शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः २३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २२ शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः २३
वेदव्यासः
अध्यायः २४ →

ऋषय ऊचुः ।।
एवं वाराणसी पुण्या यदि सूत महापुरी ।।
तत्प्रभावं वदास्माकमविमुक्तस्य च प्रभो ।। १ ।।
सूत उवाच।।
वक्ष्ये संक्षेपतस्सम्यग्वाराणस्यास्सुशोभनम् ।।
विश्वेश्वरस्य माहात्म्यं श्रूयतां च मुनीश्वराः ।।२।।
कदाचित्पार्वती देवी शङ्करं परया मुदा ।।
लोककामनयापृच्छन्माहात्म्यमविमुक्तयोः ।।३।।
पार्वत्युवाच ।।
अस्य क्षेत्रस्य माहात्म्यं वक्तुमर्हस्य शेषतः ।।
ममोपरि कृपां कृत्वा लोकानां हितकाम्यया ।। ४ ।।
सूत उवाच ।।
देव्यास्तद्वचनं श्रुत्वा देवदेवो जगत्प्रभुः।।
प्रत्युवाच भवानीं तां जीवानां प्रियहेतवे ।।५।।
परमेश्वर उवाच।।
साधु पृष्टं त्वया भद्रे लोकानां सुखदं शुभम् ।।
कथयामि यथार्थं वै महा त्म्यमविमुक्तयोः ।।६।।
इदं गुह्यतमं क्षेत्रं सदा वाराणसी मम।।
सर्वेषामेव जंतूनां हेतुर्मोक्षस्य सर्वथा ।।७।।
अस्मिन्सिद्धास्सदा क्षेत्रे मदीयं व्रतमाश्रिताः ।।
नानालिंगधरा नित्यं मम लोकाभिकांक्षिणः ।। ८ ।।
अभ्यस्यंति महायोगं जितात्मानो जितेन्द्रियाः ।।
परं पाशुपतं श्रौतं भुक्तिमुक्तिफलप्रदम्।।९।।
रोचते मे सदा वासो वाराणस्यां महेश्वरि।।
हेतुना येन सर्वाणि विहाय शृणु तद्ध्रुवम्।।4.23.१०।।
यो मे भक्तश्च विज्ञानी तावुभौ मुक्तिभागिनौ ।।
तीर्थापेक्षा च न तयोर्विहिता विहिते समौ ।। ११ ।।
जीवन्मुक्तौ तु तौ ज्ञेयौ यत्रकुत्रापि वै मृतौ ।।
प्राप्नुतो मोक्षमाश्वेव मयोक्तं निश्चितं वचः ।। १२ ।।
अत्र तीर्थे विशेषोस्त्यविमुक्ताख्ये परोत्तमे ।।
श्रूयतां तत्त्वया देवि परशक्ते सुचित्तया।।१३।।
सर्वे वर्णा आश्रमाश्च बालयौवनवार्द्धकाः ।।
अस्यां पुर्यां मृताश्चेत्त्स्युर्मुक्ता एव न संशयः ।।१४।।
अशुचिश्च शुचिर्वापि कन्या परिणता तथा ।।
विधवा वाथ वा वंध्या रजोदोषयुतापि वा ।।१५।।
प्रसूता संस्कृता कापि यादृशी तादृशी द्विजाः ।।
अत्र क्षेत्रे मृता चेत्स्यान्मोक्षभाङ् नात्र संशयः ।।१६।।
स्वेदजश्चांडजो वापि द्युद्भिज्जोऽथ जरायुजः ।
मृतो मोक्षमवाप्नोति यथात्र न तथा क्वचित् ।।१७।।
ज्ञानापेक्षा न चात्रैव भत्तयपेक्षा न वै पुनः ।।
कर्मापेक्षा न देव्यत्र दानापेक्षा न चैव हि ।। १८ ।।
