शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः २२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २१ शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः २२
वेदव्यासः
अध्यायः २३ →

सूत उवाच ।।
अतःपरं प्रवक्ष्यामि श्रूयतामृषिसत्तमाः ।।
विश्वेश्वरस्य माहात्म्यं महापातकनाशनम् ।।१।।
यदिदं दृश्यते किंचिज्जगत्यां वस्तुमात्रकम्।।
चिदानन्द स्वरूपं च निर्विकारं सनातनम् ।। २ ।।
तस्यैव कैवल्यरतेर्द्वितीयेच्छा ततोभवत् ।।
स एव सगुणो जातश्शिव इत्यभिधीयते ।।३।।
स एव हि द्विधा जातः पुंस्त्रीरूपप्रभेदतः ।।
यः पुमान्स शिवः ख्यातः स्त्रीशक्तिस्सा हि कथ्यते ।। ४ ।।
चिदानन्देस्वरूपाभ्यां पुरुषावपि निर्मितौ ।। ५ ।।
अदृष्टाभ्यां तदा ताभ्यां स्वभावान्मुनिसत्तमाः ।।
तावदृष्ट्वा तदा तौ च स्वमातृपितरौ द्विजाः ।।६।।
महासंशयमापन्नौ प्रकृतिः पुरुषश्च तौ ।।
तदा वाणी समुत्पन्ना निर्गुणात्परमात्मनः ।।
तपश्चैव प्रकर्तव्यं ततस्सृष्टिरनुत्तमा ।।७।।
प्रकृतिपुरुषाबूचतुः ।।
तपसस्तु स्थलंनास्ति कुत्रावाभ्यां प्रभोऽधुना।।
स्थित्वा तपः प्रकर्तव्यं तव शासनतश्शिव ।। ८ ।।
ततश्च तेजसस्सारं पंचक्रोशात्मकं शुभम्।।
सर्वोपकरणैर्युक्तं सुंदरं नगरं तथा।।९।।
निर्माय प्रेषितं तत्स्वं निर्गुणेन शिवेन च।।
अंतरिक्षे स्थितं तच्च पुरुषस्य समीपतः।।4.22.१०।।
तदधिष्ठाय हरिणा सृष्टिकामनया ततः ।।
बहुकालं तपस्तप्तं तद्ध्यानमवलंब्य च।।११।।
श्रमेण जलधारश्च विविधाश्चाभवंस्तदा ।।
ताभिर्व्याप्तं च तच्छून्यं नान्यत्किंचिददृश्यत ।।१२।।
ततश्च विष्णुना दृष्टं किमेतद्दृश्यतेऽद्भुतम्।।
इत्याश्चर्यं तदा दृष्ट्वा शिरसः कम्पनं कृतम् ।। १३ ।।
ततश्च पतितः कर्णान्मणिश्च पुरतः प्रभो ।।
तद्बभूव महत्तीर्थं नामतो मणिकर्णिका।।१४।।
जलौघे प्लाव्यमाना सा पंचक्रोशी यदाभवत ।।
निर्गुणेन शिवेनाशु त्रिशूलेन धृता तदा ।। १५ ।।
विष्णुस्तत्रैव सुष्वाप प्रकृत्या स्वस्त्रिया सह ।।
तन्नाभिकमलाज्जातो ब्रह्मा शंकरशासनात् ।। १६ ।।
शिवाज्ञां स समासाद्य सृष्टिचक्रेऽद्भुता तदा ।।
चतुर्द्दशमिता लोका ब्रह्मांडे यत्र निर्मिताः ।।१७।।
योजनानां च पंचाशत्कोटिसंख्याप्रमाणतः।।
ब्रह्मांडस्यैव विस्तारो मुनिभिः परिकीर्तितः।।१८।।
ब्रह्मांडे कर्मणा बद्धा प्राणिनो मां कथं पुनः ।।
प्राप्स्यंतीति विचिन्त्यैतत्पंचक्रोशी विमोचिता ।। १९ ।।
इयं च शुभदा लोके कर्म नाशकरी मता ।।
मोक्षप्रकाशिका काशी ज्ञानदा मम सुप्रिया ।।4.22.२०।।
