शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः ११

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

ईश्वर उवाच
अथ वक्ष्यामि देवेशि भक्तानामधिकारिणाम् ॥ ७.२,११.१
विदुषां द्विजमुख्यानां वर्णधर्मसमासतः ॥ ७.२,११.१
त्रिः स्नानं चाग्निकार्यं च लिंगार्चनमनुक्रमम् ॥ ७.२,११.२
दानमीश्ररभावश्च दया सर्वत्र सर्वदा ॥ ७.२,११.२
सत्यं संतोषमास्तिक्यमहिंसा सर्वजंतुषु ॥ ७.२,११.३
ह्रीश्रद्धाध्ययनं योगस्सदाध्यापनमेव च ॥ ७.२,११.३
व्याख्यानं ब्रह्मचर्यं च श्रवणं च तपः क्षमा ॥ ७.२,११.४
शौचं शिखोपवीतं च उष्णीषं चोत्तरीयकम् ॥ ७.२,११.४
निषिद्धासेवनं चैव भस्मरुद्राक्षधारणम् ॥ ७.२,११.५
पर्वण्यभ्यर्चनं देवि चतुर्दश्यां विशेषतः ॥ ७.२,११.५
पानं च ब्रह्मकूर्चस्य मासि मासि यथाविधि ॥ ७.२,११.६
अभ्यर्चनं विशेषेण तेनैव स्नाप्य मां प्रिये ॥ ७.२,११.६
सर्वक्रियान्न सन्त्यागः श्रद्धान्नस्य च वर्जनम् ॥ ७.२,११.७
तथा पर्युषितान्नस्य यावकस्य विशेषतः ॥ ७.२,११.७
मद्यस्य मद्यगन्धस्य नैवेद्यस्य च वर्जनम् ॥ ७.२,११.८
सामान्यं सर्ववर्णानां ब्राह्मणानां विशेषतः ॥ ७.२,११.८
क्षमा शांतिश्च सन्तोषस्सत्यमस्तेयमेव च ॥ ७.२,११.९
ब्रह्मचर्यं मम ज्ञानं वैराग्यं भस्मसेवनम् ॥ ७.२,११.९
सर्वसंगनिवृत्तिश्च दशैतानि विशेषतः ॥ ७.२,११.१०
लिंगानि योगिनां भूयो दिवा भिक्षाशनं तथा ॥ ७.२,११.१०
वानप्रस्थाश्रमस्थानां समानमिदमिष्यते ॥ ७.२,११.११
रात्रौ न भोजनं कार्यं सर्वेषां ब्रह्मचारिणाम् ॥ ७.२,११.११
अध्यापनं याजनं च क्षत्रियस्याप्रतिग्रहः ॥ ७.२,११.१२
वैश्यस्य च विशेषेण मया नात्र विधीयते ॥ ७.२,११.१२
रक्षणं सर्ववर्णानां युद्धे शत्रुवधस्तथा ॥ ७.२,११.१३
दुष्टपक्षिमृगाणां च दुष्टानां शातनं नृणाम् ॥ ७.२,११.१३
अविश्वासश्च सर्वत्र विश्वासो मम योगिषु ॥ ७.२,११.१४
स्त्रीसंसर्गश्च कालेषु चमूरक्षणमेव च ॥ ७.२,११.१४
सदा संचारितैश्चारैर्लोकवृत्तांतवेदनम् ॥ ७.२,११.१५
सदास्त्रधारणं चैव भस्मकंचुकधारणम् ॥ ७.२,११.१५
राज्ञां ममाश्रमस्थानामेष धर्मस्य संग्रहः ॥ ७.२,११.१६
गोरक्षणं च वाणिज्यं कृषिर्वैश्यस्य कथ्यते ॥ ७.२,११.१६
शुश्रूषेतरवर्णानां धर्मः शूद्रस्य कथ्यते ॥ ७.२,११.१७
उद्यानकरणं चैव मम क्षेत्रसमाश्रयः ॥ ७.२,११.१७
धर्मपत्न्यास्तु गमनं गृहस्थस्य विधीयते ॥ ७.२,११.१८
ब्रह्मचर्यं वनस्थानां यतीनां ब्रह्मचारिणाम् ॥ ७.२,११.१८
स्त्रीणां तु भर्तृशुश्रूषा धर्मो नान्यस्सनातनः ॥ ७.२,११.१९
