सामग्री पर जाएँ

शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः ३८

विकिस्रोतः तः

उपमन्युरुवाच
आलस्यं व्याधयस्तीव्राः प्रमादः स्थानसंशयः ॥ १
अनवस्थितचित्तत्वमश्रद्धा भ्रांतिदर्शनम् ॥ १
दुःखानि दौर्मनस्यं च विषयेषु च लोलता ॥ २
दशैते युञ्जतां पुंसामन्तरायाः प्रकीर्तिताः ॥ २
आलस्यमलसत्त्वं तु योगिनां देहचेतनोः ॥ ३
धातुवैषम्यजा दोषा व्याधयः कर्मदोषजाः ॥ ३
प्रमादो नाम योगस्य साधना नाम भावना ॥ ४
इदं वेत्युभयाक्रान्तं विज्ञानं स्थानसंशयः ॥ ४
अप्रतिष्ठा हि मनसस्त्वनवस्थितिरुच्यते ॥ ५
अश्रद्धा भावरहिता वृत्तिर्वै योगवर्त्मनि ॥ ५
विपर्यस्ता मतिर्या सा भ्रांतिरित्यभिधीयते ॥ ६
दुःखमज्ञानजं पुंसां चित्तस्याध्यात्मिकं विदुः ॥ ६
आधिभौतिकमंगोत्थं यच्च दुःखं पुरा कृतैः ॥ ७
आधिदैविकमाख्यातमशन्यस्त्रविषादिकम् ॥ ७
इच्छाविघातजं मोक्षं दौर्मनस्यं प्रचक्षते ॥ ८
विषयेषु विचित्रेषु विभ्रमस्तत्र लोलता ॥ ८
शान्तेष्वेतेषु विघ्नेषु योगासक्तस्य योगिनः ॥ ९
उपसर्गाः प्रवर्तंते दिव्यास्ते सिद्धिसूचकाः ॥ ९
प्रतिभा श्रवणं वार्ता दर्शनास्वादवेदनाः ॥ १०
उपसर्गाः षडित्येते व्यये योगस्य सिद्धयः ॥ १०
सूक्ष्मे व्यवहिते ऽतीते विप्रकृष्टे त्वनागते ॥ ११
प्रतिभा कथ्यते यो ऽर्थे प्रतिभासो यथातथम् ॥ ११
श्रवणं सर्वशब्दानां श्रवणे चाप्रयत्नतः ॥ १२
वार्त्ता वार्त्तासु विज्ञानं सर्वेषामेव देहिनाम् ॥ १२
दर्शनं नाम दिव्यानां दर्शनं चाप्रयत्नतः ॥ १३
तथास्वादश्च दिव्येषु रसेष्वास्वाद उच्यते ॥ १३
स्पर्शनाधिगमस्तद्वद्वेदना नाम विश्रुता ॥ १४
गन्धादीनां च दिव्यानामाब्रह्मभुवनाधिपाः ॥ १४
संतिष्ठन्ते च रत्नानि प्रयच्छंति बहूनि च ॥ १५
स्वच्छन्दमधुरा वाणी विविधास्यात्प्रवर्तते ॥ १५
रसायनानि सर्वाणि दिव्याश्चौषधयस्तथा ॥ १६
सिध्यंति प्रणिपत्यैनं दिशंति सुरयोषितः ॥ १६
योगसिद्ध्यैकदेशे ऽपि दृष्टे मोक्षे भवेन्मतिः ॥ १७
दृष्टमेतन्मया यद्वत्तद्वन्मोक्षो भवेदिति ॥ १७
कृशता स्थूलता बाल्यं वार्धक्यं चैव यौवनम् ॥ १८
नानाचातिस्वरूपं च चतुर्णां देहधारणम् ॥ १८
पार्थिवांशं विना नित्यं सुरभिर्गन्धसंग्रहः ॥ १९
एवमष्टगुणं प्राहुः पैशाचं पार्थिवं पदम् ॥ १९
