शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः ०६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०५ शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)
अध्यायः ०६
वेदव्यासः
अध्यायः ०७ →

अथ नन्दीश्वरावतारमाह ।।
सनत्कुमार उवाच ।।
भवान्कथमनुप्राप्तो महादेवांशजः शिवम् ।।
श्रोतुमिच्छामि तत्सर्वं वक्तुमर्हसि मे प्रभो ।। १ ।।
नन्दीश्वर उवाच ।।
सनत्कुमार सर्वज्ञ सावधानतया शृणु ।।
यथाहं च शिवं प्राप्तो महादेवांशजो मुने ।। २ ।।
प्रजाकामः शिलादोऽभूदुक्तः पितृभिरादरात् ।।
तदुद्धर्तुमना भक्त्या समुद्धारमभीप्सुभिः ।। ३ ।।
अधोदृष्टिः सुधर्मात्मा शिलादो नाम वीर्यवान् ।।
तस्यासीन्मुनिकैर्वृत्तिः शिवलोके च सोगमत् ।। ४ ।।
शक्रमुद्दिश्य स मुनिस्तपस्तेपे सुदुः सहम् ।।
निश्चलात्मा शिलादाख्यो बहुकालं दृढव्रतः ।। ५ ।।
तपतस्तस्य तपसा संतुष्टोऽभूच्छतक्रतुः ।।
जगाम च वरं दातुं सर्वदेवप्रभुस्तदा ।। ६ ।।
शिलादमाह सुप्रीत्या शक्रस्तुष्टोऽस्मि तेऽनघ ।।
तेन त्वं मुनिशार्दूल वरयस्व वरानिति ।। ७ ।।
ततः प्रणम्य देवेशं स्तुत्वा स्तुतिभिरादरात् ।।
शिलादो मुनिशार्दूलस्तमाह सुकृताञ्जलिः ।।८।।
शिलाद उवाच ।।
शतक्रतो सुरेशान सन्तुष्टो यदि मे प्रभो।।
अयोनिजं मुत्युहीनं पुत्रमिच्छामि सुव्रतम्।।९।।
शक्र उवाच।।
पुत्रं दास्यामि पुत्रार्थिन्योनिजं मृत्युसंयुतम् ।।
अन्यथा ते न दास्यामि मृत्युहीना न सन्ति वै ।।3.6.१०।।
न दास्यामि सुतं तेऽहं मृत्युहीनमयोनिजम् ।।
हरिर्विधिश्च भगवान्किमुतान्यो महामुने ।।११।।
तावपि त्रिपुरार्यंगसम्भावौ मरणान्वितौ ।।
तयोरप्यायुषा मानं कथितं निगमे पृथक् ।।१२।।
तस्मादयोनिजे पुत्रे मृत्युहीने प्रयत्नतः ।।
परित्यजाशां विप्रेन्द्र गृहाणात्मक्षमं सुतम्।।१३।।
किन्तु देवेश्वरो रुद्रः प्रसीदति महेश्वरः ।।
सुदुर्लभो मृत्युहीनस्तव पुत्रो ह्ययोनिजः ।। १४ ।।
अहं च विष्णुर्भगवान्द्रुहिणश्च महामुने ।।
अयोनिजं मृत्युहीनं पुत्रं दातुं न शक्नुमः ।। १५ ।।
आराधय महादेवं तत्पुत्रविनिकाम्यया ।।
सर्वेश्वरो महाशक्तः स ते पुत्रं प्रदास्यति ।। १६ ।।
नन्दीश्वर उवाच ।।
एवं व्याहृत्य विप्रेन्द्रमनुगृह्य च तं घृणी।।
देवैर्वृतः सुरेशानस्स्वलोकं समगान्मुने ।। १७ ।।
गते तस्मिंश्च वरदे सहस्राक्षे शिलाशनः ।।
आराधयन्महादेवं तपसातोषयद्भवम्।।१८।।
अथ तस्यैवमनिशन्तत्परस्य द्विजस्त वै ।।
दिव्यम्वर्षसहस्रं तु गतं क्षणमिवाद्भुतम् ।।१९।।
वल्मीकेन वृतांगश्च लक्षकोटगणैर्मुनिः ।।
सूचीमुखैश्चान्यै रक्तभुग्भिश्च सर्वतः ।।3.6.२०।।
