शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/विषयानुक्रमणिका

विकिस्रोतः तः

अथ तृतीया शतरुद्रसंहिता ।३।

१ शौनकस्य शिवावतार जिज्ञासायां सद्योजातवामदेवतत्पुरुषाघोरेशभेदेन क्षेत्रसर्वज्ञत्वादिव्यवहारप्रदर्शनार्थं सूतस्य तद्वर्णनम् । ।

२ शर्वभवरुद्रादिभेदेन शम्भोरष्टमूर्तीनामभिधानं तत्तत्कार्य्यप्रदर्शनञ्च ।

३ द्वन्द्वजप्रजासिसृक्षुब्रह्मतपश्चरणप्रीतः शिवस्य शरीरादर्द्धनारीश्वरप्रादुर्भावः । शिवाज्ञया प्रजापतिसंकल्पसिद्धये ब्रह्मणे भवान्या नारीसृष्टि शक्तिप्रदानपूर्वकं दक्षगृहेऽवतरणम् ।

४ प्रथमे द्वापरे श्वेतमुनिरूपेण शम्भवतारग्रहण श्वेतश्वेतमशिखादिमुनीन्प्रति ध्यानप्रशंसा, एवं द्वितीयादिनव द्वापरपर्य्यन्ततत्तद्रूपेण शम्भोरवतारवर्णनं तत्तच्छिष्योपदेशपूर्व्वकमन्ते संक्षेपेन भद्रायुश्चरितम् ।

५ दशमाद्यष्टाविंशतिद्वारपर पर्यन्तन्तत्तन्मुनिरूपेण श्रीशिवावतारतच्छिष्यनामादिकथनम् ।

६ पुत्रकामस्य शिलादमुनेदुष्करतपश्चरणपूर्वकं श्री शिवात्मकाऽयोनिजनन्दीश्वरपुत्रप्राप्तिस्तस्याल्पायुयोगज्ञानात्परितापो नंदीश्वरस्य तपश्चर्य्यार्थं गमनञ्च ।

७ तप:प्रतीतान्महेश्वरान्नन्दीश्वरस्य गणाधिपत्व प्राप्तिर्विवाहवर्णनं शिवभक्तिवरप्राप्तिश्च ।

८ अहमेवसर्वेश्वरो न कश्चिन्मत्तोऽधिक इति ब्रह्मगर्वनाशाय कालभैरवापरनामुकरुद्रावतार वर्णनम् ।

९ भैरवस्य त्रिलोकीतीर्थ भ्रमणेऽप्यनपगतविधिशिरश्छेदजब्रह्महत्या काश्यां कपालमोचनतीर्थे सद्योविलयं गतेति कपालमोचनतीर्थस्य सर्वश्रेष्ठत्वोक्तिः ।

१० नृसिंहस्य चरितवर्णने तदुग्ररुड्ज्वालासंतप्तजगत्त्रयीरक्षणोपायप्रश्नार्थं समागतदेवानुद्दिश्य तद् दुःखोपशमाय श्रीमहादेवस्य प्रतिवचनम्।

११ श्रीमहादेवाज्ञया दृप्तनृसिंहोपशमाय गणाग्रयवीरभद्रभ्य तदुपकण्ठ आगत्य ससामनिनिवेदनेऽपि नृसिंहगर्वानपागमात्कोपप्रकाशनम् ।

१२ शम्भोश्शरभावतार प्रसंगे दृप्तनृसिंह शिरच्छेदस्तत्कृत्तिवसनेन च तस्य कृत्तिवासा इति सोपपत्तिकनामकथनम्

१३ अत्युग्रतपोनिरतविश्वासनराख्यमुनिं प्रति शुचिष्मत्यां त्वत्पत्यां गृहपतिनाम्ना पुत्रतामेएष्यामीति शम्भोः प्रतिज्ञा ।

१४ गृहपत्यवतारसमये विष्णवादिदेवानामागमनम् । विहितोपनयनादिसंस्कारस्य तस्य नारदेनायुल्पाभिधानम् ।

१५ अकालमृत्युच्छिदे गृहपतेस्तपश्चरणम् । शक्र रूपेण शम्भुना तत्परीक्षणं स्वात्मनि तद्दृढप्रेमावलोकनात्सपरितोषं तस्मा अग्निपदवीप्रदानम् ।

१६ समुद्रमथनोद्भूतसुधासन्तृप्तदृप्तदेवमदापहाराय शम्भोर्यक्षेश्वरावतारवर्णनम् ।

१७ शंभोः सशक्तिकमहाकालातारादिदशावतारवर्णनम् ।

१८ दैत्योपद्रुतदेवरक्षाकामकश्यपतपः परितुष्टशिवस्य सर्वतस्सुररक्षायै कपाल्याद्येकादशरुद्रावतारधारणम् ।

१९ पुत्रकामस्यात्रेः सर्वश्रेष्ठदेवतपश्चरणं ब्रह्मविष्णुशिवात्मिकाया देवत्रय्या वरं याचस्वेति तदन्तिकमागमनम् । तदंशभ्यश्चन्द्रदत्तात्रेय दुर्वाससामुद्भवो दुःर्वाससोऽम्बरीषादीनान्धर्मपरीक्षावर्णनञ्च ।

२० मोहिनीरूपमुग्धस्य हरस्य मनःक्षोभाद्वीर्यच्युतिः । सप्तर्षिद्वारा गौतमसुतायामञ्जन्यां श्रवणद्वारा तस्याऽऽधानम् ततश्च यथावसरं हनूमज्जनिः । हनुमतः सूर्यादध्ययनं तन्निदेशेन च तस्य सुग्रीवोपकण्ठं गमनं सीतान्वेषणादि श्रीरामकार्यकरणादि च ।

