शिवपुराणम्/संहिता ६ (कैलाससंहिता)/अध्यायः ०९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०८ शिवपुराणम्/संहिता ६ (कैलाससंहिता)
अध्यायः ०९
वेदव्यासः
अध्यायः १० →

ईश्वर उवाच ।।
शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः ।।
संसारवैद्यस्सर्वज्ञः परमात्मेति मुख्यतः ।। १ ।।
नामाष्टकमिदं नित्यं शिवस्य प्रतिपादकम् ।।
आद्यन्तपञ्चकन्तत्र शान्त्यतीताद्यनुक्रमात् ।।२।।
संज्ञा सहाशिवादीनां पञ्चोपाधिपरिग्रहात् ।।
उपाधिविनिवृत्तौ तु यथास्वं विनि वर्तते ।। ३ ।।
पदमेव हितं नित्यमनित्याः पदिनः स्मृताः ।।
पदानां परिवृत्ति स्यान्मुच्यंते पदिनो यतः ।। ४ ।।
परिवृत्त्यन्तरे त्वेवं भूयस्तस्याप्युपाधिना ।।
आत्मान्तराभिधानं स्यात्पादाद्यं नामपंचकम् ।।५।।
अन्यत्तु त्रितयं नाम्नामुपादानादिभेदतः।।
त्रिविधोपाधिरचनाच्छिव एव तु वर्तते ।। ६ ।।
अनादिमलसंश्लेषप्रागभावात्स्वभावतः ।।
अत्यन्तपरिशुद्धात्मेत्यतोऽयं शिव उच्यते ।।७।।
अथवाऽशेषकल्याणगुणैकघन ईश्वरः ।।
शिव इत्युच्यते सद्भिश्शिवतत्त्वार्थवेदिभिः ।।८।।
त्रयोविंशतितत्वेभ्यः पराप्रकृतिरुच्यते।।
प्रकृतेस्तु परम्प्राहुः पुरुषम्पञ्चविंशकम्।।९।।
यद्वेदादौ स्वरम्प्राहुर्वाच्यवाचकभावतः ।।
वेदैकवेद्यं याथात्म्याद्वेदान्ते च प्रतिष्ठितम् ।। ।। 6.9.१० ।।
स एव प्रकृतौ लीनो भोक्ता यः प्रकृतेर्यतः ।।
तस्य प्रकृतिलीनस्य यः परस्स महेश्वरः ।।११।।
तदधीनप्रवृत्तित्त्वात्प्रकृतेः पुरुषस्य च ।।
अथवा त्रिगुणन्तत्त्वं मायेयमिदमव्ययम् ।। १२ ।।
मायान्तु प्रकृतिम्विद्यान्मायिनन्तु महेश्वरम्।।
मायाविमोचकोऽनन्तोमहेश्वरसमन्वयात्।।१३।।
रु द्दुःखं दुःखहेतुर्वा तद्द्रावयति यः प्रभुः।।
रुद्र इत्युच्यते तस्माच्छिवः परमकारणम्।।१४।।
शिवतत्त्वादिभूम्यन्तं शरीरादि घटादि च।।
व्याप्याधितिष्ठति शिवस्तमाद्विष्णुरुदाहृतः।।१५।।
जगतः पितृभूतानां शिवो मूर्त्यात्मनामपि ।।।
पितृभावेन सर्वेषां पितामह उदीरितः ।।१६।।
निदानज्ञो यथा वैद्यो रोगस्य निवर्तकः।।
उपायैर्भेषजैस्तद्वल्लयभोगाधिकारकः।।१७।।
संसारस्येश्वरो नित्यं स्थूलस्य विनिवर्तकः ।।
संसार वैद्य इत्युक्तस्सर्वतत्त्वार्थवेदिभिः।।१८।।
दशार्द्धज्ञानसिद्ध्यर्थमिन्द्रियेषु च सत्स्वपि ।।
