शिवपुराणम्/संहिता ६ (कैलाससंहिता)/विषयानुक्रमणिका

विकिस्रोतः तः

अथ षष्ठी कैलासंहिता।।६।।

१ कैलाससंहिताप्रवृत्तिहेतुकथनोत्तरं काशीक्षेत्रे मुनिनाव्यासं प्रति प्रणवार्थजिज्ञासाऽवर्णि ।

२ एकदा हिमशैलस्थितो हरः मंत्रदीक्षाप्रदानान्मां कृतार्था कुर्विति प्रार्थयमानामुमां कैलासे तथा करिष्यामीत्युक्त्या गत्वा तत्र पार्वतीं मंत्रदीक्षितां कृत्वा तथा नंदनवने जगाम तत्र दिव्य पुष्पभूषितपार्वत्या: सांगोपांगसरहस्योंकारविषयकानेकप्रश्नकरणम् ।

३ ओंकारस्वरूपकथनानन्तरमोंमंत्रदीक्षाग्रहणे विरजाहोमादिविधिकथनम् ।

४ दीक्षासंपन्नस्य पूजास्थानमनपर्यंतमाह्निकाचारवर्णनम् ।

५ पूजास्थाने मंडलविरचनप्रकारकथनम् ।

६ आसनप्राणायामविधानविवरणम् ।

७ ध्यानावाहनार्घ्याचमनादिविधानपूर्वकशिवपूजावर्णनम् ।

८ शिवस्य पञ्चावरणपूजावर्णनम्

९ सार्थशिवनामाष्टककथनम् । पूजोत्तरं प्रणवोपदेशग्रहणविधानोक्तिः ततो लिंगपूजाविधि कथनम् । उक्तरीत्या प्रणवग्रहणप्रकारश्रवणाद्देव्या: संतोषवर्णनम्, तस्य सूततस्तीर्थयात्रागमनम् ।

१० सूतविरहाज्जातदुःखानां काशीस्थर्षीणां सूतस्य पुनर्दर्शनोत्कंठावर्णनम् संवत्सरांते पुनश्च सूतस्यागमनवर्णनम् ।

११ मुनीनां पूर्वसूचितवामदेवोक्तोकारार्थ प्रकाशविषयकप्रश्नः वामदेवप्रोक्तस्कंदस्तोत्रम्, ततस्कंदाद्वामदेवस्य प्रणवार्थप्राप्त्यादिवर्णनम् ।

१२ ओंकारार्थकथनप्रसंगान्नान्दीश्राद्धब्रह्मयज्ञादिविधिवर्णनं, प्रणवार्थश्च साक्षात्सदाशिव इत्यादि कथनं च ।

१३ प्रणवजपाधिकारार्थ विरजाहोमप्रकारकथनं रात्रौ गायत्रीजपविधानोत्तरं संन्यासविधानादिवर्णनम् ।

१४ ओंकारस्य षट्प्रकारकथनपूर्वकस्वरूपवर्णनम्।

१५ उपासनार्थं शिवात्सृष्टेरुत्पत्तिवर्णनंसगुणशिवस्वरूपवर्णनं, सृष्ट्युपक्रमोपसंहार प्रकारकथनं च

१६ ब्रह्मादिस्थांवरान्तसृष्टेः कारणं शिवो वा शक्तिर्वेति वामदेवप्रश्नस्योत्तरत्वेनों कार एव सावारणकारणमित्यभिप्रायादिप्रकाशवर्णनम्

१७ शिवशक्त्योः स्वरूपवर्णनावसरे शिवस्योपरित्व प्रकृतेश्चाधस्थत्वं यदुक्तं महात्मना तद्विरुद्धेयमुक्तिरिति वामदेवस्य संशयपरिहाराय शिवाद्वैतज्ञानोपदेशाय च स्कंदकृततत्त्वसृष्टिकथनम् ।

१८ यतीनां गुरुत्वकारणवर्णनम्, संन्यासपद्धत्या शिष्यकरणविधिवर्णनम् ।

१९ तत्प्रसंगान्महावाक्यान्युक्त्वा तदर्थवर्णनेतरं योगपट्टविधिवर्णनम् ।

२० यतिक्षौरयतिस्नानाद्याचारकथनम् ।

२१ यतीनां दाहनिषेधात्खननविधानं तत्प्रकारवर्णनोत्तरं दशाहांतकर्मकथनम् ।

२२ मृतयतीनामेकादशाहकृत्यकथनम् ।

२३ त्रयोदशाहे गुर्वाराधनादि विधिकथनम् ।

इति षष्ठी कैलाससंहिता ।। ६ ।।