शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः ३०

विकिस्रोतः तः

तत्रादौ शिवयोः पार्श्वे दक्षिणे वामतः क्रमात् ॥ ७.२,३०.१
गंधाद्यैरर्चयेत्पूर्वं देवौ हेरंबषण्मुखौ ॥ ७.२,३०.१
ततो ब्रह्माणि परित ईशानादि यथाक्रमम् ॥ ७.२,३०.२
सशक्तिकानि सद्यांतं प्रथमावरणे यजेत् ॥ ७.२,३०.२
षडंगान्यपि तत्रैव हृदयादीन्यनुक्रमात् ॥ ७.२,३०.३
शिवस्य च शिवायाश्च वाह्नेयादि समर्चयेत् ॥ ७.२,३०.३
तत्र वामादिकान्रुद्रानष्टौ वामादिशक्तिभिः ॥ ७.२,३०.४
अर्चयेद्वा न वा पश्चात्पूर्वादिपरितः क्रमात् ॥ ७.२,३०.४
प्रथमावरणं प्रोक्तं मया ते यदुनंदन ॥ ७.२,३०.५
द्वितीयावरणं प्रीत्या प्रोच्यते श्रद्धया शृणु ॥ ७.२,३०.५
अनंतं पूर्वादिक्पत्रे तच्छक्तिं तस्य वामतः ॥ ७.२,३०.६
सूक्ष्मं दक्षिणदिक्पत्रे सह शक्त्या समर्चयेत् ॥ ७.२,३०.६
ततः पश्चिमदिक्पत्रे सह शक्त्या शिवोत्तमम् ॥ ७.२,३०.७
तथैवोत्तरदिक्पत्रे चैकनेत्रं समर्चयेत् ॥ ७.२,३०.७
एकरुद्रं च तच्छक्तिं पश्चादीशदले ऽर्चयेत् ॥ ७.२,३०.८
त्रिमूर्तिं तस्य शक्तिं च पूजयेदग्निदिग्दले ॥ ७.२,३०.८
श्रीकण्ठं नैरृते पत्रे तच्छक्तिं तस्य वामतः ॥ ७.२,३०.९
तथैव मारुते पत्रे शिखंडीशं समर्चयेत् ॥ ७.२,३०.९
द्वितीयावरणे चेज्यास्सर्वर्तश्चक्रवर्तिनः ॥ ७.२,३०.१०
तृतीयावरणे पूज्याः शक्तिभिश्चाष्टमूर्तयः ॥ ७.२,३०.१०
अष्टसु क्रमशो दिक्षु पूर्वादिपरितः क्रमात् ॥ ७.२,३०.११
भवः शर्वस्तथेशानो रुद्रः पशुपतिस्ततः ॥ ७.२,३०.११
उग्रो भीमो महादेव इत्यष्टौ मूर्तयः क्रमात् ॥ ७.२,३०.१२
अनंतरं ततश्चैव महादेवादयः क्रमात् ॥ ७.२,३०.१२
शक्तिभिस्सह संपूज्यास्तत्रैकादशमूर्तयः ॥ ७.२,३०.१२
महादेवः शिवो रुद्रः शंकरो नीललोहितः ॥ ७.२,३०.१३
ईशानो विजयो भीमो देवदेवो भवोद्भवः ॥ ७.२,३०.१३
कपर्दीशश्च कथ्यंते तथैकादशशक्तयः ॥ ७.२,३०.१४
तत्राष्टौ प्रथमं पूज्याः वाह्नेयादि यथाक्रमम् ॥ ७.२,३०.१४
देवदेवः पूर्वपत्रे ईशानं चाग्निगोचरे ॥ ७.२,३०.१५
भवोद्भवस्तयोर्मध्ये कपालीशस्ततः परम् ॥ ७.२,३०.१५
तस्मिन्नावरणे भूयो वृषेन्द्रं पुरतो यजेत् ॥ ७.२,३०.१६
नंदिनं दक्षिणे तस्य महाकालं तथोत्तरे ॥ ७.२,३०.१६
शास्तारं वह्निदिक्पत्रे मात्ःर्दक्षिणदिग्दले ॥ ७.२,३०.१७
