शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः ३४

विकिस्रोतः तः

उपमन्युरुवाच
नित्यनैमित्तिकात्काम्याद्या सिद्धिरिह कीर्तिता ॥ ७.२,३४.१
सा सर्वा लभ्येत सद्यो लिंगबेरप्रतिष्ठया ॥ ७.२,३४.१
सर्वो लिंगमयो लोकस्सर्वं लिंगे प्रतिष्ठितम् ॥ ७.२,३४.२
तस्मात्प्रतिष्ठिते लिंगे भवेत्सर्वं पतिष्ठितम् ॥ ७.२,३४.२
ब्रह्मणा विष्णुना वापि रुद्रेणान्येन केन वा ॥ ७.२,३४.३
लिंगप्रतिष्ठामुत्सृज्य क्रियते स्वपदस्थितिः ॥ ७.२,३४.३
किमन्यदिह वक्तव्यं प्रतिष्ठां प्रति कारणम् ॥ ७.२,३४.४
पर्तिष्ठितं शिवेनापि लिंगं वैश्वेश्वरं यतः ॥ ७.२,३४.४
तस्मात्सर्वप्रयत्नेन परत्रेह च शर्मणे ॥ ७.२,३४.५
स्थापयेत्परमेशस्य लिंगं बेरमथापि वा ॥ ७.२,३४.५
श्रीकृष्ण उवाच
किमिदं लिंगमाख्यातं कथं लिंगी महेश्वरः ॥ ७.२,३४.६
कथं च लिंगभावो ऽस्य कस्मादस्मिञ्छिवो ऽर्च्यते ॥ ७.२,३४.६
उपमन्युरुवाच
अव्यक्तं लिंगमाख्यातं त्रिगुणप्रभवाप्ययम् ॥ ७.२,३४.७
अनाद्यनंतं विश्वस्य यदुपादानकारणम् ॥ ७.२,३४.७
तदेव मूलप्रकृतिर्माया च गगनात्मिका ॥ ७.२,३४.८
तत एव समुत्पन्नं जगदेतच्चराचरम् ॥ ७.२,३४.८
अशुद्धं चैव शुद्धं यच्छुद्धाशुद्धं च तत्त्रिधा ॥ ७.२,३४.९
ततः शिवो महेशश्च रुद्रो विष्णुः पितामहः ॥ ७.२,३४.९
भूतानि चेन्द्रियैर्जाता लीयन्ते ऽत्र शिवाज्ञया ॥ ७.२,३४.१०
अत एव शिवो लिंगो लिंगमाज्ञापयेद्यतः ॥ ७.२,३४.१०
यतो न तदनाज्ञातं कार्याय प्रभवेत्स्वतः ॥ ७.२,३४.११
ततो जातस्य विश्वस्य तत्रैव विलयो यतः ॥ ७.२,३४.११
अनेन लिंगतां तस्य भवेन्नान्येन केनचित् ॥ ७.२,३४.१२
लिंगं च शिवयोर्देहस्ताभ्यां यस्मादधिष्ठितम् ॥ ७.२,३४.१२
अतस्तत्र शिवः साम्बो नित्यमेव समर्चयेत् ॥ ७.२,३४.१३
लिंगवेदी महादेवी लिंगं साक्षान्महेश्वरः ॥ ७.२,३४.१३
तयोः संपूजनादेव स च सा च समर्चितौ ॥ ७.२,३४.१४
न तयोर्लिंगदेहत्वं विद्यते परमार्थतः ॥ ७.२,३४.१४
यतस्त्वेतौ विशुद्धौ तौ देहस्तदुपचारतः ॥ ७.२,३४.१५
तदेव परमा शक्तिः शिवस्य परमात्मनः ॥ ७.२,३४.१५
शक्तिराज्ञां यदादत्ते प्रसूते तच्चराचरम् ॥ ७.२,३४.१६
न तस्य महिमा शक्यो वक्तुं वर्षशतैरपि ॥ ७.२,३४.१६
येनादौ मोहितौ स्यातां ब्रह्मनारायणावपि ॥ ७.२,३४.१७
पुरा त्रिभुवनस्यास्य प्रलये समुपस्थिते ॥ ७.२,३४.१७
वारिशय्यागतो विष्णुः सुष्वापानाकुलः सुखम् ॥ ७.२,३४.१८
५८९

