शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः १२

विकिस्रोतः तः

श्रीकृष्ण उवाच
महर्षिवर सर्वज्ञ सर्वज्ञानमहोदधे ॥ ७.२,१२.१
पञ्चाक्षरस्य माहात्म्यं श्रोतुमिच्छामि तत्त्वतः ॥ ७.२,१२.१
उपमन्युरुवाच
पञ्चाक्षरस्य माहात्म्यं वर्षकोटिशतैरपि ॥ ७.२,१२.२
अशक्यं विस्तराद्वक्तुं तस्मात्संक्षेपतः शृणु ॥ ७.२,१२.२
वेदे शिवागमे चायमुभयत्र षडक्षरेः ॥ ७.२,१२.३
सर्वेषां शिवभक्तानामशेषार्थसाधकः ॥ ७.२,१२.३
तदल्पाक्षरमर्थाढ्यं वेदसारं विमुक्तिदम् ॥ ७.२,१२.४
आज्ञासिद्धमसंदिग्धं वाक्यमेतच्छिवात्मकम् ॥ ७.२,१२.४
नानासिद्धियुतं दिव्यं लोकचित्तानुरंजकम् ॥ ७.२,१२.५
सुनिश्चितार्थं गंभीरं वाक्यं तत्पारमेश्वरम् ॥ ७.२,१२.५
मन्त्रं सुखमुकोच्चार्यमशेषार्थप्रसिद्धये ॥ ७.२,१२.६
प्राहोन्नमः शिवायेति सर्वज्ञस्सर्वदेहिनाम् ॥ ७.२,१२.६
तद्बीजं सर्वविद्यानां मंत्रमाद्यं षडक्षरम् ॥ ७.२,१२.७
अतिसूक्ष्मं महार्थं च ज्ञेयं तद्वटबीजवत् ॥ ७.२,१२.७
देवो गुणत्रयातीतः सर्वज्ञः सर्वकृत्प्रभुः ॥ ७.२,१२.८
ओमित्येकाक्षरे मन्त्रे स्थितः सर्वगतः शिवः ॥ ७.२,१२.८
इशानाद्यानि सूक्ष्माणि ब्रह्माण्येकाक्षराणि तु ॥ ७.२,१२.९
मंत्रे नमश्शिवायेति संस्थितानि यथाक्रमम् ॥ ७.२,१२.९
मंत्रे षडक्षरे सूक्ष्मे पञ्चब्रह्मतनुः शिवः ॥ ७.२,१२.९
वाच्यवाचकभावेन स्थितः साक्षात्स्वभावतः ॥ ७.२,१२.१०
वाच्यश्शिवोप्रमेयत्वान्मंत्रस्तद्वाचकस्स्मृतः ॥ ७.२,१२.१०
वाच्यवाचकभावो ऽयमनादिसंस्थितस्तयोः ॥ ७.२,१२.११
यथा ऽनादिप्रवृत्तोयं घोरसंसारसागरः ॥ ७.२,१२.११
शिवो ऽपि हि तथानादिसंसारान्मोचकः स्थितः ॥ ७.२,१२.१२
व्याधीनां भेषजं यद्वत्प्रतिपक्षः स्वभावतः ॥ ७.२,१२.१२
तद्वत्संसारदोषाणां प्रतिपक्षः शिवस्स्मृतः ॥ ७.२,१२.१३
असत्यस्मिन् जगन्नाथे तमोभूतमिदं भवेत् ॥ ७.२,१२.१३
अचेतनत्वात्प्रकृतेरज्ञत्वात्पुरषस्य च ॥ ७.२,१२.१४
प्रधानपरमाण्वादि यावत्किंचिदचेतनम् ॥ ७.२,१२.१४
न तत्कर्तृ स्वयं दृष्टं बुद्धिमत्कारणं विना ॥ ७.२,१२.१५
धर्माधर्मोपदेशश्च बंधमोक्षौ विचारणात् ॥ ७.२,१२.१५
न सर्वज्ञं विना पुंसामादिसर्गः प्रसिद्ध्यति ॥ ७.२,१२.१६
वैद्यं विना निरानंदाः क्लिश्यंते रोगिणो यथा ॥ ७.२,१२.१६
तस्मादनादिः सर्वज्ञः परिपूर्णस्सदाशिवः ॥ ७.२,१२.१७
अस्ति नाथः परित्राता पुंसां संसारसागरात् ॥ ७.२,१२.१७
आदिमध्यांतनिर्मुक्तस्स्वभावविमलः प्रभुः ॥ ७.२,१२.१८
सर्वज्ञः परिपूर्णश्च शिवो ज्ञेयश्शिवागमे ॥ ७.२,१२.१८
तस्याभिधानमन्त्रो ऽयमभिधेयश्च स स्मृतः ॥ ७.२,१२.१९
अभिधानाभिधेयत्वान्मंत्रस्सिद्धः परश्शिवः ॥ ७.२,१२.१९
