शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः ३०
← अध्यायः २९ | शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः) अध्यायः ३० वेदव्यासः |
अध्यायः ३१ → |
सनत्कुमार उवाच ।।
गत्वा तदैव स विधिस्तदा व्यास रमेश्वरः।।
शिवलोकं महादिव्यं निराधारमभौतिकम्।। १ ।।
साह्लादोभ्यन्तरं विष्णुर्जगाम मुदिताननः ।।
नानारत्नपरिक्षिप्तं विलसंतं महोज्ज्वलम्।। २ ।।
संप्राप्य प्रथमद्वारं विचित्रं गणसेवितम् ।।
शोभितं परया लक्ष्म्या महोच्चमतिसुन्दरम् ।। ३ ।।
ददर्श द्वारपालांश्च रत्नसिंहासनस्थितान् ।।
शोभिताञ्श्वेतवस्त्रैश्च रत्नभूषणभूषितान् ।। ४ ।।
पञ्चवक्त्रत्रिनयनान्गौरसुन्दरविग्रहान् ।।
त्रिशूलादिधरान्वीरान्भस्मरुद्राक्षशोभितान् ।। ५ ।।
सब्रह्मापि रमेशश्च तान् प्रणम्य विनम्रकः ।।
कथयामास वृत्तान्तं प्रभुसंदर्शनार्थकम् ।। ६ ।।
तदाज्ञां च ददुस्तस्मै प्रविवेश तदाज्ञया ।।
परं द्वारं महारम्यं विचित्रं परम प्रभम् ।।७।।
प्रभूपकंठगत्यर्थं वृत्तांतं संन्यवेदयत् ।।
तद्द्वारपाय चाज्ञप्तस्तेनान्यं प्रविवेश ह ।।८।।
एवं पंचदशद्वारान्प्रविश्य कमलोद्भवः ।।
महाद्वारं गतस्तत्र नन्दिनं प्रददर्श ह ।।९।।
सम्यङ्नत्वा च तं स्तुत्वा पूर्ववत्तेन नन्दिना।।
आज्ञप्तश्च शनैर्विष्णुर्विवेशाभ्यंतरं मुदा ।।2.5.30.१०।।
ददर्श गत्वा तत्रोच्चैस्सभां शंभोस्समुत्प्रभाम् ।।
तां पार्षदैः परिवृतां लसद्देहैस्सुभूषिताम् ।। ११ ।।
महेश्वरस्य रूपैश्च दिग्भुजैश्शुभकांतिभिः ।।
पञ्चवक्त्रैस्त्रिनयनैश्शितिकंठमहोज्ज्वलैः ।। १२ ।।
सद्रत्नयुक्तरुद्राक्षभस्माभरणभूषितैः ।।
नवेन्दुमंडलाकारां चतुरस्रां मनोहराम् ।। १३ ।।
मणीन्द्रहारनिर्माणहीरसारसुशोभिताम् ।।
अमूल्यरत्नरचितां पद्मपत्रैश्च शोभिताम् ।। १४ ।।
माणिक्यजालमालाभिर्नानाचित्रविचित्रिताम् ।।
पद्मरागेन्द्ररचितामद्भुतां शंकरेच्छया ।। १५ ।।
सोपानशतकैर्युक्तां स्यमंतकविनिर्मितैः ।।
स्वर्णसूत्रग्रन्थियुक्तैश्चारुचन्दनपल्लवैः ।। १६ ।।
इन्द्रनीलमणिस्तंभैर्वेष्टितां सुमनोहराम् ।।
सुसंस्कृतां च सर्वत्र वासितां गंधवायुना ।। १७ ।।
सहस्रयोजनायामां सुपूर्णां बहुकिंकरैः ।।
ददर्श शंकरं सांबं तत्र विष्णुस्सुरेश्वरः ।। १८ ।।
वसंतं मध्यदेशे च यथेन्दुतारकावृतम् ।।
अमूल्यरत्ननिर्माणचित्रसिंहासनस्थितम् ।। १९ ।।
किरीटिनं कुंडलिनं रत्नमालाविभूषितम् ।।
