शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः ३५

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

उपमन्युरुवाच
अथाविरभवत्तत्र सनादं शब्दलक्षणम् ॥ ७.२,३५.१
ओमित्येकाक्षरं ब्रह्म ब्रह्मणः प्रतिपादकम् ॥ ७.२,३५.१
तदप्यविदितं तावद्ब्रह्मणा विष्णुना तथा ॥ ७.२,३५.२
रजसा तमसा चित्तं तयोर्यस्मात्तिरस्कृतम् ॥ ७.२,३५.२
तदा विभक्तमभवच्चतुर्धैकं तदक्षरम् ॥ ७.२,३५.३
अ उ मेति त्रिमात्राभिः परस्ताच्चार्धमात्रया ॥ ७.२,३५.३
तत्राकारः श्रितो भागे ज्वलल्लिंगस्य दक्षिणे ॥ ७.२,३५.४
उकारश्चोत्तरे तद्वन्मकारस्तस्य मध्यतः ॥ ७.२,३५.४
अर्धमात्रात्मको नादः श्रूयते लिंगमूर्धनि ॥ ७.२,३५.५
विभक्ते ऽपि तदा तस्मिन्प्रणवे परमाक्षरे ॥ ७.२,३५.५
विभावार्थं च तौ देवौ न किंचिदवजग्मतुः ॥ ७.२,३५.६
वेदात्मना तदाव्यक्तः प्रणवो विकृतिं गतः ॥ ७.२,३५.६
तत्राकारो ऋगभवदुकारो यजुरव्ययः ॥ ७.२,३५.७
मकारस्साम संजातो नादस्त्वाथर्वणी श्रुतिः ॥ ७.२,३५.७
ऋगयं स्थापयामास समासात्त्वर्थमात्मनः ॥ ७.२,३५.८
रजोगुणेषु ब्रह्माणं मूर्तिष्वाद्यं क्रियास्वपि ॥ ७.२,३५.८
सृष्टिं लोकेषु पृथिवीं तत्त्वेष्वात्मानमव्ययम् ॥ ७.२,३५.९
कलाध्वनि निवृत्तिं च सद्यं ब्रह्मसु पञ्चसु ॥ ७.२,३५.९
लिंगभागेष्वधोभागं बीजाख्यं कारणत्रये ॥ ७.२,३५.१०
चतुःषष्टिगुणैश्वर्यं बौद्धं यदणिमादिषु ॥ ७.२,३५.१०
तदित्थमर्थैर्दशभिर्व्याप्तं विश्वमृचा जगत् ॥ ७.२,३५.११
अथोपस्थापयामास स्वार्थं दशविधं यजुः ॥ ७.२,३५.११
सत्त्वं गुणेषु विष्णुं च मूर्तिष्वाद्यं क्रियास्वपि ॥ ७.२,३५.१२
स्थितिं लोकेष्वंतरिक्षं विद्यां तत्त्वेषु च त्रिषु ॥ ७.२,३५.१२
कलाध्वसु प्रतिष्ठां च वामं ब्रह्मसु पञ्चसु ॥ ७.२,३५.१३
मध्यं तु लिंगभागेषु योनिं च त्रिषु हेतुषु ॥ ७.२,३५.१३
प्राकृतं च यथैश्वर्यं तस्माद्विश्वं यजुर्मयम् ॥ ७.२,३५.१४
ततोपस्थापयामास सामार्थं दशधात्मनः ॥ ७.२,३५.१४
तमोगुणेष्वथो रुद्रं मूर्तिष्वाद्यं क्रियासु च ॥ ७.२,३५.१५
संहृतिं त्रिषु लोकेषु तत्त्वेषु शिवमुत्तमम् ॥ ७.२,३५.१५
विद्याकलास्वघोरं च तथा ब्रह्मसु पञ्चसु ॥ ७.२,३५.१६
लिंगभागेषु पीठोर्ध्वं बीजिनं कारणत्रये ॥ ७.२,३५.१६