यदृच्छया गतस्तत्र ब्रह्मा लोकपितामहः ॥ ७.२,३४.१८
ददर्श पुण्डरीकाक्षं स्वपन्तं तमनाकुलम् ॥ ७.२,३४.१९
मायया मोहितः शम्भोर्विष्णुमाह पितामहः ॥ ७.२,३४.१९
कस्त्वं वदेत्यमर्षेण प्रहृत्योत्थाप्य माधवम् ॥ ७.२,३४.२०
स तु हस्तप्रहारेण तीव्रेणाभिहतः क्षणात् ॥ ७.२,३४.२०
प्रबुद्धोत्थाय शयनाद्ददर्श परमेष्ठिनम् ॥ ७.२,३४.२१
तमाह चांतस्संक्रुद्धः स्वयमक्रुद्धवद्धरिः ॥ ७.२,३४.२१
कुतस्त्वमागतो वत्स कस्मात्त्वं व्याकुलो वद ॥ ७.२,३४.२२
इति विष्णुवचः श्रुत्वा प्रभुत्वगुणसूचकम् ॥ ७.२,३४.२२
रजसा बद्धवैरस्तं ब्रह्मा पुनरभाषत ॥ ७.२,३४.२३
वत्सेति मां कुतो ब्रूषे गुरुः शिष्यमिवात्मनः ॥ ७.२,३४.२३
मां न जानासि किं नाथं प्रपञ्चो यस्य मे कृतिः ॥ ७.२,३४.२४
त्रिधात्मानं विभज्येदं सृष्ट्वाथ परिपाल्यते ॥ ७.२,३४.२४
संहरामि नमे कश्चित्स्रष्टा जगति विद्यते ॥ ७.२,३४.२५
इत्युक्ते सति सो ऽप्याह ब्रह्माणं विष्णुरव्ययः ॥ ७.२,३४.२५
अहमेवादिकर्तास्य हर्ता च परिपालकः ॥ ७.२,३४.२६
भवानपि ममैवांगादवतीर्णः पुराव्ययात् ॥ ७.२,३४.२६
मन्नियोगात्त्वमात्मानं त्रिधा कृत्वा जगत्त्रयम् ॥ ७.२,३४.२७
सृजस्यवसि चांते तत्पुनः प्रतिसृजस्यपि ॥ ७.२,३४.२७
विस्मृतोसि जगन्नाथं नारायणमनामयम् ॥ ७.२,३४.२८
तवापि जनकं साक्षान्मामेवमवमन्यसे ॥ ७.२,३४.२८
तवापराधो नास्त्यत्र भ्रांतोसि मम मायया ॥ ७.२,३४.२९
मत्प्रसादादियं भ्रांतिरपैष्यति तवाचिरात् ॥ ७.२,३४.२९
शृणु सत्यं चतुर्वक्त्र सर्वदेवेश्वरो ह्यहम् ॥ ७.२,३४.३०
कर्ता भर्ता च हर्ता च न मयास्ति समो विभुः ॥ ७.२,३४.३०
एवमेव विवादोभूद्ब्रह्मविष्ण्वोः परस्परम् ॥ ७.२,३४.३१
अभवच्च महायुद्धं भैरवं रोमहर्षणम् ॥ ७.२,३४.३१
मुष्टिभिर्न्निघ्नतोस्तीव्रं रजसा बद्धवैरयोः ॥ ७.२,३४.३२
तयोर्दर्पापहाराय प्रबोधाय च देवयोः ॥ ७.२,३४.३२
मध्ये समाविरभवल्लिंगमैश्वरमद्भुतम् ॥ ७.२,३४.३३
ज्वालामालासहस्राढ्यमप्रमेयमनौपमम् ॥ ७.२,३४.३३
क्षयवृद्धिविनिर्मुक्तमादिमध्यांतवर्जितम् ॥ ७.२,३४.३४
तस्य ज्वालासहस्रेण ब्रह्मविष्णू विमोहितौ ॥ ७.२,३४.३४
विसृज्य युद्धं किं त्वेतदित्यचिंतयतां तदा ॥ ७.२,३४.३५
न तयोस्तस्य याथात्म्यं प्रबुद्धमभवद्यदा ॥ ७.२,३४.३५
तदा समुद्यतौ स्यातां तस्याद्यंतं परीक्षितुम् ॥ ७.२,३४.३६
तत्र हंसाकृतिर्ब्रह्मा विश्वतः पक्षसंयुतः ॥ ७.२,३४.३७
मनोनिलजवो भूत्वा गतस्तूर्ध्वं प्रयत्नतः ॥ ७.२,३४.३७
नारायणोपि विश्वात्मा लीलाञ्जनचयोपमम् ॥ ७.२,३४.३८
वाराहममितं रूपमस्थाय गतवानधः ॥ ७.२,३४.३८
एवं वर्षसहस्रं तु त्वरन् विष्णुरधोगतः ॥ ७.२,३४.३९
नापश्यदल्पमप्यस्य मूलं लिंगस्य सूकरः ॥ ७.२,३४.३९
तावत्कालं गतश्चोर्ध्वं तस्यांतं ज्ञातुमिच्छया ॥ ७.२,३४.४०
श्रांतोत्यंतमदृष्ट्वांतं पापताधः पितामहः ॥ ७.२,३४.४०
५९०

तथैव भगवान् विष्णुः श्रांतः संविग्नलोचनः ॥ ७.२,३४.४१
क्लेशेन महता तूर्णमधस्तादुत्थितो ऽभवत् ॥ ७.२,३४.४१
समागतावथान्योन्यं विस्मयस्मेरवीक्षणौ ॥ ७.२,३४.४२
मायया मोहितौ शंभोः कृत्याकृत्यं न जग्मतुः ॥ ७.२,३४.४२
पृष्ठतः पार्श्वतस्तस्य चाग्रतश्च स्थितावुभौ ॥ ७.२,३४.४३
प्रणिपत्य किमात्मेदमित्यचिंतयतां तदा ॥ ७.२,३४.४३

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे हरिविधिमोहवर्णनं नाम चतुस्त्रिंशोऽध्यायः