शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः १२

विकिस्रोतः तः
Jump to navigation Jump to search

वायुरुवाच
सर्गं चिंतयतस्तस्य तदा वै बुद्धिपूर्वकम् ॥
प्रध्यानकाले मोहस्तु प्रादुर्भूतस्तमोमयः ॥ १
तमोमोहो महामोहस्तामिस्रश्चान्धसंज्ञितः ॥
अविद्या पञ्चमी चैषा प्रादुर्भूता महात्मनः ॥ २
पञ्चधा ऽवस्थितः सर्गो ध्यायतस्त्वभिमानिनः ॥
सर्वतस्तमसातीव बीजकुम्भवदावृतः ॥ ३
बहिरन्तश्चाप्रकाशः स्तब्धो निःसंज्ञ एव च ॥
तस्मात्तेषां वृता बुद्धिर्मुखानि करणानि च ॥ ४
तस्मात्ते संवृतात्मानो नगा मुख्याः प्रकीर्तिताः ॥
तं दृष्ट्वाऽसाधकं ब्रह्मा प्रथमं सर्गमीदृशम् ॥ ५
अप्रसन्नमना भूत्वा द्वितीयं सो ऽभ्यमन्यत ॥
तस्याभिधायतः सर्गं तिर्यक्स्रोतो ऽभ्यवर्तत ॥ ६
अन्तःप्रकाशास्तिर्यंच आवृताश्च बहिः पुनः ॥
पश्वात्मानस्ततो जाता उत्पथग्राहिणश्च ते ॥ ७
तमप्यसाधकं ज्ञात्वा सर्गमन्यममन्यत ॥
तदोर्ध्वस्रोतसो वृत्तो देवसर्गस्तु सात्त्विकः ॥ ८
ते सुखप्रीतिबहुला बहिरन्तश्च नावृताः ॥
प्रकाशा बहिरन्तश्चस्वभावादेव संज्ञिताः ॥ ९
ततो ऽभिध्यायतोव्यक्तादर्वाक्स्रोतस्तु साधकः ॥
मनुष्यनामा सञ्जातः सर्गो दुःखसमुत्कटः ॥ १०
प्रकाशाबहिरन्तस्ते तमोद्रिक्ता रजो ऽधिकाः ॥
पञ्चमोनुग्रहः सर्गश्चतुर्धा संव्यवस्थितः ॥ ११
विपर्ययेण शक्त्या च तुष्ट्यासिद्ध्या तथैव च ॥
ते ऽपरिग्राहिणः सर्वे संविभागरताः पुनः ॥ १२
खादनाश्चाप्यशीलाश्च भूताद्याः परिकीर्तिताः ॥
प्रथमो महतः सर्गो ब्रह्मणः परमेष्ठिनः ॥ १३
तन्मात्राणां द्वितीयस्तु भूतसर्गः स उच्यते ॥
वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः ॥ १४
इत्येष प्रकृतेः सर्गः सम्भृतो ऽबुद्धिपूर्वकः ॥ १५
मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ॥
तिर्यक्स्रोतस्तु यः प्रोक्तस्तिर्यग्योनिः स पञ्चमः ॥
तदूर्ध्वस्रोतसः षष्ठो देवसर्गस्तु स स्मृतः ॥ १६
ततो ऽर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः ॥
अष्टमो ऽनुग्रहः सर्गः कौमारो नवमः स्मृतः ॥ १७
प्राकृताश्च त्रयः पूर्वे सर्गास्ते ऽबुद्धिपूर्वकाः ॥
बुद्धिपूर्वं प्रवर्तन्ते मुख्याद्याः पञ्च वैकृताः ॥ १८
अग्रे ससर्ज वै ब्रह्मा मानसानात्मनः समान् ॥