पौरुषं च तथैश्वर्यमित्थं साम्ना ततं जगत् ॥ ७.२,३५.१७
अथाथर्वाह नैर्गुण्यमर्थं प्रथममात्मनः ॥ ७.२,३५.१७
ततो महेश्वरं साक्षान्मूर्तिष्वपि सदाशिवम् ॥ ७.२,३५.१८
क्रियासु निष्क्रियस्यापि शिवस्य परमात्मनः ॥ ७.२,३५.१८
भूतानुग्रहणं चैव मुच्यंते येन जंतवः ॥ ७.२,३५.१९
लोकेष्वपि यतो वाचो निवृत्ता मनसा सह ॥ ७.२,३५.१९
तदूर्ध्वमुन्मना लोकात्सोमलोकमलौकिकम् ॥ ७.२,३५.२०
सोमस्सहोमया यत्र नित्यं निवसतीश्वरः ॥ ७.२,३५.२०
तदूर्ध्वमुन्मना लोकाद्यं प्राप्तो न निवर्तते ॥ ७.२,३५.२१
शांतिं च शांत्यतीतां च व्यापिकां चै कलास्वपि ॥ ७.२,३५.२१
तत्पूरुषं तथेशानं ब्रह्म ब्रह्मसु पञ्चसु ॥ ७.२,३५.२२
मूर्धानमपि लिंगस्य नादभागेष्वनुत्तमम् ॥ ७.२,३५.२२
यत्रावाह्य समाराध्यः केवलो निष्कलः शिवः ॥ ७.२,३५.२३
तत्तेष्वपि तदा बिंदोर्नादाच्छक्तेस्ततः परात् ॥ ७.२,३५.२३
तत्त्वादपि परं तत्त्वमतत्त्वं परमार्थतः ॥ ७.२,३५.२४
कारणेषु त्रयातीतान्मायाविक्षोभकारणात् ॥ ७.२,३५.२४
अनंताच्छुद्धविद्यायाः परस्ताच्च महेश्वरात् ॥ ७.२,३५.२५
सर्वविद्येश्वराधीशान्न पराच्च सदाशिवात् ॥ ७.२,३५.२५
सर्वमंत्रतनोर्देवाच्छक्तित्रयसमन्वितात् ॥ ७.२,३५.२६
पञ्चवक्त्राद्दशभुजात्साक्षात्सकलनिष्कलात् ॥ ७.२,३५.२६
तस्मादपि पराद्बिंदोरर्धेदोश्च ततः परात् ॥ ७.२,३५.२७
ततः परान्निशाधीशान्नादाख्याच्च ततः परात् ॥ ७.२,३५.२७
ततः परात्सुषुम्नेशाद्ब्रह्मरंध्रेश्वरादपि ॥ ७.२,३५.२८
ततः परस्माच्छक्तेश्च परस्ताच्छिवतत्त्वतः ॥ ७.२,३५.२८
परमं कारणं साक्षात्स्वयं निष्कारणं शिवम् ॥ ७.२,३५.२९
कारणानां च धातारं ध्यातारां ध्येयमव्ययम् ॥ ७.२,३५.२९
परमाकाशमध्यस्थं परमात्मोपरि स्थितं ॥ ७.२,३५.३०
सर्वैश्वर्येण संपन्नं सर्वेश्वरमनीश्वरम् ॥ ७.२,३५.३०
ऐश्वर्याच्चापि मायेयादशुद्धान्मानुषादिकात् ॥ ७.२,३५.३१
अपराच्च परात्त्याज्यादधिशुद्धाध्वगोचरात् ॥ ७.२,३५.३१
तत्पराच्छुद्धविद्याद्यादुन्मनांतात्परात्परात् ॥ ७.२,३५.३२
परमं परमैश्वर्यमुन्मनाद्यमनादि च ॥ ७.२,३५.३२
अपारमपराधीनं निरस्तातिशयं स्थिरम् ॥ ७.२,३५.३३
इत्थमर्थैर्दशविधैरियमाथर्वणी श्रुतिः ॥ ७.२,३५.३३
यस्माद्गरीयसी तस्माद्विश्वं व्याप्तमथर्वणात् ॥ ७.२,३५.३४