भस्मोद्धूलितसर्वाङ्गं बिभ्रतं केलिपंकजम् ।। 2.5.30.२० ।।
पुरतो गीतनृत्यश्च पश्यंतं सस्मितं मुदा ।। २१ ।।
शांतं प्रसन्नमनसमुमाकांतं महोल्लसम् ।।
देव्या प्रदत्त ताम्बूलं भुक्तवंतं सुवासितम् ।। २२ ।।
गणैश्च परया भक्त्या सेवितं श्वेतचामरैः ।।
स्तूयमानं च सिद्धैश्च भक्तिनम्रात्मकंधरैः ।। २३ ।।
गुणातीतं परेशानं त्रिदेवजनकं विभुम् ।।
निर्विकल्पं निराकारं साकारं स्वेच्छया शिवम् ।। २४ ।।
अमायमजमाद्यञ्च मायाधीशं परात्परम् ।।
प्रकृतेः पुरुषस्यापि परमं स्वप्रभुं सदा ।। २५ ।।
एवं विशिष्टं तं दृष्ट्वा परिपूर्णतमं समम् ।।
विष्णुर्ब्रह्मा तुष्टुवतुः प्रणम्य सुकृतांजली ।। २६ ।।
विष्णुविधी ऊचतुः ।।
देवदेव महादेव परब्रह्माखिलेश्वर ।।
त्रिगुणातीत निर्व्यग्र त्रिदेवजनक प्रभो ।। २७ ।।
वयं ते शरणापन्ना रक्षस्मान्दुखितान्विभो ।।
शंखचूडार्दितान्क्लिष्टान्सन्नाथान्परमेश्वर ।। २८ ।।
अयं योऽधिष्ठितो लोको गोलोक इति स स्मृतः ।।
अधिष्ठाता तस्य विभुः कृष्णोऽयं त्वदधिष्ठितः ।। २९ ।।
पार्षदप्रवरस्तस्य सुदामा दैवयंत्रितः ।।
राधाशप्तो बभूवाथ शंखचूडश्च दानवः ।। 2.5.30.३० ।।
तेन निस्सारिताः शंभो पीड्यमानाः समंततः ।।
हृताधिकारस्त्रिदशा विचरंति महीतले ।। ३१ ।।
त्वां विना न स वध्यश्च सर्वेषां त्रिदिवौकसाम् ।।
तं घातय महेशान लोकानां सुखमावह ।। ३२ ।।
त्वमेव निर्गुणस्सत्योऽनंतोऽनंतपराक्रमः ।।
सगुणश्च सन्निवेशः प्रकृतेः पुरुषात्परः ।। ३३ ।।
रजसा सृष्टिसमये त्वं ब्रह्मा सृष्टिकृत्प्रभो ।।
सत्त्वेन पालने विष्णुस्त्रिभुवावन कारकः ।। ३४ ।।
तमसा प्रलये रुद्रो जगत्संहारकारकः ।।
निस्त्रैगुण्ये शिवाख्यातस्तुर्य्यो ज्योतिः स्वरूपकः ।। ३५ ।।
त्वं दीक्षया च गोलोके त्वं गवां परिपालकः।।
त्वद्गोशालामध्यगश्च कृष्णः क्रीडत्यहर्निशम् ।। ३६।।
त्वं सर्वकारणं स्वामी विधि विष्ण्वीश्वरः परम् ।।
निर्विकारी सदा साक्षी परमात्मा परेश्वरः ।। ३७ ।।
दीनानाथसहायी च दीनानां प्रतिपालकः ।।
दीनबंधुस्त्रिलोकेशश्शरणागतवत्सलः ।। ३८ ।।
अस्मानुद्धर गौरीश प्रसीद परमेश्वरः ।।
त्वदधीना वयं नाथ यदिच्छसि तथा कुरु ।। ३९ ।।
सनत्कुमार उवाच ।।
इत्युक्त्वा तौ सुरौ व्यास हरिर्ब्रह्मा च वै तदा।।
विरेमतुः शिवं नत्वा करौ बद्ध्वा विनीतकौ।।2.5.30.४०।।
इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडवधे देवदेवस्तुतिर्नाम त्रिंशोऽध्यायः ।। ३० ।।