सनन्दं सनकञ्चैव विद्वांसञ्च सनातनम् ॥ १९
ऋभुं सनत्कुमारञ्च पूर्वमेव प्रजापतिः ॥
सर्वे ते योगिनो ज्ञेया वीतरागा विमत्सराः ॥ २०
ईश्वरासक्तमनसो न चक्रुः सृष्टये मतिम् ॥
तेषु सृष्ट्यनपेक्षेषु गतेषु सनकादिषु ॥ २१
स्रष्टुकामः पुनर्ब्रह्मा तताप परमं तपः ॥
तस्यैवं तप्यमानस्य न किंचित्समवर्तत ॥ २२
ततो दीर्घेण कालेन दुःखात्क्रोधो व्यजायत ॥
क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ॥ २३
ततस्तेभ्यो ऽश्रुबिन्दुभ्यो भूताः प्रेतास्तदाभवन् ॥
सर्वांस्तानश्रुजान्दृष्ट्वा ब्रह्मात्मानमनिंदत ॥ २४
तस्य तीव्रा ऽभवन्मूर्छा क्रोधामर्षसमुद्भवा ॥
मूर्छितस्तु जहौ प्राणान्क्रोधाविष्टः प्रजापतिः ॥ २५
ततः प्राणेश्वरो रुद्रो भगवान्नीललोहितः ॥
प्रसादमतुलं कर्तुं प्रादुरासीत्प्रभोर्मुखात् ॥ २६
दशधा चैकधा चक्रे स्वात्मानं प्रभुरीश्वरः ॥
ते तेनोक्ता महात्मानो दशधा चैकधा कृताः ॥ २७
यूयं सृष्टा मया वत्सा लोकानुग्रहकारणात् ॥
तस्मात्सर्वस्य लोकस्य स्थापनाय हिताय च ॥ २८
प्रजासन्तानहेतोश्च प्रयतध्वमतन्द्रिताः ॥
एवमुक्ताश्च रुरुदुर्दुद्रुवुश्च समन्ततः ॥ २९
रोदनाद्द्रावणाच्चैव ते रुद्रा नामतः स्मृताः ॥
ये रुद्रास्ते खलु प्राणा ये प्राणास्ते महात्मकाः ॥ ३०
ततो मृतस्य देवस्य ब्रह्मणः परमेष्ठिनः ॥
घृणी ददौ पुनः प्राणान्ब्रह्मपुत्रो महेश्वरः ॥ ३१
प्रहृष्टवदनो रुद्रः प्राणप्रत्यागमाद्विभोः ॥
अभ्यभाषत विश्वेशो ब्रह्माणं परमं वचः ॥ ३२
माभैर्माभैर्महाभाग विरिंच जगतां गुरो ॥
मया ते प्राणिताः प्राणाः सुखमुत्तिष्ठ सुव्रत ॥ ३३
स्वप्नानुभूतमिव तच्छ्रुत्वा वाक्यं मनोहरम् ॥
हरं निरीक्ष्य शनकैर्नेत्रैः फुल्लाम्बुजप्रभैः ॥ ३४
तथा प्रत्यागतप्राणः स्निग्धगम्भीरया गिरा ॥
उवाच वचनं ब्रह्मा तमुद्दिश्य कृताञ्जलिः ॥ ३५
त्वं हि दर्शनमात्रेण चानन्दयसि मे मनः ॥
को भवान् विश्वमूर्त्या वा स्थित एकादशात्मकः ॥ ३६
तस्य तद्वचनं श्रुत्वा व्याजहार महेश्वरः ॥
स्पृशन् काराभ्यां ब्रह्माणं सुसुखाभ्यां सुरेश्वरः ॥ ३७
मां विद्धि परमात्मानं तव पुत्रत्वमागतम् ॥
एते चैकादश रुद्रास्त्वां सुरक्षितुमागताः ॥ ३८
तस्मात्तीव्रामिमाम्मूर्छां विधूय मदनुग्रहात् ॥
प्रबुद्धस्व यथापूर्वं प्रजा वै स्रष्टुमर्हसि ॥ ३९