संस्कृत्यपेक्षा नैवात्र ध्यानापेक्षा न कर्हिचित् ।।
नामापेक्षार्चनापेक्षा सुजातीनां तथात्र न ।। १९ ।।
मम क्षेत्रे मोक्षदे हि यो वा वसति मानवः ।।
 यथा तथा मृतः स्याच्चेन्मोक्षमाप्नोति निश्चितम् ।। 4.23.२० ।।
एतन्मम पुरं दिव्यं गुह्याद्गुह्यतरं प्रिये ।।
ब्रह्मादयोऽपि जानंति माहात्म्यं नास्य पार्वति ।। २१ ।।
महत्क्षेत्रमिदं तस्मादविमुक्तमिति स्मृतम् ।।
सर्वेभ्यो नैमिषादिभ्यः परं मोक्षप्रदं मृते ।। २२ ।।
धर्मस्योपनिषत्सत्यं मोक्षस्योपनिषत्समम् ।।
क्षेत्रतीर्थोपनिषदमविमुक्तं विदुर्बुधाः ।। २३ ।।
कामं भुंजन्स्वपन्क्रीडन्कुर्वन्हि विविधाः क्रियाः ।।
अविमुक्ते त्यजन्प्राणाञ्जंतुर्मोक्षाय कल्पते ।। २४ ।।
कृत्वा पापसहस्राणि पिशाचत्वं वरं नृणाम् ।।
न च क्रतुसहस्रत्वं स्वर्गे काशीं पुरीं विना ।। २५ ।।
तस्मात्सर्वप्रयत्नेन सेव्यते काशिका पुरी ।।
अव्यक्तलिंगं मुनिभिर्ध्यायते च सदाशिवः ।। २६ ।।
यद्यत्फलं समुद्दिश्य तपन्त्यत्र नरः प्रिये ।।
तेभ्यश्चाहं प्रय च्छामि सम्यक्तत्तत्फलं धुवम्।।२७।।
सायुज्यमात्मनः पश्चादीप्सितं स्थानमेव च।।
न कुतश्चित्कर्मबंधस्त्यजतामत्र वै तनुम्।।२८।।
ब्रह्मा देवर्षिभिस्सार्द्धं विष्णुर्वापि दिवाकरः ।।
उपासते महात्मानस्सर्वे मामिह चापरे ।। २९ ।।
विषयासक्तचित्तोऽपि त्यक्त धर्मरुचिर्नरः ।।
इह क्षेत्रे मृतो यो वै संसारं न पुनर्विशेत् ।। 4.23.३० ।।
किं पुनर्निर्ममा धीरासत्त्वस्था दंभवर्जिताः ।।
कृतिनश्च निरारंभास्सर्वे ते मयि भाविताः ।। ३१ ।।
जन्मांतरसहस्रेषु जन्म योगी समाप्नुयात् ।।
तदिहैव परं मोक्षं मरणादधिगच्छति ।। ३२ ।।
अत्र लिंगान्यनेकानि भक्तैस्संस्थापितानि हि ।।
सर्वकामप्रदानीह मोक्षदानि च पार्वति ।। ३३ ।।
पंचक्रोशं चतुर्दिक्षु क्षेत्रमेतत्प्रकीर्तितम् ।।
समंताच्च तथा जंतोर्मृतिकालेऽमृतप्रदम् ।। ३४ ।।
अपापश्च मृतो यो वै सद्यो मोक्षं समश्नुते ।।
सपापश्च मृतौ यस्स्यात्कायव्यूहान्समश्नुते ।। ३५ ।।
यातनां सोनुभूयैव पश्चान्मोक्षमवाप्नुयात् ।।
पातकं योऽविमुक्ताख्ये क्षेत्रेऽस्मिन्कुरुते ध्रुवम् ।। ३६ ।।
भैरवीं यातनां प्राप्य वर्षाणामयुते पुनः ।।
ततो मोक्षमवाप्नोति भुक्त्वा पापं च सुन्दरि ।। ।। ३७ ।।
इति ते च समाख्याता पापाचारे च या गतिः ।।
एवं ज्ञात्वा नरस्सम्यक्सेवयेदविमुक्तकम् ।। ३८ ।।