ऋग्वेदः पुनराहेदं जाग्रद्रूपं मयोच्यते ॥ ७.२,३५.३४
येनाहमात्मतत्त्वस्य नित्यमस्म्यभिधायकः ॥ ७.२,३५.३५
यजुर्वेदो ऽवदत्तद्वत्स्वप्नावस्था मयोच्यते ॥ ७.२,३५.३५
भोग्यात्मना परिणता विद्यावेद्या यतो मयि ॥ ७.२,३५.३६
साम चाह सुषुप्त्याख्यमेवं सर्वं मयोच्यते ॥ ७.२,३५.३६
ममार्थेन शिवेनेदं तामसेनाभिधीयते ॥ ७.२,३५.३७
अथर्वाह तुरायाख्यं तुरीयातीतमेव च ॥ ७.२,३५.३७
मयाभिधीयते तस्मादध्वातीतपदोस्म्यहम् ॥ ७.२,३५.३८
अध्वात्मकं तु त्रितयं शिवविद्यात्मसंज्ञितम् ॥ ७.२,३५.३८
तत्त्रैगुण्यं त्रयीसाध्यं संशोध्यं च पदैषिणा ॥ ७.२,३५.३९
अध्वातीतं तुरीयाख्यं निर्वाणं परमं पदम् ॥ ७.२,३५.३९
तदतीतं च नैर्गुण्यादध्वनोस्य विशोधकम् ॥ ७.२,३५.४०
द्वयोः प्रमापको नादो नदांतश्च मदात्मकः ॥ ७.२,३५.४०
तस्मान्ममार्थस्वातंत्र्यात्प्रधानः परमेश्वरः ॥ ७.२,३५.४१
यदस्ति वस्तु तत्सर्वं गुणप्रधान्ययोगतः ॥ ७.२,३५.४१
समस्तं व्यस्तमपि च प्रणवार्थं प्रचक्षते ॥ ७.२,३५.४२
सवार्थवाचकं तस्मादेकं ब्रह्मैतदक्षरम् ॥ ७.२,३५.४२
तेनोमिति जगत्कृत्स्नं कुरुते प्रथमं शिवः ॥ ७.२,३५.४३
शिवो हि प्रणवो ह्येष प्रणवो हि शिवः स्मृतः ॥ ७.२,३५.४३
वाच्यवाचकयोर्भेदो नात्यंतं विद्यते यतः ॥ ७.२,३५.४४
चिंतया रहितो रुद्रो वाचोयन्मनसा सह ॥ ७.२,३५.४४
अप्राप्य तन्निवर्तंते वाच्यस्त्वेकाक्षरेण सः ॥ ७.२,३५.४५
एकाक्षरादकाराख्यादात्मा ब्रह्माभिधीयते ॥ ७.२,३५.४५
एकाक्षरादुकाराख्याद्द्विधा विष्णुरुदीर्यते ॥ ७.२,३५.४६
एकाक्षरान्मकाराख्याच्छिवो रुद्र उदाहृतः ॥ ७.२,३५.४६
दक्षिणांगान्महेशस्य जातो ब्रह्मात्मसंज्ञिकः ॥ ७.२,३५.४७
वामांगादभवद्विष्णुस्ततो विद्येति संज्ञितः ॥ ७.२,३५.४७
हृदयान्नीलरुद्रो भूच्छिवस्य शिवसंज्ञिकः ॥ ७.२,३५.४८
सृष्टेः प्रवर्तको ब्रह्मा स्थितेर्विष्णुर्विमोहकः ॥ ७.२,३५.४८
संहारस्य तथा रुद्रस्तयोर्नित्यं नियामकः ॥ ७.२,३५.४९
तस्मात्त्रयस्ते कथ्यंते जगतः कारणानि च ॥ ७.२,३५.५०
कारणत्रयहेतुश्च शिवः परमकारणम् ॥ ७.२,३५.५०
अर्थमेतमविज्ञाय रजसा बद्धवैरयोः ॥ ७.२,३५.५१
युवयोः प्रतिबोधाय मध्ये लिंगमुपस्थितम् ॥ ७.२,३५.५१
एवमोमिति मां प्राहुर्यदिहोक्तमथर्वणा ॥ ७.२,३५.५२