निर्मांसरुधिर त्वग्वै बिले तस्मिन्नवस्थितः ।।
अस्थिशेषोभवत्पश्चाच्छिलादो मुनिसत्तमः ।। २१ ।।
तुष्टः प्रभुस्तदा तस्मै दर्शयामास स्वां तनुम् ।।
दिव्यां दिव्यगुणैर्युक्तामलभ्यां वामबुद्धिभिः ।।२२।।
दिव्यवर्षसहस्रेण तप्यमानाय शूलधृक् ।।
सर्वदेवाधिपस्तस्मै वरदोस्मीत्यभाषत ।।२३।।
महासमाधिसंलीनस्स शिलादो महामुनिः ।।
नाशृणोत्तद्गिरं शम्भोर्भक्त्यधीनरतस्य वै।।२४।।
यदा स्पृष्टो मुनिस्तेन करेण त्रिपुरारिणा ।।
तदैव मुनिशार्दूल उत्ससर्ज? तपःक्रमम् ।।२५।।
अथोन्मील्य मुनिर्नेत्रे सोमं शंभुं विलोकयन् ।।
द्रुतं प्रणम्य स मुदा पादयोर्न्यपतन्मुने।।२६।।
हर्षगद्गदया वाचा नतस्कंधः कृताञ्जलिः।।
प्रसन्नात्मा शिलादस्स तुष्टाव परमेश्वरम् ।।२७।।
ततः प्रसन्नो भगवान्देवदेवस्त्रिलोचनः।।
वरदोऽस्मीति तम्प्राह शिलादं मुनिपुंगवम्।।२८।।
तपसानेन किं कार्यं भवते हि महा मते।।
ददामि पुत्रं सर्वज्ञं सर्वशास्त्रार्थपारगम्।।२९।।
ततः प्रणम्य देवेशं तच्छ्रुत्वा च शिलाशनः।।
हर्षगद्गदया वाचोवाच सोमविभूषणम् ।।3.6.३०।।
शिलाद उवाच ।।
महेश यदि तुष्टोऽसि यदि वा वरदश्च मे ।।
इच्छामि त्वत्समं पुत्रं मृत्युहीनमयोनिजम् ।।३१।।
नंदीश्वर उवाच ।।
एवमुक्तस्ततो देवस्त्र्यम्बकस्तेन शङ्करः ।।
प्रत्युवाच प्रसन्नात्मा शिलादं मुनिसत्तमम्।।३२।।
।। शिव उवाच ।।
पूर्वमाराधितो विप्र ब्रह्मणाहं तपोधन ।।
तपसा चावतारार्थं मुनिभिश्च सुरोत्तमैः।।३३।।
तव पुत्रो भविष्यामि नन्दी नाम्ना त्वयोनिजः ।।
पिता भविष्यसि मम पितुर्वै जगतां मुने ।। ३४ ।।
नन्दीश्वर उवाच ।।
एवमुक्त्वा मुनिं प्रेक्ष्य प्रणिपत्यास्थितं घृणी ।।
सोमस्तूर्णं तमादिश्य तत्रैवान्तर्दधे हरः ।।३५।।
गते तस्मिन्महादेवे स शिलादो महामुनिः।।
स्वमाश्रयमुपागम्य ऋषिभ्योऽकथयत्ततः ।।३६।।
कियता चैव कालेन तदासौ जनकः स मे।।
यज्ञांगणं चकर्षाशु यज्ञार्थं यज्ञवित्तमः।।३७।।
ततः क्षणादहं शंभोस्तनुजस्तस्य चाज्ञया।।
स जातः पूर्व्वमेवाहं युगान्ताग्निसमप्रभः ।। ३८ ।।
अवर्षंस्तदा पुष्करावर्तकाद्या जगुः खेचराः किन्नराः सिद्धसाध्या ।।
शिलादात्मजत्वं गते मय्यृषीन्द्रास्समन्ताच्च वृष्टिं व्यधुः कौसुमीं ते।।३९।।
अथ ब्रह्मादयो देवा देवपल्यश्च सर्वशः ।।
तत्राजग्मुश्च सुप्रीत्या हरिश्चैव शिवोऽम्बिका।।3.6.४०।।
तदोत्सवो महानासीन्ननृतुश्चाप्सरोगणाः ।।
आदृत्य मां तथा लिंगं तुष्टुवुर्हर्षिताश्च ते।।४१।।
सुप्रशस्य शिलादं तं स्तुत्वा च सुस्तवैः शिवौ।।
सर्वे जग्मुश्च धामानि शिवावप्यखिलेश्वरौ।।४२।।
