शिवपुराणम्/संहिता ६ (कैलाससंहिता)/अध्यायः २३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २२ शिवपुराणम्/संहिता ६ (कैलाससंहिता)
अध्यायः २३
वेदव्यासः

सुब्रह्मण्य उवाच ।।
द्वादशाहे समुत्थाय प्रातः स्नात्वा कृताह्निकः ।।
शिवभक्तान्यतीन्वापि ब्राह्मणान्वा शिवप्रियान् ।। १ ।।
विमन्त्र्य तान्समाहूय मध्याह्न चाप्लुताञ्छुचीन् ।।
विधिवद्भोजयेद्भक्त्या स्वाद्वन्नैर्विविधैश्शुभैः ।।२।।
सन्निधौ परमेशस्य पंचावरणमार्गतः ।।
पूजयेत्तस्य संस्थाप्य प्राणानायम्य वाग्यतः ।।३।।
महासंकल्पमार्गेण संकल्प्यास्मद्गुरोरिह।।
पूजां करिष्य इत्युक्त्वा ततो दर्भानुस्पपृशेत्।।४।।
पादौ प्रक्षाल्य चाचम्य स्वयं कर्ता च वाग्यतः ।।
स्थापयेदासने तान्वै प्राङ्मुखान्भस्मभूषितान् ।।५।।
सदाशिवादिक्रमतो ध्यायेदष्टौ च तत्र तान् ।।
परया सम्भावनयेतरानपि मुने द्विजान् ।।
परमेष्ठिगुरुं ध्यायेत्सांबबुद्ध्या स्वनामतः ।।
गुरुश्च परमन्तस्मात्परापरगुरुं ततः ।।६।।
इदमासनमित्युक्त्वा चासनानि प्रकल्पयेत् ।।
प्रणवादिद्वितीयांते स्वस्य नाम समुच्चरन् ।। ।। ७ ।।
आवाहयामि नम इत्यावाह्यार्घोदकेन तु ।।
पाद्यमाचमनं चार्घ्यं वस्त्रगन्धाक्षतानपि ।। ८ ।।
दत्त्वा पुष्पैरलंकृत्य प्रणवाद्यष्टनामभिः ।।
सचतुर्थौंनमोऽन्तैश्च सुगन्धकुसुमैस्ततः ।। ९ ।
धूपदीपौ हि दत्त्वा च सकलाराधनं कृतम् ।।
सम्पूर्णमस्त्विति प्रोच्य नमस्कुर्यात्समुत्थितः ।। 6.23.१० ।।
पात्राणि कदलीपत्राण्यास्तीर्याद्भिविशोध्य च ।।
शुद्धान्नपायसापूपसूपव्यञ्जनपूर्वकम् ।। ११ ।।
दत्त्वा पदार्थान्कदलीनालिकेरगुडान्वितान् ।।
पात्रासनानि च पृथग्दद्यात्सम्प्रोच्य च क्रमात् ।। १२ ।।
परिषिच्य च सम्प्रोक्ष्य विष्णोर्हव्यमिति ब्रुवन् ।।
रक्षस्वेति करस्पर्शं कारयित्वा समुत्थितः ।। १३ ।।
आपोशनं समर्प्याथ प्रार्थयेत्तानिदम्प्रति ।।
सदाशिवादयः प्रीता वरदाश्च भवन्तु मे ।। १४ ।।
ये देवा इति च ततो जप्त्वेदं साक्षतं त्यजेत् ।।
नमस्कृत्य समुत्थाय सर्वत्रामृतमस्त्विति।।१५।।
उक्त्वा प्रसाद्य च जपन्गणानांत्वेत्युप क्रमात् ।।
वेदादीन् रुद्रचमकौ रुद्रसूक्तं च पंच च ।। १६ ।।
ब्रह्माणि भोजनान्ते तु यावन्मन्त्रांश्च साक्षतान् ।।
दत्त्वोत्तरापोशनं च हस्तांघ्रिमुखशोधनम् ।। १७ ।।
कृत्वा चान्तान्स्वासनेषु स्थापयित्वा यथासुखम्।।
शुद्धोदकम्प्रदायाथ कर्प्पूरादि यथोदितम्।।१८।।
मुखवासं दक्षिणां च पादुकासनपत्रकम् ।।
व्यजनं फलकान्दण्डं वैणवं च प्रदाय तान् ।। १९ ।।
प्रदक्षिणनमस्कारैस्संतोष्याशिषमा वहेत ।।
पुनः प्रणम्य सम्प्रार्थ्य गुरुभक्तिमचंचलाम् ।। 6.23.२० ।।
सदाशिवादयः प्रीता गच्छन्तु च यथासुखम् ।।
इत्युद्वास्य द्वारदेशावधि सम्यगनुव्रजन्।।२१।।
निरुद्धस्तः परावृत्य द्वास्थैर्विप्रैश्च बन्धुभिः ।।
दीनानाथैश्च सहितो भुक्त्वा तिष्ठेद्यथासुखम् ।।२२।।
विकृतं न भवेत्क्वापि सत्यं सत्यं पुनः पुनः ।।
प्रत्यब्दमेव कुर्वाणो गुर्वाराधनमुत्तमम् ।।
इह भुक्त्वा महाभोगाञ्छिवलोकमवाप्नुयात्।।२३।।
।। सूत उवाच ।।।।
