शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः १८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १७ शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः १८
वेदव्यासः
अध्यायः १९ →

ऋषय ऊचुः ।।
त्वया सूत महाभाग श्राविता ह्यद्भुता कथा ।।
महाकालाख्यलिंगस्य निजभक्तसुरक्षिकः।।१।।
ज्योतिर्लिंगं चतुर्थं च कृपया वद वित्तम।।
ॐकारं परमेशस्य सर्वपातकहारिणः।।२।।
सूत उवाच।।
ॐकारे परमेशाख्यं लिंगमासीद्यथा द्विजाः।।
तथा वक्ष्यामि वः प्रीत्या श्रूयतां परमर्षयः।।
कस्मिंश्चित्समये चाञ नारदो भगवान्मुनिः।।
गोकर्णाख्यं शिवं गत्वा सिषेवे परभक्तिमान्।।४।।
ततस्स आगतो विन्ध्यं नगेशं मुनिसत्तमः।।
तत्रैव पूजितस्तेन बहुमानपुरस्सरम्।।५।।
मयि सर्वं विद्यते च न न्यूनं हि कदाचन।।
इति भावं समास्थाय संस्थितो नारदाग्रतः।।६।।
तन्मानं तत्तदा श्रुत्वा नारदो मानहा ततः।।
निश्श्वस्य संस्थितस्तत्र श्रुत्वाविन्ध्योऽब्रवीदिदम् ।।७ ।।
विन्ध्य उवाच ।।
किं न्यूनं च त्वया दृष्टं मयि निश्श्वासकारणम् ।।
तच्छ्रुत्वा नारदो वाक्यमब्रवीत्स महामुनिः ।। ८ ।।
।। नारद उवाच ।।
विद्यते त्वयि सर्वं हि मेरुरुच्चतरः पुनः ।।
देवेष्वपि विभागोऽस्य न तवास्ति कदाचन ।। ९ ।।
।। सूत उवाच ।।
इत्युक्त्वा नारदस्तस्माज्जगाम च यथागतम् ।।
विन्ध्यश्च परितप्तो वै धिग्वै मे जीवितादिकम् ।।4.18.१०।।
विश्वेश्वरं तथा शंभुमाराध्य च तपाम्यहम् ।।
इति निश्चित्य मनसा शंकर शरणं गतः ।। ११ ।।
जगाम तत्र सुप्रीत्या ह्योंकारो यत्र वै स्वयम् ।।
चकार च पुनस्तत्र शिवमूर्तिश्च पार्थिवीम् ।। १२ ।।
आराध्य च तदा शंभुं षण्मासं स निरन्तरम्।।
न चचाल तपस्थानाच्छिवध्यानपरायणः ।।१३।।
एवं विंध्यतपो दृष्ट्वा प्रसन्नः पार्वतीपतिः ।।
स्वरूपं दर्शयामास दुर्ल्लभं योगिनामपि ।। १४ ।।
प्रसन्नस्स तदोवाच ब्रूहि त्वं मनसेप्सितम् ।।
तपसा ते प्रसन्नोस्मि भक्तानामीप्सितप्रदः।।१५।।
विन्ध्य उवाच ।।
यदि प्रसन्नो देवेश बुद्धिं देहि यथेप्सिताम् ।।
स्वकार्यसाधिनीं शंभो त्वं सदा भक्तवत्सलः ।।१६।।
सूत उवाच ।।
तच्छ्रुत्वा भगवाञ्छंभुश्चिचेत हृदये चिरम्।।
परोपतापदं विन्ध्यो वरमिच्छति मूढधीः ।।१७।।
किं करोमि यदेतस्मै वरदानं भवेच्छुभम् ।।
मद्दत्तं परदुःखाय वरदानं यथा नहि ।। १८ ।।
।। सूत उवाच ।।
तथापि दत्तवाञ् शंभुस्तस्मै तद्वरमुत्तमम् ।।
विध्यपर्वतराज त्वं यथेच्छसि तथा कुरु ।। १९ ।।
एवं च समये देवा ऋपयश्चामलाशयाः ।।
संपूज्य शंकरं तत्र स्थातव्यमिति चाबुवन्।।4.18.२०।।
तच्छुत्वा देववचनं प्रसन्नः परमेश्वरः।।
तथैव कृतवान्प्रीत्या लोकानां सुखहेतवे ।। २१ ।।
ॐ कारं चैव यल्लिंगमेकं तच्च द्विधा गतम् ।।
प्रणवे चैव ॐकारनामासीत्स सदाशिवः ।। २२ ।।
पार्थिवे चैव यज्जातं तदासीत्परमेश्वरः ।।
भक्ताभीष्टप्रदौ चोभौ भुक्तिमुक्तिप्रदौ द्विजाः ।। २३ ।।
तत्पूजां च तदा चक्रुर्देवाश्च ऋषयस्तथा ।।
प्रापुर्वराननेकांश्च संतोष्य वृषभध्वजम् ।।२४।।
स्वस्वस्थानं ययुर्देवा विन्ध्योपि मुदितोऽधिकम् ।।
कार्य्यं साधितवान्स्वीयं परितापं जहौ द्विजाः ।।२५।।
य एवं पूजयेच्छंभुं मातृगर्भं वसेन्न हि ।।
यदभीष्टफलं तच्च प्राप्नुयान्नात्र संशय ।। २६ ।।
सूत उवाच ।।
एतत्ते सर्वमाख्यातमोंकारप्रभवे फलम् ।।
अतः परं प्रवक्ष्यामि केदारं लिंगमुत्तमम् ।। २७ ।।
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायामोंकारेश्वरज्योतिर्लिंगमाहात्म्यवर्णनं नामाष्टादशोऽध्यायः ।। १८।।