जले निवसनं चैव भूम्यामेवं विनिर्गमः ॥ २०
इच्छेच्छक्तः स्वयं पातुं समुद्रमपि नातुरः ॥ २०
यत्रेच्छति जगत्यस्मिंस्तत्रैव जलदर्शनम् ॥ २१
विना कुम्भादिकं पाणौ जलसञ्चयधारणम् ॥ २१
यद्वस्तु विरसञ्चापि भोक्तुमिच्छति तत्क्षणात् ॥ २२
रसादिकं भवेच्चान्यत्त्रयाणां देहधारणम् ॥ २२
निर्व्रणत्वं शरीरस्य पार्थिवैश्च समन्वितम् ॥ २३
तदिदं षोडशगुणमाप्यमैश्वर्यमद्भुतम् ॥ २३
शरीरादग्निनिर्माणं तत्तापभयवर्जनम् ॥ २४
शक्तिर्जगदिदं दग्धुं यदीच्छेदप्रयत्नतः ॥ २४
स्थापनं वानलस्या ऽप्सु पाणौ पावकधारणम् ॥ २५
दग्धे सर्गे यथापूर्वं मुखे चान्नादिपाचनम् ॥ २५
द्वाभ्यां देहविनिर्माणमाप्यैश्वर्यसमन्वितम् ॥ २५
एतच्चतुर्विंशतिधा तैजसं परिचक्षते ॥ २६
मनोजवत्वं भूतानां क्षणादन्तःप्रवेशनम् ॥ २६
पर्वतादिमहाभारधारणञ्चाप्रयत्नतः ॥ २७
गुरुत्वञ्च लघुत्वञ्च पाणावनिलधारणम् ॥ २७
अंगुल्यग्रनिपाताद्यैर्भूमेरपि च कम्पनम् ॥ २८
एकेन देहनिष्पत्तिर्युक्तं भोगैश्च तैजसैः ॥ २८
द्वात्रिंशद्गुणमैश्वर्यं मारुतं कवयो विदुः ॥ २९
छायाहीनविनिष्पत्तिरिन्द्रियाणामदर्शनम् ॥ २९
खेचरत्वं यथाकाममिन्द्रियार्थसमन्वयः ॥ ३०
आकाशलंघनं चैव स्वदेहे तन्निवेशनम् ॥ ३०
आकाशपिण्डीकरणमशरीरत्वमेव च ॥ ३१
अनिलैश्वर्यसंयुक्तं चत्वारिंशद्गुणं महत् ॥ ३१
ऐन्द्रमैश्वर्यमाख्यातमाम्बरं तत्प्रचक्षते ॥ ३२
यथाकामोपलब्धिश्च यथाकामविनिर्गमः ॥ ३२
सर्वस्याभिभवश्चैव सर्वगुह्यार्थदर्शनम् ॥ ३३
कर्मानुरूपनिर्माणं वशित्वं प्रियदर्शनम् ॥ ३३
संसारदर्शनं चैव भोगैरैन्द्रैस्समन्वितम् ॥ ३४
एतच्चांद्रमसैश्वर्यं मानसं गुणतो ऽधिकम् ॥ ३४
छेदनं ताडनं चैव बंधनं मोचनं तथा ॥ ३५
ग्रहणं सर्वभूतानां संसारवशवर्तिनाम् ॥ ३५
प्रसादश्चापि सर्वेषां मृत्युकालजयस्तथा ॥ ३६
आभिमानिकमैश्वर्यं प्राजापत्यं प्रचक्षते ॥ ३६
एतच्चान्द्रमसैर्भोगैः षट्पञ्चाशद्गुणं महत् ॥ ३७
सर्गः संकल्पमात्रेण त्राणं संहरणं तथा ॥ ३७
स्वाधिकारश्च सर्वेषां भूतचित्तप्रवर्तनम् ॥ ३८
असादृश्यं च सर्वस्य निर्माणं जगतः पृथक् ॥ ३८
शुभाशुभस्य करणं प्राजापत्यैश्च संयुतम् ॥ ३९
चतुष्षष्ठिगुणं ब्राह्ममैश्वर्यं च प्रचक्षते ॥ ३९
बौद्धादस्मात्परं गौणमैश्वर्यं प्राकृतं विदुः ॥ ४०