एवं कृतानुग्रहमात्मशिष्यं श्रीवामदेवं मुनिवर्य्यमुक्त्वा ।।
प्रसन्नधीर्ज्ञानिवरो महात्मा कृत्वा परानुग्रहमाशु देवः ।। २४ ।।
यन्नैमिषारण्यमुनीश्वराणां प्रोक्तं पुरा व्यासमुनीश्वरेण ।।
तस्मादसावादिगुरुर्भवांस्तु द्वितीय आर्य्यो भुवने प्रसिद्धः ।। २५ ।।
श्रुत्वा मुनीन्द्रो भवतो मुखाज्जात्सनत्कुमारः शिवभक्तिपूर्णः ।।
व्यासाय वक्ता स च शैववर्य्यश्शुकाय वक्ता भविता च पूर्णः ।। २६ ।।
प्रत्येकं मुनिशार्दूलं शिष्यवर्गचतुष्टयम् ।।
वेदाध्ययनसंवृत्तं धर्मस्थापनपूर्वकम् ।। २७ ।।
वैशम्पायन एव स्यात्पैलो जैमिनिरेव च ।।
सुमन्तुश्चेति चत्वारो व्यासशिष्या महौजसः ।। २८ ।।
अगस्त्यश्च पुलस्त्यश्च पुलहः क्रतुरेव च ।।
तव शिष्या महात्मानो वामदेव महामुने ।। २९ ।।
सनकश्च सनन्दश्च सनातनमुनिस्ततः ।।
सनत्सुजात इत्येते योगिवर्याः शिवप्रियाः ।।6.23.३० ।।
सनत्कुमारशिष्यास्ते सर्ववेदार्थवित्तमाः ।।
गुरुश्च परमश्चैव परात्परगुरुस्ततः ।।
परमेष्ठिगुरुश्चैते पूज्यास्स्युश्शुकयोगिनः ।। ३१ ।।
इदं प्रणवविज्ञानं स्थितं वर्गचतुष्टये ।।
सर्वोत्कृष्टनिदानं च काश्यां सन्मुक्तिकारणम् ।। ३२ ।।
एतन्मण्डलमद्भुतं परशिवाधिष्ठान रूपं सदावेदान्तार्थविचारपूर्णमतिभिः पूज्यं यतीन्द्रैः परम् ।।
वेदादिप्रविभागकल्पितमहाकाशादिनाप्यावृतन्त्वत्संतोषकरं तथास्तु जगतां श्रेयस्करं श्रीप्रदम् ।। ३३ ।।
इदं रहस्यम्परमं शिवोदितं वेदान्तसिद्धातविनिश्चितम्परम्।।
मत्तश्श्रुतं यद्भवता ततो मुने भवन्मतम्प्राज्ञतमा वदंति ।। ३४ ।।
तस्मादनेनैव पथा गतश्शिवं शिवोहमस्मीति शिवो भवेद्यतिः ।।
पितामहादिप्रविभागमुक्तये नद्यो यथासिन्धुमिमाः प्रयान्ति ।। ३५ ।।
श्रीसूत उवाच ।।
एवम्मुनीश्वरायैतदुपदिश्य सुरेश्वरः ।।
संस्मृत्य चरणाम्भोजे पित्रो स्सर्व्वसुरार्चिते ।। ३६ ।।
कैलासशिखरम्प्राप कुमारश्शिखरावृतम् ।।
राजितम्परमाश्चर्य्यदिव्यज्ञानप्रदो गुरुः ।।३७।।
वामदेवोऽपि सच्छिष्यैस्संवृतश्शिखिवाहनम् ।।
सम्प्रणम्य जगामाशु कैलासम्परमाद्भुतम् ।। ३८ ।।
गत्वा कैलासशिखरम्प्राप्येशनिकटम्मुनिः।।
ददर्श मोक्षदम्मायानाशञ्चरणमीशयोः।।३९।।
भक्त्या चार्पितसर्वांगो विस्मृत्य स्वकलेवरम् ।।
पपात सन्निधौ भूयो भूयो नत्वा समु त्थितः ।।6.23.४०।।
ततो बहुविधैः स्तोत्रैर्वेदागमरसोत्कटैः ।।
तुष्टाव परमेशानं सांबिकं ससुतं मुनिः ।।४१।।
निधाय चरणत्म्भोजन्देव देव्योस्स्वमूर्द्धनि ।।
पूर्णानुग्रहमासाद्य तत्रैव न्यवसत्सुखम्।।४२।।।
भवन्तोऽपि विदित्वैवम्प्रणवार्थम्महेश्वरम्।।
वेदगुह्यं च सर्वस्वन्तार कम्ब्रह्म मुक्तिदम् ।।४३।।
अत्रैव सुखमासीनाः श्रीविश्वेश्वरपादयोः ।।
सायुज्यरूपामतुलाम्भजध्वम्मुक्तिमुत्तमाम्।।४४।।
अहं गुरुपदाम्भोजसेवायै बादराश्रमम् ।।
गमिष्ये भवताम्भूयस्सत्सम्भाषणमस्तु मे ।। ४५ ।।
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां द्वादशाहकृत्यवर्णनपूर्व्वकव्यासादिशिष्यवर्गकथनन्नाम त्रयोविंशोऽध्यायः ।। २३ ।।

इति कैलाससंहिता षष्ठी समाप्तिमगमत् ।।

।। ॐ नमश्शिवाय ।।