शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः २१

विकिस्रोतः तः
← अध्यायः २० शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः २१
वेदव्यासः
अध्यायः २२ →

।। सूत उवाच ।।
शिवोऽपि च गणैस्सार्द्धं जगाम हितकाम्यया ।।
स्वभक्तनिकटं गुप्तस्तस्थौ रक्षार्थमादरात् ।। १ ।।
एतस्मिन्नन्तरे तत्र कामरूपेश्वरेण च ।।
अत्यंतं ध्यानमारब्धं पार्थिवस्य पुरस्तदा ।। २ ।।
केनचित्तत्र गत्वा च राक्षसाय निवेदितम् ।।
राजा किंचित्करोत्येवं त्वदर्थं ह्याभिचारिकम्।।३।।
सूत उवाच ।।
राक्षसस्स च तच्छुत्वा क्रुद्धस्तद्धननेच्छया ।।
गृहीत्वा करवालं च जगाम नृपतिं प्रति ।। ४ ।।
तद्दृष्ट्वा राक्षसस्तत्र पार्थिवादि स्थितं च यत् ।।
तदर्थं तत्स्वरूपं च दृष्ट्वा किंचित्करोत्यसौ ।। ५ ।।
अत एनं बलादद्य हन्मि सोपस्करं नृपम् ।।
विचार्येति महाक्रुद्धो राक्षसः प्राह तं नृपम् ।। ६ ।।
भीम उवाच ।।
रेरे पार्थिव दुष्टात्मन्क्रियते किं त्वयाधुना ।।
सत्यं वद न हन्यां त्वामन्यथा हन्मि निश्चितम् ।।७।।
सूत उवाच ।।
इति श्रुत्वा वचस्तस्य कामरूपेश्वरश्च सः ।।
मनसीति चिचिन्ताशु शिवविश्वासपूरितः ।। ८ ।।
भविष्यं यद्भवत्येव नास्ति तस्य निवर्तकः ।।
प्रारब्धाधीनमेवात्र प्रारब्धस्स शिवः स्मृतः ।। ९ ।।
कृपालुश्शंकरश्चात्र पार्थिवे वर्तते ध्रुवम् ।।
मदर्थं न करोतीह कुतः कोयं च राक्षसः ।। 4.21.१० ।।
स्वानुरूपां प्रतिज्ञां स सत्यं चैव करिष्यति ।।
सत्यप्रतिज्ञो भगवाञ्छिवश्चेति श्रुतौ श्रुतः ।। ११ ।।
मम भक्तं यदा कश्चित्पीडयत्यतिदारुणः ।।
तदाहं तस्य रक्षार्थं दुष्टं हन्मि न संशयः ।। १२ ।।
एवं धैर्य्यं समालंब्य ध्यात्वा देवं च शंकरम् ।।
प्रार्थयामास सद्भक्त्या मनसैव रसेश्वरः ।। १३ ।।
त्वदीयोऽस्मि महाराज यथेच्छसि तथा कुरु ।।
सत्यं च वचनं ह्यत्र ब्रवीमि कुरु मे हितम् ।। १४ ।।
एवं मनसि स ध्यात्वा सत्यपाशेन मंत्रितः ।।
प्राह सत्यं वचो राजा राक्षसं चावमानयन् ।। १५ ।।
नृप उवाच ।।
भजामि शंकरं देवं स्वभक्तपरिपालकम् ।।
चराचराणां सर्वेषामीश्वरं निर्विकारकम् ।। १६ ।।
सूत उवाच ।।
इति तस्य वचः श्रुत्वा कामरूपेश्वरस्य सः ।।
क्रोधेन प्रचलद्गात्रो भीमो वचनमब्रवीत् ।। १७ ।।
।। भीम उवाच ।।
शंकरस्ते मया ज्ञातः किं करिष्यति वै मम ।।
यो मे पितृव्यकेनैव स्थापितः किंकरो यथा ।। १८ ।।
तद्बलं हि समाश्रित्य विजेतुं त्वं समीहसे ।।
तर्हि त्वया जितं सर्वं नात्र कार्या विचारणा ।। १९ ।।
यावन्मया न दृष्टो हि शंकरस्त्वत्प्रपालकः ।।
तावत्त्वं स्वामिनं मत्वा सेवसे नान्यथा क्वचित् ।। 4.21.२० ।।
मया दृष्टे च तत्सर्वं स्फुटं स्यात्सर्वथा नृप ।।
तस्मात्त्वं वै शिवस्येदं रूपं दूरतरं कुरु ।। २१ ।।
अन्यथा हि भयं तेऽद्य भविष्यति न संशयः ।।
स्वामिनस्ते करं तीक्ष्णं दास्येऽहं भीमविक्रमः ।। २२ ।।
।। सूत उवाच ।।
इति तद्वचनं श्रुत्वा कामरूपेश्वरो नृपः ।।
दृढं शंकरविश्वासो द्रुतं वाक्यमुवाच तम् ।।२३।।
राजोवाच ।।
अहं च पामरो दुष्टो न मोक्ष्ये शंकरं पुनः ।।
सर्वोत्कृष्टश्च मे स्वामी न मां मुंचति कर्हिचित् ।।२४।।
सूत उवाच ।।
एवं वचस्तदा श्रुत्वा तस्य राज्ञश्शिवात्मनः ।।
तं प्रहस्य द्रुतं भीमो भूपतिं राक्षसोऽब्रवीत् ।। २५ ।।
।। भीम उवाच ।।
मत्तो भिक्षयते नित्यं स किं जानाति स्वाकृतिम् ।।
योगिनां का च निष्ठा वै भक्तानां प्रतिपालने ।।२६।।