गजास्यं नैरृते पत्रे षण्मुखं वारुणे पुनः ॥ ७.२,३०.१७
ज्येष्ठां वायुदले गौरीमुत्तरे चंडमैश्वरे ॥ ७.२,३०.१८
शास्तृनन्दीशयोर्मध्ये मुनीन्द्रं वृषभं यजेत् ॥ ७.२,३०.१८
महाकालस्योत्तरतः पिंगलं तु समर्चयेत् ॥ ७.२,३०.१९
शास्तृमातृसमूहस्य मध्ये भृंगीश्वरं ततः ॥ ७.२,३०.१९
मातृविघ्नेशमध्ये तु वीरभद्रं समर्चयेत् ॥ ७.२,३०.२०
स्कन्दविघ्नेशयोर्मध्ये यजेद्देवीं सरस्वतीम् ॥ ७.२,३०.२०
ज्येष्ठाकुमारयोर्मध्ये श्रियं शिवपदार्चिताम् ॥ ७.२,३०.२१
ज्येष्ठागणाम्बयोर्मध्ये महामोटीं समर्चयेत् ॥ ७.२,३०.२१
गणाम्बाचण्डयोर्मध्ये देवीं दुर्गां प्रपूजयेत् ॥ ७.२,३०.२२
अत्रैवावरणे भूयः शिवानुचरसंहतिम् ॥ ७.२,३०.२२
रुद्रप्रथमभूताख्यां विविधां च सशक्तिकाम् ॥ ७.२,३०.२३
शिवायाश्च सखीवर्गं जपेद्ध्यात्वा समाहितः ॥ ७.२,३०.२३
एवं तृतीयावरणे वितते पूजिते सति ॥ ७.२,३०.२४
चतुर्थावरणं ध्यात्वा बहिस्तस्य समर्चयेत् ॥ ७.२,३०.२४
भानुः पूर्वदले पूज्यो दक्षिणे चतुराननः ॥ ७.२,३०.२५
रुद्रो वरुणदिक्पत्रे विष्णुरुत्तरदिग्दले ॥ ७.२,३०.२५
चतुर्णामपि देवानां पृथगावरणान्यथ ॥ ७.२,३०.२६
तस्यांगानि षडेवादौ दीप्ताद्याभिश्च शक्तिभिः ॥ ७.२,३०.२६
दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला क्रमात् ॥ ७.२,३०.२७
अमोघा विद्युता चैव पूर्वादि परितः स्थिताः ॥ ७.२,३०.२७
द्वितीयावरणे पूज्याश्चतस्रो मूर्तयः क्रमात् ॥ ७.२,३०.२८
पूर्वाद्युत्तरपर्यंताः शक्तयश्च ततः परम् ॥ ७.२,३०.२८
आदित्यो भास्करो भानू रविश्चेत्यनुपूर्वशः ॥ ७.२,३०.२९
अर्को ब्रह्मा तथा रुद्रो विष्णुश्चैते विवस्वतः ॥ ७.२,३०.२९
विस्तारा पूर्वदिग्भागे सुतरां दक्षिणे स्थिताः ॥ ७.२,३०.३०
बोधनी पश्चिमे भागे आप्यायिन्युत्तरे पुनः ॥ ७.२,३०.३०
उषां प्रभां तथा प्राज्ञां सन्ध्यामपि ततः परम् ॥ ७.२,३०.३१
ऐशानादिषु विन्यस्य द्वितीयावरणे यजेत् ॥ ७.२,३०.३१
सोममंगारकं चैव बुधं बुद्धिमतां वरम् ॥ ७.२,३०.३२
बृहस्पतिं बृहद्बुद्धिं भार्गवं तेजसां निधिम् ॥ ७.२,३०.३२
शनैश्चरं तथा राहुं केतुं धूम्रं भयंकरम् ॥ ७.२,३०.३३
समंततो यजेदेतांस्तृतीयावरणे क्रमात् ॥ ७.२,३०.३३
अथवा द्वादशादित्या द्वितीयावरणे यजेत् ॥ ७.२,३०.३४
तृतीयावरणे चैव राशीन्द्वादश पूजयेत् ॥ ७.२,३०.३४
