शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः २२

विकिस्रोतः तः
Jump to navigation Jump to search

अध्याय २२
उपमन्युरुवाच
न्यासस्तु त्रिविधः प्रोक्तः स्थित्युत्पत्तिलयक्रमात् ॥
स्थितिर्न्यासो गृहस्थानामुत्पत्तिर्ब्रह्मचारिणाम् ॥ १
यतीनां संहृतिन्यासो वनस्थानां तथैव च ॥
स एव भर्तृहीनायाः कुटुंबिन्याः स्थितिर्भवेत् ॥ २
कन्यायाः पुनरुत्पत्तिं वक्ष्ये न्यासस्य लक्षणम् ॥
अंगुष्ठादिकनिष्ठांतं स्थितिन्यास उदाहृतः ॥ ३
दक्षिणांगुष्ठमारभ्य वामांगुष्ठान्तमेव च ॥
उत्पत्तिन्यास आख्यातो विपरीतस्तु संहृतिः ॥ ४
सबिंदुकान्नकारादीन्वर्णान्न्यस्येदनुक्रमात् ॥
अंगुलीषु शिवं न्यस्येत्तलयोरप्यनामयोः ॥ ५
अस्त्रन्यासं ततः कृत्वा दशदिक्ष्वस्त्रमंत्रतः ॥
निवृत्त्यादिकलाः पञ्च पञ्चभूतस्वरूपिणीः ॥ ६
पञ्चभूताधिपैस्सार्धं ततच्चिह्नसमन्विताः ॥
हृत्कण्टतालुभ्रूमध्यब्रह्मरन्ध्रसमाश्रयाः ॥ ७
तद्तद्बीजेन संग्रंथीस्तद्तद्बीजेषु भावयेत् ॥
तासां विशोधनार्थाय विद्यां पञ्चाक्षरीं जपेत् ॥ ८
निरुद्ध्वा प्राणवायुं च गुणसंख्यानुसारतः ॥
भूतग्रंथिं ततश्छिद्यादस्त्रेणैवास्त्रमुद्रया ॥ ९
नाड्या सुषुम्नयात्मानं प्रेरितं प्राणवायुना ॥
निर्गतं ब्रह्मरन्ध्रेण योजयेच्छिवतेजसा ॥ १०
विशोष्य वायुना पश्चाद्देहं कालाग्निना दहेत् ॥
ततश्चोपरिभावेन कलास्संहृत्य वायुना ॥ ११
देहं संहृत्य वै दग्धं कलास्स्पृष्ट्वा सहाब्धिना ॥
प्लावयित्वामृतैर्देहं यथास्थानं निवेशयेत् ॥ १२
अथ संहृत्य वै दग्धः कलासर्गं विनैव तु ॥
अमृतप्लावनं कुर्याद्भस्मीभूतस्य वै ततः ॥ १३
ततो विद्यामये तस्मिन्देहे दीपशिखाकृतिम् ॥
शिवान्निर्गतमात्मानं ब्रह्मरंध्रेण योजयेत् ॥ १४
देहस्यान्तः प्रविष्टं तं ध्यात्वा हृदयपंकजे ॥
पुनश्चामृतवर्षेण सिंचेद्विद्यामयं वपुः ॥ १५
ततः कुर्यात्करन्यासं करशोधनपूर्वकम् ॥
देहन्यासं ततः पश्चान्महत्या मुद्रया चरेत् ॥ १६
अंगन्यासं ततः कृत्वा शिवोक्तेन तु वर्त्मना ॥
वर्णन्यासं ततः कुर्याद्धस्तपादादिसंधिषु ॥ १७
षडंगानि ततो न्यस्य जातिषट्कयुतानि च ॥
दिग्बंधमाचरेत्पश्चादाग्नेयादि यथाक्रमम् ॥ १८
यद्वा मूर्धादिपञ्चांगं न्यासमेव समाचरेत् ॥
तथा षडंगन्यासं च भूतशुद्ध्यादिकं विना ॥ १९
एवं समासरूपेण कृत्वा देहात्मशोधनम् ॥
शिवभावमुपागम्य पूजयेत्परमेश्वरम् ॥ २०
