शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ४ (कुमारखण्डः)/अध्यायः ०६

विकिस्रोतः तः
← अध्यायः ०५ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ४ (कुमारखण्डः)
अध्यायः ०६
[[लेखकः :|]]
अध्यायः ०७ →

।। ब्रह्मोवाच ।।
अथ तत्र स गांगेयो दर्शयामास सूतिकाम् ।।
तामेव शृणु सुप्रीत्या नारद त्वं स्वभक्तिदाम् ।।१।।
द्विज एको नारदाख्य आजगाम तदैव हि ।।
तत्राध्वरकरः श्रीमाञ्शरणार्थं गुहस्य वै ।। २ ।।
स विप्रः प्राप्य निकटं कार्त्तिकस्य प्रसन्नधीः ।।
स्वाभिप्रायं समाचख्यौ सुप्रणम्य शुभैः स्तवैः ।। ३ ।।
।। विप्र उवाच ।।
शृणु स्वामिन्वचो मेद्य कष्टं मे विनिवारय ।।
सर्वब्रह्मांडनाथस्त्वमतस्ते शरणं गतः।।४।।
अजमेधाध्वरं कर्तुमारंभं कृतवानहम् ।।
सोऽजो गतो गृहान्मे हि त्रोटयित्वा स्वबंधनम् ।। ५ ।।
न जाने स गतः कुत्राऽन्वेषणं तत्कृतं बहु ।।
न प्राप्तोऽतस्स बलवान् भंगो भवति मे क्रतोः ।। ६ ।।
त्वयि नाथे सति विभो यज्ञभंगः कथं भवेत् ।।
विचार्य्यैवाऽखिलेशान काम पूर्णं कुरुष्व मे ।। ७ ।।
त्वां विहाय शरण्यं कं यायां शिवसुत प्रभो ।।
सर्वब्रह्मांडनाथं हि सर्वामरसुसेवितम् ।।८।।
दीनबंधुर्दयासिन्धुस्सुसेव्या भक्तवत्सलः।।
हरिब्रह्मादिदेवैश्च सुस्तुतः परमेश्वरः ।।९।।
पार्वतीनन्दनस्स्कन्दः परमेकः परंतपः ।।
परमात्माऽत्मदस्स्वामी सतां च शरणार्थिनाम् ।। 2.4.6.१० ।।
दीनानाथ महेश शंकरसुत त्रैलोक्यनाथ प्रभो मायाधीश समागतोऽस्मि शरणं मां पाहि विप्रप्रिय ।।
त्वं सर्वप्रभुप्रियः खिलविदब्रह्मादिदेवैस्तुतस्त्वं मायाकृतिरात्मभक्तसुखदो रक्षापरो मायिकः ।। ११ ।।
भक्तप्राणगुणाकरस्त्रिगुणतो भिन्नोसि शंभुप्रियः शंभुः शंभुसुतः प्रसन्नसुखदस्सच्चित्स्वरूपो महान्।।
सर्वज्ञस्त्रिपुरघ्नशंकरसुतः सत्प्रेमवश्यस्सदा षड्वक्त्रः प्रियसाधुरानतप्रियस्सर्वेश्वर श्शंकरः ।।
साधुद्रोहकरघ्न शंकरगुरो ब्रह्मांडनाथो प्रभुः सर्वेषाममरादिसेवितपदो मां पाहि सेवाप्रिय ।। १२ ।।
वैरिभयंकर शंकर जनशरणस्य वन्दे तव पदपद्मं सुखकरणस्य ।।
विज्ञप्तिं मम कर्णे स्कन्द निधेहि निजभक्तिं जनचेतसि सदा विधेहि ।। १३ ।।
करोति किं तस्य बली विपक्षो दक्षोऽपि पक्षोभयापार्श्वगुप्तः ।।
किन्तक्षकोप्यामिषभक्षको वा त्वं रक्षको यस्य सदक्षमानः ।।१४।।
विबुधगुरुरपि त्वां स्तोतुमीशो न हि स्यात्कथय कथमहं स्यां मंदबुद्धिर्वरार्च्यः ।।
शुचिरशुचिरनार्यो यादृशस्तादृशो वा पदकमल परागं स्कन्द ते प्रार्थयामि ।। १५ ।।