ऋचो यजूंषि सामानि शाखाश्चान्याः सहस्रशः ॥ ७.२,३५.५२
वेदेष्वेवं स्वयं वक्त्रैर्व्यक्तमित्यवदत्स्वपि ॥ ७.२,३५.५३
स्वप्नानुभूतमिव तत्ताभ्यां नाध्यवसीयते ॥ ७.२,३५.५३
तयोस्तत्र प्रबोधाय तमोपनयनाय च ॥ ७.२,३५.५४
लिंगेपि मुद्रितं सर्वं यथा वेदैरुदाहृतम् ॥ ७.२,३५.५४
तद्दृष्ट्वा मुद्रितं लिंगे प्रसादाल्लिंगिनस्तदा ॥ ७.२,३५.५५
प्रशांतमनसौ देवौ प्रबुद्धौ संबभूवतुः ॥ ७.२,३५.५५
उत्पत्तिं विलयं चैव यथात्म्यं च षडध्वनाम् ॥ ७.२,३५.५६
ततः परतरं धाम धामवंतं च पूरुषम् ॥ ७.२,३५.५६
निरुत्तरतरं ब्रह्म निष्कलं शिवमीश्वरम् ॥ ७.२,३५.५७
पशुपाशमयस्यास्य प्रपञ्चस्य सदा पतिम् ॥ ७.२,३५.५७
अकुतोभयमत्यंतमवृद्धिक्षयमव्ययम् ॥ ७.२,३५.५८
वाह्यमाभ्यंतरं व्याप्तं वाह्याभ्यंतरवर्जितम् ॥ ७.२,३५.५८
निरस्तातिशयं शश्वद्विश्वलोकविलक्षणम् ॥ ७.२,३५.५९
अलक्षणमनिर्देश्यमवाङ्मनसगोचरम् ॥ ७.२,३५.५९
प्रकाशैकरसं शांतं प्रसन्नं सततोदितम् ॥ ७.२,३५.६०
सर्वकल्याणनिलयं शक्त्या तादृशयान्वितम् ॥ ७.२,३५.६०
ज्ञात्वा देवं विरूपाक्षं ब्रह्मनारायणौ तदा ॥ ७.२,३५.६१
रचयित्वांजलिं मूर्ध्नि भीतौ तौ वाचमूचतुः ॥ ७.२,३५.६१
ब्रह्मोवाच
अज्ञो वाहमभिज्ञो वा त्वयादौ देव निर्मितः ॥ ७.२,३५.६२
ईदृशीं भ्रांतिमापन्न इति को ऽत्रापराध्यति ॥ ७.२,३५.६२
आस्तां ममेदमज्ञानं त्वयि सन्निहते प्रभो ॥ ७.२,३५.६३
निर्भयः को ऽभिभाषेत कृत्यं स्वस्य परस्य वा ॥ ७.२,३५.६३
आवयोर्देवदेवस्य विवादो ऽपि हि शोभनः ॥ ७.२,३५.६४
पादप्रणामफलदो नाथस्य भवतो यतः ॥ ७.२,३५.६४
विष्णुरुवाच
स्तोतुं देव न वागस्ति महिम्नः सदृशी तव ॥ ७.२,३५.६५
प्रभोरग्रे विधेयानां तूष्णींभावो व्यतिक्रमः ॥ ७.२,३५.६५
किमत्र संघटेत्कृत्यमित्येवावसरोचितम् ॥ ७.२,३५.६६
अजानन्नपि यत्किंचित्प्रलप्य त्वां नतो ऽस्म्यहम् ॥ ७.२,३५.६६
कारणत्वं त्वया दत्तं विस्मृतं तव मायया ॥ ७.२,३५.६७
मोहितो ऽहंकृतश्चापि पुनरेवास्मि शासितः ॥ ७.२,३५.६७
विज्ञापितैः किं बहुभिर्भीतोस्मि भृशमीश्वर ॥ ७.२,३५.६८
यतो ऽहमपरिच्छेद्यं त्वां परिच्छेत्तुमुद्यतः ॥ ७.२,३५.६८
त्वामुशंति महादेवं भीतानामार्तिनाशनम् ॥ ७.२,३५.६९
अतो व्यतिक्रमं मे ऽद्य क्षंतुमर्हसि शंकर ॥ ७.२,३५.६९
