शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः ३६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३५ शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः ३६
वेदव्यासः
अध्यायः ३७ →

।। सूत उवाच ।।
श्रुत्वा विष्णुकृतं दिव्यं परनामविभूषितम् ।।
सहस्रनामस्वस्तोत्रं प्रसन्नोऽभून्महेश्वरः ।। १ ।।
परीक्षार्थं हरेरीशः कमलेषु महेश्वरः ।।
गोपयामास कमलं तदैकं भुवनेश्वरः ।। २ ।।
पंकजेषु तदा तेषु सहस्रेषु बभूव च ।।
न्यूनमेकं तदा विष्णुर्विह्वलश्शिवपूजने ।। ३ ।।
हृदा विचारितं तेन कुतो वै कमलं गतम् ।।
यातं यातु सुखेनैव मन्नेत्रं कमलं न किम् ।। ४ ।।
ज्ञात्वेति नेत्रमुद्धृत्य सर्वसत्त्वावलम्बनात् ।।
पूजयामास भावेन स्तवयामास तेन च ।। ५ ।।
ततः स्तुतमथो दृष्ट्वा तथाभूतं हरो हरिम् ।।
मा मेति व्याहरन्नेव प्रादुरासीज्जगद्गुरुः ।।६।।
तस्मादवतताराशु मण्डलात्पार्थिवस्य च ।।
प्रतिष्ठितस्य हरिणा स्वलिंगस्य महेश्वरः ।।७।।
यथोक्तरूपिणं शम्भुं तेजोराशिसमुत्थितम् ।।
नमस्कृत्य पुरः स्थित्वा स तुष्टाव विशेषतः ।। ८ ।।
तदा प्राह महादेवः प्रसन्नः प्रहसन्निव ।।
सम्प्रेक्ष्य कृपया विष्णुं कृतांजलिपुटं स्थितम् ।। ९ ।।
शङ्कर उवाच।।
ज्ञातं मयेदं सकलं तव चित्तेप्सितं हरे ।।
देवकार्यं विशेषेण देवकार्य्यरतात्मनः ।। 4.36.१० ।।
देवकार्य्यस्य सिद्ध्यर्थं दैत्यनाशाय चाश्रमम् ।।
सुदर्शनाख्यं चक्रं च ददामि तव शोभनम् ।। ११ ।।
यद्रूपं भवता दृष्टं सर्वलोकसुखावहम् ।।
हिताय तव देवेश धृतं भावय तद्ध्रुवम् ।। १२ ।।
रणाजिरे स्मृतं तद्वै देवानां दुःखनाशनम् ।।
इदं चक्रमिदं रूपमिदं नामसहस्रकम् ।। १३ ।।
ये शृण्वन्ति सदा भक्त्या सिद्धि स्यादनपायिनी ।।
कामानां सकलानां च प्रसादान्मम सुव्रत ।।१४।।
सूत उवाच ।।
एवमुक्त्वा ददौ चक्रं सूर्यायुतसमप्रभम् ।।
सुदर्शनं स्वपादोत्थं सर्वशत्रुविनाशनम् ।। १५ ।।
विष्णुश्चापि सुसंस्कृत्य जग्राहोदङ्मुखस्तदा।।
नमस्कृत्य महादेवं विष्णुर्वचनमब्रवीत् ।। १६ ।।
विष्णुरुवाच ।।
शृणु देव मया ध्येयं पठनीयं च किं प्रभो ।।
दुःखानां नाशनार्थं हि वद त्वं लोकशंकर ।। १७ ।।
सूत उवाच ।।
इति पृष्टस्तदा तेन सन्तुष्टस्तु शिवोऽब्रवीत् ।।
प्रसन्नमानसो भूत्वा विष्णुं देवसहायकम् ।। १८ ।।
।। शिव उवाच ।।
रूपं ध्येयं हरे मे हि सर्वानर्थप्रशान्तये ।।
अनेकदुःखनाशार्थं पठ नामसहस्रकम् ।।१९।।