हे सर्वेश्वर भक्तवत्सल कृपासिन्धो त्वदीयोऽस्म्यहं भृत्यस्स्वस्य न सेवकस्य गणपस्याऽऽ गश्शतं सत्प्रभो ।।
भक्तिं क्वापि कृतां मनागपि विभो जानासि भृत्यार्तिहा।।
त्वत्तो नास्त्यपरोऽविता न भगवन् मत्तो नरः पामरः ।। १६ ।।
कल्याणकर्त्ता कलिकल्मषघ्नः कुबेरबन्धुः करुणार्द्रचित्तः ।।
त्रिषट्कनेत्रो रसवक्त्रशोभी यज्ञं प्रपूर्णं कुरु मे गुह त्वम् ।। १७ ।।
रक्षकस्त्वं त्रिलोकस्य शरणागतवत्सलः ।।
यज्ञकर्त्ता यज्ञभर्त्ता हरसे विघ्नकारिणाम् ।। १८ ।।
विघ्नवारण साधूनां सर्ग कारण सर्वतः ।।
पूर्णं कुरु ममेशान सुतयज्ञ नमोस्तु ते ।।१९।।
सर्वत्राता स्कन्द हि त्वं सर्वज्ञाता त्वमेव हि ।।
सर्वेश्वरस्त्वमीशानो निवेशसकलाऽवनः ।।2.4.6.२०।।
संगीतज्ञस्त्वमेवासि वेदविज्ञः परः प्रभुः ।।
सर्वस्थाता विधाता त्वं देवदेवस्सतां गतिः ।।२१।।
भवानीनन्दनश्शंभुतनयो वयुनः स्वराट् ।।
ध्याता ध्येयः पितॄणां हि पिता योनिः सदात्मनाम्।। २२ ।।
।। ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्य देवसम्राट् शिवात्मजः ।।
स्वगणं वीरबाह्वाख्यं प्रेषयामास तत्कृते ।। २३ ।।
तदाज्ञया वीरबाहुस्तदन्वेषणहेतवे।।
प्रणम्य स्वामिनं भक्त्या महावीरो द्रुतं ययौ ।। २४ ।।
अन्वेषणं चकारासौ सर्वब्रह्माण्डगोलके ।।
न प्राप तमजं कुत्र शुश्राव तदुपद्रवम् ।।२५।।
जगामाऽथ स वैकुंठं तत्राऽजं प्रददर्श तम् ।।
उपद्रवं प्रकुर्वन्तं गलयूपं महाबलम् ।। २६ ।।
धृत्वा तं शृंगयो वीरो धर्षयित्वा तिवेगतः ।।
आनिनाय स्वामिपुरो विकुर्वंतं रवं बहु ।। २७ ।।
दृष्ट्वा तं कार्तिकस्सोऽरमारुरोह स तं प्रभुः ।।
धृतब्रह्माण्डगरिमा महासूतिकरो गुहः ।। २८ ।।
मुहूर्तमात्रतस्सोऽजो ब्रह्मांडं सकलं मुने ।।
बभ्राम श्रम एवाशु पुनस्तत्स्थानमागतः ।। २९ ।।
तत उत्तीर्य स स्वामी समुवास स्वमासनम्।।
सोऽजः स्थितस्तु तत्रैव स नारद उवाच तम् ।।2.4.6.३०।।
।। नारद उवाच ।।
नमस्ते देव देवेश देहि मेऽजं कृपानिधे।।
कुर्यामध्वरमानन्दात्सखायं कुरु मामहो ।।३१।।
।। कार्त्तिक उवाच ।।
वधयोग्यो न विप्राऽजः स्वगृहं गच्छ नारद ।।
पूर्णोऽस्तु तेऽध्वरस्सर्वः प्रसादादेव मे कृतः।।३२।।
ब्रह्मोवाच ।।
इत्याकर्ण्य द्विजस्स्वामी वचनं प्रीतमानसः।।
जगाम स्वालयं दत्त्वा तस्मा आशिषमुत्तमाम् ।।३३।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखंडे कुमाराऽद्भुतचरि तवर्णनं नाम षष्ठोऽध्यायः ।।६।।