सप्तसप्त गणांश्चैव बहिस्तस्य समंततः ॥ ७.२,३०.३५
ऋषीन्देवांश्च गंधर्वान्पन्नगानप्सरोगणान् ॥ ७.२,३०.३५
ग्रामण्यश्च तथा यक्षान्यातुधानांस्तथा हयान् ॥ ७.२,३०.३६
सप्तच्छंदोमयांश्चैव वालखिल्यांश्च पूजयेत् ॥ ७.२,३०.३६
एवं तृतीयावरणे समभ्यर्च्य दिवाकरम् ॥ ७.२,३०.३७
ब्रह्माणमर्चयेत्पश्चात्त्रिभिरावरणैः सहः ॥ ७.२,३०.३७
हिरण्यगर्भं पूर्वस्यां विराजं दक्षिणे ततः ॥ ७.२,३०.३८
कालं पश्चिमदिग्भागे पुरुषं चोत्तरे यजेत् ॥ ७.२,३०.३८
हिरण्यगर्भः प्रथमो ब्रह्मा कमलसन्निभः ॥ ७.२,३०.३९
कालो जात्यंजनप्रख्यः पुरुषः स्फटिकोपमः ॥ ७.२,३०.३९
त्रिगुणो राजसश्चैव तामसः सात्त्विकस्तथा ॥ ७.२,३०.४०
चत्वार एते क्रमशः प्रथमावरणे स्थिताः ॥ ७.२,३०.४०
द्वितीयावरणे पूज्याः पूर्वादिपरितः क्रमात् ॥ ७.२,३०.४१
सनत्कुमारः सनकः सनंदश्च सनातनः ॥ ७.२,३०.४१
तृतीयावरणे पश्चादर्चयेच्च प्रजापतीन् ॥ ७.२,३०.४२
अष्टौ पूर्वांश्च पूर्वादौ त्रीन्प्राक्पश्चादनुक्रमात् ॥ ७.२,३०.४२
दक्षो रुचिर्भृगुश्चैव मरीचिश्च तथांगिराः ॥ ७.२,३०.४३
पुलस्त्यः पुलहश्चैव क्रतुरत्रिश्च कश्यपः ॥ ७.२,३०.४३
वसिष्ठश्चेति विख्याताः प्रजानां पतयस्त्विमे ॥ ७.२,३०.४४
तेषां भार्याश्च तैस्सार्धं पूजनीया यथाक्रमम् ॥ ७.२,३०.४४
प्रसूतिश्च तथा"कूतिः ख्यातिः सम्भूतिरेव च ॥ ७.२,३०.४५
धृतिः स्मृतिः क्षमा चैव सन्नतिश्चानसूयका ॥ ७.२,३०.४५
देवमातारुन्धती च सर्वाः खलु पतिव्रताः ॥ ७.२,३०.४६
शिवार्चनरतो नित्यं श्रीमत्यः प्रियदर्शनाः ॥ ७.२,३०.४६
प्रथमावरणे वेदांश्चतुरो वा प्रपूजयेत् ॥ ७.२,३०.४७
इतिहासपुराणानि द्वितीयावरणे पुनः ॥ ७.२,३०.४७
तृतीयावरणे पश्चाद्धर्मशास्त्रपुरस्सराः ॥ ७.२,३०.४८
वैदिक्यो निखिला विद्याः पूज्या एव समंततः ॥ ७.२,३०.४८
पूर्वादिपुरतो वेदास्तदन्ये तु यथारुचि ॥ ७.२,३०.४९
अष्टधा वा चतुर्धा वा कृत्वा पूजां समंततः ॥ ७.२,३०.४९
एवं ब्रह्माणमभ्यर्च्य त्रिभिरावरणैर्युतम् ॥ ७.२,३०.५०
दक्षिणे पश्चिमे पश्चाद्रुद्रं सावरणं यजेत् ॥ ७.२,३०.५०
तस्य ब्रह्मषडंगानि प्रथमावरणं स्मृतम् ॥ ७.२,३०.५१
द्वितीयावरणे चैव विद्येश्वरमयं तथा ॥ ७.२,३०.५१
तृतीयावरणे भेदो विद्यते स तु कथ्यते ॥ ७.२,३०.५२
चतस्रो मूर्तयस्तस्य पूज्याः पूर्वादितः क्रमात् ॥ ७.२,३०.५२