वैष्णवं तत्समाख्यातं तस्यैव भुवनस्थितिः ॥ ४०
ब्रह्मणा तत्पदं सर्वं वक्तुमन्यैर्न शक्यते ॥ ४०
तत्पौरुषं च गौणं च गणेशं पदमैश्वरम् ॥ ४१
विष्णुना तत्पदं किंचिज्ज्ञातुमन्यैर्न शक्यते ॥ ४१
विज्ञानसिद्धयश्चैव सर्वा एवौपसर्गिकाः ॥ ४२
निरोद्धव्या प्रयत्नेन वैराग्येण परेण तु ॥ ४२
प्रतिभासेष्वशुद्धेषु गुणेष्वासक्तचेतसः ॥ ४३
न सिध्येत्परमैश्वर्यमभयं सार्वकामिकम् ॥ ४३
तस्माद्गुणांश्च भोगांश्च देवासुरमहीभृताम् ॥ ४४
तृणवद्यस्त्यजेत्तस्य योगसिद्धिः परा भवेत् ॥ ४४
अथवानुग्रहेच्छायां जगतो विचरेन्मुनिः ॥ ४५
यथाकामंगुणान्भोगान्भुक्त्वा मुक्तिं प्रयास्यति ॥ ४५
अथ प्रयोगं योगस्य वक्ष्ये शृणु समाहितः ॥ ४६
शुभे काले शुभे देशे शिवक्षेत्रादिके पुनः ॥ ४६
विजने जंतुरहिते निःशब्दे बाधवर्जिते ॥ ४६
सुप्रलिप्ते स्थले सौम्ये गन्धधूपादिवासिते ॥ ४७
मुक्तपुष्पसमाकीर्णे वितानादि विचित्रिते ॥ ४७
कुशपुष्पसमित्तोयफलमूलसमन्विते ॥ ४८
नाग्न्यभ्याशे जलाभ्याशे शुष्कपर्णचये ऽपि वा ॥ ४८
न दंशमशकाकीर्णे सर्पश्वापदसंकुले ॥ ४९
न च दुष्टमृगाकीर्णे न भये दुर्जनावृते ॥ ४९
श्मशाने चैत्यवल्मीके जीर्णागारे चतुष्पथे ॥ ५०
नदीनदसमुद्राणां तीरे रथ्यांतरे ऽपि वा ॥ ५०
न जीर्णोद्यानगोष्ठादौ नानिष्टे न च निंदिते ॥ ५१
नाजीर्णाम्लरसोद्गारे न च विण्मूत्रदूषिते ॥ ५१
नच्छर्द्यामातिसारे वा नातिभुक्तौ श्रमान्विते ॥ ५२
न चातिचिंताकुलितो न चातिक्षुत्पिपासितः ॥ ५२
नापि स्वगुरुकर्मादौ प्रसक्तो योगमाचरेत् ॥ ५३
युक्ताहारविहारश्च युक्तचेष्टश्च कर्मसु ॥ ५३
युक्तनिद्राप्रबोधश्च सर्वायासविवर्जितः ॥ ५४
आसनं मृदुलं रम्यं विपुलं सुसमं शुचि ॥ ५४
पद्मकस्वस्तिकादीनामभ्यसेदासनेषु च ॥ ५५
अभिवंद्य स्वगुर्वंतानभिवाद्याननुक्रमात् ॥ ५५
ऋजुग्रीवशिरोवक्षा नातिष्ठेच्छिष्टलोचनः ॥ ५६
किंचिदुन्नामितशिरा दंतैर्दंतान्न संस्पृशेत् ॥ ५६
दंताग्रसंस्थिता जिह्वामचलां सन्निवेश्य च ॥ ५७
पार्ष्णिभ्यां वृषणौ रक्षंस्तथा प्रजननं पुनः ॥ ५७
ऊर्वोरुपरि संस्थाप्य बाहू तिर्यगयत्नतः ॥ ५८
दक्षिणं करपृष्ठं तु न्यस्य वामतलोपरि ॥ ५८
उन्नाम्य शनकैः पृष्ठमुरो विष्टभ्य चाग्रतः ॥ ५९
संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ ५९