अविमुक्तं स्वयं लिंगं स्थापितं परमात्मना।।
न कदाचित्त्वया त्याज्यमिदं क्षेत्रं ममांशक ।।२१।।
इत्युक्त्वा च त्रिशूलात्स्वादवतार्य्य हरस्स्वयम् ।।
मोचयामास भुवने मर्त्यलोके हि काशिकाम् ।। २२ ।।
ब्रह्मणश्च दिने सा हि न विनश्यति निश्चितम् ।।
तदा शिवस्त्रिशूलेन दधाति मुनयश्च ताम् ।।२३।।
पुनश्च ब्रह्मणा सृष्टौ कृतायां स्थाप्यते द्विजाः ।।
कर्मणा कर्षणाच्चैव काशीति परिपठ्यते।।२४।।
अविमुक्तेश्वरं लिंगं काश्यां तिष्ठति सर्वदा।।
मुक्तिदातृ च लोकानां महापातकिनामपि ।। २५ ।।
अन्यत्र प्राप्यते मुक्तिस्सारूप्यादिर्मुनीश्वराः ।।
अत्रैव प्राप्यते जीवैः सायुज्या मुक्तिरुत्तमा ।। २६ ।।
येषां क्वापि गतिर्नास्ति तेषां वाराणसी पुरी।।
पंचक्रोशी महापुण्या हत्याकोटिविनाशनी ।।२७।।
अमरा मरणं सर्वे वांछतीह परे च के ।।
भुक्तिमुक्तिप्रदा चैषा सर्वदा शंकरप्रिया ।। २८ ।।
ब्रह्मा च श्लाघते चामूं विष्णुस्सिद्धाश्च योगिनः ।।
मुनयश्च तथैवान्ये त्रिलोकस्था जनाः सदा।।२९।।
काश्याश्च महिमानं वै वक्तुं वर्षशतैरपि।।
शक्नोम्यहं न सर्वं हि यथाशक्ति ब्रुवे ततः ।। 4.22.३० ।।
कैलासस्य पतिर्यो वै ह्यंतस्सत्त्वो बहिस्तमाः ।।
कालाग्निर्नामतः ख्यातो निर्गुणो गुणवान्भवः ।।
प्रणिपातैरनेकैश्च वचनं चेदमब्रवीत् ।।।। ३१ ।।
।। रुद्र उवाच ।।
विश्वेश्वर महेशान त्वदीयोऽस्मि न संशयः ।।
कृपां कुरु महादेव मयि त्वं साम्ब आत्मजे ।। ३२ ।।
स्थातव्यं च सदात्रैव लोकानां हितकाम्यया ।।
तारयस्व जगन्नाथ प्रार्थयामि जगत्पते ।।३३।।
सूत उवाच।।
अविमुक्तेऽपि दान्तात्मा तं संप्रार्थ्य पुनः पुनः ।।
नेत्राश्रूणि प्रमुच्यैव प्रीतः प्रोवाच शंकरम् ।।३४।।
अविमुक्त उवाच ।।
देवदेव महादेव कालामयसुभेषज।।
त्वं त्रिलोकपतिस्सत्यं सेव्यो ब्रह्माच्युतादिभिः ।।३५।।
काश्यां पुर्यां त्वया देव राजधानी प्रगृह्यताम् ।।
मया ध्यानतया स्थेयमचिंत्य सुखहेतवे ।।३६।।
मुक्तिदाता भवानेव कामदश्च न चापरः ।।
तस्मात्त्वमुपकाराय तिष्ठोमासहितस्सदा ।।३७।।
जीवान्भवाब्धेरखिलांस्तारय त्वं सदाशिव ।।
भक्तकार्य्यं कुरु हर प्रार्थयामि पुनःपुनः ।। ३८ ।।
।। सूत उवाच ।।
इत्येवं प्रार्थितस्तेन विश्वनाथेन शंकरः।।
लोकानामुपकारार्थं तस्थौ तत्रापि सर्वराट्।।३९।।
यद्दिनं हि समारभ्य हरः काश्यामुपागतः ।।
तदारभ्य च सा काशी सर्वश्रेष्ठतराभवत् ।। 4.22.४० ।।
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां विश्वेश्वरमाहात्म्ये काश्यां रुद्रागमनवर्णनंनाम द्वाविंशोऽध्यायः ।। २२ ।।