शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः ४१
← अध्यायः ४० | शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः) अध्यायः ४१ वेदव्यासः |
अध्यायः ४२ → |
व्यास उवाच ।।
नारायणश्च भगवान् वीर्याधानं चकार ह ।।
तुलस्याः केन यत्नेन योनौ तद्वक्तुमर्हसि ।। १ ।।
सनत्कुमार उवाच ।।
नारायणो हि देवानां कार्यकर्ता सतां गतिः ।।
शंखचूडस्य रूपेण रेमे तद्रमया सह ।।२।।
तदेव शृणु विष्णोश्च चरितं प्रमुदावहम्।।
शिवशासनकर्तुश्च मातुश्च जगतां हरेः।।३।।
रणमध्ये व्योमवचः श्रुत्वा देवेन शंभुना।।
प्रेरितश्शंखचूडस्य गृहीत्वा कवचं परम्।।४।।
विप्ररूपेण त्वरितं मायया निजया हरिः।।
जगाम शंखचूडस्य रूपेण तुलसीगृहम् ।।५।।
दुन्दुभिं वादयामास तुलसी द्वारसन्निधौ ।।
जयशब्दं च तत्रैव बोधयामास सुन्दरीम्।।६।।
तच्छ्रुत्वा चैव सा साध्वी परमानन्दसंयुता।।
राजमार्गं गवाक्षेण ददर्श परमादरात्।।७।।
ब्राह्मणेभ्यो धनं दत्त्वा कारयामास मंगलम्।।
द्रुतं चकार शृंगारं ज्ञात्वाऽऽयातं निजं पतिम् ।।८।।
अवरुह्य रथाद्विष्णुस्तद्देव्याभवनं ययौ ।।
शंखचूडस्वरूपः स मायावी देवकार्यकृत् ।। ९ ।।
दृष्ट्वा तं च पुरः प्राप्तं स्वकांतं सा मुदान्विता ।।
तत्पादौ क्षालयामास ननाम च रुरोद च ।। 2.5.41.१० ।।
रत्नसिंहासने रम्ये वासयामास मंगलम् ।।
ताम्बूलं च ददौ तस्मै कर्पूरादिसुवासितम् ।। ११ ।।
अद्य मे सफलं जन्म जीवनं संबभूव ह ।।
रणे गतं च प्राणेशं पश्यंत्याश्च पुनर्गृहे।।१२।।
इत्युक्त्वा सकटाक्षं सा निरीक्ष्य सस्मितं मुदा ।।
पप्रच्छ रणवृत्तांतं कांतं मधुरया गिरा ।।१३।।
तुलस्युवाच ।।
असंख्यविश्वसंहर्ता स देवप्रवरः प्रभुः ।।
यस्याज्ञावर्त्तिनो देवा विष्णुब्रह्मादयस्सदा ।। १४ ।।
त्रिदेवजनकस्सोत्र त्रिगुणात्मा च निर्गुणः ।।
भक्तेच्छया च सगुणो हरिब्रह्मप्रवर्तकः ।।१५।।
कुबेरस्य प्रार्थनया गुणरूपधरो हरः ।।
कैलासवासी गणपः परब्रह्म सतां गतिः ।। १६ ।।
यस्यैकपलमात्रेण कोटिब्रह्मांडसंक्षयः ।।
विष्णुब्रह्मादयोऽतीता बहवः क्षणमात्रतः ।।१७।।
कर्तुं सार्द्धं च तेनैव समरं त्वं गतः प्रभो ।।
कथं बभूव संग्रामस्तेन देवसहायिना ।।१८।।
कुशली त्वमिहायातस्तं जित्वा परमेश्वरम् ।।
कथं बभूव विजयस्तव ब्रूहि तदेव मे ।।१९।।
श्रुत्वेत्थं तुलसीवाक्यं स विहस्य रमापतिः ।।
शंखचूडरूपधरस्तामुवाचामृतं वचः ।।2.5.41.२०।।
भगवानुवाच ।।
यदाहं रणभूमौ च जगाम समरप्रियः ।।
कोलाहलो महान् जातः प्रवृत्तोऽभून्महारणः ।। २१ ।।