एवं भगवता प्रोक्तो ब्रह्मा प्रीतमना ह्यभूत् ॥
नानाष्टकेन विश्वात्मा तुष्टाव परमेश्वरम् ॥ ४०
ब्रह्मोवाच
नमस्ते भगवन् रुद्र भास्करामिततेजसे ॥
नमो भवाय देवाय रसायाम्बुमयात्मने ॥ ४१
शर्वाय क्षितिरूपाय नन्दीसुरभये नमः ॥ ४१
ईशाय वसवे तुभ्यं नमस्स्पर्शमयात्मने ॥
पशूनां पतये चैव पावकायातितेजसे ॥
भीमाय व्योमरूपाय शब्दमात्राय ते नमः ॥ ४२
उग्रायोग्रस्वरूपाय यजमानात्मने नमः ॥
महादेवाय सोमाय नमोस्त्वमृतमूर्तये ॥ ४३
एवं स्तुत्वा महादेवं ब्रह्मा लोकपितामहः ॥
प्रार्थयामास विश्वेशं गिरा प्रणतिपूर्वया ॥ ४४
भगवन् भूतभव्येश मम पुत्र महेश्वर ॥
सृष्टिहेतोस्त्वमुत्पन्नो ममांगे ऽनंगनाशनः ॥ ४५
तस्मान्महति कार्येस्मिन् व्यापृतस्य जगत्प्रभो ॥
सहायं कुरु सर्वत्र स्रष्टुमर्हसि स प्रजाः ॥ ४६
तेनैषां पावितो देवो रुद्रस्त्रिपुरमर्दनः ॥
बाढमित्येव तां वाणीं प्रतिजग्राह शंकरः ॥ ४७
ततस्स भगवान् ब्रह्मा हृष्टं तमभिनंद्य च ॥
स्रष्टुं तेनाभ्यनुज्ञातस्तथान्याश्चासृजत्प्रजाः ॥ ४८
मरीचिभृग्वंगिरसः पुलस्त्यं पुलहं क्रतुम् ॥
दक्षमत्रिं वसिष्ठं च सो ऽसृजन्मनसैव च ॥ ४९
पुरस्तादसृजद्ब्रह्मा धर्मं संकल्पमेव च ॥ ४९
इत्येते ब्रह्मणः पुत्रा द्वादशादौ प्रकीर्तिताः ॥
सह रुद्रेण संभूताः पुराणा गृहमेधिनः ॥ ५०
तेषां द्वादश वंशाः स्युर्दिव्या देवगणान्विताः ॥
प्रजावन्तः क्रियावन्तो महर्षिभिरलंकृताः ॥ ५१
अथ देवासुरपित्ःन्मनुष्यांश्च चतुष्टयम् ॥
सह रुद्रेण सिसृक्षुरंभस्येतानि वै विधिः ॥ ५२
स सृष्ट्यर्थं समाधाय ब्रह्मात्मानमयूयुजत् ॥
मुखादजनयद्देवान् पित्ःंश्चैवोपपक्षतः ॥ ५३
जघनादसुरान् सर्वान् प्रजनादपि मानुषान् ॥
अवस्करे क्षुधाविष्टा राक्षसास्तस्य जज्ञिरे ॥ ५४
पुत्रास्तमोरजःप्राया बलिनस्ते निशाचराः ॥
सर्पा यक्षास्तथा भूता गंधर्वाः संप्रजज्ञिरे ॥ ५५
वयांसि पक्षतः सृष्टाः पक्षिणो वक्षसो ऽसृजत् ॥
मुखतोजांस्तथा पार्श्वादुरगांश्च विनिर्ममे ॥ ५६
पद्भ्यां चाश्वान्समातंगान् शरभान् गवयान्मृगान् ॥
उष्ट्रानश्वतरांश्चैव न्यंकूनन्याश्च जातयः १ ॥ ५७
औषध्यः फलमूलानि रोमभ्यस्तस्य जज्ञिरे ॥
गायत्रीं च ऋचं चैव त्रिवृत्साम रथंतरम् ॥ ५८
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ॥