ममार्चनं च कल्याणि नियोगो भर्तुरस्ति चेत् ॥ ७.२,११.१९
या नारी भर्तृशुश्रूषां विहाय व्रततत्परा ॥ ७.२,११.२०
सा नारी नरकं याति नात्र कार्या विचारणा ॥ ७.२,११.२०
अथ भर्तृविहीनाया वक्ष्ये धर्मं सनातनम् ॥ ७.२,११.२१
व्रतं दानं तपः शौचं भूशय्यानक्तभोजनम् ॥ ७.२,११.२१
ब्रह्मचर्यं सदा स्नानं भस्मना सलिलेन वा ॥ ७.२,११.२२
शांतिर्मौनं क्षमा नित्यं संविभागो यथाविधि ॥ ७.२,११.२२
अष्टाभ्यां च चतुर्दश्यां पौर्णमास्यां विशेषतः ॥ ७.२,११.२३
एकादश्यां च विधिवदुपवासोममार्चनम् ॥ ७.२,११.२३
इति संक्षेपतः प्रोक्तो मयाश्रमनिषेविणाम् ॥ ७.२,११.२४
ब्रह्मक्षत्रविशां देवि यतीनां ब्रह्मचारिणाम् ॥ ७.२,११.२४
तथैव वानप्रस्थानां गृहस्थानां च सुन्दरि ॥ ७.२,११.२५
शूद्राणामथ नारीणां धर्म एष सनातनः ॥ ७.२,११.२५
ध्येयस्त्वयाहं देवेशि सदा जाप्यः षडक्षरः ॥ ७.२,११.२६
वेदोक्तमखिलं धर्ममिति धर्मार्थसंग्रहः ॥ ७.२,११.२६
अथ ये मानवा लोके स्वेच्छया धृतविग्रहाः ॥ ७.२,११.२७
भावातिशयसंपन्नाः पूर्वसंस्कारसंयुताः ॥ ७.२,११.२७
विरक्ता वानुरक्ता वा स्त्र्यादीनां विषयेष्वपि ॥ ७.२,११.२८
पापैर्न ते विलिंपंते १ पद्मपत्रमिवांभसा ॥ ७.२,११.२८
तेषां ममात्मविज्ञानं विशुद्धानां विवेकिनाम् ॥ ७.२,११.२९
मत्प्रसादाद्विशुद्धानां दुःखमाश्रमरक्षणात् ॥ ७.२,११.२९
नास्ति कृत्यमकृत्यं च समाधिर्वा परायणम् ॥ ७.२,११.३०
न विधिर्न निषेधश्च तेषां मम यथा तथा ॥ ७.२,११.३०
तथेह परिपूर्णस्य साध्यं मम न विद्यते ॥ ७.२,११.३१
तथैव कृतकृत्यानां तेषामपि न संशयः ॥ ७.२,११.३१
मद्भक्तानां हितार्थाय मानुषं भावमाश्रिताः ॥ ७.२,११.३२
रुद्रलोकात्परिभ्रष्टास्ते रुद्रा नात्र संशयः ॥ ७.२,११.३२
ममानुशासनं यद्वद्ब्रह्मादीनां प्रवर्तकम् ॥ ७.२,११.३३
तथा नराणामन्येषां तन्नियोगः प्रवर्तकः ॥ ७.२,११.३३
ममाज्ञाधारभावेन सद्भावातिशयेन च ॥ ७.२,११.३४
तदालोकनमात्रेण सर्वपापक्षयो भवेत् ॥ ७.२,११.३४
प्रत्ययाश्च प्रवर्तंते प्रशस्तफलसूचकाः ॥ ७.२,११.३५
मयि भाववतां पुंसां प्रागदृष्टार्थगोचराः ॥ ७.२,११.३५
कंपस्वेदो ऽश्रुपातश्च कण्ठे च स्वरविक्रिया ॥ ७.२,११.३६
आनंदाद्युपलब्धिश्च भवेदाकस्मिकी मुहुः ॥ ७.२,११.३६
स तैर्व्यस्तैस्समस्तैर्वा लिंगैरव्यभिचारिभिः ॥ ७.२,११.३७
मंदमध्योत्तमैर्भावैर्विज्ञेयास्ते नरोत्तमाः ॥ ७.२,११.३७
यथायोग्निसमावेशान्नायो भवति केवलम् ॥ ७.२,११.३८
स तथैव मम सान्निध्यान्न ते केवलमानुषाः ॥ ७.२,११.३८