त्रिकालभाविनो भावान्स्थूलान्सूक्ष्मानशेषतः ।।१९।।
अणवो नैव जानन्ति मायार्णवमलावृताः ।।
असत्स्वपि च सर्वेषु सिद्धसर्वार्थवेदिषु ।। 6.9.२० ।।
यद्यथावस्थितं वस्तु तत्तथैव सदाशिवः ।।
अयत्नेनैव जानाति तस्मात्सर्वज्ञ उच्यते ।।२१।।
सर्वात्मा परमैरेभिर्गुणैर्नित्यसमन्वयात्।।
स्वस्मात्परात्मविरहात्परमात्मा शिवस्स्वयम् ।।२२।।
इति स्तुत्वा महादेवं प्रणवात्मानमव्ययम्।।
दत्त्वा पराङ्मुखाद्यञ्च पश्चादीशानमस्तके।।२३।।
पुनरर्च्य देवेशम्प्रणवेन समाहितः।।
हस्तेन बद्धाञ्जलिना पूजापुष्पम्प्रगृह्य च।।२४।।
उन्मनान्तं शिवं नीत्वा वामनासापुटाध्वना।।
देवोमुद्वास्य च ततो दक्षनासापुटाध्वना ।।२५।।
शिव एवाहमस्मीति तदैक्यमनुभूय च।।
सर्वावरणदेवांश्च पुनरुद्वासयेद्धृदि।।२६।।
विद्यापूजां गुरोःपूजां कृत्वा पश्चाद्यथाक्रमम्।।
शंखार्घपात्रमंत्रांश्च हृदये विन्यसेत्क्रमात्।।२७।।
निर्माल्यञ्च समर्प्याऽथ चण्डेशायेशगोचरे ।।
पुनश्च संयतप्राण ऋष्यादिकमथोच्चरेत् ।। २८ ।।
कैलासप्रस्तरो नाम मण्डलम्परिभाषितम् ।।
अर्चयेन्नित्यमेवैतत्पक्षे वा मासिमासि वा ।।२९।।
षण्मासे वत्सरे वापि चातुर्मास्यादिपर्वणि ।।
अवश्यञ्च समभ्यर्चेन्नित्यं मल्लिङ्गमास्तिकः ।।6.9.३०।।
तस्मिन्क्रमे महादेवि विशेषः कोऽपि कथ्यते ।।
उपदेशदिने लिंगम्पूजितं गुरुणा सह ।।३१।।
गृह्णीयादर्चयिष्यामि शिवमाप्राणसंक्षयम्।।
एवन्त्रिवारमुच्चार्य्य शपथं गुरुसन्निधौ ।।३२।।
ततस्समर्चयेन्नित्यम्पूर्वोक्तविधिना प्रिये।।
अर्घं समर्पयेल्लिंगमूर्द्धन्यर्घ्योदकेन च।।३३।।
प्रणवेन समभ्यर्च्य धूपदीपौ समर्पयेत् ।।
ऐशान्यां चण्डमाराध्य निर्माल्यञ्च निवेदयेत् ।।३४।।
प्रक्षाल्य ल्लिंगम्वेदीञ्च वस्त्रपूतैर्जलैस्ततः ।।
निःक्षिप्य पुष्पं शिरसि लिंगस्य प्रणवेन तु ।।३५।।
आधारशक्तिमारभ्य शुद्धविद्यासनावधि ।।
विभाव्य सर्वं मनसा स्थापयेत्परमेश्वरम् ।। ३६ ।।
पञ्चगव्यादिभिर्द्रव्यैर्यथाविभवसम्भृतैः ।।
केवलैर्वा जलैश्शुद्धैस्सुरभि द्रव्यवासितैः ।। ३७ ।।
पावमानेन रुद्रेण नीलेन त्वरितेन च ।।
ऋग्भिश्च सामभिर्वापि ब्रह्मभिश्चैव पञ्चभिः ।। ३८ ।।
स्नापयेद्देवदेवेशं प्रणवेन शिवेन च ।।
विशेषार्घ्योदकेनापि प्रणवेनाभिषेचयेत् ।।३९।।
विशोध्य वाससा पुष्पं लिंगमूर्द्धनि विन्यसेत्।।