देवदानवयोर्युद्धं संबभूव जयैषिणोः ।।
दैत्याः पराजितास्तत्र निर्जरैर्बलगर्वितैः ।। २२ ।।
तदाहं समरं तत्राकार्षं देवैर्बलोत्कटैः ।।
पराजिताश्च ते देवाश्शंकरं शरणं ययुः ।।२३।।
रुद्रोऽपि तत्सहायार्थमाजगाम रणं प्रति।।
तेनाहं वै चिरं कालमयौत्संबलदर्पित ।।२४।।
आवयोस्समरः कान्ते पूर्णमब्दं बभूव ह ।।
नाशो बभूव सर्वेषामसुराणां च कामिनि ।।२५।।
प्रीतिं च कारयामास ब्रह्मा च स्वयमावयोः ।।
देवानामधिकाराश्च प्रदत्ता ब्रह्मशासनात् ।।२६।।
मयागतं स्वभवनं शिवलोकं शिवो गतः ।।
सर्वस्वास्थ्यमतीवाप दूरीभूतो ह्युपद्रवः ।।२७।।
सनत्कुमार उवाच ।।
इत्युक्त्वा जगतां नाथः शयनं च चकार ह ।।
रेमे रमापतिस्तत्र रमया स तया मुदा ।।२८।।
सा साध्वी सुखसंभावकर्षणस्य व्यतिक्रमात् ।।
सर्वं वितर्कयामास कस्त्वमेवेत्युवाच सा ।। २९ ।।
तुलस्युवाच ।।
को वा त्वं वद मामाशु भुक्ताहं मायया त्वया ।।
दूरीकृतं यत्सतीत्वमथ त्वां वै शपाम्यहम्।।2.5.41.३०।।
सनत्कुमार उवाच ।।
तुलसीवचनं श्रुत्वा हरिश्शापभयेन च।।
दधार लीलया ब्रह्मन्स्वमूर्तिं सुमनोहराम्।।३१।।
तद्दृष्ट्वा तुलसीरूपं ज्ञात्वा विष्णुं तु चिह्नतः ।।
पातिव्रत्यपरित्यागात् क्रुद्धा सा तमुवाच ह ।।३२।।
तुलस्युवाच ।।
हे विष्णो ते दया नास्ति पाषाणसदृशं मनः ।।
पतिधर्मस्य भंगेन मम स्वामी हतः खलु ।।३३।।
पाषाणसदृशस्त्वं च दयाहीनो यतः खलः ।।
तस्मात्पाषाणरूपस्त्वं मच्छापेन भवाधुना ।। ३४ ।।
ये वदंति दयासिन्धुं त्वां भ्रांतास्ते न संशयः ।।
भक्तो विनापराधेन परार्थे च कथं हतः ।।३५।।
सनत्कुमार उवाच।।
इत्युक्त्वा तुलसी सा वै शंखचूडप्रिया सती ।।
भृशं रुरोद शोकार्ता विललाप भृशं मुहुः।।३६।।
ततस्तां रुदतीं दृष्ट्वा स विष्णुः परमेश्वरः ।।
सस्मार शंकरं देवं येन संमोहितं जगत् ।।३७।।
ततः प्रादुर्बभूवाथ शंकरो भक्तवत्सलः ।।
हरिणा प्रणतश्चासीत्संनुतो विनयेन सः ।। ३८ ।।
शोकाकुलं हरिं दृष्ट्वा विलपंतीं च तत्प्रियाम् ।।
नयेन बोधयामास तं तां कृपणवत्सलाम् ।। ३९ ।।
शंकर उवाच ।।
मा रोदीस्तुलसि त्वं हि भुंक्ते कर्मफलं जनः ।।
सुखदुःखदो न कोप्यस्ति संसारे कर्मसागरे ।। 2.5.41.४० ।।
प्रस्तुतं शृणु निर्दुःखं शृणोति सुमना हरिः ।।
द्वयोस्सुखकरं यत्तद्ब्रवीमि सुखहेतवे ।। ४१ ।।
तपस्त्वया कृतं भद्रे तस्यैव तपसः फलम् ।।
तदन्यथा कथं स्याद्वै जातं त्वयि तथा च तत् ।। ४२ ।।
इदं शरीरं त्यक्त्वा च दिव्यदेहं विधाय च।।
रमस्व हरिणा नित्यं रमया सदृशी भव ।।४३।।