अथ यस्यास्त्यवसरो नास्ति वा मतिविभ्रमः ॥
स विस्तीर्णेन कल्पेन न्यासकर्म समाचरेत् ॥ २१
तत्राद्यो मातृकान्यासो ब्रह्मन्यासस्ततः परः ॥
तृतीयः प्रणवन्यासो हंसन्यासस्तदुत्तरः ॥ २२
पञ्चमः कथ्यते सद्भिर्न्यासः पञ्चाक्षरात्मकः ॥
एतेष्वेकमनेकं वा कुर्यात्पूजादि कर्मसु ॥ २३
अकारं मूर्ध्नि विन्यस्य आकारं च ललाटके ॥
इं ईं च नेत्रयोस्तद्वतुं ऊं श्रवणयोस्तथा ॥ २४
ऋं ःं कपोलयोश्चैव ळं ॡं नासापुटद्वये ॥
एमेमोष्ठद्वयोरोमौं दंतपंक्तिद्वयोः क्रमात् ॥ २५
अं जिह्वायामथो तालुन्यः प्रयोज्यो यथाक्रमम् ॥
कवर्गं दक्षिणे हस्ते न्यसेत्पञ्चसु संधिषु ॥ २६
चवर्गं च तथा वामहस्तसंधिषु विन्यसेत् ॥
टवर्गं च तवर्गं च पादयोरुभयोरपि ॥ २७
पफौ तु पार्श्वयोः पृष्ठे नाभौ चापि बभौ ततः ॥
न्यसेन्मकारं हृदये त्वगादिषु यथाक्रमम् ॥ २८
यकरादिसकारांतान्न्यसेत्सप्तसु धातुषु ॥
हंकारं हृदयस्यांतः क्षकारं भ्रूयुगांतरे ॥ २९
एवं वर्णान्प्रविन्यस्य पञ्चाशद्रुद्रवर्त्मना ॥
अंगवक्त्रकलाभेदात्पञ्च ब्रह्माणि विन्यसेत् ॥ ३०
करन्यासाद्यमपि तैः कृत्वा वाथ न वा क्रमात् ॥
शिरोवदनहृद्गुह्यपादेष्वेतानि कल्पयेत् ॥ ३१
ततश्चोर्ध्वादिवक्त्राणि पश्चिमांतानि कल्पयेत् ॥
ईशानस्य कलाः पञ्च पञ्चस्वेतेषु च क्रमात् ॥ ३२
ततश्चतुर्षु वक्त्रेषु पुरुषस्य कला अपि ॥
चतस्रः प्रणिधातव्याः पूर्वादिक्रमयोगतः ॥ ३३
हृत्कंठांसेषु नाभौ च कुक्षौ पृष्ठे च वक्षसि ॥
अघोरस्य कलाश्चाष्टौ पादयोरपि हस्तयोः ॥ ३४
पश्चात्त्रयोःदशकलाः पायुमेढ्रोरुजानुषु ॥
जंघास्फिक्कटिपार्श्वेषु वामदेवस्य भावयेत् ॥ ३५
घ्राणे शिरसि बाह्वोश्च कल्पयेत्कल्पवित्तमः ॥
अष्टत्रिंशत्कलान्यासमेवं कृत्वानुपूर्वशः ॥ ३६
पश्चात्प्रणवविद्धीमान्प्रणवन्यासमाचरेत् ॥
बाहुद्वये कूर्परयोस्तथा च मणिबन्धयोः ॥ ३७
पार्श्वोदरोरुजंघेषु पादयोः पृष्ठतस्तथा ॥
इत्थं प्रणवविन्यासं कृत्वा न्यासविचक्षणः ॥ ३८
हंसन्यासं प्रकुर्वीत शिवशास्त्रे यथोदितम् ॥
बीजं विभज्य हंसस्य नेत्रयोर्घ्राणयोरपि ॥ ३९
विभज्य बाहुनेत्रास्यललाटे घ्राणयोरपि ॥
कक्षयोः स्कन्धयोश्चैव पार्श्वयोस्तनयोस्तथा ॥ ४०
कठ्योः पाण्योर्गुल्फयोश्च यद्वा पञ्चांगवर्त्मना ॥
हंसन्यासमिमं कृत्वा न्यसेत्पञ्चाक्षरीं ततः ॥ ४१
यथा पूर्वोक्तमार्गेण शिवत्वं येन जायते ॥
नाशिवः शिवमभ्यस्येन्नाशिवः शिवमर्चयेत् ॥ ४२