एतावत्तु शिवज्ञानमेतावत्परमं पदम् ॥ ७.२,१२.२०
यदोंनमश्शिवायेति शिववाक्यं षडक्षरम् ॥ ७.२,१२.२०
विधिवाक्यमिदं शैवं नार्थवादं शिवात्मकम् ॥ ७.२,१२.२१
यस्सर्वज्ञस्सुसंपूर्णः स्वभावविमलः शिवः ॥ ७.२,१२.२१
लोकानुग्रहकर्ता च स मृषार्थं कथं वदेत् ॥ ७.२,१२.२२
यद्यथावस्थितं वस्तु गुणदोषैः स्वभावतः ॥ ७.२,१२.२२
यावत्फलं च तत्पूर्णं सर्वज्ञस्तु यथा वदेत् ॥ ७.२,१२.२३
रागाज्ञानादिभिर्दोषैर्ग्रस्तत्वादनृतं वदेत् ॥ ७.२,१२.२३
ते चेश्वरे न विद्येते ब्रूयात्स कथमन्यथा ॥ ७.२,१२.२४
अज्ञाताशेषदोषेण सर्वज्ञेय शिवेन यत् ॥ ७.२,१२.२४
प्रणीतममलं वाक्यं तत्प्रमाणं न संशयः ॥ ७.२,१२.२४
तस्मादीश्वरवाक्यानि श्रद्धेयानि विपश्चिता ॥ ७.२,१२.२५
यथार्थपुण्यपापेषु तदश्रद्धो व्रजत्यधः ॥ ७.२,१२.२५
स्वर्गापवर्गसिद्ध्यर्थं भाषितं यत्सुशोभनम् ॥ ७.२,१२.२६
वाक्यं मुनिवरैः शांतैस्तद्विज्ञेयं सुभाषितम् ॥ ७.२,१२.२६
रागद्वेषानृतक्रोधकामतृष्णानुसारि यत् ॥ ७.२,१२.२७
वाक्यं निरयहेतुत्वात्तद्दुर्भाषितमुच्यते ॥ ७.२,१२.२७
संस्कृतेनापि किं तेन मृदुना ललितेन वा ॥ ७.२,१२.२८
अविद्यारागवाक्येन संसारक्लेशहेतुना ॥ ७.२,१२.२८
यच्छ्रुत्वा जायते श्रेयो रागादीनां च संशयः ॥ ७.२,१२.२९
विरूपमपि तद्वाक्यं विज्ञेयमिति शोभनम् ॥ ७.२,१२.२९
बहुत्वेपि हि मंत्राणां सर्वज्ञेन शिवेन यः ॥ ७.२,१२.३०
प्रणीतो विमलो मन्त्रो न तेन सदृशः क्वचित् ॥ ७.२,१२.३०
सांगानि वेदशास्त्राणि संस्थितानि षडक्षरे ॥ ७.२,१२.३१
न तेन सदृशस्तस्मान्मन्त्रो ऽप्यस्त्यपरः क्वचित् ॥ ७.२,१२.३१
सप्तकोटिमहामन्त्रैरुपमन्त्रैरनेकधा ॥ ७.२,१२.३२
मन्त्रः षडक्षरो भिन्नस्सूत्रं वृत्यात्मना यथा ॥ ७.२,१२.३२
शिवज्ञानानि यावंति विद्यास्थानापि यानि च ॥ ७.२,१२.३३
षडक्षरस्य सूत्रस्य तानि भाष्यं समासतः ॥ ७.२,१२.३३
किं तस्य बहुभिर्मंत्रैश्शास्त्रैर्वा बहुविस्तरैः ॥ ७.२,१२.३४
यस्योन्नमः शिवायेति मन्त्रो ऽयं हृदि संस्थितः ॥ ७.२,१२.३४
तेनाधीतं श्रुतं तेन कृतं सर्वमनुष्ठितम् ॥ ७.२,१२.३५
येनोन्नमश्शिवायेति मंत्राभ्यासः स्थिरीकृतः ॥ ७.२,१२.३५
नमस्कारादिसंयुक्तं शिवायेत्यक्षरत्रयम् ॥ ७.२,१२.३६
जिह्वाग्रे वर्तते यस्य सफलं तस्य जीवितम् ॥ ७.२,१२.३६
अंत्यजो वाधमो वापि मूर्खो वा पंडितो ऽपि वा ॥ ७.२,१२.३७
पञ्चाक्षरजपे निष्ठो मुच्यते पापपंजरात् ॥ ७.२,१२.३७
इत्युक्तं परमेशेन देव्या पृष्टेन शूलिना ॥ ७.२,१२.३८
हिताय सर्वमर्त्यानां द्विजानां तु विशेषतः ॥ ७.२,१२.३८

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पञ्चाक्षरमाहात्म्यवर्णनं नाम द्वादशो ऽध्यायः