इति विज्ञापितस्ताभ्यामीश्वराभ्यां महेश्वरः ॥ ७.२,३५.७०
प्रीतो ऽनुगृह्य तौ देवौ स्मितपूर्वमभाषत ॥ ७.२,३५.७०
ईश्वर उवाच
वत्सवत्स विधे विष्णो मायया मम मोहितौ ॥ ७.२,३५.७१
युवां प्रभुत्वे ऽहंकृत्य बुद्धवैरो परस्परम् ॥ ७.२,३५.७१
विवादं युद्धपर्यंतं कृत्वा नोपरतौ किल ॥ ७.२,३५.७२
ततश्च्छिन्ना प्रजासृष्टिर्जगत्कारणभूतयोः ॥ ७.२,३५.७२
अज्ञानमानप्रभवाद्वैमत्याद्युवयोरपि ॥ ७.२,३५.७३
तन्निवर्तयितुं युष्मद्दर्पमोहौ मयैव तु ॥ ७.२,३५.७३
एवं निवारितावद्यलिंगाविर्भावलीलया ॥ ७.२,३५.७४
तस्माद्भूयो विवादं च व्रीडां चोत्सृज्य कृत्स्नशः ॥ ७.२,३५.७४
यथास्वं कर्म कुर्यातां भवंतौ वीतमत्सरौ ॥ ७.२,३५.७५
पुरा ममाज्ञया सार्धं समस्तज्ञानसंहिताः ॥ ७.२,३५.७५
युवाभ्यां हि मया दत्ता कारणत्वप्रसिद्धये ॥ ७.२,३५.७६
मंत्ररत्नं च सूत्राख्यं पञ्चाक्षरमयं परम् ॥ ७.२,३५.७६
मयोपदिष्टं सर्वं तद्युवयोरद्य विस्मृतम् ॥ ७.२,३५.७७
ददामि च पुनः सर्वं यथापूर्वं ममाज्ञया ॥ ७.२,३५.७७
यतो विना युवां तेन न क्षमौ सृष्टिरक्षणे ॥ ७.२,३५.७८
एवमुक्त्वा महादेवो नारायणपितामहौ ॥ ७.२,३५.७८
मंत्रराजं ददौ ताभ्यां ज्ञानसंहितया सह ॥ ७.२,३५.७९
तौ लब्ध्वा महतीं दिव्यामाज्ञां माहेश्वरीं पराम् ॥ ७.२,३५.७९
महार्थं मंत्ररत्नं च तथैव सकलाः कलाः ॥ ७.२,३५.८०
दंडवत्प्रणतिं कृत्वा देवदेवस्य पादयोः ॥ ७.२,३५.८०
अतिष्ठतां वीतभयावानंदास्तिमितौ तदा ॥ ७.२,३५.८१
एतस्मिन्नंतरे चित्रमिंद्रजालवदैश्वरम् ॥ ७.२,३५.८१
लिंगं क्वापि तिरोभूतं न ताभ्यामुपलभ्यते ॥ ७.२,३५.८२
ततो विलप्य हाहेति सद्यःप्रणयभंगतः ॥ ७.२,३५.८२
किमसत्यमिदं वृत्तमिति चोक्त्वा परस्परम् ॥ ७.२,३५.८३
अचिंत्यवैभवं शंभोर्विचिंत्य च गतव्यथौ ॥ ७.२,३५.८३
अभ्युपेत्य परां मैत्रीमालिंग्य च परस्परम् ॥ ७.२,३५.८४
जगद्व्यापारमुद्दिश्य जग्मतुर्देवपुंगवौ ॥ ७.२,३५.८४
ततः प्रभृति शक्राद्याः सर्व एव सुरासुराः ॥ ७.२,३५.८५
ऋषयश्च नरा नागा नार्यश्चापि विधानतः ॥ ७.२,३५.८५
लिंगप्रतिष्ठा कुर्वंति लिंगे तं पूजयंति च ॥ ७.२,३५.८५

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहनिवारणं नाम पञ्चत्रिंशो ऽध्यायः