त्रिगुणास्सकलो देवः पुरस्ताच्छिवसंज्ञकः ॥ ७.२,३०.५३
राजसो दक्षिणे ब्रह्मा सृष्टिकृत्पूज्यते भवः ॥ ७.२,३०.५३
तामसः पश्चिमे चाग्निः पूज्यस्संहारको हरः ॥ ७.२,३०.५४
सात्त्विकस्सुखकृत्सौम्ये विष्णुर्विश्वपतिर्मृडः ॥ ७.२,३०.५४
एवं पश्चिमदिग्भागे शम्भोः षड्विंशकं शिवम् ॥ ७.२,३०.५५
समभ्यर्च्योत्तरे पार्श्वे ततो वैकुंठमर्चयेत् ॥ ७.२,३०.५५
वासुदेवं पुरस्कृत्वा प्रथमावरणे यजेत् ॥ ७.२,३०.५६
अनिरुद्धं दक्षिणतः प्रद्युम्नं पश्चिमे ततः ॥ ७.२,३०.५६
सौम्ये संकर्षणं पश्चाद्व्यत्यस्तौ वा यजेदिमौ ॥ ७.२,३०.५७
प्रथमावरणं प्रोक्तं द्वितीयावरणं शुभम् ॥ ७.२,३०.५७
मत्स्यः कूर्मो वराहश्च नरसिंहोथ वामनः ॥ ७.२,३०.५८
रामश्चान्यतमः कृष्णो भवानश्वमुखोपि च ॥ ७.२,३०.५८
तृतीयावरणे चक्रुः पूर्वभागे समर्चयेत् ॥ ७.२,३०.५९
नारायणाख्यां याम्येस्त्रं क्वचिदव्याहतं यजेत् ॥ ७.२,३०.५९
पश्चिमे पांचजन्यं च शार्ङ्गंधनुरथोत्तरे ॥ ७.२,३०.६०
एवं त्र्यावरणैः साक्षाद्विश्वाख्यां परमं हरिम् ॥ ७.२,३०.६०
महाविष्णुं सदाविष्णुं मूर्तीकृत्य समर्चयेत् ॥ ७.२,३०.६१
इत्थं विष्णोश्चतुर्व्यूहक्रमान्मूर्तिचतुष्टयम् ॥ ७.२,३०.६१
पूजयित्वा च तच्छक्तीश्चतस्रः पुजयेत्क्रमात् ॥ ७.२,३०.६१
प्रभामाग्नेयदिग्भागे नैरृते तु सरस्वतीम् ॥ ७.२,३०.६२
गणांबिका च वायव्ये लक्ष्मीं रौद्रे समर्चयेत् ॥ ७.२,३०.६२
एवं भान्वादिमूर्तीनां तच्छक्तीनामनंतरम् ॥ ७.२,३०.६३
पूजां विधाय लोकेशांस्तत्रैवावरणे यजेत् ॥ ७.२,३०.६३
इन्द्रमग्निं यमं चैव निरृतिं वरुणं तथा ॥ ७.२,३०.६४
वायुं सोमं कुबेरं च पश्चादीशानमर्चयेत् ॥ ७.२,३०.६४
एवं चतुर्थावरणं पूजयित्वा विधानतः ॥ ७.२,३०.६५
आयुधानि महेशस्य पश्चाद्बांह्यं समर्चयेत् ॥ ७.२,३०.६५
श्रीमन्त्रिशूलमैशाने वज्रं माहेन्द्रदिङ्मुखे ॥ ७.२,३०.६६
परशुं वह्निदिग्भागे याम्ये सायकमर्चयेत् ॥ ७.२,३०.६६
नैरृते तु यजेत्खड्गं पाशं वारुणगोचरे ॥ ७.२,३०.६७
अंकुशं मारुते भागे पिनाकं चोत्तरे यजेत् ॥ ७.२,३०.६७
पश्चिमाभिमुखं रौद्रं क्षेत्रपालं समर्चयेत् ॥ ७.२,३०.६८
पञ्चमावरणं चैव सम्पूज्यानन्तरं बहिः ॥ ७.२,३०.६८
सर्वावरणदेवानां बहिर्वा पञ्चमे ऽथवा ॥ ७.२,३०.६९
