सामग्री पर जाएँ

शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः ०१

विकिस्रोतः तः

ओं
नमस्समस्तसंसारचक्रभ्रमणहेतवे ॥ ७.२,१.१
गौरीकुचतटद्वन्द्वकुंकुमांकितवक्षसे ॥ ७.२,१.१
सूत उवाच
उक्त्वा भगवतो लब्धप्रसादादुपमन्युना ॥ ७.२,१.२
नियमादुत्थितो वायुर्मध्ये प्राप्ते दिवाकरे ॥ ७.२,१.२
ऋषयश्चापि ते सर्वे नैमिषारण्यवासिनः ॥ ७.२,१.३
अथायमर्थः प्रष्टव्य इति कृत्वा विनिश्चयम् ॥ ७.२,१.३
कृत्वा यथा स्वकं कृत्यं प्रत्यहं ते यथा पुरा ॥ ७.२,१.४
भगवंतमुपायांतं समीक्ष्य समुपाविशन् ॥ ७.२,१.४
अथासौ नियमस्यांते भगवानम्बरोद्भवः ॥ ७.२,१.५
मध्ये मुनिसभायास्तु भेजे कॢप्तं वरासनम् ॥ ७.२,१.५
सुखासनोपविष्टश्च वायुर्लोकनमस्कृतः ॥ ७.२,१.६
श्रीमद्विभूतिमीशस्य हृदि कृत्वेदमब्रवीत् ॥ ७.२,१.६
तं प्रपद्ये महादेवं सर्वज्ञमपराजितम् ॥ ७.२,१.७
विभूतिस्सकलं यस्य चराचरमिदं जगत् ॥ ७.२,१.७
इत्याकर्ण्य शुभां वाणीमृषयः क्षीणकल्मषाः ॥ ७.२,१.८
विभूतिविस्तरं श्रोतुमूचुस्ते परमं वचः ॥ ७.२,१.८
ऋषय ऊचुः
उक्तं भगवता वृत्तमुपमन्योर्महात्मनः ॥ ७.२,१.९
क्षीरार्थेनापि तपसा यत्प्राप्तं परमेश्वरात् ॥ ७.२,१.९
दृष्टो ऽसौ वासुदेवेन कृष्णेनाक्लिष्टकर्मणा ॥ ७.२,१.१०
धौम्याग्रजस्ततस्तेन कृत्वा पाशुपतं व्रतम् ॥ ७.२,१.१०
प्राप्तं च परमं ज्ञानमिति प्रागेव शुश्रुम ॥ ७.२,१.११
कथं स लब्धवान् कृष्णो ज्ञानं पाशुपतं परम् ॥ ७.२,१.११
वायुरुवाच
स्वेच्छया ह्यवतीर्णोपि वासुदेवस्सनातनः ॥ ७.२,१.१२
निंदयन्निव मानुष्यं देहशुद्धिं चकार सः ॥ ७.२,१.१२
पुत्रार्थं हि तपस्तप्तुं गतस्तस्य महामुनेः ॥ ७.२,१.१३
आश्रमं मुनिभिर्दृष्टं दृष्टवांस्तत्र वै मुनिम् ॥ ७.२,१.१३
भस्मावदातसर्वांगं त्रिपुंड्रांकितमस्तकम् ॥ ७.२,१.१४
रुद्राक्षमालाभरणं जटामंडलमंडितम् ॥ ७.२,१.१४
तच्छिष्यभूतैर्मुनिभिश्शास्त्रैर्वेदमिवावृतम् ॥ ७.२,१.१५
शिवध्यानरतं शांतमुपमन्युं महाद्युतिम् ॥ ७.२,१.१५
नमश्चकार तं दृष्ट्वा हृष्टसर्वतनूरुहः ॥ ७.२,१.१६
बहुमानेन कृष्णो ऽसौ त्रिः कृत्वा तु प्रदक्षिणाम् ॥ ७.२,१.१६
स्तुतिं चकार सुप्रीत्या नतस्कंधः कृताञ्जलिः ॥ ७.२,१.१६
तस्यावलोकनादेव मुनेः कृष्णस्य धीमतः ॥ ७.२,१.१७
नष्टमासीन्मलं सर्वं मायाजं कार्ममेव च ॥ ७.२,१.१७
तपःक्षीणमलं कृष्णमुपमन्युर्यथाविधिः ॥ ७.२,१.१८
भस्मनोद्धूल्य तं मन्त्रैरग्निरित्यादिभिः क्रमात् ॥ ७.२,१.१८
अथ पाशुपतं साक्षाद्व्रतं द्वादशमासिकम् ॥ ७.२,१.१९
कारयित्वा मुनिस्तस्मै प्रददौ ज्ञानमुत्तमम् ॥ ७.२,१.१९
तदाप्रभृति तं कृष्णं मुनयश्शंसितव्रताः ॥ ७.२,१.२०
दिव्याः पाशुपताः सर्वे परिवृत्योपतस्थिरे ॥ ७.२,१.२०
ततो गुरुनियोगाद्वै कृष्णः परमशक्तिमान् ॥ ७.२,१.२१
तपश्चकार पुत्रार्थं सांबमुद्दिश्य शंकरम् ॥ ७.२,१.२१
तपसो तेन वर्षांते दृष्टो ऽसौ परमेश्वरः ॥ ७.२,१.२२
श्रिया परमया युक्तस्सांबश्च सगणश्शिवः ॥ ७.२,१.२२
वरार्थमाविर्भूतस्य हरस्य सुभगाकृतेः ॥ ७.२,१.२३
स्तुतिं चकार नत्वासौ कृष्णः सम्यक्कृतांजलिः ॥ ७.२,१.२३
सांबं समगणव्यग्रो लब्धवान्पुत्रमात्मनः ॥ ७.२,१.२४
तपसा तुष्टचित्तेन दत्तं विष्णोश्शिवेन वै ॥ ७.२,१.२४
यस्मात्सांबो महादेवः प्रददौ पुत्रमात्मनः ॥ ७.२,१.२५
तस्माज्जांबवतीसूनुं सांबं चक्रे स नामतः ॥ ७.२,१.२५
तदेतत्कथितं सर्वं कृष्णस्यामितकर्मणः ॥ ७.२,१.२६
महर्षेर्ज्ञानलाभश्च पुत्रलाभश्च शंकरात् ॥ ७.२,१.२६
य इदं कीर्तयेन्नित्यं शृणुयाच्छ्रावयेत्तथा ॥ ७.२,१.२७
स विष्णोर्ज्ञानमासाद्य तेनैव सह मोदते ॥ ७.२,१.२७

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे कृष्णपुत्रप्राप्तिवर्णनं नम प्रथमो ऽध्यायः