सामग्री पर जाएँ

शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः ०३

विकिस्रोतः तः

उपमन्युरुवाच
शृणु कृष्ण महेशस्य शिवस्य परमात्मनः ॥
मूर्त्यात्मभिस्ततं कृत्स्नं जगदेतच्चराचरम् ॥ १
स शिवस्सर्वमेवेदं स्वकीयाभिश्च मूर्तिभिः ॥
अधितिष्ठत्यमेयात्मा ह्येतत्सर्वमनुस्मृतम् ॥ २
ब्रह्मा विष्णुस्तथा रुद्रो महेशानस्सदाशिवः ॥
मूर्तयस्तस्य विज्ञेया याभिर्विश्वमिदं ततम् ॥ ३
अथान्याश्चापि तनवः पञ्च ब्रह्मसमाह्वयाः ॥
तनूभिस्ताभिराव्याप्तमिह किंचिन्न विद्यते ॥ ४
ईशानः पुरुषो ऽघोरो वामः सद्यस्तथैव च ॥
ब्रह्माण्येतानि देवस्य मूर्तयः पञ्च विश्रुताः ॥ ५
ईशानाख्या तु या तस्य मूर्तिराद्या गरीयसी ॥
भोक्तारं प्रकृतेः साक्षात्क्षेत्रज्ञमधितिष्ठति ॥ ६
स्थाणोस्तत्पुरुषाख्या या मूर्तिर्मूर्तिमतः प्रभोः ॥
गुणाश्रयात्मकं भोग्यमव्यक्तमधितिष्ठति ॥ ७
धर्माद्यष्टांगसंयुक्तं बुद्धितत्त्वं पिनाकिनः ॥
अधितिष्ठत्यघोराख्या मूर्तिरत्यंतपूजिता ॥ ८
वामदेवाह्वयां मूर्तिं महादेवस्य वेधसः ॥
अहंकृतेरधिष्ठात्रीमाहुरागमवेदिनः ॥ ९
सद्यो जाताह्वयां मूर्तिं शम्भोरमितवर्चसः ॥
मानसः समधिष्ठात्रीं मतिमंतः प्रचक्षते ॥ १०
श्रोत्रस्य वाचः शब्दस्य विभोर्व्योम्नस्तथैव च ॥
ईश्वरीमीश्वरस्येमामीशाख्यां हि विदुर्बुधाः ॥ ११
त्वक्पाणिस्पर्शवायूनामीश्वरीं मूर्तिमैश्वरीम् ॥
पुरुषाख्यं विदुस्सर्वे पुराणार्थविशारदाः ॥ १२
चक्षुषश्चरणस्यापि रूपस्याग्नेस्तथैव च ॥
अघोराख्यामधिष्ठात्रीं मूर्तिमाहुर्मनीषिणः ॥ १३
रसनायाश्च पायोश्च रसस्यापां तथैव च ॥
ईश्वरीं वामदेवाख्यां मूर्तिं तन्निरतां विदुः ॥ १४
घ्राणस्य चैवोपस्थस्य गंधस्य च भुवस्तथा ॥
सद्यो जाताह्वयां मूर्तिमीश्वरीं संप्रचक्षते ॥ १५
मूर्तयः पञ्च देवस्य वंदनीयाः प्रयत्नतः ॥
श्रेयोर्थिभिर्नरैर्नित्यं श्रेयसामेकहेतवः ॥ १६
तस्य देवादिदेवस्य मूर्त्यष्टकमयं जगत् ॥
तस्मिन्व्याप्य स्थितं विश्वं सूत्रे मणिगणा इव ॥ १७
शर्वो भवस्तथा रुद्र उग्रो भीमः पशोः पतिः १ ॥
ईशानश्च महादेवो मूर्तयश्चाष्ट विश्रुताः ॥ १८
भूम्यंभोग्निमरुद्व्योमक्षेत्रज्ञार्कनिशाकराः ॥
अधिष्ठिता महेशस्य शर्वाद्यैरष्टमूर्तिभिः ॥ १९
चराचरात्मकं विश्वं धत्ते विश्वंभरात्मिका ॥
शार्वीर्शिवाह्वया मूर्तिरिति शास्त्रस्य निश्चयः ॥ २०
संजीवनं समस्तस्य जगतस्सलिलात्मिका ॥
भावीति गीयते मूर्तिभवस्य परमात्मनः ॥ २१
बहिरंतर्गता विश्वं व्याप्य तेजोमयी शुभा ॥
रौद्री रुद्राव्यया मूर्तिरास्थिता घोररूपिणी ॥ २२
स्पंदयत्यनिलात्मदं बिभर्ति स्पंदते स्वयम् ॥
औग्रीति कथ्यते सद्भिर्मूर्तिरुग्रस्य वेधसः ॥ २३
सर्वावकाशदा सर्वव्यापिका गगनात्मिका ॥
मूर्तिर्भीमस्य भीमाख्या भूतवृंदस्य भेदिका ॥ २४
सर्वात्मनामधिष्ठात्री सर्वक्षेत्रनिवासिनी ॥
मूर्तिः पशुपतेर्ज्ञेया पशुपाशनिकृंतनी ॥ २५
दीपयंती जगत्सर्वं दिवाकरसमाह्वया ॥
ईशानाख्यमहेशस्य मूर्तिर्दिवि विसर्पति ॥ २६
आप्याययति यो विश्वममृतांशुर्निशाकरः ॥
महादेवस्य सा मूर्तिर्महादेवसमाह्वया ॥ २७
आत्मा तस्याष्टमी मूर्तिः शिवस्य परमात्मनः ॥
व्यापिकेतरमूर्तीनां विश्वं तस्माच्छिवात्मकम् ॥ २८
वृक्षस्य मूलसेकेन शाखाः पुष्यंति वै यथा ॥
शिवस्य पूजया तद्वत्पुष्यत्यस्य वपुर्जगत् ॥ २९
सर्वाभयप्रदानं च सर्वानुग्रहणं तथा ॥
सर्वोपकारकरणं शिवस्याराधनं विदुः ॥ ३०
यथेह पुत्रपौत्रादेः प्रीत्या प्रीतो भवेत्पिता ॥
तथा सर्वस्य संप्रीत्या प्रीतो भवति शंकरः ॥ ३१
देहिनो यस्य कस्यापि क्रियते यदि निग्रहः ॥
अनिष्टमष्टमूर्तेस्तत्कृतमेव न संशयः ॥ ३२
अष्टमूर्त्यात्मना विश्वमधिष्ठाय स्थितं शिवम् ॥
भजस्व सर्वभावेन रुद्रः परमकारणम् ॥ ३३

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे तृतीयो ऽध्यायः