नाशिवस्तु शिवं ध्यायेन्नाशिवम्प्राप्नुयाच्छिवम् ॥
तस्माच्छैवीं तनुं कृत्वा त्यक्त्वा च पशुभावनाम् ॥ ४३
शिवो ऽहमिति संचिन्त्य शैवं कर्म समाचरेत् ॥
कर्मयज्ञस्तपोयज्ञो जपयज्ञस्तदुत्तरः ॥ ४४
ध्यानयज्ञो ज्ञानयज्ञः पञ्च यज्ञाः प्रकीर्तिताः ॥ ४४
कर्मयज्ञरताः केचित्तपोयज्ञरताः परे ॥
जपयज्ञरताश्चान्ये ध्यानयज्ञरतास्तथा ॥ ४५
ज्ञानयज्ञरताश्चान्ये विशिष्टाश्चोत्तरोत्तरम् ॥
क्रमयज्ञो द्विधा प्रोक्तः कामाकामविभेदतः ॥ ४६
कामान्कामी ततो भुक्त्वा कामासक्तः पुनर्भवेत् ॥
अकामे रुद्रभवने भोगान्भुक्त्वा ततश्च्युतः ॥ ४७
तपोयज्ञरतो भूत्वा जायते नात्र संशयः ॥
तपस्वी च पुनस्तस्मिन्भोगान् भुक्त्वा ततश्च्युतः ॥ ४८
जपध्यानरतो भूत्वा जायते भुवि मानवः ॥
जपध्यानरतो मर्त्यस्तद्वैशिष्ट्यवशादिह ॥ ४९
ज्ञानं लब्ध्वाचिरादेव शिवसायुज्यमाप्नुयात् ॥
तस्मान्मुक्तो शिवाज्ञप्तः कर्मयज्ञो ऽपि देहिनाम् ॥ ५०
अकामः कामसंयुक्तो बन्धायैव भविष्यति ॥
तस्मात्पञ्चसु यज्ञेषु ध्यानज्ञानपरो भवेत् ॥ ५१
ध्यानं ज्ञानं च यस्यास्ति तीर्णस्तेन भवार्णवः ॥
हिंसादिदोषनिर्मुक्तो विशुद्धश्चित्तसाधनः ॥ ५२
ध्यानयज्ञः परस्तस्मादपवर्गफलप्रदः ॥
बहिः कर्मकरा यद्वन्नातीव फलभागिनः ॥ ५३
दृष्ट्वा नरेन्द्रभवने तद्वदत्रापि कर्मिणः ॥
ध्यानिनां हि वपुः सूक्ष्मं भवेत्प्रत्यक्षमैश्वरम् ॥ ५४
यथेह कर्मणां स्थूलं मृत्काष्ठाद्यैः प्रकल्पितम् ॥
ध्यानयज्ञरतास्तस्माद्देवान्पाषाणमृण्मयान् ॥ ५५
नात्यंतं प्रतिपद्यंते शिवयाथात्म्यवेदनात् ॥
आत्मस्थं यः शिवं त्यक्त्वा बहिरभ्यर्चयेन्नरः ॥ ५६
हस्तस्थं फलमुत्सृज्य लिहेत्कूर्परमात्मनः ॥
ज्ञानाद्ध्यानं भवेद्ध्यानाज्ज्ञानं भूयः प्रवर्तते ॥ ५७
तदुभाभ्यां भवेन्मुक्तिस्तस्माद्ध्यानरतो भवेत् ॥
द्वादशान्ते तथा मूर्ध्नि ललाटे भ्रूयुगान्तरे ॥ ५८
नासाग्रे वा तथास्ये वा कन्धरे हृदये तथा ॥
नाभौ वा शाश्वतस्थाने श्रद्धाविद्धेन चेतसा ॥ ५९
बहिर्यागोपचारेण देवं देवीं च पूजयेत् ॥
अथवा पूजयेन्नित्यं लिंगे वा कृतकेपि वा ॥ ६०
वह्नौ वा स्थण्डिले वाथ भक्त्या वित्तानुसारतः ॥
अथवांतर्बहिश्चैव पूजयेत्परमेश्वरम् ॥
अंतर्यागरतः पूजां बहिः कुर्वीत वा न वा ॥ ६१

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तनित्यनैमित्तिककर्मवर्णनं नाम द्वाविंशोऽध्यायः