शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः ०६

विकिस्रोतः तः
Jump to navigation Jump to search

मुनय ऊचुः
यो ऽयं पशुरिति प्रोक्तो यश्च पाश उदाहृतः ॥ ७.१,६.१
अभ्यां विलक्षणः कश्चित्कोयमस्ति तयोः पतिः ॥ ७.१,६.१
वायुरुवाच
अस्ति कश्चिदपर्यंतरमणीयगुणाश्रयः ॥ ७.१,६.२
पतिर्विश्वस्य निर्माता पशुपाशविमोचनः ॥ ७.१,६.२
अभावे तस्य विश्वस्य सृष्टिरेषा कथं भवेत् ॥ ७.१,६.३
अचेतनत्वादज्ञानादनयोः पशुपाशयोः ॥ ७.१,६.३
प्रधानपरमाण्वादि यावत्किंचिदचेतनम् ॥ ७.१,६.४
तत्कर्तृकं स्वयं दृष्टं बुद्धिमत्कारणं विना ॥ ७.१,६.४
जगच्च कर्तृसापेक्षं कार्यं सावयवं यतः ॥ ७.१,६.५
तस्मात्कार्यस्य कर्तृत्वं पत्युर्न पशुपाशयोः ॥ ७.१,६.५
पशोरपि च कर्तृत्वं पत्युः प्रेरणपूर्वकम् ॥ ७.१,६.६
अयथाकरणज्ञानमंधस्य गमनं यथा ॥ ७.१,६.६
आत्मानं च पृथङ्मत्वा प्रेरितारं ततः पृथक् ॥ ७.१,६.७
असौ जुष्टस्ततस्तेन ह्यमृतत्वाय कल्पते ॥ ७.१,६.७
पशोः पाशस्य पत्युश्च तत्त्वतो ऽस्ति पदं परम् ॥ ७.१,६.८
ब्रह्मवित्तद्विदित्वैव योनिमुक्तो भविष्यति ॥ ७.१,६.८
संयुक्तमेतद्द्वितयं क्षरमक्षरमेव च ॥ ७.१,६.९
व्यक्ताव्यक्तं बिभर्तीशो विश्वं विश्वविमोचकः ॥ ७.१,६.९
भोक्ता भोग्यं प्रेरयिता मंतव्यं त्रिविधं स्मृतम् ॥ ७.१,६.१०
नातः परं विजानद्भिर्वेदितव्यं हि किंचनः ॥ ७.१,६.१०
तिलेषु वा यथा तैलं दध्नि वा सर्पिरर्पितम् ॥ ७.१,६.११
यथापः स्रोतसि व्याप्ता यथारण्यां हुताशनः ॥ ७.१,६.११
एवमेव महात्मानमात्मन्यात्मविलक्षणम् ॥ ७.१,६.१२
सत्येन तपसा चैव नित्ययुक्तो ऽनुपश्यति ॥ ७.१,६.१२
य एको जालवानीश ईशानीभिस्स्वशक्तिभिः ॥ ७.१,६.१३
सर्वांल्लोकानिमान् कृत्वा एक एव स ईशते १ ॥ ७.१,६.१३
एक एव तदा रुद्रो न द्वितीयो ऽस्ति कश्चन ॥ ७.१,६.१४
संसृज्य विश्वभुवनं गोप्ता ते संचुकोच यः ॥ ७.१,६.१४
विश्वतश्चक्षुरेवायमुतायं विश्वतोमुखः ॥ ७.१,६.१५
तथैव विश्वतोबाहुविश्वतः पादसंयुतः ॥ ७.१,६.१५
द्यावाभूमी च जनयन् देव एको महेश्वरः ॥ ७.१,६.१६
स एव सर्वदेवानां प्रभवश्चोद्भवस्तथा ॥ ७.१,६.१६
हिरण्यगर्भं देवानां प्रथमं जनयेदयम् ॥ ७.१,६.१७
विश्वस्मादधिको रुद्रो महर्षिरिति हि श्रुतिः ॥ ७.१,६.१७
वेदाहमेतं पुरुषं महांतममृतं ध्रुवम् ॥ ७.१,६.१८
आदित्यवर्णं तमसः परस्तात्संस्थितं प्रभुम् ॥ ७.१,६.१८
अस्मान्नास्ति परं किंचिदपरं परमात्मनः ॥ ७.१,६.१९
नाणीयो ऽस्ति न च ज्यायस्तेन पूर्णमिदं जगत् ॥ ७.१,६.१९
सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ॥ ७.१,६.२०
सर्वव्यापी च भगवांस्तस्मात्सर्वगतश्शिवः ॥ ७.१,६.२०
सर्वतः पाणिपादो ऽयं सर्वतो ऽक्षिशिरोमुखः ॥ ७.१,६.२१
सर्वतः श्रुतिमांल्लोके सर्वमावृत्य तिष्ठति ॥ ७.१,६.२१
सर्वेन्द्रियगुणाभासस्सर्वेन्द्रियविवर्जितः ॥ ७.१,६.२२
सर्वस्य प्रभुरीशानः सर्वस्य शरणं सुहृत् ॥ ७.१,६.२२
अचक्षुरपि यः पश्यत्यकर्णो ऽपि शृणोति यः ॥ ७.१,६.२३
सर्वं वेत्ति न वेत्तास्य तमाहुः पुरुषं परम् ॥ ७.१,६.२३
अणोरणीयान्महतो महीयानयमव्ययः ॥ ७.१,६.२४
गुहायां निहितश्चापि जंतोरस्य महेश्वरः ॥ ७.१,६.२४
तमक्रतुं क्रतुप्रायं महिमातिशयान्वितम् ॥ ७.१,६.२५
धातुः प्रसादादीशानं वीतशोकः प्रपश्यति ॥ ७.१,६.२५
वेदाहमेनमजरं पुराणं सर्वगं विभुम् ॥ ७.१,६.२६
निरोधं जन्मनो यस्य वदंति ब्रह्मवादिनः ॥ ७.१,६.२६
एको ऽपि त्रीनिमांल्लोकान् बहुधा शक्तियोगतः ॥ ७.१,६.२७
विदधाति विचेत्यंते १ विश्वमादौ महेश्वरः ॥ ७.१,६.२७
विश्वधात्रीत्यजाख्या च शैवी चित्रा कृतिः परा ॥ ७.१,६.२८
तामजां लोहितां शुक्लां कृष्णामेकां त्वजः प्रजाम् ॥ ७.१,६.२८
जनित्रीमनुशेते ऽन्योजुषमाणस्स्वरूपिणीम् ॥ ७.१,६.२९
तामेवाजामजो ऽन्यस्तु भक्तभोगा जहाति च ॥ ७.१,६.२९
द्वौ सुपर्णौ च सयुजौ समानं वृक्षमास्थितौ ॥ ७.१,६.३०
एको ऽत्ति पिप्पलं स्वादु परो ऽनश्नन् प्रपश्यति ॥ ७.१,६.३०
वृक्षेस्मिन् पुरुषो मग्नो गुह्यमानश्च शोचति ॥ ७.१,६.३१
जुष्टमन्यं यदा पश्येदीशं परमकारणम् ॥ ७.१,६.३१
तदास्य महिमानं च वीतशोकस्सुखी भवेत् ॥ ७.१,६.३२
छंदांसि यज्ञाः ऋतवो यद्भूतं भव्यमेव च ॥ ७.१,६.३२
मायी विश्वं सृजत्यस्मिन्निविष्टो मायया परः ॥ ७.१,६.३३
मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ॥ ७.१,६.३३
तस्यास्त्ववयवैरेव व्याप्तं सर्वमिदं जगत् ॥ ७.१,६.३४
सूक्ष्मातिसूक्ष्ममीशानं कललस्यापि मध्यतः ॥ ७.१,६.३४
स्रष्टारमपि विश्वस्य वेष्टितारं च तस्य तु ॥ ७.१,६.३५
शिवमेवेश्वरं ज्ञात्वा शांतिमत्यंतमृच्छति ॥ ७.१,६.३५
स एव कालो गोप्ता च विश्वस्याधिपतिः प्रभुः ॥ ७.१,६.३६
तं विश्वाधिपतिं ज्ञात्वा मृत्युपाशात्प्रमुच्यते ॥ ७.१,६.३६
घृतात्परं मंडमिव सूक्ष्मं ज्ञात्वा स्थितं प्रभुम् ॥ ७.१,६.३७
सर्वभूतेषु गूढं च सर्वपापैः प्रमुच्यते ॥ ७.१,६.३७
एष एव परो देवो विश्वकर्मा महेश्वरः ॥ ७.१,६.३८
हृदये संनिविष्टं तं ज्ञात्वैवामृतमश्नुते ॥ ७.१,६.३८