धार्य्यं चक्रं सदा मे हि सवार्भीष्टस्य सिद्धये ।।
त्वया विष्णो प्रयत्नेन सर्वचक्रवरं त्विदम् ।। 4.36.२० ।।
अन्ये च ये पठिष्यन्ति पाठयिष्यन्ति नित्यशः ।।
तेषां दुःखं न स्वप्नेऽपि जायते नात्र संशयः ।। २१ ।।
राज्ञा च संकटे प्राप्ते शतावृत्तिं चरेद्यदा ।।
साङ्गः च विधिसंयुक्तं कल्याणं लभते नरः ।।२२।।
रोगनाशकरं ह्येतद्विद्यावित्तदमुत्तमम् ।।
सर्वकामप्रदं पुण्यं शिवभक्तिप्रदं सदा ।। २३ ।।
यदुद्दिश्य फलं श्रेष्ठं पठिष्यन्ति नरास्त्विह ।।
सप्स्यन्ते नात्र संदेहः फलं तत्सत्यमुत्तमम् ।।२४।।
यश्च प्रातस्समुत्थाय पूजां कृत्वा मदीयिकाम् ।।
पठते मत्समक्षं वै नित्यं सिद्धिर्न दूरतः ।। २५ ।।
ऐहिकीं सिद्धिमाप्नोति निखिलां सर्वकामिकाम् ।।
अन्ते सायुज्यमुक्तिं वै प्राप्नोत्यत्र न संशयः ।। २६ ।।
सूत उवाच ।।
एवमुक्त्वा तदा विष्णुं शंकरः प्रीतमानसः ।।
उपस्पृश्य कराभ्यां तमुवाच गिरिशः पुनः ।।२७।।
।। शिव उवाच ।।
वरदोऽस्मि सुरश्रेष्ठ वरान्वृणु यथेप्सितान् ।।
भक्त्या वशीकृतो नूनं स्तवेनानेन सुव्रतः ।।२८।।
।। सूत उवाच ।।
इत्युक्तो देवदेवेन देवदेवं प्रणम्य तम् ।।
सुप्रसन्नतरो विष्णुस्सांजलिर्वाक्यमब्रवीत् ।। २९ ।।
विष्णुरुवाच ।।
यथेदानीं कृपानाथ क्रियते चान्यतः परा ।।
कार्य्या चैव विशेषेण कृपालुत्वात्त्वया प्रभो ।।4.36.३०।।
त्वयि भक्तिर्महादेव प्रसीद वरमुत्तमम् ।।
नान्यमिच्छामि भक्तानामार्त्तयो नैव यत्प्रभो ।। ३१ ।।
सूत उवाच ।।
तच्छ्रुत्वा वचनं तस्य दया वान्सुतरां भवः ।।
पस्पर्श च तदंगं वै प्राह शीतांशुशेखरः ।।३२।।
शिव उवाच ।।
मयि भक्तिस्सदा ते तु हरे स्यादनपायिनी ।।
सदा वन्द्यश्च पूज्यश्च लोके भव सुरैरपि ।।३३।।
विष्वंभरेति ते नाम सर्वपापहरं परम् ।।
भविष्यति न संदेहो मत्प्रसादात्सुरोत्तम ।। ३४ ।।
।। सूत उवाच ।।
इत्युक्त्वांतर्दधे रुद्रस्सर्वदेवेश्वरः प्रभुः ।।
पश्यतस्तस्य विष्णोस्तु तत्रैव च मुनीश्वराः ।। ३५ ।।
जनार्दनोऽपि भगवान्वचनाच्छङ्करस्य च ।।
प्राप्य चक्रं शुभं तद्वै जहर्षाति स्वचेतसि ।। ३६ ।।
कृत्वा ध्यानं च तच्छम्भोः स्तोत्रमेतन्निरन्तरम् ।।
पपाठाध्यापयामास भक्तेभ्यस्तदुपादिशत्।।३७।।
इति पृष्टं मयाख्यातं शृण्वताम्पापहारकम्।।
अतःपरं च किं श्रेष्ठाः प्रष्टुमिच्छथ वै पुनः।।३८।।
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां शिवसहस्रनामस्तोत्रफलवर्णनं नाम षट्त्रिंशोध्यायः ।।३६।।