शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/विषयानुक्रमणिका

विकिस्रोतः तः

अथ सप्तम्या वायवीयर्संहिताया उत्तरभागः।।२।।

१ एकदा पुत्रकामनया शिवसंनिधिं गतस्य श्रीकृप्णस्योपमन्योर्लब्धात्पाशुपताख्यवार्षिक व्रताच्छिवतुष्टया सांबनामक पुत्रप्राप्तिवर्णनम् ।

२ ऋषिप्रश्नानुरोधात्पाशुपतज्ञानस्यवायुकृतवितरणं तत्संबंधादेव पशुपतिं विना कस्यापि पशो(जीवस्य) तृणच्छेदनेपि शक्त्यभावात्पशुपतिरूपाच्छिवादिदं संसारचक्रं भ्रमत इत्यादिनिरूपणम् ।

३ सर्वस्यास्य जगत: शिवमयत्वासर्वेषामभयदानात्सपर्वोपकारकरणाच्च पुत्रपौत्रादिप्रीत्या पितृसंतोषस्तथा शिवस्तुष्यतीत्याद्युपमन्यो कृष्णं प्रत्युपदेशः ।

४ श्रीकृष्णकृतप्रश्नयोत्तरत्वेन चंद्रचंद्रिकादिदं विश्वो गौरीशंकराधिष्ठितमित्युपमन्युकृतविवर्णनम् ।

५ विश्वस्यास्य वस्तुतः शिवस्वरूपत्वे पाशसामर्थ्यात्पशवो जीवा 'एकं तं बहुधा वदंति' इत्यस्योपमन्युकृतविस्तारकथनम् ।

६ यथा जीवानां मायाहंकारादिबंधतस्तथा शिवस्यः नेत्यादिसविस्तरप्रतिपादनम् ।

७ यथा वह्नेः सकाशादनेके स्फुलिंगा उत्पद्यन्ते लीयंते च तथा शिवादनंताः शक्तय उत्पद्यन्ते विलयं प्राप्नुवंतीत्येवंप्रकारेण शक्तिस्वरूपकथनं तासां च सम्यग्ज्ञानाच्छिवभक्त्या च शिवतत्त्वज्ञानाप्राप्तिरित्यादि प्रपंचनम् ।

८ वेदान्तज्ञानाधीनं शिवतत्त्वज्ञानं बुद्धिहीनानां नेति च यदुक्तं तत्प्रसंगादादौ व्यासावतारकथनम् ।

९ युगेयुगे शिवस्य योगावतारवर्णनम् ।

१० गौरीं प्रति ससाधनायाः शिवभक्ते: स्वरूपफलादिप्रकारकथनम् ।

११ ब्राह्मणानां तदितरभक्तानामधिकारिणां च धर्मप्रपञ्चनम् ।

१२ ‘नमः शिवाय' इति पञ्चाक्षरमन्त्रमाहात्म्यकथनम् ।

१३ कलिकलुषितकालेति श्रद्धायुक्तपंचाक्षरमन्त्रानुष्ठानाच्छिवसालोक्यप्राप्तिरित्यादिकथनम्

१४ पञ्चाक्षरमन्त्रजपविधानकथनम् ।

१५ शिवदीक्षाविधानकथनं तत्प्रसंगाद्गुरुमाहात्म्यवर्णनं च ।

१६ शिवदीक्षायां शिष्यसंस्कारविधानकथनम्।

१७ गुरोः शिष्ययोग्यताविचारणायां षड्ध्वविज्ञानविचारणावश्यं कार्येत्यभिधाय तत्प्रसंगेन षडध्वलक्षणप्रपंचनं दीक्षादानप्रकारकथनञ्च ।

१८ षडध्वशुद्धि तद्विधाननिरूपणम् ।

१९ साधकसंस्कारमन्त्रमाहात्म्यनिरूपणम् तत्र मंत्रग्रहण जयप्रकारतत्फलादीन्यभिहितानि।

२० शिष्यस्य आचर्यत्वायाऽभिषेचनस्य प्रकारोभिहितः ।।

२१ नित्यनैमित्तिककर्मकथनं, तत्र सूर्यपूजापंचयज्ञानां प्रकारश्चाभिहितः ।।

२२ न्यासप्रकारनिरुक्तिः तत्र मातृकान्यासषडङ्ग न्यासादिकप्रपंचनम् ।

२३ शैवागमोक्तपूजापद्धतिव्याख्याकथनम् ।

२४ शैवानां लिंग पूजाविधिकथनम्।

२५ पूजास्थोपचाराणां प्रत्येकस्य स्वरूपकथनम ।

२६ महोग्रपातकिकृतशिवलिङ्गपूजनात्पापनाशी भवत्यतः सर्वेषां सांगोपांगलिंगपूजायामधिकारोऽभिहितः ।

२७ अग्निकार्ये कुंडादिकथनम् । होमद्रव्यसंख्यादिकथनम् ।

२८ शिवश्रमवतां नैमितिकविधिकथनम् ।

२९ शिवशास्त्रोक्तैहिकामुष्मिकाकाम्यकर्मोक्तिः।

३० शैवावरणपूजाक्रमस्तत्फलदर्शनञ्च ।

३१ पंचावरणपूजाविषयक शिवमहास्तोत्रकथनम्

३२ शिवशास्त्रोक्तैहिकफलपूजाहोमजपतपोदानादि

३३ आमुष्मिककर्मणः सिद्धिप्रकथनम् ।

३४ नित्यादिकर्मणां लिंगबेरप्रतिष्ठया सिद्धिस्तत्प्रतिष्ठाविधिश्च

३५ लिंगरूपधारिणा शिवेन विधिविष्णुमोहोन्यवर्त्तिः तदारभ्य लिंगपूजाप्रवृत्तिः ।

३६ सपरिकरलिंगप्रतिष्ठापनविधानवर्णनम् ।

३७-३८ योगमार्गवर्णनम् ।

३९ शिवस्थानयोगस्य वर्णनम्। तद्भेदानां स्वरूपादिवर्णनं च ।

४० नैमिषेयर्षियात्रावर्णनम् । तत्र काश्यामाकाशस्थतेजःपुञ्जे प्रविशतो नवलोच्य साशंकर्षीणां ब्रह्मणोऽन्तिकं गत्वा प्रश्नः । तच्छैवं तेज भवद्भ्योऽप्युपलप्स्यत इत्यसूचीति विधिनाभ्यधायीति ।

४१ स्कन्दसरस्सविधमागत्य ऋषिभ्यश्शैवं ज्ञानं दत्त्वा शिवसन्निधौ जगाम नन्दीत्युक्त्यनन्तरं शिवपुराणमाहात्म्यनिरूपणम् ।

इति सप्तमी वायवीयसंहिता