यजूंषि त्रैष्टुभं छंदःस्तोमं पञ्चदशं तथा ॥ ५९
बृहत्साम तथोक्थं च दक्षिणादसृजन्मुखात् ॥
सामानि जगतीछंदः स्तोमं सप्तदशं तथा ॥ ६०
वैरूप्यमतिरात्रं च पश्चिमादसृजन्मुखात् ॥
एकविंशमथर्वाणमाप्तोर्यामाणमेव च ॥ ६१
अनुष्टुभं स वैराजमुत्तरादसृजन्मुखात् ॥
उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ॥ ६२
यक्षाः पिशाचा गंधर्वास्तथैवाप्सरसां गणाः ॥
नरकिन्नररक्षांसि वयःपशुमृगोरगाः ॥ ६३
अव्ययं चैव यदिदं स्थाणुस्थावरजंगमम् ॥
तेषां वै यानि कर्माणि प्राक्सृष्टानि प्रपेदिरे ॥ ६४
तान्येव ते प्रपद्यंते सृज्यमानाः पुनः पुनः ॥
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते ॥ ६५
तद्भाविताः प्रपद्यंते तस्मात्तत्तस्य रोचते ॥
महाभूतेषु नानात्वमिंद्रियार्थेषु मुक्तिषु ॥ ६६
विनियोगं च भूतानां धातैव व्यदधत्स्वयम् ॥
नाम रूपं च भूतानां प्राकृतानां प्रपञ्चनम् ॥ ६७
वेदशब्देभ्य एवादौ निर्ममे ऽसौ पितामहः ॥
आर्षाणि चैव नामानि याश्च वेदेषु वृत्तयः ॥ ६८
शर्वर्यंते प्रसूतानां तान्येवैभ्यो ददावजः ॥
यथर्तावृतुलिंगानि नानारूपाणि पर्यये ॥ ६९
दृश्यंते तानि तान्येव तथा भावा युगादिषु ॥
इत्येष करणोद्भूतो लोकसर्गस्स्वयंभुवः ॥ ७०
महदाद्योविशेषांतो विकारः प्रकृतेः स्वयम् ॥
चंद्रसूर्यप्रभाजुष्टो ग्रहनक्षत्रमंडितः ॥ ७१
नदीभिश्च समुद्रैश्च पर्वतैश्च स मंडितः ॥
परैश्च विविधैरम्यैस्स्फीतैर्जनपदैस्तथा ॥ ७२
तस्मिन् ब्रह्मवने ऽव्यक्तो ब्रह्मा चरति सर्ववित् ॥
अव्यक्तबीजप्रभव ईश्वरानुग्रहे स्थितः ॥ ७३
बुद्धिस्कंधमहाशाख इन्द्रियांतरकोटरः ॥
महाभूतप्रमाणश्च विशेषामलपल्लवः ॥ ७४
धर्माधर्मसुपुष्पाढ्यः सुखदुःखफलोदयः ॥
आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः ॥ ७५
द्यां मूर्धानं तस्य विप्रा वदंति खं वै नाभिं चंद्रसूर्यौ च नेत्रे ॥
दिशः श्रोत्रे चरणौ च क्षितिं च सो ऽचिन्त्यात्मा सर्वभूतप्रणेता ॥ ७६
वक्त्रात्तस्य ब्रह्मणास्संप्रसूतास्तद्वक्षसः क्षत्रियाः पूर्वभागात् ॥
वैश्या उरुभ्यां तस्य पद्भ्यां च शूद्राः सर्वे वर्णा गात्रतः संप्रसूताः ॥ ७७

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सृष्टिवर्णनं नाम द्वादशो ऽध्यायः