यदा समस्तं न दिवा न रात्रिर्न सदप्यसत् ॥ ७.१,६.३९
केवलश्शिव एवैको यतः प्रज्ञा पुरातनी ॥ ७.१,६.३९
नैनमूर्ध्वं न तिर्यक्च न मध्यं पर्यजिग्रहत् ॥ ७.१,६.४०
न तस्य प्रतिमा चास्ति यस्य नाम महद्यशः ॥ ७.१,६.४०
अजातमिममेवैके बुद्धा जन्मनि भीरवः ॥ ७.१,६.४१
रुद्रस्यास्य प्रपद्यंते रक्षार्थं दक्षिणं सुखम् ॥ ७.१,६.४१
द्वे अक्षरे ब्रह्मपरे त्वनंते समुदाहृते ॥ ७.१,६.४२
विद्याविद्ये समाख्याते निहिते यत्र गूढवत् ॥ ७.१,६.४२
क्षरं त्वविद्या ह्यमृतं विद्येति परिगीयते ॥ ७.१,६.४३
ते उभे ईशते यस्तु सो ऽन्यः खलु महेश्वरः ॥ ७.१,६.४३
एकैकं बहुधा जालं विकुर्वन्नेकवच्च यः ॥ ७.१,६.४४
सर्वाधिपत्यं कुरुते सृष्ट्वा सर्वान् प्रतापवान् ॥ ७.१,६.४४
दिश ऊर्ध्वमधस्तिर्यक्भासयन् भ्राजते स्वयम् ॥ ७.१,६.४५
यो निःस्वभावादप्येको वरेण्यस्त्वधितिष्ठति ॥ ७.१,६.४५
स्वभाववाचकान् सर्वान् वाच्यांश्च परिणामयन् ॥ ७.१,६.४६
गुणांश्च भोग्यभोक्तृत्वे तद्विश्वमधितिष्ठति ॥ ७.१,६.४६
ते वै गुह्योपणिषदि गूढं ब्रह्म परात्परम् ॥ ७.१,६.४७
ब्रह्मयोनिं जगत्पूर्वं विदुर्देवा महर्षयः ॥ ७.१,६.४७
भावग्राह्यमनीहाख्यं भावाभावकरं शिवम् ॥ ७.१,६.४८
कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् ॥ ७.१,६.४८
स्वभावमेके मन्यंते कालमेके विमोहिताः ॥ ७.१,६.४९
देवस्य महिमा ह्येष येनेदं भ्राम्यते जगत् ॥ ७.१,६.४९
येनेदमावृतं नित्यं कालकालात्मना यतः ॥ ७.१,६.५०
तेनेरितमिदं कर्म भूतैः सह विवर्तते ॥ ७.१,६.५०
तत्कर्म भूयशः कृत्वा विनिवृत्य च भूयशः ॥ ७.१,६.५१
तत्त्वस्य सह तत्त्वेन योगं चापि समेत्य वै ॥ ७.१,६.५१
अष्टाभिश्च त्रिभिश्चैवं द्वाभ्यां चैकेन वा पुनः ॥ ७.१,६.५२
कालेनात्मगुणैश्चापि कृत्स्नमेव जगत्स्वयम् ॥ ७.१,६.५२
गुणैरारभ्य कर्माणि स्वभावादीनि योजयेत् ॥ ७.१,६.५३
तेषामभावे नाशः स्यात्कृतस्यापि च कर्मणः ॥ ७.१,६.५३
कर्मक्षये पुनश्चान्यत्ततो याति स तत्त्वतः ॥ ७.१,६.५४
स एवादिस्स्वयं योगनिमित्तं भोक्तृभोगयोः ॥ ७.१,६.५४
परस्त्रिकालादकलस्स एव परमेश्वरः ॥ ७.१,६.५५
सर्ववित्त्रिगुणाधीशो ब्रह्मसाक्षात्परात्परः ॥ ७.१,६.५५
तं विश्वरूपमभवं भवमीड्यं प्रजापतिम् ॥ ७.१,६.५६
देवदेवं जगत्पूज्यं स्वचित्तस्थमुपास्महे ॥ ७.१,६.५६
कालादिभिः परो यस्मात्प्रपञ्चः परिवर्तते ॥ ७.१,६.५७
धर्मावहं पापनुदं भोगेशं विश्वधाम च ॥ ७.१,६.५७
तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् ॥ ७.१,६.५८
पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेश्वरेश्वरम् ॥ ७.१,६.५८
न तस्य विद्येत कार्यं कारणं च न विद्यते ॥ ७.१,६.५९
न तत्समो ऽधिकश्चापि क्वचिज्जगति दृश्यते ॥ ७.१,६.५९
परास्य विविधा शक्तिः श्रुतौ स्वाभाविकी श्रुता ॥ ७.१,६.६०
ज्ञानं बलं क्रिया चैव याभ्यो विश्वमिदं कृतम् ॥ ७.१,६.६०
तस्यास्ति पतिः कश्चिन्नैव लिंगं न चेशिता ॥ ७.१,६.६१
कारणं कारणानां च स तेषामधिपाधिपः ॥ ७.१,६.६१
न चास्य जनिता कश्चिन्न च जन्म कुतश्चन ॥ ७.१,६.६२
न जन्महेतवस्तद्वन्मलमायादिसंज्ञकाः ॥ ७.१,६.६२
स एकस्सर्वभूतेषु गूढो व्याप्तश्च विश्वतः ॥ ७.१,६.६३
सर्वभूतांतरात्मा च धर्माध्यक्षस्स कथ्यते ॥ ७.१,६.६३
सर्वभूताधिवासश्च साक्षी चेता च निर्गुणः ॥ ७.१,६.६४
एको वशी निष्क्रियाणां बहूनां विवशात्मनाम् ॥ ७.१,६.६४
नित्यानामप्यसौ नित्यश्चेतनानां च चेतनः ॥ ७.१,६.६५
एको बहूनां चाकामः कामानीशः प्रयच्छति ॥ ७.१,६.६५
सांख्ययोगाधिगम्यं यत्कारणं जगतां पतिम् ॥ ७.१,६.६६
ज्ञात्वा देवं पशुः पाशैस्सर्वैरेव विमुच्यते ॥ ७.१,६.६६
विश्वकृद्विश्ववित्स्वात्मयोनिज्ञः कालकृद्गुणी ॥ ७.१,६.६७
प्रधानः क्षेत्रज्ञपतिर्गुणेशः पाशमोचकः ॥ ७.१,६.६७
ब्रह्माणं विदधे पूर्वं वेदांश्चोपादिशत्स्वयम् ॥ ७.१,६.६८
यो देवस्तमहं बुद्ध्वा स्वात्मबुद्धिप्रसादतः ॥ ७.१,६.६८
मुमुक्षुरस्मात्संसारात्प्रपद्ये शरणं शिवम् ॥ ७.१,६.६९
निष्फलं निष्क्रियं शांतं निरवद्यं निरंजनम् ॥ ७.१,६.६९
अमृतस्य परं सेतुं दग्धेंधनमिवानिलम् ॥ ७.१,६.७०
यदा चर्मवदाकाशं वेष्टयिष्यंति मानवाः ॥ ७.१,६.७०
तदा शिवमविज्ञाय दुःखस्यांतो भविष्यति ॥ ७.१,६.७१
तपःप्रभावाद्देवस्य प्रसादाच्च महर्षयः ॥ ७.१,६.७२
अत्याश्रमोचितज्ञानं पवित्रं पापनाशनम् ॥ ७.१,६.७२
वेदांते परमं गुह्यं पुराकल्पप्रचोदितम् ॥ ७.१,६.७३
ब्रह्मणो वदनाल्लब्धं मयेदं भाग्यगौरवात् ॥ ७.१,६.७३
नाप्रशांताय दातव्यमेतज्ज्ञानमनुत्तमम् ॥ ७.१,६.७४
न पुत्रायाशुवृत्ताय नाशिष्याय च सर्वथा ॥ ७.१,६.७४
यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ ॥ ७.१,६.७५
तस्यैते कथिताह्यर्थाः प्रकाशंते महात्मनः ॥ ७.१,६.७५
अतश्च संक्षेपमिदं शृणुध्वं शिवः परस्तात्प्रकृतेश्च पुंसः ॥ ७.१,६.७६
स सर्गकाले च करोति सर्वं संहारकाले पुनराददाति ॥ ७.१,६.७६

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्ववर्णनं नाम षष्ठो ऽध्यायः