पञ्चमे मातृभिस्सार्धं महोक्ष पुरतो यजेत् ॥ ७.२,३०.६९
ततः समंततः पूज्यास्सर्वा वै देवयोनयः ॥ ७.२,३०.७०
खेचरा ऋषयस्सिद्धा दैत्या यक्षाश्च राक्षसाः ॥ ७.२,३०.७०
अनंताद्याश्च नागेंद्रा नागैस्तत्तत्कुलोद्भवैः ॥ ७.२,३०.७१
डाकिनीभूतवेतालप्रेतभैरवनायकाः ॥ ७.२,३०.७१
पातालवासिनश्चान्ये नानायोनिसमुद्भवाः ॥ ७.२,३०.७२
नद्यस्समुद्रा गिरयः काननानि सरांसि च ॥ ७.२,३०.७२
पशवः पक्षिणो वृक्षाः कीटाद्याः क्षुद्रयोनयः ॥ ७.२,३०.७३
नराश्च विविधाकारा मृगाश्च क्षुद्रयोनयः ॥ ७.२,३०.७३
भुवनान्यन्तरण्डस्य ततो ब्रह्माण्डकोटयः ॥ ७.२,३०.७४
बहिरंडान्यसंख्यानि भुवनानि सहाधिपैः ॥ ७.२,३०.७४
ब्रह्मांडाधारका रुद्रा दशदिक्षु व्यवस्थिताः ॥ ७.२,३०.७५
यद्गौड यच्च मामेयं यद्वा शाक्तं ततः परम् ॥ ७.२,३०.७५
यत्किञ्चिदस्ति शब्दस्य वाच्यं चिदचिदात्मकम् ॥ ७.२,३०.७६
तत्सर्वं शिवयोः पार्श्वे बुद्ध्वा सामान्यतो यजेत् ॥ ७.२,३०.७६
कृतांजलिपुटाः सर्वे ऽचिंत्याः स्मितमुखास्तथा ॥ ७.२,३०.७७
प्रीत्या संप्रेक्षमाणाश्च देवं देवीं च सर्वदा ॥ ७.२,३०.७७
इत्थमावरणाभ्यर्चां कृत्वाविक्षेपशांतये ॥ ७.२,३०.७८
पुनरभ्यर्च्य देवेशं पक्त्वाक्षरमुदीरयेत् ॥ ७.२,३०.७८
निवेदयेत्ततः पश्चाच्छिवयोरमृतोपमम् ॥ ७.२,३०.७९
सुव्यञ्जनसमायुक्तं शुद्धं चारु महाचरुम् ॥ ७.२,३०.७९
द्वात्रिंशदाढकैर्मुख्यमधमं त्वाढकावरम् ॥ ७.२,३०.८०
साधयित्वा यथासंपच्छ्रद्धया विनिवेदयेत् ॥ ७.२,३०.८०
ततो निवेद्य पानीयं तांबूलं चोपदंशकैः ॥ ७.२,३०.८१
नीराजनादिकं कृत्वा पूजाशेषं समापयेत् ॥ ७.२,३०.८१
भोगोपयोग्यद्रव्याणि विशिष्टान्येव साधयेत् ॥ ७.२,३०.८२
वित्तशाठ्यं न कुर्वीत भक्तिमान्विभवे सति ॥ ७.२,३०.८२
शठस्योपेक्षकस्यापि व्यंग्यं चैवानुतिष्ठतः ॥ ७.२,३०.८३
न फलंत्येव कर्माणि काम्यानीति सतां कथा ॥ ७.२,३०.८३
तस्मात्सम्यगुपेक्षां च त्यक्त्वा सर्वांगयोगतः ॥ ७.२,३०.८४
कुर्यात्काम्यानि कर्माणि फलसिद्धिं यदीच्छति ॥ ७.२,३०.८४
इत्थं पूजां समाप्याथ देवं देवीं प्रणम्य च ॥ ७.२,३०.८५
भक्त्या मनस्समाधाय पश्चात्स्तोत्रमुदीरयेत् ॥ ७.२,३०.८५
ततः स्तोत्रमुपास्यान्ते त्वष्टोत्तरशतावराम् ॥ ७.२,३०.८६
जपेत्पञ्चाक्षरीं विद्यां सहस्रोत्तरमुत्सुकः ॥ ७.२,३०.८६