शिलादोऽपि च मां दृष्ट्वा कालसूर्य्यानलप्रभम्।।
त्र्यक्षं चतुर्भुजं बालं जटामुकुटधारिणम् ।।४३।।
त्रिशूलाद्यायुधं दीप्तं सर्वथा रुद्ररूपिणम्।।
महानन्दभरः प्रीत्या प्रणम्यं प्रणनाम च ।। ४४ ।।
शिलाद उवाच ।।
त्वयाहं नन्दितो यस्मान्नन्दी नाम्ना सुरेश्वर ।।
तस्मात्त्वां देवमानन्दं नमामि जगदीश्वरम् ।। ४५ ।।
नन्दीश्वर उवाच ।।
मया सह पिता हृष्टः सुप्रणम्य महेश्वरम् ।।
उटजं स्वं जगामाशु निधिं लब्ध्वेव निर्धनः ।।४६।।
यदा गतोहमुटजं शिलादस्य महामुने ।।
तदाहं तादृशं रूपं त्यक्त्वा मानुष्यमास्थितः।।४७।।
मानुष्यमास्थितं दृष्ट्वा पिता मे लोकपूजितः ।।
विललापातिदुःखार्त्तः स्वजनैश्च समावृतः ।।४७।।
जातकर्मादिकान्येव सर्वाण्यपि चकार मे ।।
शालंकायनपुत्रो वै शिलादः पुत्रवत्सलः ।। ४९ ।।
वेदानध्यापयामास सांगोपांगानशेषतः ।।
शास्त्राण्यन्यान्यपि तथा पञ्चवर्षे पिता च माम् ।।3.6.५०।।
सम्पूर्णे सप्तमे वर्षे मित्रावरुणसंज्ञकौ ।।
मुनी तस्याश्रमं प्राप्तौ द्रष्टुं मां चाज्ञया विभोः ।।५१।।
सत्कृतौ मुनिना तेन सूपविष्टो महामुनी ।।
ऊचतुश्च महात्मानौ मां निरीक्ष्य मुहुर्मुहुः।।५२।।
मित्रावरुणावूचतुः।।
तात नंदीस्तवाल्पायुः सर्वशास्त्रार्थपारगः।।
न दृष्टमेव चापश्यं ह्यायुर्वर्षादतः परम् ।। ५३ ।।
विप्रयोरित्युक्तवतोः शिलादः पुत्रवत्सलः ।।
तमालिङ्ग्य च दुःखार्त्तो रुरोदातीव विस्वरम् ।। ५४ ।।
मृतवत्पतितं दृष्ट्वा पितरं च पितामहम् ।।
प्रत्यवोचत्प्रसन्नात्मा स्मृत्वा शिवपदाम्बुजम् ।। ५५ ।।
केन त्वं तात दुःखेन वेपमानश्च रोदिषि ।।
दुःखं ते कुत उत्पन्नं ज्ञातुमिच्छामि तत्त्वतः ।। ५६ ।।
।। पितोवाच ।।
तवाल्पमृत्युदुःखेन दुःखितोऽतीव पुत्रक ।।
को मे दुःखं हरतु वै शरणं प्रयामि हि ।।५७।।
।। पुत्र उवाच ।।
देवो वा दानवो वापि यमः कालोथ वापि हि।।
ऋध्येयुर्यद्यपि ह्येते मामन्येपि जनास्तथा ।। ५८ ।।
अथापि चाल्पमृत्युर्मे न भविष्यति मां तुदः ।।
सत्यं ब्रवीमि जनकं शपथन्ते करोम्यहम्।।५९।।
।। पितोवाच ।।
किं तपः किं परिज्ञानं को योगश्च प्रभुश्च ते ।।
येन त्वं दारुणं दुःखं वञ्चयिष्यसि पुत्र मे ।।3.6.६०।।
।। पुत्र उवाच ।।
न तात तपसा मृत्युं वंचयिष्ये न विद्यया।।
महादेवस्य भजनान्मृत्युं जेष्यामि नान्यथा ।।६१।।
।। नन्दीश्वर उवाच ।।
इत्युक्त्वाहं पितुः पादौ प्रणम्य शिरसा मुने ।।
प्रदक्षिणीकृत्य च तमगच्छं वनमुत्तमम्।।६२।।
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां नन्दिकेशावतारवर्णनं नाम षष्ठोऽध्यायः ।।६।।