कृतकर्मक्षयो नास्ति कल्पकोटिशतैरपि ।।
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।। ३९ ।।
केवलं चाशुभं कर्म नरकाय भवेदिह ।।
शुभं स्वर्गाय जायेत द्वाभ्यां मानुष्यमीरितम् ।। 4.23.४० ।।
जन्म सम्यगसम्यक् च न्यूनाधिक्ये भवेदिह ।।
उभयोश्च क्षयो मुक्तिर्भवेत्सत्यं हि पार्वति ।। ४१ ।।
कर्म च त्रिविधं प्रोक्तं कर्मकाण्डे महेश्वरि ।।
संचितं क्रियमाणं च प्रारब्धं चेति बंधकृत् ।। ४२ ।।
पूर्वजन्मसमुद्भूतं संचितं समुदाहृतम् ।।
भुज्यते च शरीरेण प्रारब्धं परिकीर्तितम् ।। ४३ ।।
जन्मना यच्च क्रियते कर्म सांप्रतम् ।।
शुभाशुभं च देवेशि क्रियमाणं विदुर्बुधाः ।। ४४ ।।
प्रारब्धकर्मणो भोगात्क्षयश्चैव चान्यथा ।।
उपायेन द्वयोर्नाशः कर्मणोः पूजनादिना ।। ४५ ।।
सर्वेषां कर्मणां नाशो नास्ति काशीं पुरीं विना ।।
सर्वं च सुलभं तीर्थं दुर्ल्लभा काशिका पुरी ।।४६।।
पूर्वजन्मकृतं चेद्वै काशीदर्शनमादरात् ।।
तदा काशीं च संप्राप्य लभेन्मृत्युं न चान्यथा ।।४७।।
काशीं प्राप्य नरो यस्तु गंगायां स्नानमाचरेत् ।।
तदा च क्रियमाणस्य संचितस्यापि संक्षयः ।। ४८ ।।
प्रारब्धं न विना भोगो नश्य तीति सुनिश्चितम् ।।
मृतिश्च तस्य संजाता तदा तस्य क्षयो भवेत् ।। ४९ ।।
पूर्वं चैव कृता काशी पश्चात्पापं समाचरेत् ।।
तद्बीजेन बलवता नीयते काशिका पुनः ।।4.23.५०।।
तदा सर्वाणि पापानि भस्मसाच्च भवंति हि ।।
तस्मात्काशीं नरस्सेवेत्कर्मनिर्मूलनीं ध्रुवम् ।। ।।५१।।
एकोऽपि ब्राह्मणो येन काश्यां संवासितः प्रिये ।।
काशीवासमवाप्यैव ततो मुक्तिं स विंदति ।।५२।।
काश्यां यो वै मृतश्चैव तस्य जन्म पुनर्नहि ।।
समुद्दिश्य प्रयागे च मृतस्य कामनाफले ।। ५३ ।।
संयोगश्च तयोश्चेत्स्यात्काशीजन्यफलं वृथा ।।
यदि न स्यात्तयोर्योगस्तीर्थराजफलं वृथा।।५४।।
तस्मान्मच्छासनाद्विष्णुस्सृष्टिं साक्षाद्धि नूतनाम् ।।
विधाय मनसोद्दिष्टां तत्सिद्धिं यच्छति ध्रुवम् ।। ५५ ।।
सूत उवाच ।।
इत्यादि बहुमाहात्म्यं काश्यां वै मुनिसत्तमाः ।।
तथा विश्वेश्वरस्यापि भुक्तिमुक्तिप्रदं सताम् ।। ५६ ।।
अतः परं प्रवक्ष्यामि माहात्म्यं त्र्यंबकस्य च ।।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवः क्षणात् ।। ५७ ।।
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां काशीविश्वेश्वरज्योतिर्लिङ्गमाहात्म्यवर्णनंनामत्रयोविंशोध्याय. ।। २३।।