पीठे लिंगं समारोप्य सूर्याद्यर्चां समाचरेत् ।।6.9.४०।।
आधारशक्त्यनन्तौ द्वौ पीठाधस्तात्समर्चयेत् ।।
सिंहासनन्तदूर्ध्वन्तु समभ्यर्च्य यथाक्रमम् ।। ४१
अथोर्ध्वच्छदनम्पीठपादे स्कन्दं समर्चयेत् ।।
लिंगे मूर्तिं समाकल्प्य मान्त्वया सह पूजयेत् ।। ४२ ।।
सम्यग् भक्त्या विधानेन यतिर्मद्ध्यानतत्परः ।।
एवम्मया ते कथितमतिगुह्यमिदम्प्रिये ।। ४३ ।।
गोपनीयं प्रयत्नेन न देयं यस्य कस्य चित् ।।
मम भक्ताय दातव्यं यतये वीतरागिणे ।। ४४ ।।
गुरुभक्ताय शान्ताय मदर्थे योगभागिने ।।
ममाज्ञामतिलंघ्यैतद्यो ददाति विमूढधीः ।।४५।।
स नारकी मम द्रोही भविष्यति न संशयः ।।
मद्भक्तदानाद्देवेशि मत्प्रियश्च भवेद्ध्रुवम् ।।
इह भुक्त्वाखिलान्भोगान्मत्सान्निध्यमवाप्नुयात् ।। ४६ ।।
व्यास उवाच ।।
एतच्छुत्वा महादेवी महादेवेन भाषितम् ।।
स्तुत्वा तु विविधैः स्तोत्रैर्देवम्वेदार्थगर्वितैः ।।४७।।
श्रीमत्पादाब्जयोः पत्युः प्रणवं परमेश्वरी ।।
अतिप्रहृष्टहृदया मुमोद मुनिसत्तमाः ।।४८।।
अतिगुह्यमिदम्विप्राः प्रणवार्थप्रकाशकम् ।।
शिवज्ञानपरं ह्येतद्भवतामार्तिनाशनम् ।। ४९ ।।
सूत उवाच ।।
इत्युक्त्वा मुनिशार्दूलः पराशर्य्यो महातपाः ।।
पूजितः परया भक्त्या मुनिभिर्वेदवादिभिः ।।6.9.५०।।
कैलासाद्रिमनुसृत्य ययौ तस्मात्तपोवनात् ।।
तेऽपि प्रहृष्टहृदयास्सत्रान्ते परमेश्वरम्।।५१।।
सम्पूज्य परया भक्त्या सोमं सोमार्द्धशेखरम् ।।
यमादियोगनिरताश्शिवध्यानपराभवन् ।।५२।।
गुहाय कथितं ह्येतद्देव्या तेनापि नन्दिने ।।
सनत्कुमारमुनये प्रोवाच भगवान् हि सः ।।५३।।
तस्माल्लब्धं मद्गुरुणा व्यासेनामिततेजसा ।।
तस्माल्लब्धमिदम्पुण्यम्मयापि मुनिपुंगवाः ।।५४।।
मया वश्श्रावितं ह्येतद्गुह्याद्गुह्यतरम्परम् ।।
ज्ञात्वा शिवप्रियान्भक्त्या भवतो गिरिशप्रियम् ।। ५५ ।।
भवद्भिरपि दातव्यमेतद्गुह्यं शिवप्रियम् ।।
यतिभ्यश्शान्तचित्तेभ्यो भक्तेभ्यश्शिवपादयोः ।। ५६ ।।
एतदुक्त्वा महाभागस्सूतः पौराणिकोत्तमः ।।
तीर्थयात्राप्रसंगेन चचार पृथिवीमिमाम् ।।५७।।
एतद्रहस्यम्परमं लब्ध्वा सूतान्मुनीश्वराः ।।
काश्यामेव समासीना मुक्ताश्शिवपदं ययुः ।।५८।।
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां प्रणवार्थपद्धतिवर्णनं नाम नवमोऽध्यायः ।।९।। ।।