२१ भैरवाय मनुजो भवेति गिरिजायाः शापदानम् ।

२२ समुद्रसञ्जातदिव्यनारीभिः पाताले विष्णोर्विहरणम् । चिरायैवं विष्णवासक्तिमालोक्य महेशस्य तद्बोधनाय वृषरूपधारणञ्च ।

२३ अतुलबलवृषरूपेण शिवेन विष्णुशम्भुयुद्धे विष्णोः पराजये शिवाज्ञया तस्य स्वलोकगमनम् ।

२४ दधीचमुनिपत्न्यां शम्भोः पिप्पलादवतारवर्णनम् ।

२५ पिप्पलादस्यानरण्यसुतया विवाहस्तत्प्रसंगे पिप्पलादीनां स्मरणे शनिकृतपीडाविनाश वर्णनम् ।

२६ महानन्दावेश्याभक्तिसमाकृष्टचित्तस्य शम्भोर्वेश्यानाथाह्वावतारवर्णनम्।

२७ द्विजेशाह्वशिवावतारप्रसंगे भद्रायुनृपभक्तिपरीक्षा तस्मा आयुषोऽन्ते स्वलोकप्राप्तिवरदानञ्च ।

२८ सभार्याहुकभिल्लस्य भक्त्या तुष्टेन शिवेन यतिरूपेण परीक्षणम् । परीक्षिताया आहुकायै जन्मांतरे त्वं विदर्भराजतनया आहुकश्च नलोऽहञ्च भवत्प्रीतिकरो हंसो भविष्यामीति वरदानम् ।

२९ इक्ष्वाकुवंश्यनभगचरित्रवर्णनप्रसंगे कृष्णदर्शनशिवावतारवर्णनम् ।

३० स्वावज्ञया शक्रं जिंघांसो: शिवस्य प्रणिपातपुरस्सरं गुरोः प्रार्थना प्रतीताच्च तस्मात्तद्दर्शनपूर्वकमिष्टलाभः इन्द्रञ्जीवयति गुरूनिर्बन्धेनेश्वेरेणेन्द्रजीवनं गुरवे च जीव इति संज्ञा च प्रददे

३१ विदर्भेश सत्यरथराज्ञः संग्रामे शत्रुभिः पराभवे जाते अन्तर्वत्न्याः तत्पत्न्या गृहान्निर्गताया मार्गे सुतजननोत्तरकाले निधनम् । जातमात्रस्यापत्यस्य रक्षार्थं भिक्षुरूपशम्भुप्रेरणया कस्याश्चिद्विधवाब्राह्मण्या आगमनम् तद्बालरक्षा चेत्यादिप्रसंगेन शिवस्य भिक्षुवर्यावतारवर्णनम् ।

३२ क्षीरार्थ तपस्यत उपमन्योः शक्ररूपिशंभुंकृतपरीक्षणं कृतपरीक्षाय तस्मै दधिदुग्धादिसमुद्रदानाद्यनेकवरप्रदानपूर्वकं स्वगणपदवितरणञ्च

३३ श्रीशिववरप्राप्तये तपस्यन्त्याः शिवाया ब्रह्मचारिरूपेण तस्या भावपरीक्षणम् ।

३४ पार्वतीप्राप्तीच्छया हिमवद्गृहे शंभोः सुनर्तकरूपेणागत्य शतलीलाप्रदर्शनपुरस्सरं तस्या याञ्चा।

३५ अज्ञातकुलशीलाय शिवाय पार्वतीप्रदानन्न सांप्रतमिति मतिदातुं हिमवत्पार्श्वे द्विजरूपिशिवगमनम् ।

३६ पुत्रार्थमत्युग्रतपश्चरतो द्रोणस्य पत्न्यामश्वत्थामारूपेण शम्भोरवतारवर्णनं पाण्डवैः सह युद्धविवरणञ्च ।

३७ द्वैतवनस्थपाण्डवानामन्तिके तदनिष्ठाय दुर्योधनेन दुर्वाससः प्रेषणं कृष्णकृपया तदुद्धार जाते व्यासस्य तदन्तिके गमनं शैवास्त्रप्राप्तये चन्द्रकीलपर्वतऽर्जुनप्रेषणम् ।

३८ व्यासेनार्जुनविरहकातर पाण्डवाश्वासनमर्जुनतपस्तेजजोऽसहनेनेन्द्रकील रक्षकाणामिन्द्रसमीपे तद्वृत्तवर्णनमिन्द्रस्यार्जुनपरीक्षापूर्वकं भगवतः शिवस्याराधने तन्नियोजनम् ।

३९ तपस्यदर्जुनवधाय दुर्योधनेन शूकररूपिमूकाख्य दैत्यप्रेषणं श्रीवेनार्जुनरक्षायै धृतभिल्लपतिवेषेणार्जुनबाणपातसमकालमेव मूकवधः कृतः ।

४० युगपन्मुक्तशरयोर्हतशूकरयोः शिवार्जुनयोरहमेव विजयीरहमेव विजयीति विवाद:।

४१ भिल्लराजरूपिशिवस्यार्जुनेन युद्धमर्जुनाय शिव वरदानन्तस्य श्व गृहे प्रत्यागमनं कृष्णदर्शनञ्च

४२ श्रीशम्भोर्द्वादशज्योतिलिङ्गावतारवर्णनम् ।

इति तृतीया शतरुद्रसंहिता । ३ ।।