ ७.१,१९.४९
वीरभद्रो महादेवो देव्या मन्युप्रमार्जकः ॥ ७.१,१९.४९
ससर्ज रोमकूपेभ्यो रोमजाख्यान्गणेश्वरान् ॥ ७.१,१९.५०
दक्षिणाद्भुजदेशात्तु शतकोटिगविश्वरान् ॥ ७.१,१९.५०
पादात्तथोरुदेशाच्च पृष्ठात्पार्श्वान्मुखाद्गलात् ॥ ७.१,१९.५१
गुह्याद्गुल्फाच्छिरोमध्यात्कंठादास्यात्तथोदरात् ॥ ७.१,१९.५१
तदा गणेश्वरैर्भद्रैर्भद्रतुल्यपराक्रमैः ॥ ७.१,१९.५२
संछादितमभूत्सर्वं साकाशविवरं जगत् ॥ ७.१,१९.५२
सर्वे सहस्रहस्तास्ते सहस्रायुधपाणयः ॥ ७.१,१९.५३
रुद्रस्यानुचरास्सर्वे सर्वे रुद्रसमप्रभाः ॥ ७.१,१९.५३
शूलशक्तिगदाहस्ताष्टंकोपलशिलाधराः ॥ ७.१,१९.५४
कालाग्निरुद्रसदृशास्त्रिनेत्राश्च जटाधराः ॥ ७.१,१९.५४
निपेतुर्भृशमाकाशे शतशस्सिंहवाहनाः ॥ ७.१,१९.५५
विनेदुश्च महानादाञ्जलदा इव भद्रजाः ॥ ७.१,१९.५५
तैर्भद्रैर्भगवान्मद्रस्तथा परिवृतो बभौ ॥ ७.१,१९.५६
कालानलशतैर्युक्तो यथांते कालभैरवः ॥ ७.१,१९.५६
तेषां मध्ये समारुह्य वृषेंद्रं वृषभध्वजः ॥ ७.१,१९.५७
जगाम भगवान्भद्रश्शुभमभ्रं यथा भवः ॥ ७.१,१९.५७
तस्मिन्वृषभमारूढे भद्रे तु भसितप्रभः ॥ ७.१,१९.५८
बभार मौक्तिकं छत्रं गृहीतसितचामरः ॥ ७.१,१९.५८
स तदा शुशुभे पार्श्वे भद्रस्य भसितप्रभः ॥ ७.१,१९.५९
भगवानिव शैलेन्द्रः पार्श्वे विश्वजगद्गुरोः ॥ ७.१,१९.५९
सो ऽपि तेन बभौ भद्रः श्वेतचामरपाणिना ॥ ७.१,१९.६०
बालसोमेन सौम्येन यथा शूलवरायुधः ॥ ७.१,१९.६०
दध्मौ शंखं सितं भद्रं भद्रस्य पुरतः शुभम् ॥ ७.१,१९.६१
भानुकंपो महातेजा हेमरत्नैरलंकृतः ॥ ७.१,१९.६१
देवदुंदुभयो नेदुर्दिव्यसंकुलनिःस्वनाः ॥ ७.१,१९.६२
ववृषुश्शतशो मूर्ध्नि पुष्पवर्षं बलाहकाः ॥ ७.१,१९.६२
फुल्लानां मधुगर्भाणां पुष्पाणां गंधबंधवः ॥ ७.१,१९.६३
मार्गानुकूलसंवाहा वबुश्च पथि मारुताः ॥ ७.१,१९.६३
ततो गणेश्वराः सर्वे मत्ता युद्धबलोद्धताः ॥ ७.१,१९.६४
ननृतुर्मुमुदुर्१ एदुर्जहसुर्जगदुर्जगुः ॥ ७.१,१९.६४
तदा भद्रगणांतःस्थो बभौ भद्रः स भद्रया ॥ ७.१,१९.६५
यथा रुद्रगणांतः स्थस्त्र्यम्बकोंबिकया सह ॥ ७.१,१९.६५
तत्क्षणादेव दक्षस्य यज्ञवाटं रण्मयम् ॥ ७.१,१९.६६
प्रविवेश महाबाहुर्वीरभद्रो महानुगः ॥ ७.१,१९.६६
ततस्तु दक्षप्रतिपादितस्य क्रतुप्रधानस्य गणप्रधानः ॥ ७.१,१९.६७
प्रयोगभूमिं प्रविवेश भद्रो रुद्रो यथांते भुवनं दिधक्षुः ॥ ७.१,१९.६७
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वीरभद्रोत्पत्तिवर्णनं नामैकोनविंशो ऽध्यायः