इति कृत्वा मतिं त्वं च दूरतो भव सर्वथा।।
अहं च तव स स्वामी युद्धं वै करवावहे ।। २७ ।।
सूत उवाच ।।
इत्युक्तस्य नृपश्रेष्ठश्शंभुभक्तो दृढव्रतः ।।
प्रत्युवाचाभयो भीमं दुःखदं जगतां सदा ।। २८ ।।
राजोवाच ।।
शृणु राक्षस दुष्टात्मन्मया कर्तुं न शक्यते ।।
त्वया विक्रियते तर्हि कुतस्त्वं शक्तिमानसि ।। २९ ।।
सूत उवाच ।।
इत्युक्तस्सैन्यमादाय राजानं परिभर्त्स्य तम् ।।
करालं करवालं च पार्थिवे प्राक्षिपत्तदा ।। 4.21.३० ।।
पश्य त्वं स्वामिनोऽद्यैव बलं भक्तसुखावहम् ।।
इत्युवाच विहस्यैव राक्षसैस्स महाबलः ।। ३१ ।।
करवालः पार्थिवं च यावत्स्पृशति नो द्विजाः ।।
यावच्च पार्थिवात्तस्मादाविरासीत्स्वयं हरः ।। ३२ ।।
पश्य भीमेश्वरोहं च रक्षार्थं प्रकटोऽभवम् ।।
मम पूर्वव्रतं ह्येतद्रक्ष्यो भक्तो मया सदा ।। ३३ ।।
एतस्मात्पश्य मे शीघ्रं बलं भक्तसुखावहम् ।।
इत्युक्त्वा स पिनाकेन करवालो द्विधा कृतः ।। ३४ ।।
पुनश्चैव त्रिशूलं स्वं चिक्षिपे तेन रक्षसा ।।
तच्छूलं शतधा नीतमपि दुष्टस्य शंभुना ।। ३५ ।।
पुनश्शक्तिश्च निःक्षिप्ता तेन शंभूपरि द्विजाः ।।
शंभुना सापि बाणैस्स्वैर्लक्षधा च कृता द्रुतम् ।। ३६ ।।
पट्टिशश्च ततस्तेन निःक्षिप्तो हि शिवोपरि ।।
शिवेन स त्रिशूलेन तिलशश्च कृतं क्षणात् ।।३७।।
ततश्शिवगणानां च राक्षसानां परस्परम् ।।
युद्धमासीत्तदा घोरं पश्यतां दुःखकावहम् ।।३८।।
ततश्च पृथिवी सर्वा व्याकुला चाभवत्क्षणात् ।।
समुद्राश्च तदा सर्वे चुक्षुभुस्समहीधराः ।। ३९ ।।
देवाश्च ऋषयस्सर्वे बभूवुर्विकला अति ।।
ऊचुः परस्परं चेति व्यर्थं वै प्रार्थितश्शिवः ।। 4.21.४० ।।
नारदश्च समागत्य शंकरं दुःखदाहकम् ।।
प्रार्थयामास तत्रैव सांजलिर्नतमस्तकः ।। ४१ ।।
नारद उवाच ।।
क्षम्यतां क्षम्यतां नाथ त्वया विभ्रमकारक ।।
तृणेकश्च कुठारो वै हन्यतां शीघ्रमेव हि ।। ४२ ।।
इति संप्रार्थितश्शंभुः सर्वान्रक्षोगणान्प्रभुः ।।
हुंकारेणैव चास्त्रेण भस्मसात्कृतवांस्तदा ।। ४३ ।।
सर्वे ते राक्षसा दग्धाः शंकरेण क्षणं मुने ।।
बभूवुस्तत्र सर्वेषां देवानां पश्यताद्भुतम्।।४४।।
दावानलगतो वह्निर्यथा च वनमादहेत् ।।
तथा शिवेन क्रुद्धेन राक्षसानां बलं क्षणात्।।४५।।
भीमस्यैव च किं भस्म न ज्ञातं केनचित्तदा ।।
परिवारयुतो दग्धो नाम न श्रूयते क्वचित् ।। ४६ ।।
ततश्शिवस्य कृपया शांतिं प्राप्ता मुनीश्वराः ।।
देवास्सर्वे च शक्राद्यास्स्वास्थ्यं प्रापाखिलं जगत् ।।४७।।
क्रोधज्वाला महेशस्य निस्ससार वनाद्वनम् ।।
राक्षसानां च तद्भस्म सर्वं व्याप्तं वनेऽखिलम् ।। ४८ ।।
ततश्चौषधयो जाता नानाकार्यकरास्तथा ।।
रूपान्तरं ततो नॄणां भवेद्वेषांतरं तथा ।।४९।।
भूतप्रेतपिशाचादि दूरतश्च ततो व्रजेत् ।।
तन्न कार्यं च यच्चैव ततो न भवति द्विजाः ।। 4.21.५० ।।
ततः प्रार्थितश्शम्भुर्मुनिभिश्च विशेषतः ।।
स्थातव्यं स्वामिना ह्यत्र लोकानां सुखहेतवे ।। ५१ ।।
अयं वै कुत्सितो देश अयोध्यालोकदुःखदः ।।
भवंतं च तदा दृष्ट्वा कल्याणं संभविष्यति ।। ५२ ।।
भीमशंकरनामा त्वं भविता सर्वसाधकः ।।
एतल्लिंगं सदा पूज्यं सर्वापद्विनिवारकम् ।। ५३ ।।
सूत उवाच।।
इत्येवं प्रार्थितश्शम्भुर्लोकानां हितकारकः ।।
तत्रैवास्थितवान्प्रीत्या स्वतन्त्रो भक्तवत्सलः ।।५४।।
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां भीमेश्वरज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं नामैकविंशोऽध्यायः ।।२१।।