तवेयं तनुरुत्सृष्टा नदीरूपा भवेदिह ।।
भारते पुण्यरूपा सा गण्डकीति च विश्रुता ।।४४।।
कियत्कालं महादेवि देवपूजनसाधने ।।
प्रधानरूपा तुलसी भविष्यति वरेण मे ।। ४५ ।।
स्वर्गं मर्त्ये च पाताले तिष्ठ त्वं हरिसन्निधौ ।।
भव त्वं तुलसीवृक्षो वरा पुष्पेषु सुन्दरी ।। ४६ ।।
वृक्षाधिष्ठातृदेवी त्वं वैकुंठे दिव्यरूपिणी ।।
सार्द्धं रहसि हरिणा नित्यं क्रीडां करिष्यसि ।।४७।।
नद्यधिष्ठातृदेवी या भारते बहु पुण्यदा ।।
लवणोदस्य पत्नी सा हर्यंशस्य भविष्यसि ।।४८।।
हरिर्वे शैलरूपी च गंडकी तीरसंनिधौ ।।
संकरिष्यत्यधिष्ठानं भारते तव शापतः ।। ४९ ।।
तत्र कोट्यश्च कीटाश्च तीक्ष्णदंष्ट्रा भयंकराः ।।
तच्छित्त्वा कुहरे चक्रं करिष्यंति तदीयकम् ।।2.5.41.५०।।
शालग्रामशिला सा हि तद्भेदादतिपुण्यदा।।
लक्ष्मीनारायणाख्यादिश्चक्रभेदाद्भविष्यति ।।५१।।
शालग्रामशिला विष्णो तुलस्यास्तव संगमः ।।
सदा सादृश्यरूपा या बहुपुण्यविवर्द्धिनी ।। ५२ ।।
तुलसीपत्रविच्छेदं शालग्रामे करोति यः ।।
तस्य जन्मान्तरे भद्रे स्त्रीविच्छेदो भविष्यति ।। ५३ ।।
तुलसीपत्रविच्छेदं शंखं हित्वा करोति यः ।।
भार्याहीनो भवेत्सोपि रोगी स्यात्सप्तजन्मसु ।। ५४ ।।
शालग्रामश्च तुलसी शंखं चैकत्र एव हि ।।
यो रक्षति महाज्ञानी स भवेच्छ्रीहरिप्रियः ।। ५५ ।।
त्वं प्रियः शंखचूडस्य चैकमन्वन्तरावधि ।।
शंखेन सार्द्धं त्वद्भेदः केवलं दुःखदस्तव ।। ५६ ।।
सनत्कुमार उवाच ।।
इत्युक्त्वा शंकरस्तत्र माहात्म्यमूचिवांस्तदा ।।
शालग्रामशिलायाश्च तुलस्या बहुपुण्यदम् ।। ५७ ।।
ततश्चांतर्हितो भूत्वा मोदयित्वा हरिं च ताम् ।।
जगाम् स्वालयं शंभुः शर्मदो हि सदा सताम् ।। ५८ ।।
इति श्रुत्वा वचश्शंभोः प्रसन्ना तु तुलस्यभूत् ।।
तद्देहं च परित्यज्य दिव्यरूपा बभूव ह ।। ५९ ।।
प्रजगाम तया सार्द्धं वैकुंठं कमलापतिः ।।
सद्यस्तद्देहजाता च बभूव गंडकी नदी ।। 2.5.41.६० ।।
शैलोभूदच्युतस्सोऽपि तत्तीरे पुण्यदो नृणाम् ।।
कुर्वंति तत्र कीटाश्च छिद्रं बहुविधं मुने ।। ६१ ।।
जले पतंति यास्तत्र शिलास्तास्त्वतिपुण्यदाः ।।
स्थलस्था पिंगला ज्ञेयाश्चोपतापाय चैव हि ।। ६२ ।।
इत्येवं कथितं सर्वं तव प्रश्नानुसारतः ।।
चरितं पुण्यदं शंभोः सर्वकामप्रदं नृणाम् ।। ६३ ।।
आख्यानमिदमाख्यातं विष्णुमाहात्म्यमिश्रितम् ।।
भुक्तिमुक्तिप्रदं पुण्यं किं भूयः श्रोतुमिच्छसि ।। ६४ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडव धोपाख्याने तुलसीशापवर्णनं नामैकचत्वारिंशोऽध्यायः ।। ४१ ।।