संभृतप्राणसंचारः पाषाण इव निश्चलः ॥ ६०
स्वदेहायतनस्यांतर्विचिंत्य शिवमंबया ॥ ६०
हृत्पद्मपीठिकामध्ये ध्यानयज्ञेन पूजयेत् ॥ ६१
मूले नासाग्रतो नाभौ कंठे वा तालुरंध्रयोः ॥ ६१
भ्रूमध्ये द्वारदेशे वा ललाटे मूर्ध्नि वा स्मरेत् ॥ ६२
परिकल्प्य यथान्यायं शिवयोः परमासनम् ॥ ६२

सप्तचक्र

तत्र सावरणं वापि निरावरणमेव वा ॥ ६३
द्विदले षोडशारे वा द्वादशारे यथाविधि ॥ ६३
दशारे वा षडस्रे वा चतुरस्रे शिवं स्मरेत् ॥ ६४
भ्रुवोरंतरतः पद्मं द्विदलं तडिदुज्ज्वलम् ॥ ६४
भ्रूमध्यस्थारविन्दस्य क्रमाद्वै दक्षिणोत्तरे ॥ ६५
विद्युत्समानवर्णे च पर्णे वर्णावसानके ॥ ६५
षोडशारस्य पत्राणि स्वराः षोडश तानि वै ॥ ६६
पूर्वादीनि क्रमादेतत्पद्मं कन्दस्य मूलतः ॥ ६६
ककारादिटकारांता वर्णाः पर्णान्यनुक्रमात् ॥ ६७
भानुवर्णस्य पद्मस्य ध्येयं तद्१ हृदयान्तरे ॥ ६७
गोक्षीरधवलस्योक्ता डादिफान्ता यथाक्रमम् ॥ ६८
अधो दलस्याम्बुजस्य एतस्य २ च दलानि षट् ॥ ६८
विधूमांगारवर्णस्य वर्णा वाद्याश्च लान्तिमाः ॥ ६९
मूलाधारारविंदस्य हेमाभस्य यथाक्रमम् ॥ ६९
वकारादिसकारान्ता वर्णाः पर्णमयाः स्थिताः ॥ ६९
एतेष्वथारविंदेषु यत्रैवाभिरतं मनः ॥ ७०
तत्रैव देवं देवीं च चिंतयेद्धीरया धिया ॥ ७०
अंगुष्ठमात्रममलं दीप्यमानं समंततः ॥ ७१
शुद्धदीपशिखाकारं स्वशक्त्या पूर्णमण्डितम् ॥ ७१
इन्दुरेखासमाकारं तारारूपमथापि वा ॥ ७२
नीवारशूकस्सदृशं बिससुत्राभमेव वा ॥ ७२
कदम्बगोलकाकारं तुषारकणिकोपमम् ॥ ७३
क्षित्यादितत्त्वविजयं ध्याता यद्यपि वाञ्छति ॥ ७३
तत्तत्तत्त्वाधिपामेव मूर्तिं स्थूलां विचिंतयेत् ॥ ७४
सदाशिवांता ब्रह्माद्यभवाद्याश्चाष्टमूर्तयः ॥ ७४
शिवस्य मूर्तयः स्थूलाः शिवशास्त्रे विनिश्चिताः ॥ ७५
घोरा मिश्रा प्रशान्ताश्च मूर्तयस्ता मुनीश्वरैः ॥ ७५
फलाभिलाषरहितैश्चिन्त्याश्चिन्ताविशारदैः ॥ ७६
घोराश्चेच्चिंतिताः कुर्युः पापरोगपरिक्षयम् ॥ ७६
चिरेण मिश्रे सौम्ये तु न सद्यो न चिरादपि ॥ ७७
सौम्ये मुक्तिर्विशेषेण शांतिः प्रज्ञा प्रसिध्यति ॥ ७७
सिध्यंति सिद्धयश्चात्र क्रमशो नात्र संशयः ॥ ७८

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे योगगतौ विघ्नोत्पत्तिवर्णनं नामाष्टत्रिंशोऽध्यायः