शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः १९
← अध्यायः १८ | शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता) अध्यायः १९ वेदव्यासः |
अध्यायः २० → |
सूत उवाच।।
नरनारायणाख्यौ याववतारौ हरेर्द्विजाः ।।
तेपाते भारते खण्डे बदर्याश्रम एव हि।।१।।
ताभ्यां संप्रार्थितश्शंभुः पार्थिवे पूजनाय वै ।।
आयाति नित्यं तल्लिंगे भक्ताधीनतया शिव ।।२।।
एवं पूजयतोश्शंभुं तयोर्विष्ण्ववतारयोः ।।
चिरकालो व्यतीताय शैवयोर्धर्मपुत्रयोः ।।३।।
एकस्मिन्समये तत्र प्रसन्नः परमेश्वरः ।।
प्रत्युवाच प्रसन्नोस्मि वरो मे व्रियतामिति।।४।।
इत्युक्ते च तदा
तेन नरो नारायणस्स्वयम्।।
ऊचतुर्वचनं तत्र लोकानां हितकाम्यया ।। ५ ।। ।।
नरनारायणावूचतुः ।।
यदि प्रसन्नो देवेश यदि देयो वरस्त्वया ।।
स्थीयतां स्वेन रूपेण पूजार्थं शंकरस्स्वयम् ।। ६ ।।
सूत उवाच ।।
इत्युक्तस्तु तदा ताभ्यां केदारे हिमसंश्रये ।।
स्वयं च शंकरस्तस्थौ ज्योतीरूपो महेश्वरः ।।७।।
ताभ्यां च पूजितश्चैव सर्वदुःखभयापहः ।।
लोकानामुपकारार्थं भक्तानां दर्शनाय वै ।।८।।
स्वयं स्थितस्तदा शंभुः केदारेश्वरसंज्ञकः ।।
भक्ताभीष्टप्रदो नित्यं दर्शनादर्चनादपि ।।९।।
देवाश्च पूजयंतीह ऋषयश्च पुरातनाः।।
मनोभीष्ट फलं तेते सुप्रसन्नान्महेश्वरात् ।। 4.19.१० ।।
भवस्य पूजनान्नित्यं बदर्याश्रमवासिनः।।
प्राप्नुवन्ति यतः सोऽसौ भक्ताभीष्टप्रदः सदा ।।११।।
तद्दिनं हि समारभ्य केदारेश्वर एव च ।।
पूजितो येन भक्त्या वै दुःखं स्वप्नेऽति दुर्लभम् ।।१२।।
यो वै हि पाण्डवान्दृष्ट्वा माहिषं रूपमास्थितः ।।
मायामास्थाय तत्रैव पलायनपरोऽभवत् ।। १३ ।।
धृतश्च पाण्डवैस्तत्र ह्यवाङ्मुखतया स्थितः ।।
पुच्छ चैव धृतं तैस्तु प्रार्थितश्च पुनःपुनः ।। १४ ।।
तद्रूपेण स्थितस्तत्र भक्तवत्सलनामभाक् ।।
नयपाले शिरोभागो गतस्तद्रूपतः स्थितः ।। १५ ।।
स वै व पूजनान्नित्यमाज्ञां चैवाप्यदात्तथा ।।
पूजितश्च स्वयं शंभुस्तत्र तस्थौ वरानदात् ।। १६ ।।
पूजयित्वा गतास्ते तु पाण्डवा मुदितास्तदा ।।
लब्ध्वा चित्तेप्सितं सर्वं विमुक्तास्सर्वदुःखतः ।। १७ ।।
तत्र नित्यं हस्साक्षात्क्षेत्रे केदारसंज्ञके ।।
भारतीभिः प्रजाभिश्च तथैव परिपूज्यते ।। १८ ।।
तत्रत्यं वलयं यो वै ददाति हरवल्लभः ।।
हररूपांतिकं तच्च हररूपसमन्वितम् ।। १९ ।।
तथैव रूपं दृष्ट्वा च सर्वपापैः प्रमुच्यते ।।
जीवन्मुक्तो भवेत्सोपि यो गतो बदरीवने ।। 4.19.२० ।।
दृष्ट्वा रूपं नरस्यैव तथा नारायणस्य हि ।।
केदारेश्वरशंभोश्च मुक्तभागी न संशयः ।। २१ ।।
केदारेशस्य भक्ता ये मार्गस्थास्तस्य वै मृता।।
गतेऽपि मुक्ता भवंत्येव नात्र कार्य्या विचारणा ।।२२।।
गत्वा तत्र प्रीतियुक्तः केदारेशं प्रपूज्य च ।।
तत्रत्यमुदकं पीत्वा पुनर्जन्म न विन्दति ।।२३।।
खण्डेस्मिन्भारते विप्रा नरनारायणेश्वरः ।।
केदारेशः प्रपूज्यश्च सर्वैर्जीवैस्सुभक्तितः ।।२४।।
अस्य खण्डस्य स स्वामी सर्वेशोपि विशेषतः ।।
सर्वकामप्रदश्शंभुः केदाराख्यो न संशय ।। २५ ।।
एतद्वचस्समाख्यातं यत्पृष्टमृषिसत्तमाः ।।
श्रुत्वा पापं हरेत्सर्वं नात्र कार्या विचारणा ।।२६।।
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां केदारेश्वरज्योतिर्लिगमाहात्म्यवर्णनं नामैकोनविंशोऽध्यायः ।। १९ ।।
== ==
टिप्पणी
https://bharatkalyan97.blogspot.com/2021/11/history-of-kedarnath-temple-mentioned.html
He saw a bull grazing near Guptakashi (“hidden Kashi” — the name derived from the hiding act of Shiva). Bhima immediately recognized the bull to be Shiva. Bhima caught hold of the bull by its tail and hind legs. But the bull-formed Shiva disappeared into the ground to later reappear in parts, with the hump raising in Kedarnath, the arms appearing in Tungnath, the face showing up at Rudranath, the nabhi (navel) and stomach surfacing in Madhyamaheshwar and the hair appearing in Kalpeshwar. The Pandavas pleased with this reappearance in five different forms, built temples at the five places for venerating and worshipping Shiva.