विद्यापूजां गुरोः पूजां कृत्वा पश्चाद्यथाक्रमम् ॥ ७.२,३०.८७
यथोदयं यथाश्राद्धं सदस्यानपि पूजयेत् ॥ ७.२,३०.८७
ततः उद्वास्य देवेशं सर्वैरावरणैः सह ॥ ७.२,३०.८८
मण्डलं गुरवे दद्याद्यागोपकरणैस्सह ॥ ७.२,३०.८८
शिवाश्रितेभ्यो वा दद्यात्सर्वमेवानुपूर्वशः ॥ ७.२,३०.८९
अथवा तच्छिवायैव शिवक्षेत्रे समर्पयेत् ॥ ७.२,३०.८९
शिवाग्नौ वा यजेद्देवं होमद्रव्यैश्च सप्तभिः ॥ ७.२,३०.९०
समभ्यर्च्य यथान्यायं सर्वावरणदेवताः ॥ ७.२,३०.९०
एष योगेश्वरो नाम त्रिषु लोकेषु विश्रुतः ॥ ७.२,३०.९१
न तस्मादधिकः कश्चिद्यागो ऽस्ति भुवने क्वचित् ॥ ७.२,३०.९१
न तदस्ति जगत्यस्मिन्नसध्यं यदनेन तु ॥ ७.२,३०.९२
ऐहिकं वा फलं किंचिदामुष्मिकफलं तु वा ॥ ७.२,३०.९२
इदमस्य फलं नेदमिति नैव नियम्यते ॥ ७.२,३०.९३
श्रेयोरूपस्य कृत्स्नस्य तदिदं श्रेष्टसाधनम् ॥ ७.२,३०.९३
इदं न शक्यते वक्तुं पुरुषेण यदर्च्यते ॥ ७.२,३०.९४
चिंतामणेरिवैतस्मात्तत्तेन प्राप्यते फलम् ॥ ७.२,३०.९४
तथापि क्षुद्रमुद्दिश्य फलं नैतत्प्रयोजयेत् ॥ ७.२,३०.९५
लघ्वर्थी महतो यस्मात्स्वयं लघुतरो भवेत् ॥ ७.२,३०.९५
महद्वा फलमल्पं वा कृतं चेत्कर्म सिध्यति ॥ ७.२,३०.९६
महादेवं समुद्दिश्य कृतं कर्म प्रयुज्यताम् ॥ ७.२,३०.९६
तस्मादनन्यलभ्येषु शत्रुमृत्युंजयादिषु ॥ ७.२,३०.९७
फलेषु दृष्टादृष्टेषु कुर्यादेतद्विचक्षणः ॥ ७.२,३०.९७
महत्स्वपि च पातेषु महारागभयादिषु ॥ ७.२,३०.९८
दुर्भिक्षादिषु शांत्यर्थं शांतिं कुर्यादनेन तु ॥ ७.२,३०.९८
बहुना किं प्रलापेन महाव्यापन्निवारकम् ॥ ७.२,३०.९९
आत्मीयमस्त्रं शैवानामिदमाह महेश्वरः ॥ ७.२,३०.९९
तस्मादितः परं नास्ति परित्राणमिहात्मनः ॥ ७.२,३०.१००
इति मत्वा प्रयुंजानः कर्मेदं शुभमश्नुते ॥ ७.२,३०.१००
स्तोत्रमात्रं शुचिर्भूत्वा यः पठेत्सुसमाहितः ॥ ७.२,३०.१०१
सोप्यभीष्टतमादर्थादष्टांशफलमाप्नुयात् ॥ ७.२,३०.१०१
अर्थं तस्यानुसन्धाय पर्वण्यनशनः पठेत् ॥ ७.२,३०.१०२
अष्टाभ्यां वा चतुर्दश्यां फलमर्धं समाप्नुयात् ॥ ७.२,३०.१०२
यस्त्वर्थमनुसंधाय पर्वादिषु तथा व्रती ॥ ७.२,३०.१०३
मासमेकं जपेत्स्तोत्रं स कृत्स्नं फलमाप्नुयात् ॥ ७.२,३०.१०३

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शैवानां काम्यकवर्णनं नाम त्रिंशोऽध्यायः