हस्तपादादिसाधर्म्याद्रुद्रान्मर्त्यवपुर्धरान् ॥ ७.२,११.३९
प्राकृतानिव मन्वानो नावजानीत पंडितः ॥ ७.२,११.३९
अवज्ञानं कृतं तेषु नरैर्व्यामूढचेतनैः ॥ ७.२,११.४०
आयुः श्रियं कुलं शीलं हित्वा निरयमावहेत् ॥ ७.२,११.४०
ब्रह्मविष्णुसुरेशानामपि तूलायते पदम् ॥ ७.२,११.४१
मत्तोन्यदनपेक्षाणामुद्धृतानां महात्मनाम् ॥ ७.२,११.४१
अशुद्धं बौद्धमैश्वर्यं प्राकृतं पौरुषं तथा ॥ ७.२,११.४२
गुणेशानामतस्त्याज्यं गुणातीतपदैषिणाम् ॥ ७.२,११.४२
अथ किं बहुनोक्तेन श्रेयः प्राप्त्यैकसाधनम् ॥ ७.२,११.४३
मयि चित्तसमासंगो येन केनापि हेतुना ॥ ७.२,११.४३
उपमन्युरुवाच
इत्थं श्रीकण्ठनाथेन शिवेन परमात्मना ॥ ७.२,११.४४
हिताय जगतामुक्तो ज्ञानसारार्थसंग्रहः ॥ ७.२,११.४४
विज्ञानसंग्रहस्यास्य वेदशास्त्राणि कृत्स्नशः ॥ ७.२,११.४५
सेतिहासपुराणानि विद्या व्याख्यानविस्तरः ॥ ७.२,११.४५
ज्ञानं ज्ञेयमनुष्ठेयमधिकारो ऽथ साधनम् ॥ ७.२,११.४६
साध्यं चेति षडर्थानां संग्रहत्वेष संग्रहः ॥ ७.२,११.४६
गुरोरधिकृतं ज्ञानं ज्ञेयं पाशः पशुः पतिः ॥ ७.२,११.४७
लिंगार्चनाद्यनुष्ठेयं भक्तस्त्वधिकृतो ऽपि यः ॥ ७.२,११.४७
साधनं शिवमंत्राद्यं साध्यं शिवसमानता ॥ ७.२,११.४८
षडर्थसंग्रहस्यास्य ज्ञानात्सर्वज्ञतोच्यते ॥ ७.२,११.४८
प्रथमं कर्म यज्ञादेर्भक्त्या वित्तानुसारतः ॥ ७.२,११.४९
बाह्येभ्यर्च्य शिवं पश्चादंतर्यागरतो भवेत् ॥ ७.२,११.४९
रतिरभ्यंतरे यस्य न बाह्ये पुण्यगौरवात् ॥ ७.२,११.५०
न कर्म करणीयं हि बहिस्तस्य महात्मनाः ॥ ७.२,११.५०
ज्ञानामृतेन तृप्तस्य भक्त्या शैवशिवात्मनः ॥ ७.२,११.५१
नांतर्न च बहिः कृष्ण कृत्यमस्ति कदाचन ॥ ७.२,११.५१
तस्मात्क्रमेण संत्यज्य बाह्यमाभ्यंतरं तथा ॥ ७.२,११.५२
ज्ञानेन ज्ञेयमालोक्याज्ञानं चापि परित्यजेत् ॥ ७.२,११.५२
नैकाग्रं चेच्छिवे चित्तं किं कृतेनापि कर्मणा ॥ ७.२,११.५३
एकाग्रमेव चेच्चित्तं किं कृतेनापि कर्मणा ॥ ७.२,११.५३
तस्मात्कर्माण्यकृत्वा वा कृत्वा वांतर्बहिःक्रमात् ॥ ७.२,११.५४
येन केनाप्युपायेन शिवे चित्तं निवेशयेत् ॥ ७.२,११.५४
शिवे निविष्टचित्तानां प्रतिष्ठितधियां सताम् ॥ ७.२,११.५५
परत्रेह च सर्वत्र निर्वृतिः परमा भवेत् ॥ ७.२,११.५५
इहोन्नमः शिवायेति मंत्रेणानेन सिद्धयः ॥ ७.२,११.५६
स तस्मादधिगंतव्यः परावरविभूतये ॥ ७.२,११.५६

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे शिवज्ञानवर्णनं नामैकादशो ऽध्यायः